सामग्री पर जाएँ
सर्वकोश
बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 2 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished760 पृष्ठ

पृष्ठ 662, कुल 760 में से

संदर्भ में पढ़ें
पृष्ठ 662

६३४ बृहत्संहिता
स्वल्पं दोषं दृष्ट्वा गुणान् प्रच्छाद्य तमेव दोषं प्रख्यापयति। इयं साध्वसाधूनां सज्जनदुर्जनानां
प्रकृतिः स्वभाव इति॥३॥
काव्यमभिनवं सर्वथा दुर्जनानां प्रदर्शयितव्यमित्येतत् प्रतिपादयितुमाह—
दुर्जनहुताशतप्तं काव्यसुवर्णं विशुद्धिमायाति।
श्रावयितव्यं तस्माद् दुष्टजनस्य प्रयत्नेन ॥४॥
काव्यरूप सुवर्ण दुर्जनरूप अग्नि द्वारा तपाये जाने पर विशुद्धि को प्राप्त होता है।
इसलिये दुर्जन मनुष्य को यत्नपूर्वक शास्त्र का श्रवण कराना चाहिये॥४॥
दुर्जनहुताशेन दुर्जनाग्निना काव्यसुवर्णं काव्यमेव सुवर्णं तप्तं तापितं विशुद्धिं
निर्मलतामायाति प्राप्नोति। यथा कनकं वह्नितप्तं शुद्धं भवत्येवं दुर्जनमुखपतितं काव्यं
शुद्धं भवति। यतः स दोषतत्परो भवति, न गुणग्राही। तस्मात् प्रयत्नेन दुष्टजनस्य दुर्जनस्य
काव्यं श्रावयितव्यं प्रदर्शनीयमिति॥४॥
अधुना विदुषः प्रार्थयन्नाह—
ग्रन्थस्य यत् प्रचरतोऽस्य विनाशमेति
लेख्याद् बहुश्रुतमुखाधिगमक्रमेण।
यद्वा मया कुकृतमल्पमिहाकृतं वा
कार्यं तदत्र विदुषा परिहृत्य रागम् ॥५॥
प्रचारोन्मुख इस ग्रन्थ में लेखक-दोष से जो अशुद्धियाँ रह जायँ या जो मेरे द्वारा
आगम-विरुद्ध किया गया हो और जो नहीं किया गया हो, वह सब मत्सरता का परित्याग
कर बहुश्रुत मनुष्यों के मुख से सुन कर पण्डितों को यहाँ पर ठीक कर लेना चाहिये।
अस्य ग्रन्थस्य प्रचरतः प्रचरमाणस्य यद्विनाशमेत्यपशब्दतां गच्छति। लेख्याद् लेखक-
दोषाद् बहुश्रुतमुखाधिगमक्रमेण बहुश्रुता ये जनास्तन्मुखेभ्योऽधिगमः प्राप्तिस्तस्य क्रमेण
परिपाट्या पूर्वापरपर्यालोचनयाऽर्थसङ्गोत्पत्तेर्येऽपशब्दं जानन्ति तदत्रास्मिन् शास्त्रे विदुषा
रागं परिहृत्य कार्यम्। तन्मुखेभ्योऽधिगम्य विदुषा पण्डितेन रागं मात्सर्यं परिहृत्य त्यक्त्वा
कार्यं कर्तव्यम्। तथा यद्वा मया कुकृतं कुत्सितमनागमेन कृतं विरचितमल्पं वा परिमितम-
व्यापकं कृतं वा इहास्मिन् शास्त्रे मूलादेवाकृतं यन्न कृतं तदत्रास्मिन् शास्त्रे विदुषा रागं
परिहृत्य कार्यमिति॥५॥
सतां प्रणामपूर्वकाणि शास्त्राणि प्रमाणितानि भवन्त्येतदेव प्रदर्शयन्नाह—
दिनकरमुनिगुरुचरणप्रणिपातकृतप्रसादमतिनेदम्।
शास्त्रमुपसङ्गृहीतं नमोऽस्तु पूर्वप्रणेतृभ्यः ॥६॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायामुपसंहारो
नाम सप्ताधिकशततमोऽध्यायः ॥१०७॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA