सामग्री पर जाएँ
सर्वकोश
बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 2 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished760 पृष्ठ

पृष्ठ 667, कुल 760 में से

संदर्भ में पढ़ें
पृष्ठ 667

शास्त्रानुक्रमण्यध्यायः ६३९
च्छतानि। आबद्धानि रचितानि। वातचक्राङ्गविद्यापिटकाश्वगजलक्षणरहितमेतत्प्रमाणम्।
तैश्च सह परिपूर्णानि चत्वारि सहस्राणि भवन्तीति।।१३।।
अन्यदप्याह—
अत्रैवान्तर्भूतं परिशेषं निगदितं च यात्रायाम्।
बह्वाश्चर्यं जातकमयुक्तं करणं च बहुचोद्यम्॥१४॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां शास्त्रानुक्रमणी
नामाष्टाधिकशततमोऽध्यायः॥१०८॥
इसी के अन्तर्भूत परिशेष समस्त विषय 'यात्रा' नामक पुस्तक में कहे गये हैं तथा
मैंने बहुत आश्चर्य करने वाला जातक और बहुत प्रशस्त करण ( पञ्चसिद्धान्तिका )
कहा है॥१४॥
इति 'विमला'हिन्दीटीकायां शास्त्रानुक्रमण्यध्यायोऽष्टाधिकशततमः ॥१०८॥
अत्रैवान्तर्भूतं जातकं यात्राविधानकरणं सर्वमन्तर्लीनं परिशेषं प्रकाशीकरणाय यात्रायां
सर्वं निगदितम्। तथैव प्रकाशीकरणाय बह्वाश्चर्यं प्रभूतविस्मयजननं जातकमयुक्तं विस्तृतम्।
तथा बहुचोद्यं करणं पञ्चसिद्धान्तिकायां शिष्यहितार्थं प्रकाशितम्॥१४॥
आचार्यप्रवरस्य बोधजलधेः पारं तितीर्षुर्जने
व्यामुह्यन्नभिधेयरत्ननिचयैः कांक्षंस्तरीं भ्राम्यति।
इत्येवंविधमाकलय्य करुणामलम्ब्य भट्टोत्पल-
श्चक्रे तत्कृतिसंहिताविवरणं स्थैर्यं प्लवं कीर्तये॥
यदत्राधिकमूनं वा भ्रान्त्या त्वज्ञानतोऽपि वा।
विपर्ययेण वा यत्तत्सर्वं संशोध्यतां बुधाः॥
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ शास्त्रानुक्रमणी
नामाष्टाधिकशततमोऽध्यायः॥१०८॥
समाप्तेयं बृहत्संहिता
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA