सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 2 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished760 पृष्ठ

ग्रहगोचराध्यायः ६२३
आदिशेच्च व्रतं पुत्रे बीजान् सर्वांश्च वापयेत्।
योजयेच्छकटं चात्र दिने देवगुरोः शुभे॥ इति॥६२॥
अथ शुक्रदिने यानि कार्याणि क्रियन्ते तानि समुद्रदण्डकप्रथमाङ्घ्रेनाह—
भृगुसुतदिवसे च चित्रवस्त्रवृष्यवेश्य-
कामिनीविलासहासयौवनोपभोगरम्यभूमयः ।
स्फटिकरजतमन्मथोपचारवाहनेक्षुशारद-
प्रकारगोवणिक्कृषीवलौषधाम्बुजानि च।
शुक्रवार में चित्र कर्म, वस्त्र, वीर्य-वृद्धि के लिये प्रयोग, वेश्या, कामासक्त स्त्री,
विलास, उपहास, यौवनोपभोग (स्त्रीप्रसङ्ग आदि), चाँदी, कामदेव का उपचार, वाहन,
इक्षु (ईख = गन्ना), शारदीय धान्य, वाणिज्य, खेती, औषध, जलज (कमल आदि)—
इन वस्तुओं से सम्बन्धित कार्य सिद्ध होते हैं।
भृगुसुतदिवस इति। भृगुसुतदिवसे शुक्रदिने च। चित्रं चित्रकर्म। वस्त्रमम्बरम्।
वृष्यप्रयोगो रेतोवृद्धिकरः। वेश्या पण्यस्त्री। कामिनी कामासक्ताङ्गना। विलासः क्रीडनम्।
हास उपहासः। यौवनोपभोगो रतादिः। रम्या रमणीया भूमय उपवनादि। स्फटिकः स्फटिको-
पलम्। रजतं रौप्यम्। मन्मथोपचारः कामोपचरणम्। वाहनमश्वादि। इक्षुः प्रसिद्धः। शारद-
प्रकारो धान्यानि। वणिक्कर्माणि। कृषिकर्माणि। औषधं प्रसिद्धम्। अम्बुजं जलजं पद्मादि।
एतानि कार्याणि। तथा च समाससंहितायाम्—
कलागन्धर्वकर्माणि रत्नकर्माणि यानि च।
तानि कार्याणि दिवसे सदा दैत्यगुरोः शुभे॥
तथा च यवनेश्वरः—
गान्धर्वविद्यामणिरत्नगन्धगोभूमिशय्याम्बरभूषणानाम् ।
स्त्रीपण्यकोशोत्सववन्दनानां क्रियाविधिः शुक्रदिने प्रशस्तः॥
तथा च गर्गः—
गजमश्वं प्रयुञ्जीत कर्णबन्धे नियोजयेत्।
पिबेत् सुरां च मद्यं च प्रचरेत् कुसुमाम्बरम्॥
गन्धांश्च विविधानद्यात् कामयेच्च वराङ्गनाः।
द्यूते च सहसा प्रीतिं तिलं तैलं च योजयेत्॥
मङ्गलं स्थापयेदेव रोपयेच्चैव पादपान्।
सर्वमेतद्यथोद्दिष्टं कुर्याच्छुक्रदिने शुभे॥
अथ सौरस्य दिने यानि कर्माणि क्रियन्ते तानि समुद्रदण्डकापरार्धेनाह—
सवितृसुतदिने च कारयेन्महिष्यजोष्ट्रकृष्ण-
लोहदासवृद्धनीचकर्मपक्षिचोरपाशिकान् ।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

६२४ बृहत्संहिता
च्युतविनयविशीर्णभाण्डहस्त्यपेक्षविघ्नकारणानि
चान्यथा न साधयेत् समुद्रगोऽप्यपां कणम् ॥६३॥
शनिवार में भैंस, छाग, ऊँट, कृष्णलोह (शस्त्र, आयुध आदि), भृत्य, वृद्ध, नीच,
पक्षी, चोर, बन्धन आदि जानने वाले, नम्रता से रहित, फूटा भाण्ड, हस्त्यपेक्षा (हाथी
के ग्रहणादि), विघ्न के कारण इनके आश्रित सभी कार्य सिद्ध होते हैं। इन पूर्वोक्त
नियमों को छोड़कर समुद्र में जाने पर भी जलबिन्दु की भी प्राप्ति नहीं होती है। यह
समुद्रदण्डक छन्द है।।६३।।
सवितृसुतदिन इति। सवितृसुतदिने शनैश्चरदिवसे च कर्माणि कारयेत्। महिषी
प्रसिद्धा। अजश्छागः। उष्ट्रः करभः। कृष्णलोहः शस्त्राद्युधादि। दासः कर्मकरः। वृद्धो
गतवयाः। नीचः कुलाधमकर्मकृत्। पक्षी श्येनादि। चौरस्तस्करः। पाशिकाः पाशबन्ध-
नादिविदः। च्युतविनयो नीचः। विशीर्णभाण्डं भिन्नभाण्डम्। हस्त्यपेक्षा हस्तिनोऽपेक्षा।
हस्त्यपेक्षा ग्रहणादि। विघ्नकारणानि यानि निमित्तानि च कार्याणि एतदाश्रितानि च सर्वाणि
सिद्ध्यन्ति। एतानि वर्जयित्वाऽन्यथाऽन्येन प्रकारेण समुद्रगोऽपि सागरप्राप्तोऽप्यपां कणं
जलबिन्दुमपि तस्मात् सागरात्र साधयेत्। समुद्रसंज्ञं दण्डकमेतत्।
अत्र नद्वयात् परतः पञ्च रेफा जकारान्तरिता भवन्त्यन्ते लघुगुरू।
न्यासः— न न र ज र ज र ज र
।।। ।।। ऽ।ऽ ।ऽ। ऽ।ऽ ।ऽ। ऽ।ऽ ।ऽ। ऽ।ऽ
ज र ल गु
।ऽ। ऽ।ऽ । ऽ
तथा च समाससंहितायाम्—
शस्त्राणि पाशकर्माणि पशुकर्माणि यानि च।
तानि सौरदिने कुर्याल्लोहकर्माणि यानि च।।
संवत्सरे तथा मासे होरायामुदये तथा।
उक्तानि यानि कर्माणि तथा कुर्याद् ग्रहस्य च।।
तथा च यवनेश्वरः—
विषाश्मशस्त्रत्रपुसीसलोहप्राकारबन्धावृतमारणानि ।
सर्वं च पापात्मककर्मजाहि कार्पासवप्रव्रजितानि चेष्टम्।।
तथा च गर्गः—
नियोगान् विविधान् कुर्याद्वेश्म चापि प्रवेशयेत्।
कर्म चौर्यं मृतिं चैवाश्वरथेश्चश्वयोजनम्।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

ग्रहगोचराध्यायः ६२५
हस्त्यपेक्षा विघ्नकर्म द्रव्यं दम्भाश्रितं तथा।
वर्जयेच्चैव यात्रां च दिने सूर्यसुतस्य च।। इति।।६३।।
अधुनात्र प्रशंसार्थ विपुलामार्यामाह—
विपुलामपि बुद्ध्वा छन्दोविचितिं भवति कार्यमेतावत्।
श्रुतिसुखदवृत्तसंग्रहमिमममाह वराहमिहिरोऽतः ।।६४।।
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां ग्रहगोचरो
नाम चतुरधिकशततमोऽध्यायः ।।१०४।।
बहुत विस्तीर्ण छन्दों के प्रस्तारों को जानकर भी इतना ही कार्य होता है। अतः
वराहमिहिर आचार्य ने कर्णसुखजनक यह छन्दसंग्रह कहा है। यह विपुला आर्या छन्द
है।।६४।।
इति 'विमला' हिन्दीटीकायां ग्रहगोचराध्यायश्चतुरधिकशततमः ।।१०४।।
विपुलां विस्तीर्णामपि छन्दोविचितिं छन्दसां प्रस्तारं बुद्ध्वा ज्ञात्वा एतावत् कार्यं
भवति। यावन्ति छन्दांस्यत्र प्रदर्शितानि तावन्ति ज्ञायन्ते। अतोऽस्माद्धेतोर्वराहमिहिर इमं
वृत्तसमुच्चयं श्रुतिसुखदं कर्णसुखजनकमाहोक्तवान्। बहुभिराचार्यैश्छन्दोलक्षणमुक्तं तच्च
दुर्विज्ञेयमश्रव्यं च। वराहमिहिरेण पुनः श्रव्यं सुखबोधं व्यापकं संक्षिप्तमुक्तमिति। विपुलेय-
मार्या। अस्या लक्षणम्—'विपुला तु यान्यथा पादभागि'त्यादि।
वराहमिहिरीयेऽस्मिन् छन्दसां सारसंग्रहे।
उत्पलो गोचरे टीकां चक्रे शिष्यहितावहाम्।। इति।।६४।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृत्तौ ग्रहगोचरो
नाम चतुरधिकशततमोऽध्यायः ।।१०४।।
बृ० सं० द्वि०-४०
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

अथ रूपसत्राध्यायः
अथ रूपसत्रं व्याख्यायते। आदौ नक्षत्रपुरुषस्याङ्गविभागं तन्नक्षत्रावस्थितिं चाह—
पादौ मूलं जङ्घे च रोहिणी जानुनी तथाश्विन्यः।
ऊरू चाषाढाद्वयमथ गुह्यं फल्गुनीद्वितयम् ॥१॥
कटिरपि च कृत्तिका पार्श्वयोश्च यमला भवन्ति भद्रपदाः।
कुक्षिस्था रेवत्यो विज्ञेयमुरोऽनुराधा च ॥२॥
पृष्ठं विद्धि धनिष्ठां भुजौ विशाखा स्मृतौ करौ हस्तः।
अङ्गुल्यश्च पुनर्वसुराश्लेषासंज्ञिताश्च नखाः ॥३॥
ग्रीवा ज्येष्ठा श्रवणं श्रवणौ पुष्यो मुखं द्विजाः स्वातिः।
हसितं शतभिषगथ नासिका मघा मृगशिरो नेत्रे ॥४॥
चित्रा ललाटसंस्था शिरो भरन्यः शिरोरुहाश्चार्द्रा।
नक्षत्रपुरुषकोऽयं कर्तव्यो रूपमिच्छद्भिः ॥५॥
नक्षत्रपुरुष के दोनों पाँव में मूल, दोनों जङ्घाओं में रोहिणी, दोनों जानुओं में अश्विनी,
दोनों ऊरुओं में पूर्वाषाढ़ा और उत्तराषाढ़ा, गुह्य (लिङ्ग और गुदा) में पूर्वफाल्गुनी और
उत्तरफाल्गुनी, कमर में कृत्तिका, दोनों पार्श्व में पूर्वभाद्रपदा और उत्तरभाद्रपदा, पेट में
रेवती, छाती में अनुराधा, पीठ में धनिष्ठा, दोनों भुजाओं में विशाखा, दोनों हाथों में
हस्त, अंगुलियों में पुनर्वसु, नखों में आश्लेषा, ग्रीवा में ज्येष्ठा, दोनों कानों में श्रवण,
मुख में पुष्य, दाँतों में स्वाति, हास्य में शतभिषा, नासिका में मघा, दोनों आँखों में
मृगशिरा, ललाट में चित्रा, शिर में भरणी तथा केशों में आर्द्रा को स्थापित करना चाहिये।
सुन्दर रूप की इच्छा करने वाले पुरुषों को यह नक्षत्रचक्र बनाना चाहिये ॥१-५॥
पादौ मूलमिति। नक्षत्रपुरुषस्य पादौ चरणौ मूलम्। एवं जङ्घे द्वे रोहिणी। जानुनी
तथाऽश्विन्यः। ऊरू द्वावाषाढाद्वयम्। पूर्वाषाढोत्तराषाढे। अथशब्दश्चार्थे। गुह्यं लिङ्गं गुदश्च
फल्गुनीद्वितयं पूर्वफल्गुन्युत्तरफल्गुनीति।
कटिरपि चेति। कृत्तिका कटिर्जघनम्। पार्श्वयोश्च यमला भद्रपदा भवन्ति। पूर्व-
भाद्रपदोत्तरभद्रपदौ। रेवत्यः कुक्षिस्थाः। अनुराधा उरो वक्षो विज्ञेयं ज्ञातव्यम्।
पृष्ठमिति। धनिष्ठां पृष्ठं विद्धि जानीहि। विशाखा भुजौ द्वौ स्मृतावुक्तौ। हस्तौ द्वौ
करौ हस्त एव। पुनर्वसुरङ्गुल्यः करशाखाः। आश्लेषासंज्ञिताश्च नखाः कररुहाः।
ग्रीवा ज्येष्ठेति। ग्रीवा शिरोधरा ज्येष्ठा। श्रवणं श्रवणौ द्वौ कर्णौ। पुष्यो मुखं
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

रूपसत्राध्यायः ६२७
वक्त्रम्। स्वातिर्द्विजा दशनाः। हसितं शतभिषगथ। अथशब्दश्चार्थे। नासिका मघा। नेत्रे
द्वे चक्षुषी मृगशिरः।
चित्रा ललाटसंस्थेति। ललाटे मुखपृष्ठे संस्था चित्रा। भरण्यः शिरः। आर्द्रा
शिरोरुहाः केशाः। अयं नक्षत्रपुरुषको रूपमिच्छद्भिः शोभनं रूपमभिलषद्भिः पुम्भिः
कर्तव्यः।।१-५।।
अथ कस्मिन् काले रूपसत्राख्यं व्रतं गृहीतव्यमित्येतदाह—
चैत्रस्य बहुलपक्षे ह्यष्टम्यां मूलसंयुते चन्द्रे।
ह्युपवासः कर्तव्यो विष्णुं सम्पूज्य धिष्ण्यं च ।।६।।
चैत्र शुक्ल अष्टमी में यदि मूल नक्षत्र और चन्द्रवार हो तो उस दिन विष्णु और
नक्षत्र की पूजा करके प्रथम उपवास प्रारम्भ करके जैसे-जैसे रोहिणी आदि आता जाय
वैसे-वैसे आर्द्रा तक उपवास करना चाहिये।।६।।
चैत्रमासस्य बहुलपक्षे कृष्णपक्षे अष्टम्यां तिथौ मूलसंयुते चन्द्रे चन्द्रवासरे। मूलं
नक्षत्रं तत्र यदि भवति तस्मिन् दिने प्रथमत उपवासः कर्तव्यः विष्णुं नारायणं धिष्ण्यं
नक्षत्रं च सम्पूज्याभ्यर्च्य, ततो यथा यथा रोहिण्यादीनि नक्षत्राणि भवन्ति तथा तथोपवासः
कर्तव्यो यावदार्द्राम्। तथा च गर्गः—
अष्टम्यां मधुमासस्य कृष्णपक्षे तु नैर्ऋते।
नक्षत्रे चन्द्रवारे तु मुहूर्ते तु गुणान्विते।।
प्रारम्भेद्रूपसत्राख्यं व्रतं धर्मात्मकः पुमान्।
येन पूर्णेन मनुजो रूपशोभामवाप्नुयात्।। इति।।६।।
अथ व्रतार्थं कर्तव्यं तदाह—
दद्याद् व्रते समाप्ते घृतपूर्णं भाजनं सुवर्णयुतम्।
विप्राय कालविदुषे सरत्नवस्त्रं स्वशक्त्या च ।।७।।
व्रत समाप्त होने के बाद अपनी शक्ति के अनुसार कालज्ञ ब्राह्मण के लिये सुवर्ण,
रत्न और वस्त्रों के साथ घृत से पूर्ण पात्र दान करना चाहिये।।७।।
ततो व्रते रूपसत्राख्ये समाप्ते निष्पन्ने घृतपरिपूर्णं भाजनमाज्यपरिपूर्णं पात्रं सुवर्णयुक्तं
काञ्चनसंयुक्तं विप्राय ब्राह्मणाय कालविदुषे कालज्ञाय दद्यात् प्रतिपादयेत्। सरत्नवस्त्रं
रत्नवस्त्रसहितम्, स्वशक्त्याऽऽत्मीयशक्त्या विभवानुसारेण दद्यात्।।७।।
अन्नैः क्षीरघृतोत्कटैः सह गुडैर्विप्रान् समभ्यर्चयेद्
दद्यात् तेषु सुवर्णवस्त्ररजतं लावण्यमिच्छन्नरः।
पादर्क्षात् प्रभृति क्रमादुपवसन्नृक्षैर्क्षनामस्वपि
कुर्यात् केशवपूजनं स्वविधिना धिष्ण्यस्य पूजां तथा ॥८॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

६२८ बृहत्संहिता
लावण्य की इच्छा करने वाले मनुष्य को चाहिये कि दूध, घृत और गुड़ से मिश्रित
अन्नों से ब्राह्मणों की पूजा करे तथा उन ब्राह्मणों को सोना, वस्त्र और चाँदी प्रदान करे।
पाँव के नक्षत्र से आरम्भ करके उपवास करता हुआ विष्णु और अंग के नक्षत्रों की पूजा
करे।।८।।
अन्नैर्भोजनविशेषैः । क्षीरघृतोत्कटैः, क्षीरेण दुग्धेन घृतेनाज्येन चोत्कटैराधिक्येन सहितै-
स्तैश्च सह गुडैः, गुडेनेक्षुविकारेण युक्तैः, विप्रान् ब्राह्मणान् समभ्यर्चयेत् पूजयेत् । तेषु च
ब्राह्मणेषु, सुवर्णं कनकम्, वस्त्रमम्बरम्, रजतं रूप्यम्, नरो मनुष्यो लावण्यमिच्छन् रूप-
मभिलषन् दद्यात् प्रतिपादयेत्। पादर्क्षाच्चरणनक्षत्राद् मूलात् प्रभृत्यारभ्य क्रमादनुक्रमेणो-
पवसन् भुञ्जन् अङ्गर्क्षनामस्वपि स्वविधिनाऽऽत्मीयविधानेन वैष्णव्येन पञ्चरात्रविहितेन पूजा-
क्रमेण वैदिकेन वा केशवपूजनं नारायणार्चनं कुर्याद्विदध्यात् । तथा तेनैव प्रकारेण धिष्ण्यस्य
नक्षत्रस्य। यथा भगवतो हरेस्तथा नक्षत्रस्यापि पूजां कुर्यात्।।८।।
अथ चरितव्रतः पुरुषः कीदृगन्यजन्मनि भवतीत्याह—
प्रलम्बबाहुः पृथुपीनवक्षाः क्षपाकरास्यः सितचारुदन्तः।
गजेन्द्रगामी कमलायताक्षः स्त्रीचित्तहारी स्मरतुल्यमूर्त्तिः ॥९॥
पूर्वकथित पूजा करने से मनुष्य लम्बी भुजाओं से युत, विस्तीर्ण और पुष्ट छाती
वाला, चन्द्र के समान मुख वाला, सफेद-सुन्दर दाँतों से युत, गजेन्द्र के समान गति
वाला, कमल के समान विस्तीर्ण नेत्र वाला, स्त्री के चित्त को हरण करने वाला और
कामदेव के समान स्वरूप वाला होता है ।।९।।
मनुष्यः पुरुषः कृतरूपसत्रव्रत ईदृग् भवति—प्रलम्बबाहुः, प्रलम्बौ दीर्घौ बाहू भुजौ
यस्य। आजानुबाहुरित्यर्थः। पृथुपीनवक्षाः, पृथु विस्तीर्णं पीनं मांसलं च वक्ष उरो यस्य।
क्षपाकरास्यश्चन्द्रवदनः। सितचारुदन्तः शुक्लशोभनदन्तः। गजेन्द्रगामी, गजेन्द्रो मत्तहस्तीव
सविलासं गच्छति। कमलायताक्षः, कमलं पद्मं तद्वद् आयते विस्तीर्णे चाक्षिणी नेत्रे
यस्य। स्त्रीचित्तहारी, स्त्रीणां योषितां चित्तं मनो हरति तच्छीलः। स्मरतुल्यमूर्त्तिः, काम-
सदृशदेहः ॥९॥
अथ स्त्री कीदृशी भवति—
शरदमलपूर्णचन्द्रद्युतिसदृशमुखी सरोजदलनेत्रा।
रुचिरदशना सुकर्णा भ्रमरोदरसन्निभैः केशैः ॥१०॥
पुंस्कोकिलसमवाणी ताम्रोष्ठी पद्मपत्रकरचरणा।
स्तनभारानतमध्या प्रदक्षिणावर्तया नाभ्या ॥११॥
कदलीकाण्डनिभोरु सुश्रोणी वरकुकुन्दरा सुभगा।
सुश्लिष्टाङ्गुलिपादा भवति प्रमदा मनुष्यश्च ॥१२॥
CC-0. JK Sanskrit Academy, Jammnu. Digitized by S3 Foundation USA

रूपसत्राध्यायः ६२९
यदि पूर्वोक्त व्रत को स्त्री करे तो शारदीय चन्द्र के समान मुखकान्ति, कमलदल के
समान नेत्र, सुन्दर दाँत, सुन्दर कान, भ्रमरोदर के समान केश, पुंस्कोकिल के समान
वाणी, ताम्र वर्ण के समान ओंठ, कमल के समान हाथ और पाँव, स्तनों के भार से नत
मध्य भाग, दक्षिणावर्त नाभियों से युत, केले के खम्भे के समान ऊरु, सुन्दर नितम्बकूप,
स्वामिप्रिया और मिली हुई अँगुलियों से युत पाँव वाली होती है। इसी तरह इस व्रत को
करने से पुरुष भी होता है॥१०-१२॥
शरदमलपूर्णचन्द्रेति। स्त्री कृतरूपसत्रव्रता कीदृशी भवति ? शरदमलपूर्णचन्द्र-
द्युतिसदृशमुखी, शरत्काले योऽसावमलो निर्मलः, पूर्णचन्द्रः शशी, तस्य द्युतिः कान्तिः।
तत्सदृशं मुखं वदनं यस्याः। सरोजदलनेत्रा पद्मपत्रसदृशाक्षी। रुचिरदशना सुशोभन-
शुक्लदन्ता। सुकर्णा शोभनकर्णा। केशैर्मूर्धजैर्भ्रमरोदरसन्निभैर्द्विरिफजठरकान्तिभिः। अतिनील-
वर्णैरित्यर्थः।
पुंस्कोकिलेति। पुंस्कोकिलस्य। पुमांश्चासौ कोकिलः पुंस्कोकिलः। प्रधानकोकिलस्य
समा तुल्या वाणी स्वरो यस्याः। ताम्रोष्ठी लोहितदन्तच्छदा। पद्मपत्रकरचरणा पद्मपत्राभौ
करौ हस्तौ चरणौ पादौ च यस्याः। स्तनभारानतमध्या, स्तनभारेण कुचयुगलोद्वहनेन
नतं विनतं मध्यं यस्याः। तथा नाभ्या प्रदक्षिणावर्तया संयुक्ता। प्रदक्षिणेनावर्तो यस्याः।
कदलीकाण्डनिभोरूः, कदली रम्भा तस्याः काण्डं शाखा, तन्निभो तत्सदृशावुरू
यस्याः। सुश्रोणी शोभनवराङ्गा, वरकुकुन्दरा, वरौ शोभनौ कुकुन्दरौ नितम्बरूपकौ यस्याः।
तथा च—
नितम्बरूपकौ यौ तु तौ कुकुन्दरसंज्ञितौ।
सुभगा सौभाग्योपेता। भर्तृवल्लभैत्यर्थः। सुश्लिष्टाङ्गुलिपादा। सुश्लिष्टाः संहिता
अङ्गुलयो ययोस्तादृशौ पादौ यस्याः। एवंविधा प्रमदा स्त्री। मनुष्यः पुरुषश्च भवति।
अथ रूपसत्राचरितस्य प्रशंसार्थमाह—
यावन्नक्षत्रमाला विचरति गगने भूषयन्तीह भासा
तावन्नक्षत्रभूतो विचरति सह तैर्ब्रह्मणोऽह्नोऽवशेषम्।
कल्पादौ चक्रवर्ती भवति हि मतिमांस्तत्क्षयाच्चापि भूयः
संसारे जायमानो भवति नरपतिर्ब्राह्मणो वा धनाढ्यः ॥१३॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां रूपसत्रं
नाम पञ्चाधिकशततमोऽध्यायः ॥१०५॥
इस लोक में अपनी कान्ति से शोभा उत्पन्न करती हुई नक्षत्रमाला जब तक
आकाश में रहती है, तब तक स्त्री या पुरुष नक्षत्ररूप होकर नक्षत्रों के समान कल्पान्त
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

६३० बृहत्संहिता
तक विचरण करते हैं। तत्पश्चात् वह पुरुष दूसरे कल्प के आदि में बुद्धिमान चक्रवर्ती
राजा होता है और चक्रवर्तित्व नष्ट होने के पश्चात् संसार में जन्म लेकर राजा या
धनाढ्य ब्राह्मण होता है।।१३।।
इति 'विमला' हिन्दीटीकायां रूपसत्राध्यायः पञ्चाधिकशततमः ॥१०५॥
गगने नभसि नक्षत्राणामृक्षाणां माला पंक्तिर्यावद्विचरति तिष्ठति। इहास्मिन् लोके
भासा कान्त्या भूषयन्ती शोभामुत्पादयन्ती। तावत् पुरुषः स्त्री वा तैरेव नक्षत्रैः सह साकं
नक्षत्रभूतस्तारकरूपो विचरति तिष्ठति। ब्रह्मणः पितामहस्याह्नो दिनस्यावशेषं कल्पान्तं
यावत्। अन्यस्मिन् कल्पादौ पुनः कल्पप्रारम्भे चक्रवर्ती सार्वभौमो राजा मतिमान् पण्डितश्च
भवति। भूयः पुनस्तत्क्षयाच्चक्रवर्तित्वविनाशात् संसारे मनुष्यो जायमान उत्पद्यमानो नरपती
राजा भवति, अथवा ब्राह्मणो द्विजो धनाढ्यो बहुवित्तो भवति।।१३।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ रूपसत्रं
नाम पञ्चाधिकशततमोऽध्यायः ॥१०५॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

अथ द्वादशमासनामाध्यायः
अथ द्वादशमासनामानि व्याख्यायन्ते। तत्र मार्गशीर्षमासात् प्रभृति द्वादशमासानां
नामान्याह—
मृगशीर्षाद्याः केशवनारायणमाधवाः सगोविन्दाः ।
विष्णुमधुसूदनाख्यौ त्रिविक्रमो वामनश्चैव ॥१॥
श्रीधरनामा तस्मात् सहृषीकेशश्च पद्मनाभश्च ।
दामोदर इत्येते मासाः प्रोक्ता यथासङ्ख्यम् ॥२॥
केशव, नारायण, माधव, गोविन्द, विष्णु, मधुसूदन, त्रिविक्रम, वामन, श्रीधर,
हृषीकेश, पद्मनाभ, दामोदर—ये क्रम से मार्गशीर्ष आदि बारह मासों के नाम हैं। जैसे
कि मार्गशीर्ष का केशव, पौष का नारायण इत्यादि।।१-२।।
मृगशीर्षाद्या इति । मार्गशीर्षमासात् प्रभृति। द्वादशानां मासानां द्वादश नामानि।
तद्यथा—केशवो मार्गशीर्षः। नारायणः पौषः। माधवो माघः। गोविन्दः फाल्गुनः। विष्णुश्चैत्रः।
मधुसूदनाख्यो वैशाखः। त्रिविक्रमो ज्येष्ठः। वामन आषाढः।
तस्मादुत्तरः श्रीधरनामा श्रावणः। हृषीकेशो भाद्रपदः। पद्मनाभ आश्वयुजः। चकारः
समुच्चये। दामोदरः कार्तिकः। इत्येवम्प्रकारा यथासङ्ख्यं यथाक्रमं मासाः प्रोक्ताः कथिताः।
भगवन्नाम्ना मासाः क्रमेणैते ज्ञेया इति। केचित् पठन्ति 'मासेशाः स्युर्यथासङ्ख्यं' इति।
यथासङ्ख्यं यथाक्रममेते द्वादशानां मासानामीशोः स्वामिनः स्युर्भवेयुः।।१-२।।
अथ द्वादशीप्रशंसार्थमाह—
मासनामसमुपोषितो नरो द्वादशीषु विधिवत् प्रकीर्तयन् ।
केशवं समभिपूज्य तत्पदं याति यत्र नहि जन्मजं भयम् ॥३॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां द्वादशमासनामानुकीर्तनं
नाम षडधिकशततमोऽध्यायः ॥१०६॥
मनुष्य विधिपूर्वक द्वादशी में मास के नाम के साथ व्रत रखकर केशव, नारायण
आदि की पूजा करने के पश्चात् उनके नाम का कीर्तन करता हुआ उनके पद को प्राप्त
होता है, जहाँ पर पुनर्जन्म का भय नहीं होता।।३।।
इति 'विमला' हिन्दीटीकायां द्वादशमासनामाध्यायः षडधिकशततमः ॥१०६॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

