द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
पृष्ठ 133, कुल 176 में से
संदर्भ में पढ़ेंद्रव्यगुणाः। १२५
यथाप्रकृतिनिर्देश्यो व्यञ्जनेषु गुणान्वयः ॥३२॥
कफघ्नो दीपनो हृद्यः शुद्धानां व्रणिनामपि ।
ज्ञेयः पथ्यतमश्चापि मुद्गयूषः कृताकृतः ॥ ३३ ॥
स तु दाड़िममृद्वीकायुक्तः स्याद्रागषाड़वः ।
रुचिविष्णुल्लघुपाकश्च दोषाणाञ्चाविरोधकृत् ॥३४॥
मसूरमुद्गगोधूमकुलत्यलवगैः कृतः ।
कफपित्ताविरोधी स्याद् वातव्याधौ च शस्यते॥३५
मृद्वीकादाड़िमैर्युक्तः स चाप्युक्तोऽनिलार्दिते ।
रोचनो दीपनो हृद्यो लघुपाक्युपदिश्यते ॥३६॥
पटोलनिम्बयूषौ तु कफमेदोविशोषिणौ ।
पित्तघ्नौ दीपनौ हृद्यौ क्रिमिकुष्ठज्वरापहौ॥३७
अनुक्तव्यञ्जनगुणज्ञानार्थमाह यथेति ॥ ३२ ॥
यूषेषु प्रधानत्वात् मुद्गयूषगुणमाह कफघ्न इति। कृताकृत
इति लवणादिसंयुतः कृत इत्युच्यते । तद्रहितस्तु अकृत इति ।
उक्तं हि सुश्रुते ।
'अस्नेहलवणं सर्वमकृतं कटुकैर्विना ।
विज्ञेयं लवणस्नेहकटुकैः संस्कृतं कृतम् ॥ ३३ ॥'
अस्यैव यूषस्य संयोगविशेषेण नामान्तरमाह स इति ॥३४॥
मसूरादिपञ्चकयूषगुणमाह मसूरेत्यादि ॥ ३५ ॥
अस्यैव मृद्वीकादियोगेन गुणमाह मृद्वीकेत्यादि ॥ ३६ ॥
अत्र यूषस्य सूपयोनित्वाद् मुद्गादिकं त्रिगुणमिच्छन्ति द्विव-
चनोपादानात् यूषद्वयं ज्ञेयम् ॥ ३७ ॥