सामग्री पर जाएँ
सर्वकोश
द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)

द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)

Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs

पं. जीवनानन्द विद्यासागर द्वारा

DevanagariHindipublished176 पृष्ठ

पृष्ठ 128, कुल 176 में से

संदर्भ में पढ़ें
पृष्ठ 128

१२० द्रव्यगुणः ।
यवागूर्बहुसिक्था स्याद् विलेपी विरलद्रवा ॥८॥
मण्डपेयाविलेपीनामोदनस्य च लाघवम् ।
यथापूर्वं शिरस्तत्र मण्डो वातानुलोमनः ॥ ६ ॥
मण्डश्चतुर्दशगुणे यवागूः षड्गुणेऽम्भसि ॥
इति । तत्कथमुच्यते यवाग्वा एवोपरितनो भागो मण्ड इति ।
नैवं तत्र यवागूशब्देन पेया विवक्षिता । अतएव पेयायाः पृथग्
जलं नोक्तम् । द्रवसिकथसमन्वितत्वं हि यवागूसामान्यलक्ष-
णम् । तेन चतुर्दशगुणसाध्यस्यापि मण्डस्य सिक्थसमन्विताव-
स्थायां यवागूत्वमेव । तेन सूक्तं यवाग्वा उपरितनो भागो मण्ड
इति । पेया इति पातुं योग्या एतेनान्वर्थसंज्ञया बहुद्रवत्वमल्प-
सिक्थत्वञ्च बोध्यम् । तेन सिक्थसमन्विता यवागूः पेयेति ।
पेयालक्षणे बहुद्रवत्वमल्पसिक्थत्वञ्च लक्षणतया बोध्यम् । तथा
विरलद्रवा बहुसिक्था च यवागूर्विलेपीति विलेपीलक्षणमव-
गन्तव्यम् । विरलद्रवा अल्पद्रवेत्यर्थः । तेन पेयाविलेपी व्यति-
रेकेण यवागूः पृथङ् नास्तीत्याहुः । एतेन चरकवाग्भटसुश्रुतै-
रपि यवागूगुणः पृथङ्नोक्तः । यत्तु माधवचक्राभ्यां पेयाविलेपी-
गुणं पठित्वा यवागूगुणः पृथक् पठितः, तत्सामान्यगुणाभि-
प्रायेण सामान्यक्षीरगुणवदिति ज्ञेयम् ॥ ८ ॥
उक्तानामेव मण्डादीनामापेक्षिकं लाघवमाह मण्डेति ।
यथापूर्वं लाघवमिति तेनौदनमपेक्ष्य लघ्वी विलेपी ततोऽपि
पेया पेयातो मण्डो लघुतर इत्यर्थः । यद्यपि वातानुलोमनत्वं
मण्डस्य पूर्वमुक्तं तथापि सम्पूर्णश्लोकानुरोधात् अत्र पुनः
पठति । इदं हि वचनं वाग्भटस्य । अत्र यवाग्वादिसाधन-
परिभाषाश्च सव्याख्याना अस्मदीयचरकतत्त्वदीपिकायामनु-
सन्धेया विस्तरभयाच्चेह नोक्ताः ॥ ९ ॥