६३२ बृहत्संहिता
नरो मनुष्यो मासनाम्ना समुपोषित कृतोपवासोः द्वादशीषु विधिवद्विधानेन प्रकीर्तयन्
स्मरन् केशवं नारायणमित्यादि। यथा मार्गशीर्षद्वादश्यां केशवम्। पौषस्य द्वादश्यां नारायणम्।
एवमन्येष्वपि। तथा च समभिपूज्य समभ्यर्च्य तस्य पदं स्थानं याति प्राप्नोति। यत्र पुनर्न
हि जन्मजं भयं भवति संसारे भूयो न जायते। परमेश्वरसायुज्यतां गच्छतीति।।३।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ द्वादशमासनामानुकीर्तनं
नाम षडधिकशततमोऽध्यायः ।।१०६।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

अथोपसंहाराध्यायः
अथोपसंहाराध्यायो व्याख्यायते। तत्रादावेव शास्त्रमत्योर्माहात्म्यमाह—
ज्योतिःशास्त्रसमुद्रं प्रमथ्य मतिमन्दराद्रिणाऽथ मया।
लोकस्यालोककरः शास्त्रशशाङ्कः समुत्क्षिप्तः ॥१॥
मैंने (वराहमिहिर ने) बुद्धिरूप मन्दराचल के द्वारा ज्योतिष शास्त्ररूप समुद्र का
अच्छी प्रकार से मन्थन करके संसार को प्रकाशित करने वाले शास्त्ररूप चन्द्र को बाहर
निकाला है॥१॥
ज्योतिःशब्देन प्रधाननक्षत्राण्युच्यन्ते। ज्योतिषां शास्त्रं ज्योतिःशास्त्रम्। तदेव दुर्विज्ञेय-
त्वात् समुद्रं सागरम्। मतिमन्दराद्रिणा, मतिर्बुद्धिरेव मन्दरः पर्वत:, तेन मतिमन्दराद्रिणा
प्रमथ्य निर्मथ्य लोकस्य जगतः आलोककरः प्रकाशकरः, शास्त्रशशाङ्कः शास्त्रचन्द्रः
समुत्क्षिप्त उद्धृतः॥१॥
अन्यत् प्रतिपादयितुमाह—
पूर्वाचार्यग्रन्था नोत्सृष्टाः कुर्वता मया शास्त्रम्।
तानवलोक्येदं च प्रयतध्वं कामतः सुजनाः ॥२॥
इस शास्त्र को बनाते हुये मैंने पूर्वाचार्यकृत ग्रन्थों के आशयों को नहीं छोड़ा है।
अतः उन पूर्वाचार्यकृत ग्रन्थों को और इस शास्त्र को यत्नपूर्वक देखकर पण्डितों को
प्रयत्न करना चाहिये अर्थात् जो अच्छा हो, उसको ग्रहण करना चाहिये॥२॥
पूर्वोक्तानि यानि शास्त्राणि तानि न सन्त्यक्तानि। तान्येव दृष्ट्वा सर्वथा संक्षेपेण
सुवृत्तैः कृतम्। तान् पूर्वाचार्योक्तान् इदं मदीयं च शास्त्रमवलोक्य दृष्ट्वा कामतो यथेच्छं
सुजनाः साधवो बुधाः प्रयतध्वम्। यच्छोभनं तदेव ग्राह्यमित्यर्थः ॥२॥
अधुना सज्जनानां दुर्जनानाञ्च चेष्टितमाह—
अथवा कृशमपि सुजनः प्रथयति दोषार्णवाद् गुणं दृष्ट्वा।
नीचस्तद्विपरीतः प्रकृतिरियं साध्वसाधूनाम् ॥३॥
अथवा सुजन मनुष्य दोषरूप समुद्र में थोड़ा-सा भी गुण देखकर उसका विस्तार
करते हैं; परन्तु नीच पुरुष इससे विपरीत स्वभाव का होता है अर्थात् गुणों को छिपाता
है और स्वल्प दोष का भी विस्तार करता है। यही साधु (सज्जन) और असाधु
(दुष्ट) का लक्षण है॥३॥
अथवा सुजनः प्रधानजनो दोषार्णवाद् दोषसागरात् कृशमपि स्वल्पमपि गुणं दृष्ट्वा
तमेव प्रथयति प्रख्यापयति, दोषान् प्रच्छादयति। नीचस्तद्विपरीत इति। नीचो गुणसागरात्
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

६३४ बृहत्संहिता
स्वल्पं दोषं दृष्ट्वा गुणान् प्रच्छाद्य तमेव दोषं प्रख्यापयति। इयं साध्वसाधूनां सज्जनदुर्जनानां
प्रकृतिः स्वभाव इति॥३॥
काव्यमभिनवं सर्वथा दुर्जनानां प्रदर्शयितव्यमित्येतत् प्रतिपादयितुमाह—
दुर्जनहुताशतप्तं काव्यसुवर्णं विशुद्धिमायाति।
श्रावयितव्यं तस्माद् दुष्टजनस्य प्रयत्नेन ॥४॥
काव्यरूप सुवर्ण दुर्जनरूप अग्नि द्वारा तपाये जाने पर विशुद्धि को प्राप्त होता है।
इसलिये दुर्जन मनुष्य को यत्नपूर्वक शास्त्र का श्रवण कराना चाहिये॥४॥
दुर्जनहुताशेन दुर्जनाग्निना काव्यसुवर्णं काव्यमेव सुवर्णं तप्तं तापितं विशुद्धिं
निर्मलतामायाति प्राप्नोति। यथा कनकं वह्नितप्तं शुद्धं भवत्येवं दुर्जनमुखपतितं काव्यं
शुद्धं भवति। यतः स दोषतत्परो भवति, न गुणग्राही। तस्मात् प्रयत्नेन दुष्टजनस्य दुर्जनस्य
काव्यं श्रावयितव्यं प्रदर्शनीयमिति॥४॥
अधुना विदुषः प्रार्थयन्नाह—
ग्रन्थस्य यत् प्रचरतोऽस्य विनाशमेति
लेख्याद् बहुश्रुतमुखाधिगमक्रमेण।
यद्वा मया कुकृतमल्पमिहाकृतं वा
कार्यं तदत्र विदुषा परिहृत्य रागम् ॥५॥
प्रचारोन्मुख इस ग्रन्थ में लेखक-दोष से जो अशुद्धियाँ रह जायँ या जो मेरे द्वारा
आगम-विरुद्ध किया गया हो और जो नहीं किया गया हो, वह सब मत्सरता का परित्याग
कर बहुश्रुत मनुष्यों के मुख से सुन कर पण्डितों को यहाँ पर ठीक कर लेना चाहिये।
अस्य ग्रन्थस्य प्रचरतः प्रचरमाणस्य यद्विनाशमेत्यपशब्दतां गच्छति। लेख्याद् लेखक-
दोषाद् बहुश्रुतमुखाधिगमक्रमेण बहुश्रुता ये जनास्तन्मुखेभ्योऽधिगमः प्राप्तिस्तस्य क्रमेण
परिपाट्या पूर्वापरपर्यालोचनयाऽर्थसङ्गोत्पत्तेर्येऽपशब्दं जानन्ति तदत्रास्मिन् शास्त्रे विदुषा
रागं परिहृत्य कार्यम्। तन्मुखेभ्योऽधिगम्य विदुषा पण्डितेन रागं मात्सर्यं परिहृत्य त्यक्त्वा
कार्यं कर्तव्यम्। तथा यद्वा मया कुकृतं कुत्सितमनागमेन कृतं विरचितमल्पं वा परिमितम-
व्यापकं कृतं वा इहास्मिन् शास्त्रे मूलादेवाकृतं यन्न कृतं तदत्रास्मिन् शास्त्रे विदुषा रागं
परिहृत्य कार्यमिति॥५॥
सतां प्रणामपूर्वकाणि शास्त्राणि प्रमाणितानि भवन्त्येतदेव प्रदर्शयन्नाह—
दिनकरमुनिगुरुचरणप्रणिपातकृतप्रसादमतिनेदम्।
शास्त्रमुपसङ्गृहीतं नमोऽस्तु पूर्वप्रणेतृभ्यः ॥६॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायामुपसंहारो
नाम सप्ताधिकशततमोऽध्यायः ॥१०७॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

उपसंहाराध्यायः ६३५
सूर्य, मुनिगण और गुरुजनों के चरणों में नमस्कारजन्य अनुग्रह से उत्पन्न बुद्धि के
द्वारा इस ग्रन्थ का संग्रह मैंने किया है। अतः पूर्वाचार्यों के लिये मेरा नमस्कार है।।६।।
इति ‘विमला’हिन्दीटीकायामुपसंहाराध्यायः सप्ताधिकशततमः ॥१०७॥
दिनकर आदित्यः। ताराभाः सर्व एव ग्रहाः। मुनयो वसिष्ठादयः। गुरुरादित्यदासाख्यः
स्वपिता। दिनकरमुनिगुरूणां चरणाः पादाः। तेषां प्रणिपातो नमस्कारः। तत्कृतात् तत्करणा-
ज्जातः प्रसादोऽनुग्रहो यस्ततो मतिर्बुद्धिर्यस्य तेन दिनकरमुनिगुरुचरणप्रणिपातकृतप्रसादमतिना
मयेदं शास्त्रं ज्यौतिषग्रन्थमुपसङ्गृहीतं संक्षिप्तीकृतम्। तस्मात् तेभ्यः पूर्वप्रणेतृभ्यः पूर्वा-
चार्येभ्यो नमोऽस्तु नमस्कारो भवतु।।६।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृत्तावुपसंहारो नाम
सप्ताधिकशततमोऽध्यायः ॥१०७॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

अथ शास्त्रानुक्रमण्यध्यायः
अथ शास्त्रानुक्रमणी व्याख्यायते। कदाचिदादर्शदोषाल्लेखदोषाच्चाध्यायव्यत्ययो
भवत्यतोऽनुक्रमणी सद्भिः क्रियते। तत्रादावेवाध्यायसंग्रहार्थमाह—
शास्त्रोपनयः पूर्वं सांवत्सरसूत्रमर्कचारश्च।
शशिराहुभौमबुधगुरुसितमन्दशिखिग्रहाणां च ॥१॥
पहले शास्त्रोपनय, तत्पश्चात् सांवत्सरसूत्र, अर्कचार, चन्द्रचार, राहुचार, भौमचार,
बुधचार, गुरुचार, शुक्रचार, शनिचार, केतुचार ॥१॥
गतार्थेयमार्या। शिखिग्रहाः केतवः। चारशब्दोऽत्र सम्बध्यते ॥१॥
अन्यदप्याह—
चारश्चागस्त्यमुनेः सप्तर्षीणां च कूर्मयोगश्च।
नक्षत्राणां व्यूहो ग्रहभक्तिर्ग्रहविमर्दश्च ॥२॥
अगस्त्यचार, सप्तर्षिचार, कूर्मविभाग, नक्षत्रव्यूह, ग्रहभक्तियोग, ग्रहयुद्ध॥२॥
सप्तर्षीणां चारो ग्रहभक्तिर्ग्रहविमर्दो ग्रहयुद्धम्। गतार्थेयमार्या ॥२॥
अन्यदप्याह—
ग्रहशशियोगः सम्यग्ग्रहवर्षफलं ग्रहाणां च।
शृङ्गाटसंस्थितानां मेघानां गर्भलक्षणं चैव ॥३॥
शशिग्रहसमागम, ग्रहवर्षफल, ग्रहशृङ्गाटक, मेघों के गर्भलक्षण ॥३॥
ग्रहशशियोगः समागमः। ग्रहाणां शृङ्गाटसंस्थितानां ग्रहशृङ्गाटकफलम्। गतार्थेय-
मार्या ॥३॥
अन्यदप्याह—
धारणवर्षणरोहिणिवायव्याषाढभद्रपदयोगः ।
क्षणवृष्टिः कुसुमलताः सन्ध्याचिह्नं दिशां दाहः ॥४॥
गर्भधारण, प्रवर्षण, रोहिणीयोग, स्वातियोग, आषाढ़ीयोग, वातचक्र, सद्योवर्षण,
कुसुमलता, सन्ध्यालक्षण, दिग्दाहलक्षण ॥४॥
क्षणवृष्टिः सद्योवर्षः। गतार्थेयमार्या ॥४॥
अन्यदप्याह—
भूकम्पोल्कापरिवेषलक्षणं शक्रचापखपुरं च।
प्रतिसूर्यो निर्घातः सस्यद्रव्यार्घकाण्डं च ॥५॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

शास्त्रानुक्रमण्यध्यायः ६३७
भूकम्पलक्षण, उल्कालक्षण, परिवेषलक्षण, इन्द्रायुधलक्षण, गन्धर्वनगरलक्षण,
प्रतिसूर्यलक्षण, निर्घातलक्षण, सस्यजातक, द्रव्यनिश्चय, अर्घकाण्ड ।। ५ ।।
खपुरं गन्धर्वपुरम्। गतार्थेयमार्या ।। ५ ।।
अन्यदप्याह—
इन्द्रध्वजनीराजनखञ्जनकोत्पातबर्हिचित्रं च ।
पुष्याभिषेकपट्टप्रमाणमसिलक्षणं वास्तु ।। ६ ।।
इन्द्रध्वजसम्पत्, नीराजनविधि, खञ्जनलक्षण, उत्पातलक्षण, मयूरचित्रक, पुष्यस्नान,
पट्टलक्षण, खड्गलक्षण, वास्तुविद्या ।। ६ ।।
बर्हिचित्रं मयूरचित्रकम्। असिलक्षणं खड्गलक्षणम्। गतार्थेयमार्या ।। ६ ।।
अन्यदप्याह—
उदकार्गलमारामिकममरालयलक्षणं कुलिशलेपः ।
प्रतिमा वनप्रवेशः सुरभवनानां प्रतिष्ठा च ।। ७ ।।
उदकार्गल, वृक्षायुर्वेद, प्रासादलक्षण, वज्रलेप, प्रतिमालक्षण, वनप्रवेश, सुरभवन-
प्रतिष्ठा ।। ७ ।।
आरामिकं वृक्षायुर्वेदः। कुलिशलेपो वज्रलेपः। गतार्थेयमार्या ।। ७ ।।
अन्यदप्याह—
चिह्नं गवामथ शुनां कुक्कुटकूर्माजपुरुषचिह्नं च ।
पञ्चमनुष्यविभागः स्त्रीचिह्नं वस्त्रविच्छेदः ।। ८ ।।
गोलक्षण, श्वानलक्षण, कुक्कुटलक्षण, कूर्मलक्षण, छागलक्षण, पञ्चमहापुरुषलक्षण,
स्त्रीलक्षण, वस्त्रविच्छेदलक्षण ।। ८ ।।
चिह्नं लक्षणम्। गतार्थेयमार्या ।। ८ ।।
अन्यदप्याह—
चामरदण्डपरीक्षा स्त्रीस्तोत्रं चापि सुभगकरणं च ।
कान्दर्पिकानुलेपनपुंस्त्रीकाध्यायशयनविधिः ।। ९ ।।
चामरलक्षण, दण्डपरीक्षा, स्त्रीप्रशंसा, सौभाग्यकरण, कान्दर्पिक, गन्धयुक्ति,
पुंस्त्रीसमागम, शयनविधि ।। ९ ।।
स्त्रीस्तोत्रं स्त्रीप्रशंसा। अनुलेपनं गन्धयुक्तिः। गतार्थेयमार्या ।। ९ ।।
अन्यदप्याह—
वज्रपरीक्षा मौक्तिकलक्षणमथ पद्मरागमरकतयोः ।
दीपस्य लक्षणं दन्तधावनं शाकुनं मिश्रम् ।। १० ।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

६३८ बृहत्संहिता
वज्रपरीक्षा, मुक्तालक्षण, पद्मरागपरीक्षा, मरकतपरीक्षा, दीपलक्षण, दन्तकाष्ठलक्षण,
शाकुनमिश्रफल।।१०।।
गतार्थेयमार्याः।।१०।।
अन्यदप्याह—
अन्तरचक्रं विरुतं श्वचेष्टितं विरुतमथ शिवायाश्च।
चरितं मृगाश्वकरिणां वायसविद्योत्तरं च ततः ।।११।।
अन्तरचक्र, विरुत, श्वचक्र, शिवारुत, मृगचेष्टा, अश्वचेष्टा, वायसविद्या। यहाँ पर
शिवारुताध्याय के अन्तर्गत श्वचेष्टित और गोचेष्टिताध्याय के अन्तर्गत उष्ट्री, व्याघ्री, सिंही
आदि प्रधान सभी जीवों का लक्षण कहा गया है तथा मृग जातियों के मध्य में मार्जार,
व्याघ्र, सूकर, ऊँट आदि जीवों का शृगाल की तरह लक्षण कहा गया है।।११।।
श्वचेष्टितं शिवारुते चान्तर्लीनम्। तथा गोचेष्टितमध्ये उष्ट्रीव्याघ्रीसिंहीप्रधानप्राणिनां
सर्वमेवान्तर्लीनम्। तथा मृगजातीनां मध्ये विडालव्याघ्रवराहसूकरोष्ट्रादीनां शृगालवच्चेष्टित-
लक्षणं कथितम्। अन्तर्लीनं सर्वत्र परिज्ञेयम्। एषां श्ववल्लक्षणं चेष्टितं च सर्वं परि-
ज्ञेयम्।।११।।
अथान्यदप्यध्यायसंग्रहविधिमाह—
पाको नक्षत्रगुणास्तिथिकरणगुणाः सधिष्ण्यजन्मगुणाः।
गोचरमथ ग्रहाणां कथितो नक्षत्रपुरुषश्च ।।१२।।
पाकाध्याय, नक्षत्रगुण, तिथिगुण, करणगुण, नक्षत्रजातक, ग्रहगोचराध्याय, नक्षत्रपुरुष,
रूपसत्र—ये अध्याय इस ग्रन्थ के अन्तर्गत हैं।।१२।।
पाकाध्यायः। नक्षत्रगुणाः। तिथिगुणाः। करणगुणाः। अत्रैव मध्ये राशिगुणाः। पुंसां
क्षुरकर्मकर्णवेधनविवाहादिकं रक्षोपतापशान्तिकर्म च तत्रैवोक्तम्। सह नक्षत्रजन्मगुणश्च
ग्रहगोचराध्यायः। नक्षत्रपुरुषो रूपसत्रं चोक्तं कथितम्।।१२।।
अन्यदप्याह—
शतमिदमध्यायानामनुपरिपाटिक्रमादनुक्रान्तम् ।
अत्र श्लोकसहस्राण्याबद्धान्यूनचत्वारि ।।१३।।
यहाँ पर जिस क्रम से पठित किये गये हैं, उसी क्रम से इस ग्रन्थ में एक सौ
अध्याय बनाये गये हैं। इसमें एक सौ कम चार हजार श्लोक दिये गये हैं। वातचक्र,
अङ्गविद्या, पिटकलक्षण, अश्वलक्षण, गजलक्षण—ये पाँच अध्याय इस प्रमाण से अलग
हैं। इन अध्यायों की पद्यसंख्या मिलाकर कुल चार हजार श्लोक होते हैं।।१३।।
इदं शतमध्यायानामनुपरिपाटिक्रमादनुक्रान्तं रचितम्। येनैव प्रकारेण परिपठितं तेनैव
रचितम्। अत्रास्यां संहितायां श्लोकानामनुष्टुप्छन्दसामूनचत्वारि सहस्राणि। एकोनचत्वारिंश-
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

शास्त्रानुक्रमण्यध्यायः ६३९
च्छतानि। आबद्धानि रचितानि। वातचक्राङ्गविद्यापिटकाश्वगजलक्षणरहितमेतत्प्रमाणम्।
तैश्च सह परिपूर्णानि चत्वारि सहस्राणि भवन्तीति।।१३।।
अन्यदप्याह—
अत्रैवान्तर्भूतं परिशेषं निगदितं च यात्रायाम्।
बह्वाश्चर्यं जातकमयुक्तं करणं च बहुचोद्यम्॥१४॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां शास्त्रानुक्रमणी
नामाष्टाधिकशततमोऽध्यायः॥१०८॥
इसी के अन्तर्भूत परिशेष समस्त विषय 'यात्रा' नामक पुस्तक में कहे गये हैं तथा
मैंने बहुत आश्चर्य करने वाला जातक और बहुत प्रशस्त करण ( पञ्चसिद्धान्तिका )
कहा है॥१४॥
इति 'विमला'हिन्दीटीकायां शास्त्रानुक्रमण्यध्यायोऽष्टाधिकशततमः ॥१०८॥
अत्रैवान्तर्भूतं जातकं यात्राविधानकरणं सर्वमन्तर्लीनं परिशेषं प्रकाशीकरणाय यात्रायां
सर्वं निगदितम्। तथैव प्रकाशीकरणाय बह्वाश्चर्यं प्रभूतविस्मयजननं जातकमयुक्तं विस्तृतम्।
तथा बहुचोद्यं करणं पञ्चसिद्धान्तिकायां शिष्यहितार्थं प्रकाशितम्॥१४॥
आचार्यप्रवरस्य बोधजलधेः पारं तितीर्षुर्जने
व्यामुह्यन्नभिधेयरत्ननिचयैः कांक्षंस्तरीं भ्राम्यति।
इत्येवंविधमाकलय्य करुणामलम्ब्य भट्टोत्पल-
श्चक्रे तत्कृतिसंहिताविवरणं स्थैर्यं प्लवं कीर्तये॥
यदत्राधिकमूनं वा भ्रान्त्या त्वज्ञानतोऽपि वा।
विपर्ययेण वा यत्तत्सर्वं संशोध्यतां बुधाः॥
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ शास्त्रानुक्रमणी
नामाष्टाधिकशततमोऽध्यायः॥१०८॥
समाप्तेयं बृहत्संहिता
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

(The body of this page is blank / unprinted, showing only faint, illegible show-through from another page)
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

श्लोकानुक्रमणी
श्लोकांशाः पृष्ठाङ्काः श्लोकांशाः पृष्ठाङ्काः
अकारणे क्रोशति छेदनर्थः ४५८ अथ पारशवादीनां ९
अक्रियमाणककरणं ५२५ अथवा कृशमपि सुजनः ६३३
अक्षोभः श्रवणं चेष्टम् ४५२ अथ विषतरुकण्टकीकाष्ठ ४४०
अग्निप्रकृत्या चपलोऽति २४३ अथाप्रशस्ताः खरतुल्यनादाः १८४
अग्निभयं च चतुर्थे ४२० अध्यक्षाधिकृतानां ५
अङ्गारे स्तेनभयं ४० अध्यर्धहस्तप्रमितोऽस्य दण्डः २८४
अङ्गुलानि नवतिश्च षडूना २५४ अनिमित्तसंहतैरग्रिमं ४७५
अङ्गुष्ठकेन कुर्यान् ५८ अनलभयं स्त्रीजननं ४३
अङ्गुष्ठनखः कथितः १४२ अन्तःपुरं नाशमुपैति मेढे ४६०
अङ्गुष्ठमूले प्रसवस्य रेखाः २७१ अन्तरचक्रं विरुतं श्वचेष्टितं ६३८
अङ्गुष्ठयवैराढ्याः २१७ अन्तरमणिसंयुक्ता ३६५
अजातशाखान् शिशिरे १११ अन्ते गुरुर्धनवतीं ५७१
अज्ञातपूर्वाणि न दन्तकाष्ठा ३७४ अन्धत्वमूर्ध्वदृष्ट्या १५२
अञ्जनभृङ्गश्यामतनुर्वा १८० अन्नैः क्षीरघृतोत्कटैः सह ६२७
अञ्जनमुस्तोशीरैः १०८ अन्यजन्मान्तरकृतं ३७८
अण्डीरकष्टीति रुतेन पूर्णः ४३२ अन्यप्रतिरुता याम्या ४५२
अतः परं लोकनिरूपितानि ५०१ अन्येन समायुक्ता ३४२
अतसीकुसुमश्यामः १४७ अन्येषां तु नराणां २८८
अतसीकुसुमश्यामं ३५८ अन्येषामुष्णघ्नं २८८
अतिकृशदीर्घैश्चिबुकैः २२१ अन्योऽन्यभक्षसंक्रा ४८७
अतीव हेषन्ति किरन्ति ४६४ अपरस्यां दिशि योऽरः ४१७
अतृणे सतृणा यस्मिन् ८६ अपरे तु कर्मिणां भय ४२३
अत्यन्तविरुद्धानां ५२७ अपरोऽन्तगतोऽलिन्दः १९
अत्यम्लतिक्तलवणानि ३०७ अपसव्यास्तु शकुनाः ३९९
अत्युल्बणगन्धत्वात् ३१६ अपहरति विषमलक्ष्मीं ३६३
अत्र सहस्रचतुष्टय ३१६ अपि कालमपेक्ष्य च पात्रं ६०४
अत्रैवान्तर्भूतं ६३९ अप्रतिषिद्धालिन्दं १६
अथ च चतुर्भुजमिच्छति १४७ अप्रसिद्धं भयं वापि ४००
अथ पञ्चमे नृपभयं ४२० अब्जेषु मूर्धसु च वाजिगजो ४३०
बृ० भ० द्वि०-४१
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

६४२ बृहत्संहिता
श्लोकांशाः पृष्ठाङ्काः श्लोकांशाः पृष्ठाङ्काः
अभयाश्च तुण्डपक्ष ४७५ असनस्पन्दनचन्दन ३३८
अभिमुखपतितं प्रशान्तदिक्स्थं ३७६ असिद्धिसिद्धिदौ ज्ञेयौ ४००
अभ्यन्तरे तु नाभ्यां ४१९ अस्फुटिताग्रं स्निग्धं २२३
अभ्यर्च्य कुसुमवस्त्रा १६५ अस्वेदनपीनोन्नत २१५
अभ्यासजातास्तरवः ११३ अस्वेदनौ मृदुतलौ कमलो २०२
अभ्युन्नताभिरल्पा २२७ अहिराजः पुरुषेऽस्मिन् ८२
अम्बस्पन्दनचन्दन ३४२ अहुताशप्रज्ज्वलनं ५२७
अरिष्टाशोकपुन्नाग ११० अहो धाष्टर्यमसाधूनां २९५
अर्चार्थममुकस्य त्वं १५९ आकारं विनिगूहतां २९०
अर्द्धनिचितं कृतं वा ५९ आकारमाद्येऽम्बुगते घकार ५१०
अर्धपलस्य द्वादश ३६९ आकाररावी समृगः कुरङ्गः ४३४
अर्धपुरुषे च मत्स्यः ७५ आगच्छन्त्यो वेश्मबम्भारवेण ४५८
अर्धमतोऽष्टांशोनं ३४० आग्नेयदिग्लग्नमुहूर्तदेशे ४९७
अर्धाङ्गुला तु गोच्छा १३९ आग्नेये कौलिकतक्ष ४१७
अल्पसुतत्वं प्रैष्यं ४३ आग्नेये यदि कोणे ९९
अवाकप्रदानेऽपि हितार्थ ४३८ आग्नेय्यामनलाजी ४८०
अविकलपार्श्वा धनिनो २०९ आजानुलम्बबाहुः १५०
अविकाजशकृच्चूर्णं ११५ आज्ञार्थमानास्पदभूतिवस्त्र ५९७
अशनिजलानिलहस्ति ३३८ आताम्रसंहतखुराः १७१
अशुभनिरीक्षतः शुभफलो ६०९ आत्मायमात्मनि गतो २९९
अश्मन्तकस्य वामे ८४ आत्मा सहैति मनसा २९९
अश्रुपातहनुगण्डहृद्गल १९० आदिशेदुभयभङ्गदर्शनात् ४७०
अश्विनीपित्र्यमूलाद्या ५६६ आदौ नेच्छति नोज्झति स्मर ३३०
अश्विन्योऽथ भरण्यो ५६४ आदौ यादृक् सौम्यः ६०७
अश्वियमदहनकमलज ५३१ आधूम्रं व्रणबहुलम् ३६९
अष्टशतं षण्णवतिः २४२ आपस्तथापवत्सः २८
अष्टांशाष्टांशोनाः १४२ आपाण्डुपीतिका ७८
अष्टाङ्गुलं ललाटं १३८ आपाण्डुरस्य वर्षात् ४२८
अष्टावंसौ द्वादश १४४ आपृच्छेऽद्य गमिष्यामि ४३७
अष्टाष्टकपदमथवा ३० आपो नामैशाने २७
अष्टौ च बहिष्कोणे ३० आप्योदयर्क्षक्षणदिग्जलेषु ४९७
अष्टौ तु जानुमध्ये १४३ आब्रह्मकीटान्तमिदं निबद्धम् २९६
अष्टौ सीसकभागाः १३६ आमं तिन्दुकमामं १३४
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA