बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 2 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
वास्तुविद्याध्यायः २३
'पराधिकारेषु न विस्तरोक्तिः शस्तेति नो नात्र ततः प्रयत्नः' इति।
तस्मात्तातपर्यार्थोऽभिधीयते—'वास्तुनि यो विस्तारः, स एव चोच्छ्रायनिश्चयः शुभदः'
इत्युक्तमाचार्येण। पुनः स एवाह—'नेच्छन्ति शास्त्रकारा हस्तशतादुच्छ्रितं परतः' ।
रूपाणामष्टोत्तरशतं गृहविस्तारः। गृहविस्तारतुल्यश्च गृहोच्छ्रायः शुभदः। नेच्छन्ति शास्त्र-
कारा हस्तशतादुच्छ्रितं परत इत्यनेन सह विरुध्यते। अत्र केचिदविदितशास्त्रसद्भावा
मन्यन्ते। यथा गृहविस्तारतुल्यो गृहोच्छ्रायोऽभिहितो यः स उत्सर्गः। नेच्छन्ति शास्त्रकारा
हस्तशतादुच्छ्रितं परत इत्यपवादः। 'उत्सर्गश्चापवादेन बाध्यते' इति। वयं त्वत्र ब्रूमः—
विषयविभागेन कल्पना कृता। तत्र नोत्सर्गो न चापवाद इति। आचार्य आह—
विस्तारषोडशांशः सचतुर्हस्तो भवेद् गृहोच्छ्रायः।
द्वादशभागेनोनो भूमौ भूमौ समस्तानाम्॥
विप्रादीनां गृहेषु भूमिकामानमिदं विश्वकर्मणाऽभिहितम्।
अर्धचतुष्कभूमिकं गृहं शूद्राणां कर्तव्यम्, विशामर्धपञ्चकभूमिकम्, अर्धषष्ठभूमिकं
क्षत्रियाणाम्, द्विजानामर्धसप्तमभूमिकम्, अर्धाष्टमभूमिकं नृपाणां कर्तव्यम्। तथा च विश्व-
कर्माऽऽह—
यजन्ते राजसूयाद्यैः क्रतुभिर्येऽवनीश्वराः।
तलैरर्धाष्टमैस्तेषां कारयेद् भवनोत्तमम्॥
तथाऽर्धसप्तमैरेव विप्राणां कारयेद् गृहम्।
अर्धषष्ठैः क्षत्रियाणां वैश्यानामर्धपञ्चमैः॥
त्रिभिः सार्धैश्च शूद्राणां भवनं शुभदं स्मृतम्॥ इति।
विश्वकर्मा मन्दबुद्धिप्रबोधनार्थं पुनः स्पष्टतरं साधारणेन हस्तेन गृहोच्छ्रायहस्त-
संख्यामाह—
साधारणेन हस्तेन परं शूद्रस्य विंशतिः।
चत्वारिंशच्च वैश्यस्य षष्टिः स्यात् क्षत्रियस्य तु।
ब्राह्मणस्य तथाशीतिः शतं च नृपतेः स्मृतम्।
नातः परतरं नृणामूर्ध्वमानं विधीयते।
गन्धर्वसिद्धयक्षाणां धर्मतः समुदाहृतम्॥
साधारणेन हस्तेन हस्तशतं यत्तत्रैराशिकगणनया ज्येष्ठहस्तेनानुमीयमानं सप्ता-
शीतिर्हस्ताः सार्द्धा भवन्ति, 'द्वादशभागेनोने भूमौ भूमौ' इत्यनेनापि न्यायेनार्धाष्टमभूमिका
हस्ता द्विषष्टिः सार्धा भवन्ति। अथात्रेदं मन्यसे साधारणेन हस्तेन हस्तशतोच्छ्रायं ज्येष्ठ-
हस्तमितेन हस्ताः सप्ताशीतिः सार्धा भवन्ति। नृपगृहस्योत्तमस्याष्टोत्तरशतविस्तृतस्य द्वादश-
भागेनोने भूमौ भूमौ समस्तानामित्यनेन न्यायेन हस्ता द्विषष्टिः सार्धा भवन्ति। एककर्तृ-
कस्यैव ग्रन्थस्यात्रापि भिन्नवाक्यतेति। अत्रोच्यते—
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
२४ बृहत्संहिता
विश्वकर्मणोत्तमगृहाणां हस्तद्वयं सार्धं पीठोच्छ्रायमुक्तम्। भूमिकान्तरे काण्डोच्छ्राय-
पांशुकस्तरवरण्डिकादिभिः सहितमेव मानं भवति, तस्मात् पुनरुक्तदोषो नात्रावगम्यत इति।
द्वित्रिचतुःशालेषु गृहेषु भूमिकोच्छ्रायनियमोऽवगन्तव्यः। एकशालेषु व्यासतुल्यगृहोच्छ्रायः
शस्यते, न द्वित्रिचतुःशालेषु। तथा च शक्र आह—
एकशालं यथाकामं विस्तारं कारयेद् गृहम्।
गृहमायामहीनं तत्त्वेकशालं प्रचक्षते।।
गृहविस्तारमाधिक्यं प्राहोत्सर्गास्तु गौतमः।
आचार्येण त्वेकशाले गृहे व्यासतुल्य उच्छ्रायोऽभिहितः। व्यासद्विगुणश्चायामः। एक-
शालं विप्रादीनां न क्रियते, द्वित्रिचतुःशाला एव क्रियन्ते। तथा च वृद्धगर्गः—
अनाजीवकरं सर्वमेकशालमुदाहृतम्।
अपि शाला तृणमयी कार्या तस्य शुभप्रदा।।
आचार्य आह—
वास्तुनि यो विस्तारः स एव चोच्छ्रायनिश्चयः शुभदः।
शालैकेषु गृहेष्वपि............................................................॥
इत्यत्रापिशब्दश्चकारको द्रष्टव्यः।
विस्ताराद् द्विगुणितं च तेष्वेकशालेषु दैर्घ्यं कर्त्तव्यम्—'त्रित्रिद्विद्विद्विशमाः क्षय-
क्रमादङ्गुलानि चैतेषाम्' इत्यत्र सन्दिह्यते किमष्टयवेनाङ्गुलेन चतुर्विंशत्यङ्गुलैर्यो हस्तः
स सम इति। विश्वकर्मणा त्रिविधो हस्त उच्यते—
यवा मध्यान्विता अष्टा
वास्तुविद्याध्यायः २५
षड्यवाङ्गुलहस्तस्य कर्माण्यूाह—
शयनासनयानानि कर्मदण्डायुधं तथा।
वापीकूपप्रमाणानि तथा नृगजवाजिनाम्॥
इक्षुयन्त्रारघट्टांश्च हलयूपयुगध्वजान्।
आतोयानि च नावश्च शिल्पिनां चाप्युपस्करान्॥
पादुके च वृषीं छत्रं चर्मोपकरणानि च।
मात्रा शमेन हस्तेन नलवदण्डांश्च मापयेत्॥
इत्येतन्न, यस्मादाचार्येण शब्दाभिधाने सामान्येनैव शमो हस्त इत्युक्तः। केचिच्छ्रय
इति पठन्ति त्रित्रिद्विद्विद्विशया इति। एतत्प्रागुक्तं लक्षणं शायाख्यस्येति।
व्यासात् षोडशभागः सर्वेषां सद्मनां भवति भित्तिः।
पक्वेष्टकाकृतानां दारुकृतानां तु न विकल्पः॥
इत्यत्र सर्वशब्देनेदं ज्ञापयति, यथा चतुर्वर्णादिसद्मनां चतुःशालादिगृहाणां विस्तारात्
षोडशभागतुल्या पृथुला भित्तिः पक्वेष्टकाकृतानां कर्तव्या। पक्वेष्टकामेष्टकासंयोगनिषेध-
स्तन्त्रान्तरे पठ्यते—
न नवं पुराणयुक्तं न पक्वमामेन चैव संयोज्यम्।
अन्यत्र स्खलितशिलाविशीर्णमच्छिन्नसंस्कारात्॥
संयोगो वेष्यते, तदा तेनानुक्रमेणेत्यत्र हिरण्यगर्भ आह—
आमेष्टकास्त्वधश्श्रेयाः पक्वाश्च चिनुयात्ततः।
पक्वाश्रिता ह्यधश्श्रेया यथेष्टमुपरीष्टकाः॥
पक्वेष्टकागृहाणां सुवर्णतृणवस्त्रादिकृतानां हिरण्यगर्भोक्तानां निषेधार्थं मयेन पञ्च
प्रकारा उक्ताः—
कटिमं ग्रन्थि मं चैव दायिमं रिपिमं तथा।
खातिमं च पुरं ख्यातं क्रियाः पञ्चविधा गृहे॥
सुवर्णादिभेदान् हिरण्यगर्भ आह—
गृहं तु विविधं प्रोक्तं शरीरैस्तु पृथग्विधैः।
पाषाणैर्निचितं यच्च तद्गृहं मन्दिरं स्मृतम्॥
पक्वेष्टकं वास्तुनाम भवनं हितमुत्तमम्।
आमेष्टकं सुमन्तं तु सुधारं कर्दमेन तु॥
मानस्य वर्धितं काष्ठैर्वेणुभिर्नन्दनं स्मृतम्॥
वस्त्रैश्च विजयं प्रोक्तं राज्ञां शिल्पिविकल्पितम्।
कालिमेति च विज्ञेयमष्टमं तृणजातिभिः॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
२६ बृहत्संहिता
उत्तमानि तु चत्वारि गृहाणि गृहमेधिनाम्।
सौवर्णं राजतं ताम्रमायसं च प्रकीर्तितम्।।
सौवर्णं पुष्करं नाम राजतं श्रीभवं तथा।
ताम्रेण सूर्यमन्तं तु चण्डनाम तथायसम्।।
देवदानवगन्धर्वयक्षराक्षसकिन्नरैः ।
द्वादशैते प्रकारास्तु गृहाणां नियताः स्मृताः।।
जातुषं त्वानिलं नाम त्रापुषं वारिबन्धकम्।
एवं जातिषु सर्वासु गृहाणि तु चतुर्दश।।
दारुकृतानां तु न विकल्पः। दारुकृतानाममीषां च सुवर्णादिकृतभित्तिविस्तारविकल्पो
नास्त्येव, किं यद्भित्तिविस्तारमेव केवलं दारुसुवर्णादिरचितानां नेति; उत सर्व एव स्तम्भ-
भूमिविभागा विकल्पा इति। अत्रोच्यते—सर्व एव विकल्पाः पक्वेष्टकाकृतानां क्रियन्ते,
नान्येषाम्। दारुकृतादीनां तु पुनर्देवतानिवेशभोजनदेवागारमहानसादिनिवेशमात्रमेव क्रियते,
नान्यदिति। तथा च तन्त्रान्तरे पठ्यते—
तत्र च विसस्यभूमेः परीक्षणं देवतानिवेशश्च।
तलकोच्छ्रायः कार्यों विधानतो वास्तुपुरुषस्य।।
शेषाणामपि च तथैव सन्निविष्टक्रिया समुद्दिष्टा।
भोजनशालासंस्थानलक्षणं चैषु सामान्यम्।।
नैषां नियमस्तलकोच्छ्रयेषु नायामविस्तारार्थेषु।
न द्वारेषु न दारुषु न पालिनाडीविभागेषु।।
इत्यलमतिप्रसङ्गेन प्रकृतमभिधीयत इति।।३९-४१।।
अधुनैकाशीतिपदस्य क्षेत्रस्य विभागप्रदर्शनार्थमाह—
एकाशीतिविभागे दश दश पूर्वोत्तरायता रेखाः ।
अन्तस्त्रयोदश सुरा द्वात्रिंशद्वाह्यकोष्ठस्थाः ।।४२।।
इक्यासी पद के क्षेत्र बनाने के लिये दश रेखा पूर्वपरा और दश रेखा दक्षिणोत्तरा
बनानी चाहिये, इस तरह रेखायें करने से ८१ कोष्ठ का क्षेत्र बन जायगा। उस कोष्ठ के
बाहर तेरह और भीतर बत्तीस देवता होते हैं।।४२।।
एकाशीतिपदविभागार्थं क्षेत्रे दश रेखाः पूर्वापरायता दश दक्षिणोत्तरायताश्च कार्याः।
एवं कृते एकाशीतिपदं क्षेत्रमुत्पद्यते। अस्य क्षेत्रस्यान्तर्मध्ये त्रयोदश सुराः देवाः स्थिताः।
बाह्यकोष्ठस्था बहिष्कोष्ठेषु स्थिता द्वात्रिंशत्। एवं पञ्चचत्वारिंशत् सुरा अत्र क्षेत्र इति।।४२।।
तत्र द्वात्रिंशद्वाह्यकोष्ठस्थान् सुरानाह—
शिखिपर्जन्यजयन्तेन्द्रसूर्यसत्या भृशोऽन्तरिक्षश्च ।
ऐशान्यादिक्रमशो दक्षिणपूर्वेऽनिलः कोणे ।।४३।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
वास्तुविद्याध्यायः २७
पूषा वितथबृहत्क्षतयमगन्धर्वाख्यभृङ्गराजमृगाः ।
पितृदौवारिकसुग्रीवकुसुमदन्ताम्बुपत्यसुराः ॥४४॥
शोषोऽथ पापयक्ष्मा रोगः कोणे ततोऽहिमुख्यौ च ।
भल्लाटसोमभुजगास्ततोऽदितिर्दितिरिति क्रमशः ॥४५॥
पूर्वोक्त क्षेत्र में ईशान कोण से लेकर क्रम से शिखी, पर्जन्य, जयन्त, इन्द्र, सूर्य,
सत्य, भृश और अन्तरिक्ष देवता हैं। अग्नि कोण से लेकर क्रम से अनिल, पूषा, वितथ,
बृहत्क्षत, यम, गन्धर्व, भृङ्गराज और मृग देवता हैं। नैर्ऋत्य कोण से लेकर क्रम से
पिता, दौवारिक, सुग्रीव, कुसुमदन्त, वरुण, असुर, शोष और पापयक्ष्मा देवता हैं। वायव्य
कोण से लेकर क्रम से रोग, सर्प, मुख्य, भल्लाट, सोम, भुजग, अदिति और दिति देवता
हैं॥४३-४५॥
ऐशानीं दिशमादितः कृत्वा क्रमशः क्रमेण कोष्ठकेषु शिख्याद्या देवा स्थिताः।
तद्यथा—ऐशान्यां शिखी, केषाञ्चित् पक्षे शिखः। ततः परं तिर्यक्कृत्व द्वितीयकोष्ठके
पर्जन्यः। ततो जयन्तः। तत इन्द्रः। ततः सूर्यः। ततः सत्यः। ततो भृशः। ततोऽन्तरिक्ष
इति। दक्षिणपूर्वे कोणे आग्नेय्यां दिश्यनिलो वायुः केषाञ्चित् पक्षेऽनलोऽग्निः।
अनिलादनन्तरं क्रमेण दक्षिणस्यां दिशि पूषादयः स्थिताः। तद्यथा—पूषानन्तरं
ततो वितथः। ततो बृहत्क्षतः, केषाञ्चित् पक्षे बृहत्क्षतिः। ततो यमः। ततो गन्धर्वाख्यः।
ततो भृङ्गराजः। ततो मृगः। पित्रादयः पश्चिमायाम्। तद्यथा—पिता नैर्ऋतकोणे। ततोऽनन्तरं
दौवारिकः। ततः सुग्रीवः। ततः कुसुमदन्तः। ततोऽम्बुपतिर्वरुणः। ततोऽसुरः।
ततः शोषः। अथानन्तरं पापयक्ष्मा। रोगः कोणे पश्चिमोत्तरे। तत उत्तरस्यां दिश्यहिः
सर्पः। ततो मुख्यः। ततो भल्लाटः। ततः सोमः। ततो भुजगः। ततोऽदितिः। ततो दिति-
रित्यनेन प्रकारेण क्रमशः परिपाट्या देवाः स्थिता द्वात्रिंशत्॥४३-४५॥
अभ्यन्तरस्थितान् त्रयोदशाह—
मध्ये ब्रह्मा नवकोष्ठकाधिपोऽस्यार्यमा स्थितः प्राच्याम्।
एकान्तरात् प्रदक्षिणमस्मात् सविता विवस्वांश्च ॥४६॥
विबुधाधिपतिस्तस्मान्मित्रोऽन्यो राजयक्ष्मनामा च।
पृथिवीधरापवत्सावित्येते ब्रह्मणः परिधौ ॥४७॥
आपो नामैशाने कोणे हौताशने च सावित्रः।
जय इति च नैर्ऋते रुद्र आनलेऽभ्यन्तरपदेषु ॥४८॥
पूर्वोक्त क्षेत्र के अन्तर्गत ये देवता विराजमान हैं। जैसे मध्य के नव कोष्ठों में ब्रह्मा,
ब्रह्मा से पूर्व अर्यमा, प्रदक्षिण क्रम से एक पद व्यवहित करके सविता, विवस्वान्, इन्द्र,
मित्र, राजयक्ष्मा, पृथ्borderीधर, आपवत्स—ये आठ देवता एकान्तर से ब्रह्माजी की परिधि
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
२८ बृहत्संहिता
को व्याप्त करके विराजमान हैं। साथ ही ईशान कोण में पर्जन्य के नीचे आप, आग्नेय
कोण में अन्तरिक्ष के नीचे सावित्र, नैर्ऋत्य कोण में दौवारिक के नीचे जय और वायव्य
कोण में पापयक्ष्मा के नीचे रुद्र स्थित हैं॥४६-४८॥
मध्ये मध्यभागे ब्रह्मा पितामहो नवानां कोष्ठकानामधिपः स्वामी। अस्य ब्रह्मणः।
अर्यमा प्राच्यां पूर्वस्यां दिशि स्थितः। अस्मादर्यम्ण एकान्तरादेकपद्व्यवहितात् प्रदक्षिणं
प्रादक्षिण्येने सवितृप्रभृतयः स्थिताः। तद्यथा—अर्यम्ण एकपद्व्यवहितः सविता। तत
एकपद्व्यवहितो विवस्वान्।
ततोऽपि विबुधाधिपतिरिन्द्रः। तस्मादन्यो मित्रस्ततो राजयक्ष्मा नाम। ततः पृथिवीधरः।
तत आपवत्स इत्येवं प्रकारा अष्टौ देवा एकान्तराद् ब्रह्मणः परिधिं व्याप्य स्थिताः।
ऐशाने कोणे पर्जन्याध आपो नाम स्थितः। हौताशने आग्नेये कोणे अन्तरिक्षस्याधः
सावित्रः स्थितः। नैर्ऋते कोणे दौवारिकस्याधो जयः स्थितः। अनिले वायव्ये कोणे पाप-
यक्ष्मणोऽधोभागे रुद्रः स्थितः। एते सुरा अभ्यन्तरपदेष्वैशनादिषु। यतो बाह्यपदेषु शिख्यादयः
स्थिताः॥४६-४८॥
अथात्र स्थितानां देवतानां पदसंख्याप्रदर्शनार्थमाह—
आपस्तथापवत्सः पर्जन्योऽग्निर्दितिश्च वर्गोंऽयम्।
एवं कोणे कोणे पदिकाः स्युः पञ्च पञ्च सुराः ॥४९॥
बाह्या द्विपदाः शेषास्ते विबुधा विंशतिः समाख्याताः।
शेषाश्चत्वारोऽन्ये त्रिपदा दिक्ष्वर्यमाद्यास्ते ॥५०॥
इस क्षेत्र के ईशान कोण में आप, आपवत्स, पर्जन्य, अग्नि, दिति—ये पाँच देवता
एकपदिक (एक-एक पद के स्वामी) हैं। इसी तरह प्रत्येक कोण में पाँच-पाँच देवता
एकपदिक हैं। जैसे—आग्नेय कोण में सविता, सवित्र, अनल या अनिल, अन्तरिक्ष,
पूषा। नैर्ऋत्य कोण में इन्द्र, जय, दौवारिक, पिता, मृग और वायव्य कोण में राजयक्ष्मा,
रुद्र, पापयक्ष्मा, रोग, नाग—ये पाँच देवता एकपदिक हैं। शेष बाह्य कोष्ठ में स्थित
देवता द्विपदिक हैं, जो कुल बीस होते हैं। जैसे—पूर्व में जयन्त, इन्द्र, सूर्य, सत्य,
भृश। दक्षिण में वितथ, बृहत्क्षत, यम, गन्धर्व, भृङ्गराज। पश्चिम में सुग्रीव, कुसुमदन्त,
वरुण, असुर, शोष और उत्तर में मुख्य, भल्लाट, सोम, भुजग और अदिति—ये द्विप-
दिक देवता हैं। ब्रह्मा से पूर्व आदि दिशाओं में शेष अर्यमा आदि चार देवता (अर्यमा,
विवस्वान्, मित्र और पृथ्attribute/पृथ्वीधर) त्रिपदिक हैं॥४९-५०॥
आप एकः, आपवत्सो द्वितीयः, पर्जन्यस्तृतीयः, अग्निश्चतुर्थः, दितिः पञ्चमः।
अयं वर्गः समूह एकपदिक एकैकस्मिन् पदे। एवमनेन क्रमेण कोणे कोणेऽस्यामस्यां
पञ्च पञ्च सुरा देवाः पदिका एकपदस्वामिनः स्युर्भवेयुः। तद्यथा—आपः, आपवत्सः, पर्जन्यः,
अग्निः, दितिरित्यैशानकोणे एकपदिकाः, सविता, सावित्रः, अर्यमा, अन्तरिक्षः, पूषा इति
CC-0. JK Sanskrit Academy, Jammnu. Digitized by S3 Foundation USA
वास्तुविद्याध्यायः २९
पञ्चाग्नेयकोणे एकपदिकाः, विबुधाधिपतिः, जयः, दौवारिकः, पिता, मृग इति पञ्च नैर्ऋत-
कोणे एकपदिकाः, राजयक्ष्मा, रुद्रः, पापयक्ष्मा, रोगः, अहिरिति वायवे कोणे पञ्चैकपदिकाः।
शेषा बाह्यकोष्ठेषु स्थिता विबुधा देवा द्विपदाः। पदद्वयस्वामिनस्ते च विंशतिः समा-
ख्याताः। तद्यथा—जयन्तेन्द्रसूर्यसत्यभृशाः पूर्वस्यां दिशि द्विपदाः। वितथबृहत्क्षतयम-
गन्धर्वाख्यभृङ्गराजा दक्षिणस्यां द्विपदाः। सुग्रीवकुसुमदन्ताम्बुपत्यसुरशोषाः पश्चिमायां द्विपदाः।
मुख्यभल्लाटसोमभुजगादित्य उत्तरस्यां द्विपदाः। एवं विंशतिर्द्विपदाः। शेषाश्चत्वारोऽन्ये
त्रिपदा इति। उक्तेभ्योऽन्ये शेषा ये चत्वारो विबुधा अर्यमाद्या दिक्षु प्रागाद्यासु ब्रह्मणः
स्थितास्ते च त्रिपदास्त्रिषु पदेषु स्वामिनः। तद्यथा—अर्यमा विवस्वान् मित्रः पृथिवीधरश्चेत्येते
त्रिपदाः स्वपदात् पार्श्वद्वये एतेषामन्यत्पदद्वयमिति। तथा च पराशरः—
‘तत्र बहिर्देवताः प्राक्पर्जन्यकरग्रहमहेन्द्रविसत्यभृशान्तरिक्षपवनाः। दक्षिणतः पूषा-
वितथबृहत्क्षतयमभृङ्गगन्धर्वमृगपितरश्चेति। पश्चमतो दौवारिकसुग्रीवपुष्पदन्तासुरवारुणयक्ष-
रोगशोषाश्चेति। उदङ्नागराजमुख्यभल्लाटसोमादितिकुबेरनागहुतवहाः। तन्मध्ये ब्रह्मा तत्पुरतो-
ऽर्यमा दक्षिणतो विवस्वान्मित्रः प्रत्युदक् पृथिवीधर इति ब्राह्मपदानुषङ्गिणोऽष्टावन्ये। आपा-
पवत्सावैशान्यां सावित्रसवितारावेवाग्नेय्यां जयेन्द्रौ नैर्ऋत्यां रुद्रवायू वायव्यामिति सर्वदेवताः
पञ्चचत्वारिंशदिति। तथान्यैः सहैतेषां पदानामसादृश्यम्’ इति। तथा च—
रुद्रा हुताशनश्चैव पिता चानल एव च।
एते कोणगता देवा एकाशीतिपदे स्थिताः॥
चतुःषष्टिपदेऽप्येवं पापयक्ष्मात्र न स्थितः।
एभ्योऽन्ये सदृशा ज्ञेयाः सुराः सर्वपदाश्रिताः॥ इति॥४९-५०॥
अथास्य वास्तुनरस्याङ्गप्रविभागमाह—
पूर्वोत्तरदिङ्मूर्धा पुरुषोऽयमवाङ्मुखोऽस्य शिरसि शिखी।
आपो मुखे स्तनेऽस्यार्यमा ह्युरस्यापवत्सश्च ॥५१॥
पर्जन्याऽद्या बाह्या दृक्श्रवणोरःस्थलांसगा देवाः।
सत्याद्याः पञ्च भुजे हस्ते सविता च सावित्रः ॥५२॥
वितथो बृहत्क्षतयुतः पार्श्वे जठरे स्थितो विवस्वांश्च।
ऊरू जानु च जङ्घे स्फिगिति यमाद्यैः परिगृहीताः ॥५३॥
एते दक्षिणपार्श्वे स्थानेष्वेवं च वामपार्श्वस्थाः।
मेढ्रे शक्रजयन्तौ हृदये ब्रह्मा पिताऽङ्घ्रिगतः ॥५४॥
यह वास्तु पुरुष ईशान कोण की ओर शिर करके अधोमुख होकर स्थित है। इसके
शिर में अग्नि, मुख में आप, स्तन में अर्यमा और छाती में आपवत्स स्थित हैं। बाह्य
कोष्ठस्थित पर्जन्य आदि देवता नेत्र, कान, छाती और कन्धे में स्थित हैं। जैसे—नेत्र में
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
३० बृहत्संहिता
पर्जन्य, कान में जयन्त, छाती में इन्द्र और कन्धे में सूर्य स्थित हैं। तथा भुजा में सत्य
आदि पाँच देवता ( सत्य, भृश, अन्तरिक्ष, अनिल और पूषा ), हाथ में वितथ और
बृहत्क्षत, पेट में विवस्वान्, ऊरु में यम, जानु में गन्धर्व, जंघा में भृङ्गराज और कुल्ले
में मृग स्थित है। ये सब देवता दक्षिण अङ्ग के हैं। इसी तरह वाम पार्श्व के सभी अङ्गों
में देवता हैं। जैसे कि वाम स्तन में पृथिवीधर, नेत्र में दिति, कान में अदिति, छाती में
भुजग, कन्धे में सोम, बाहु में भल्लाट, मुख्य, अहि, रोग और पापयक्ष्मा, हाथ में रुद्र
और राजयक्ष्मा, बगल में शोष और असुर, ऊरु में वरुण, जानु में कुसुमदन्त, जंघा में
सुग्रीव तथा कुल्ले में दौवारिक स्थित है। इसी तरह लिङ्ग में शक्र और जयन्त, हृदय में
ब्रह्मा और पाँव में पिता स्थित हैं। इस तरह इक्यासी पद में नगर, ग्राम, गृह आदि के
सम्बन्ध में वास्तु पुरुष के अङ्गों का विभाग करना चाहिये।।५१-५४।।
अयं पुरुषो वास्तुनरः पूर्वोत्तरदिङ्मूर्धा। पूर्वोत्तरा ऐशानी दिक् तस्यामस्य शिरः।
अवाङ्मुखोऽधोमुखः स्थितः। अस्य वास्तुनरस्य शिरसि मूर्धनि शिखी अग्निः स्थितः।
आपो मुखे वदने। स्तने अस्यार्यमा स्थितः। उरसि वक्षसि आपवत्सः।
पर्जन्याद्याः पर्जन्यप्रभृतयो बाह्या बाह्यकोष्ठस्था यथाक्रमं दृक्श्रवणोरःस्थलांसगा
देवाः स्थिताः। तद्यथा—पर्जन्यो दृशि चक्षुषि। जयन्तः श्रवणे कर्णे। इन्द्र उरःस्थले। सूर्योऽसे
स्कन्धे। सत्याद्याः पञ्चके सत्यभृशान्तरिक्षानिलपूषणः। एते भुजे बाहौ स्थिताः। हस्ते
पाणौ सविता तथा सावित्रश्च स्थितः।
वितथो बृहत्क्षतयुतः पार्श्वस्थितः। विवस्वानादित्यो जठरे उदरे। ऊर्वादयो यमाद्यैः
परिगृहीता अधिष्ठिताः। तद्यथा—ऊरुप्रदेशे यमः। जानुनि गन्धर्वः। जङ्घायां भृङ्गराजः।
स्फिजि मृगः।
एते यथोद्दिष्टा दक्षिणे पार्श्वे देवाः स्थिताः। एवमनेन प्रकारेणैतेषु स्थानेषु वामपार्श्वे
स्थिताः। तद्यथा—वामे स्तने पृथिवीधरः। दितिर्दृशि। अदितिः श्रवणे। भुजग उरःस्थले।
सोमोऽसे। भल्लाटमुख्यहिरोगपापयक्ष्माणो भुजे। रुद्रराजयक्ष्माणौ हस्ते। शोषासुरौ पार्श्वे।
ऊरुप्रदेशेऽम्बुपतिः। कुसुमदन्तो जानुनि। सुग्रीवो जङ्घायाम्। दौवारिकः स्फिजि। एवं वामपार्श्वे
स्थिताः। मेढ्रे लिङ्गे शक्रजयन्तौ स्थितौ। ब्रह्मा हृदये। पिता अङ्घ्रिगतः पादाश्रितः।
एवमेकाशीतिपदे नगरग्रामगृहवास्तुपुरुषे प्रविभागः।।५१-५४।।
अधुना चतुःषष्टिपदस्य वास्तुनरस्य प्रविभागप्रदर्शनार्थमाह—
अष्टाष्टकपदमथवा कृत्वा रेखाश्च कोणगास्तिर्यक्।
ब्रह्मा चतुष्पदोऽस्मिन्नर्धपदा ब्रह्मकोणस्थाः ।।५५।।
अष्टौ च बहिष्कोणेष्वर्धपदास्तदुभयस्थिताः सार्धाः।
उक्तेभ्यो ये शेषास्ते द्विपदा विंशतिस्ते हि ।।५६।।
अथवा चौंसठ पद का क्षेत्र बनाना चाहिये ( नव पूर्वापरा और नव दक्षिणोत्तरा
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
वास्तुविद्याध्यायः ३१
रेखा खींचकर चौंसठ पद का क्षेत्र बनाना चाहिये )। फिर इसके चारो कोनों में
कर्णाकार दो-दो रेखायें खींचने से यह क्षेत्र बन जाता है। इस क्षेत्र में चार पदों का
स्वामी ब्रह्मा और ब्रह्मा के चारो कोनों में आठ देवता ( आप, आपवत्स, सविता,
सवित्र, इन्द्र, जयन्त, राजयक्ष्मा और रुद्र ) और बाहर के चारो कोनों में आठ देवता
( शिखी, अन्तरिक्ष, अनिल अथवा अनल, मृग, पिता, पापयक्ष्मा, रोग और दिति )
अर्धपदीय हैं। इनके दोनों तरफ पर्जन्य, भृश, पूषा, भृङ्गराज, दौवारिक, शोष, नाग और
अदिति सार्धपदीय ( डेढ़ पद के स्वामी ) हैं तथा शेष बीस देवता ( जयन्त, इन्द्र,
सूर्य, सत्य, वितथ, बृहत्क्षत, यम, गन्धर्व, सुग्रीव, कुसुमदन्त, वरुण, असुर, मुख्य,
भल्लाट, सोम, भुजग, अर्यमा, विवस्वान्, मित्र और पृथ्वीधर—ये बीस देवता )
द्विपदीय हैं।
विशेष—यहाँ पर केवल चतुरस्र क्षेत्र में वास्तु नर का प्रदर्शन किया गया है;
किन्तु वृत्त, त्रिकोण, षट्कोण आदि आकृति वाले भी गृह, ग्राम, नगर आदि देखे जाते
हैं। अतः वृत्त, त्रिभुज आदि में किस प्रकार वास्तु नर का स्थापन करना चाहिये, इसको
ग्रन्थान्तरों में इस प्रकार कहा गया है—
वृत्त में इक्यासी पद वाले वास्तु नर का स्थापन-क्रम—इक्यासी पद वाले
वृत्तक्षेत्र में पाँच वृत्त बनाकर उनमें बाहर के दो वृत्तों में बत्तीस-बत्तीस पद, तीसरे में
बारह पद, चौथे में चार पद और पाँचवें में केवल एक पद बनाना चाहिये। यहाँ मध्य
के पाँच पद में ब्रह्मा, बाहर के दोनों वृत्तों में दो-दो पद वाले शिखी आदि बत्तीस देवता
और अर्यमा आदि चार देवता तीन-तीन पदों में लिखे जायेंगे। इस प्रकार वृत्तक्षेत्र में
इक्यासी पद के वास्तु नर का स्थापन हो जाता है।।५५-५६।।
त्रिभुज में इक्यासी पद वाले वास्तु नर का स्थापन-क्रम—इक्यासी पद
वाले त्रिभुजाकार वास्तु नर क्षेत्र में पाँच त्रिभुज बनाकर उसके प्रथम भाग में दोनों
कोनों को छोड़ कर पूर्व दिशा की भुजा का आठ भाग करे और अन्य दो भुजाओं के
बारह-बारह भाग करे। तीनों कोनों में दिति, वायु और वरुण का स्थापन करे। फिर
प्रथम भाग के शेष पदों में शिखी आदि देवताओं का स्थापन करे। इसी तरह द्वितीय
भाग में भी पूर्वोक्त शिखी आदि देवताओं का स्थापन करे तथा इस भाग के तीनों कोनों
पर भी प्रथम कोण-स्थित देवताओं का स्थापन करे और शेष पदों में वास्तुकोष्ठस्थित
शेष देवताओं का स्थापन करे। तृतीय भाग में तीनों दिशाओं में चार-चार पद बना कर
उनमें प्रदक्षिणक्रम से अर्यमा, सवित्र, सविता, विवस्वान्, इन्द्र, मित्र, जय, हर, राज-
यक्ष्मा, भूमिधर, आप और आपवत्स का स्थापन करे। चतुर्थ ( मध्य ) भाग के पाँच
पदों में ब्रह्मा का स्थापन करे। इस प्रकार त्रिभुज क्षेत्र में इक्यासी पद के वास्तु नर का
स्थापन हो जाता है।
वृत्त में चौंसठ पद वाले वास्तु नर का स्थापन-क्रम—चौंसठ पद वाले वृत्ताकार
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
३२ बृहत्संहिता
वास्तु नर क्षेत्र में समानान्तर चार वृत्त बनाकर प्रथम वृत्त के बत्तीस, द्वितीय के सोलह,
तृतीय के बारह और चतुर्थ के चार भाग बनाने के पश्चात् प्रथम वृत्त में शिखी आदि
बत्तीस देवता एकपदीय, द्वितीय वृत्त में अर्यमा आदि आठ देवता द्विपदीय, तृतीय वृत्त
में आप आदि चार देवता त्रिपदीय और चतुर्थ वृत्त में ब्रह्मा चतुष्पदीय स्थापन वना
चाहिये।।५५-५६।।
अथाष्टाष्टकपंदं चतुःषष्टिपदं क्षेत्रं कारयेत्। एतदुक्तं भवति—नव नव पूर्वोत्तरायता
रेखाः कृत्वा चतुःषष्टिपदानि भवन्ति। तत्र कोणगास्तिर्यक्चतस्रो रेखाः कृत्वा कोणचतुष्टये
तिर्यग्रेखाः कोष्ठत्रये मध्यगताः कार्या इति। अस्मिंश्चतुष्षष्टिपदे क्षेत्रे मध्ये ब्रह्मा चतुष्पदः।
ब्रह्मकोणस्था अष्टौ विबुधा अर्धपादाः। तद्यथा—आपः आपवत्सः सविता सावित्रो विबुधा-
धिपतिर्जयन्तो राजयक्ष्मा रुद्रश्चेति बहिष्कोणेषु बाह्यकोणेष्वष्टौ स्थिताः। शिख्यन्तरिक्षा-
निलपितृपापयक्ष्मरोगादित्य एते अर्धपदाः। तदित्यनेन शिख्यादीनां कोणगानां परामर्शः।
तेषामुभयपार्श्वगाः। तद्यथा—पर्जन्यभृशभृङ्गराजदौवारिकशोषनागाधिपतय एते सार्धपदिकाः।
उक्तेभ्यः कथितेभ्यो ये शेषाः परिशिष्टा विंशतिस्ते द्विपदाः। तद्यथा—जयन्तेन्द्रसूर्यसत्यवितथ-
बृहत्क्षतयमगन्धर्वकुसुमदन्ताम्बुपत्यसुरमुख्यभल्लाटसोमभुजगार्यमविवस्वन्मित्रपृथिवीधराः।
एते विंशतिर्द्विपदाः। एष चतुःषष्टिपदो वास्तुनरः। एतैः केचिद् बृहद्वास्तुनरमिच्छन्ति,
तदपि न कश्चिद्दोषः। अनेन प्रविभागेन कोणस्थं द्वारं ज्ञायते निःसन्दिग्धमिति। अत्राचार्येण
चतुरस्रे क्षेत्रे वास्तुनरः प्रदर्शितः, न वृत्तषडश्र्यष्टादशाश्रिषोडशाश्रीणां क्षेत्राणाम्। लोके च
गृहग्रामनगराणि दृश्यन्ते। तद्यथा अनेनैवाचार्येणोक्तम्—तत्र षडश्रिर्मेरुः। वृत्तं समुद्रनामा—
इत्यादि। तथा भरतमुनिना त्र्यस्रं वृत्तं गृहमुक्तम्। तस्मादन्यशास्त्रादानीय प्रसङ्गा-दस्माभिरिह
प्रदर्श्यते। तद्यथा—
एकाशीतिपदे क्षेत्रे कर्तव्यं वृत्तपञ्चकम्।
बाह्ये वृत्तद्वयं यत्तत्पदद्वात्रिंशता युतम्।।
तृतीयं द्वादशपदं चतुर्थं तु चतुष्पदम्।
केवलं पञ्चमं कार्यं ब्रह्मा पञ्चस्ववस्थितः।।
शिख्यादयस्तु द्विपदा बहिर्विष्कम्भसंस्थिताः।
अर्यमाद्याः सुराः सर्वे पदिकाः परिकीर्तिताः।।
इति वृत्तक्षेत्रे एकाशीतिपदे—
वृत्तानि चत्वारि समानि कृत्वा वास्तोश्चतुःषष्टिपदस्य सम्यक्।
अधस्तदर्धेन च सूर्यवेदैर्विभज्यते वृत्तचतुष्टयं च।।
शिख्यादयश्चैकपदे निविष्टाः पदद्वये चार्यमकादयश्च।
आपादयश्च त्रिपदाः प्रतिष्ठाश्चतुष्पदश्चात्र पितामहः स्यात्।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
वास्तुविद्याध्यायः ३३
चतुरस्रे एकाशीतिपदो वास्तुनरः
ई पू अनलः आ
| शिखी | पर्जन्यः | जयन्तः | इन्द्रः | सूर्यः | सत्यः | भृशः | अन्तरिक्षः | अनिलः |
|---|---|---|---|---|---|---|---|---|
| दितिः | आपः | जयन्तः | इन्द्रः | सूर्यः | सत्यः | भृशः | सावित्रः | पूषा |
| अदितिः | अदितिः | आपवत्सः | अर्यमा | अर्यमा | अर्यमा | सविता | वितथः | वितथः |
| भुजगः | भुजगः | पृथिवीधरः | ब्रह्मा | ब्रह्मा | ब्रह्मा | विवश्वान् | बृहक्षतः | बृहक्षतः |
| उ | सोमः | सोमः | पृथिवीधरः | ब्रह्मा | ब्रह्मा | ब्रह्मा | विवश्वान् | यमः |
| भल्लाटः | भल्लाटः | पृथिवीधरः | ब्रह्मा | ब्रह्मा | ब्रह्मा | विवश्वान् | गन्धर्वः | गन्धर्वः |
| मुख्यः | मुख्यः | राजयक्ष्मा | मित्रः | मित्रः | मित्रः | इन्द्रः | भृङ्गराज | भृङ्गराज |
| नागः | रुद्रः | शोषः | असुर | वरुणः | कुसुमदन्तः | सुग्रीवः | जयः | मृगः |
| रोगः | पापयक्ष्मा | शोषः | असुरः | वरुणः | कुसुमदन्तः | सुग्रीव | दौवारिकः | पिता |
| वा प नै | ||||||||
| बृ० सं० द्वि०-३ | ||||||||
| CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA |
३४ बृहत्संहिता
चतुरस्रे चतुःषष्टिपदो वास्तुनरः
ई -------------------------------- पू -------------------------------- आ
| शिखी / दितिः | पर्जन्यः | जयन्तः | इन्द्रः | सूर्यः | सत्यः | भृशः | अन्तरिक्षः / अनिलः |
| अदितिः | पर्जन्यः / अदितिः | जयन्तः | इन्द्रः | सूर्यः | सत्यः | भृशः / पूषा | पूषा |
| भुजगः | भुजगः | आपवत्सः / आपः | अर्यमा | अर्यमा | सविता / सावित्रः | वितथः | वितथः |
| सोमः | सोमः | पृथिवीधरः | ब्रह्मा | ब्रह्मा | विवश्वान् | बृहक्षतः | बृहक्षतः |
उ | भल्लाटः | भल्लाटः | पृथिवीधरः | ब्रह्मा | ब्रह्मा | विवश्वान् | यमः | यमः | द
| मुख्यः | मुख्यः | रुद्रः / राजयक्ष्मा | मित्रः | मित्रः | इन्द्रः / जयः | गन्धर्वः | गन्धर्वः |
| नागः | नागः / शोषः | असुरः | वरुणः | कुसुमदन्तः | सुग्रीवः | भृङ्गराजः / दौवारिकः | भृङ्गराजः |
| रोगः / पापयक्ष्मा | शोषः | असुरः | वरुणः | कुसुमदन्तः | सुग्रीवः | दौवारिकः | मृगः / पिता |
वा -------------------------------- प -------------------------------- नै
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
वास्तुविद्याध्यायः ३५
वृत्ते एकाशीतिपदो वास्तुनरः
[वृत्ताकार वास्तुमण्डल-चित्र]
दिशः (प्रधान अक्ष):
- पू (पूर्व - उपरि)
- द (दक्षिण - दक्षिणे)
- प (पश्चिम - अधः)
- उ (उत्तर - वामे)
केन्द्रम् (ब्रह्मस्थानम्):
- ब्रह्मा (मध्यचक्रे तथा परितः चतुर्दिक्षु ब्रह्मा)
अन्तर्मण्डल-देवताः (मध्यवलये):
- पूर्वतः—अर्यमा (त्रिषु भागेषु)
- दक्षिणतः—विवस्वान् (त्रिषु भागेषु)
- पश्चिमतः—मित्रः (त्रिषु भागेषु)
- उत्तरतः—पृथिवीधरः (त्रिषु भागेषु)
द्वात्रिंशत्-पद-देवताः (बाह्यवलये तथा मध्यवलये, पूर्वदिशः प्रदक्षिणाक्रमेण):
१. सूर्यः (बाह्ये: सूर्यः | मध्ये: सूर्यः)
२. सत्यः (बाह्ये: सत्यः | मध्ये: सत्यः)
३. भृशः (बाह्ये: भृशः | मध्ये: भृशः)
४. अन्तरिक्षः (बाह्ये: अन्तरिक्षः | मध्ये: अन्तरिक्षः)
५. अनिलः (आग्नेयकोणः) (बाह्ये: अनिलः | मध्ये: अनिलः)
६. पूषा (बाह्ये: पूषा | मध्ये: पूषा)
७. वितथः (बाह्ये: वितथः | मध्ये: वितथः)
८. बृहत्क्षतः (बाह्ये: बृहत्क्षतः | मध्ये: बृहत्क्षतः)
९. यमः (दक्षिण-दिक्) (बाह्ये: यमः | मध्ये: यमः)
१०. गन्धर्वः (बाह्ये: गन्धर्वः | मध्ये: गन्धर्वः)
११. भृङ्गराजः (बाह्ये: भृङ्गराजः | मध्ये: भृङ्गराजः)
१२. मृगः (बाह्ये: मृगः | मध्ये: जयः)
१३. पिता (नैर्ऋत्यकोणः) (बाह्ये: पिता | मध्ये: पिता)
१४. दौवारिकः (बाह्ये: दौवारिकः | मध्ये: दौवारिकः)
१५. सुग्रीवः (बाह्ये: सुग्रीवः | मध्ये: सुग्रीवः)
१६. कुसुमदन्तः (बाह्ये: कुसुमदन्तः | मध्ये: कुसुमदन्तः)
१७. वरुणः (पश्चिम-दिक्) (बाह्ये: वरुणः | मध्ये: वरुणः)
१८. असुरः (बाह्ये: असुरः | मध्ये: असुरः)
१९. शोषः (बाह्ये: शोषः | मध्ये: शोषः)
२०. पापयक्ष्मा (बाह्ये: पापयक्ष्मा | मध्ये: पापयक्ष्मा)
२१. रोगः (वायव्यकोणः) (बाह्ये: रोगः | मध्ये: रोगः)
२२. नागः (बाह्ये: नागः | मध्ये: नागः)
२३. मुख्यः (बाह्ये: मुख्यः | मध्ये: मुख्यः)
२४. भल्लाटः (बाह्ये: भल्लाटः | मध्ये: भल्लाटः)
२५. सोमः (उत्तर-दिक्) (बाह्ये: सोमः | मध्ये: सोमः)
२६. भुजगः (बाह्ये: भुजगः | मध्ये: भुजगः)
२७. अदितिः (बाह्ये: अदितिः | मध्ये: अदितिः)
२८. दितिः (बाह्ये: दितिः | मध्ये: दितिः)
२९. शिखी (ईशानकोणः) (बाह्ये: शिखी | मध्ये: शिखी)
३०. पर्जन्यः (बाह्ये: पर्जन्यः | मध्ये: पर्जन्यः)
३१. जयन्तः (बाह्ये: जयन्तः | मध्ये: जयन्तः)
३२. इन्द्रः (बाह्ये: इन्द्रः | मध्ये: इन्द्रः)
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
३६ बृहत्संहिता
वृत्ते चतुःषष्टिपदो वास्तुनरः
[दिशः - पूर्वादि दिग्भागः:]
पू (पूर्व) | द (दक्षिण) | प (पश्चिम) | उ (उत्तर)
[मध्यभागः - ब्रह्मस्थानम्:]
ब्रह्मा | ब्रह्मा | ब्रह्मा | ब्रह्मा
[अन्तर्मण्डलस्थाः देवाः (प्रथम-द्वितीय वलयौ):]
सावित्रः | जयन्तः | रुद्रः | मित्रः | आपः
सविता | विवस्वान् | इन्द्रः | वरुणः / कुसुमदन्तः | राजयक्ष्मा | पृथिवीधरः | आपवत्सः | अर्यमा
[बाह्यवलयस्थाः द्वात्रिंशत् (३२) बाह्यपददेवाः (प्रदक्षिणक्रमेण):]
शिखी, पर्जन्यः, जयन्तः, इन्द्रः, सूर्यः, सत्यः, भृशः, अन्तरिक्षः (पूर्व-आग्नेय)
अनिलः, पूषा, वितथः, बृहत्क्षतः, यमः, गन्धर्वः, भृङ्गराजः, मृगः (दक्षिण-नैर्ऋत्य)
पिता, दौवारिकः, सुग्रीवः, कुसुमदन्तः, वरुणः, असुरः, शोषः, पापयक्ष्मा (पश्चिम-वायव्य)
रोगः, नागः, मुख्यः, भल्लाटः, सोमः, भुजगः, अदितिः, दितिः (उत्तर-ईशान)
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
वास्तुविद्याध्यायः ३७
त्र्यस्रे एकाशीतिपदो वास्तुनरः
पू
दितिः | शिखी | पर्जन्यः | जयन्तः | इन्द्रः | सूर्यः | सत्यः | भृशः | अन्तरिक्षः | अनिलः
अदितिः | दितिः | शिखी | पर्जन्यः | जयन्तः | इन्द्रः | सूर्यः | सत्यः | भृशः | अन्तरिक्षः | अनिलः | पूषा
अदितिः | भुजगः | आपः | आपवत्सः | अर्यमा | सावित्रः | पूषा | वितथः
भुजगः | पृथिवीधरः | ब्रह्मा | सविता | वितथः | बृहत्क्षतः
सोमः | सोमः | पृथिवीधरः | ब्रह्मा | ब्रह्मा | ब्रह्मा | विवस्वान् | बृहत्क्षतः | यमः
भल्लाटः | भल्लाटः | राजयक्ष्मा | ब्रह्मा | इन्द्रः | विवस्वान् | यमः | गन्धर्वः
मुख्यः | मुख्यः | रुद्रः | ब्रह्मा | मित्रः | भृङ्गराजः | गन्धर्वः
उ | नागः | नागः | जयः | मित्रः | मृगः | भृङ्गराजः | द
रोगः | रोगः | पापयक्ष्मा | पिता | मृगः
पापयक्ष्मा | शोषः | दौवारिकः | पिता
शोषः | असुरः | सुग्रीवः | दौवारिकः
असुरः | वरुणः | कुसुमदन्तः | सुग्रीवः
वरुणः | कुसुमदन्तः
प
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
३८ बृहत्संहिता
इति वृत्तक्षेत्रे चतुःषष्टिपदे। एवमेव षडश्रिप्रभृतीनां विन्यासः कार्य। त्र्यस्रे क्षेत्रे च—
त्र्यस्राणि पञ्च क्षेत्राणि त्रिकोणे परिकल्पयेत्।
प्राची दिगष्टधा कार्या कोणवर्ज्या ततः परे।।
रविभागविभक्ते ते वास्तुद्वाराणि तानि तु।
दितिं वायुं जलपतिं कोणेषु त्रिषु विन्यसेत्।।
ततः शिख्यादिकान् सर्वान् शेषेषु विनिवेशयेत्।
द्वितीये पूर्ववद् भागाः षोडशद्विगुणास्ततः।।
तत्रापि कोणत्रितये पूर्वोक्तान् विबुधान् न्यसेत्।
शेषेषु वास्तुकोष्ठस्थान् सुरांश्च विनिवेशयेत्।।
क्षेत्रे तृतीये चत्वारि सर्वशाखासु कारयेत्।
प्राग्गतिर्यमसावित्रौ सविता च ततः परम्।।
विवस्वानिन्द्रमित्रा च जयश्चैव हरस्तथा।
राजयक्ष्मा भूमिधर आपो वत्सयुतः स च।।
चतुर्थे पञ्चभिर्भागैः कृत्वा तन्मध्यगस्तथा।
पितामहो विनिर्दिष्टस्त्र्यस्रक्षेत्रेऽप्ययं विधिः।। इति।
एवमेते सर्व एव स्वल्पधियां विन्यासेन द्वितीयपत्रे प्रदर्श्यन्ते।।५५-५६।।
अथात्र मर्मविभागप्रदर्शनार्थमाह—
सम्पाता वंशानां मध्यानि समानि यानि च पदानाम्।
मर्माणि तानि विन्द्यान्न तानि परिपीडयेत् प्राज्ञः ॥५७॥
पदों के ठीक-ठीक मध्य स्थान में वंशों (कोण से कोणगत सूत्रों) का परस्पर
जो सम्पात हो, उसको ‘मर्म स्थान’ कहते हैं। बुद्धिमान् पुरुषों को उन मर्मस्थानों को
पीड़ित नहीं करना चाहिये (यहाँ पर आचार्य ने वंश और रज्जु का विभाग-प्रदर्शन नहीं
किया है; अतः उनका ज्ञान भट्टोत्पलकृत विवृति में प्रदत्त विभाग-प्रदर्शक श्लोकों से
करना चाहिये)।।५७।।
वंशानां कोणात् कोणगतानां सूत्राणां ये सम्पाताः परस्परमेकीभावाः, तथा च वक्ष्यति—
रोगाद्वायुं पितृतो हुताशनं शोषसूत्रमपि वितथात्।
मुख्याद् भृशं जयन्ताच्च भृङ्गमदितेश्च सुग्रीवम्।। इति।
अत्राचार्येण वंशानां रज्जूनां च विभागो नोक्तः, समासेन रोगाद्वायुमिति सूत्रलक्षणं कृतम्।
तथा चास्मदीयवास्तुविद्यायाम्—
रोगाद्वायुं नयेत् सूत्रं पितृतोऽथ हुताशनम्।
एतत्सूत्रद्वयं प्रोक्तं मुनिभिर्वंशसंज्ञितम्।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
वास्तुविद्याध्यायः ३९
वितथाच्छोषकं चान्यद् भृशं मुख्यात्तथा नयेत्।
जयन्ताद् भृङ्गराजाख्यं सुग्रीवमदितेस्तथा।।
एतच्चतुष्टयं प्रोक्तं रज्जुसंज्ञं मनीषिभिः।
एवं वंशानां ये सम्पाताः पूर्वापराभिः सह तथा पदानां सर्वेषां यानि च समानि मध्यानि
तानि च सर्वाणि मर्माणि विन्द्याज्जानीयात्। प्राज्ञो मेधावी तानि च न परिपीडयेत् तेषां
च पीडनैरन्योन्यं दोषो भवति।।५७।।
तथाह—
तान्यशुचिभाण्डकीलस्तम्भाद्यैः पीडितानि शल्यैश्च।
गृहभर्तुस्तत्तुल्ये पीडामङ्गे प्रयच्छन्ति ।।५८।।
ये मर्मस्थान अपवित्र भाण्ड आदि वस्तु, कील, खम्भा आदि ( पाषाण आदि )
और शस्त्रों से पीड़ित हों तो तत्तुल्य अङ्ग में गृहस्वामी को भी पीड़ा होती है, अर्थात्
पीडित मर्मस्थान वास्तु नर के जिस अङ्ग मअवस्थित हो, तत्तुल्य अङ्ग में ही गृहस्वामी
को भी पीड़ा होती है।।५८।।
तानि मर्मांण्यशुचिभाण्डैरशुद्धैरूपकरणवस्तुभिस्तथा कीलकैः शङ्कुभिः स्तम्भैश्च,
आदिग्रहणादन्यैरपि गुरुभिः पाषाणादिभिः शल्यैर्वा परिपीडितानि भवन्ति, तदा तत्तुल्येऽङ्गे
तस्मिन्नेवावयवे गृहभर्तुर्वेश्मस्वामिनः पीडां प्रयच्छन्ति।।५८।।
अधुना शल्यज्ञानमाह—
कण्डूयते यदङ्गं गृहभर्तुर्यत्र वाऽमराहुत्याम्।
अशुभं भवेन्निमित्तं विकृतेर्वाग्नेः सशल्यं तत् ॥५९॥
हवनकाल या प्रश्नकाल में गृह का स्वामी अपने जिस अङ्ग को खुजलावे, वास्तु
नर के उसी अङ्गस्थान में शल्य कहना चाहिये। अथवा जिस देवता की आहुति देने के
समय अशुभ निमित्त ( छींक, रोना, चिल्लाना, अपान वायु-त्याग या अशुभ शब्द श्रवण )
हो या अग्नि में विकार ( विस्फुलिङ्ग, शब्द के साथ दुर्गन्ध ) उत्पन्न हो तो उस देवता
के स्थान में शल्य कहना चाहिये।।५९।।
गृहभर्तुर्गृहस्वामिनो होमकाले पृच्छायां वा यदङ्गं कण्डूयते, तदेवाङ्गं वास्तुनरस्य
सशल्यम्। वाऽमराहुत्यामशुभं भवेन्निमित्तम्, अमरा देवाः शिख्यादयस्तेषां होमकाले याऽऽ-
हुतिस्तस्यां यद्यशुभं निमित्तं भवेत् क्षुतनिष्ठिवनरोदनाक्रोशनवातोत्सर्गानिष्टशब्दश्रवण-
मग्नेर्विकृतिर्विकारो वा विस्फुलिङ्गसशब्ददुर्गन्धादि तत्स्थानममराधिष्ठितं सशल्यं शल्य-
संयुतम्।।५९।।
अथ शल्यानां प्रविभागेण फलान्याह—
धनहानिर्दारुमये पशुपीड़ा रुग्भयानि चास्थिकृते ।
( लोहमये शस्त्रभयं कपालकेशेषु मृत्युः स्यात् ॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
४० बृहत्संहिता
अङ्गारे स्तेनभयं भस्मनि च विनिर्दिशेत्सदाऽग्निभयम् ।
शल्यं हि मर्मसंस्थं सुवर्णरजतादृतेऽत्यशुभम् ॥
मर्मण्यमर्मगो वा निरुणद्ध्यर्थागमं तुषसमूहः । )
अपि नागदन्तको मर्मसंस्थितो दोषकृद् भवति ॥६०॥
उपर्युक्त शल्य यदि काष्ठ का हो तो धनहानि, हड्डी का हो तो पशुओं को पीड़ा और
रोगभय, लोहे का हो तो शस्त्र का भय, कपाल या केश का हो तो मृत्यु, कोयले का हो
तो चोरभय एवं भस्म का हो तो सदा अग्निभय होता है। साथ ही सोना और चाँदी के
अतिरिक्त किसी भी प्रकार का शल्य वास्तु पुरुष के मर्मस्थान में स्थित हो तो अत्यन्त
अशुभ होता है। यदि धान्यों की भूसी मर्मस्थान या किसी अन्य स्थान में स्थित हो तो
वहं धन के आगमन को अवरुद्ध करता है। इसी प्रकार नागदन्त यदि मर्मस्थान में अवस्थित
हो तो दोष उत्पन्न करने वाला होता है; परन्तु वही नागदन्त यदि मर्मस्थान से अतिरिक्त
स्थान में अवस्थित हो तो शुभ होता है॥६०॥
दारुमये काष्ठमये शल्ये धनहानिर्वित्तनाशो भवति। अस्थिकृते शल्ये पशूनां च पीडा
व्यथा रुग्भयानि च भवन्ति। अपिशब्दः सम्भावनायां वर्तते। नागदन्तको हस्तिदन्तः शुभोऽपि
मर्मसंस्थितो दोषकृदनिष्टदो भवति॥६०॥
अथ वंशरज्जुलक्षणं महामर्माणि च प्रदर्शयितुमाह—
रोगाद्वायुं पितृतो हुताशनं शोषसूत्रमपि वितथात् ।
मुख्याद् भृशं जयन्ताच्च भृङ्गमदितेश्च सुग्रीवम् ॥६१॥
तत्सम्पाता नव ये तान्यतिमर्माणि सम्प्रदिष्टानि ।
यश्च पदस्याष्टांशस्तत् प्रोक्तं मर्मपरिमाणम् ॥६२॥
रोग से वायु तक, पिता से शिखी तक, वितथ से शोष तक, मुख्य से भृश तक,
जयन्त से भृङ्ग तक और अदिति से सुग्रीव तक सूत्र बाँधने पर इन सूत्रों के परस्पर नव
सम्पात स्थान वास्तुपुरुष के अतिमर्म स्थान होते हैं। साथ ही एक पद में अष्टमांशतुल्य
मर्मस्थान का परिमाण होता है॥६१-६२॥
रोगादारभ्य वायुमनिलं यावत्सूत्रं तिर्यक् सन्दध्यात्। एवं पितृतो हुताशनं शिखिनं
यावत्। वितथात् सूत्रं शोषं यावन्नयेत्। मुख्याद् भृशं यावज्जयन्ताच्च भृङ्गं यावत्। अदितेश्च
सुग्रीवं यावत्। सम्पाता इति। तदिति सूत्राणां परामर्शः। तेषां सूत्राणां ये परस्परं नव
सम्पातास्तान्यतिमर्माणि महामर्माणि सम्प्रदिष्टान्युक्तानि। पदस्य यश्चाष्टांशोऽष्टमभागस्तन्मर्म-
परिमाणं प्राक्कथितम्। एतदुक्तं भवति—क्षेत्रमेकाशीतिपदं विभक्तं कृत्वा यावत्प्रमाणं
पदमुत्पद्यते तस्याष्टांशं मर्मपरिमाणमिति॥६१-६२॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
वास्तुविद्याध्यायः ४१
अथ वंशस्य च शिरायाश्च परिमाणज्ञानमाह—
पदहस्तसंख्यया सम्मितानि वंशोऽङ्गुलानि विस्तीर्णः।
वंशव्यासोऽध्यर्धः शिराप्रमाणं विनिर्दिष्टम् ॥६३॥
पूर्वकथित ६ सूत्रों की 'वंश' संज्ञा है तथा वास्तु विभाग के लिये जो पूर्वापरा एवं
दक्षिणोत्तरा दश-दश रेखायें की गई हैं, उनकी 'शिरा' संज्ञा होती है। वास्तु में एक पाद
का विस्तार जितने हाथ का हो, उतने ही अङ्गुल एक वंश का विस्तार और विस्तार से
ड्योढ़ा शिरा का विस्तार होता है॥६३॥
पदहस्तस्य संख्यया पदं यावत् ते हस्तो विस्तृतं भवति, तत्सम्मितानि तत्संख्याङ्गुलानि
वंशो विस्तीर्णो भवति। रोगाद्वायुमित्यादिकं सूत्रषट्कं वंशशब्देनोच्यते। एवं वंशव्यासो
वंशविस्तारोऽध्यर्धो दिवं प्रगुणितः शिराप्रमाणं विनिर्दिष्टं कथितम्। शिराशब्देन पूर्वापरायता
दक्षिणोत्तरायताश्च दश दश रेखा ज्ञेयाः। तथा ताश्च शास्त्रान्तरे पठ्यन्ते—
शान्ता यशोवती कान्ता विशाला प्राणवाहिनी।
सती च सुमना नन्दा सुभद्रा सुरथा तथा॥
पूर्वापरा गता होता उदग्याम्याश्रिताः शृणु।
हिरण्या सुव्रता लक्ष्मीर्विभूतिर्विमला प्रिया॥
जया काला विशोका च तथेन्द्रा दशमी स्मृता।
धन्या धरा विशाला च स्थिरा रूपा गदा निशा।
विभवा प्रभवा चान्याः सौम्ययाम्याश्रिताः शिराः।। इति।।६३।।
अत्रैव परिभाषार्थमाह—
सुखमिच्छन् ब्रह्माणं यत्नाद्रक्षेद् गृही गृहान्तःस्थम्।
उच्छिष्टाद्युपघाताद् गृहपतिरुपतप्यते तस्मिन् ॥६४॥
सुख की कामना करने वाले गृहस्वामी को चाहिये कि घर के मध्य में स्थित ब्रह्मा
जी की यत्नपूर्वक रक्षा करे। उनके ऊपर उच्छिष्ट (जूठन) आदि (अपवित्र वस्तु) को
रखने से गृहस्वामी को पीड़ा होती है॥६४॥
गृही गृहपतिः सुखमिच्छन् सुखमभिलषन् गृहान्तःस्थं गृहमध्यगतं ब्रह्माणं पितामहं
यत्नात् सर्वप्रयत्नेन रक्षेत् पालयेत्। यतस्तस्य ब्रह्मण उच्छिष्टाद्युपघातात्। उच्छिष्टमशुचि।
आदिग्रहणादमेध्याद्युपस्करणं भाण्डः। एतेषां तत्र स्थापनादुपघातो भवति, तस्मात् तस्मिन्
गृहे गृहपतिर्वेश्मस्वामी उपतप्यते उपतापं प्राप्नोति॥६४॥
अथ विकले वास्तुनि दोषप्रदर्शनार्थमाह—
दक्षिणभुजेन हीने वास्तुनरेऽर्थक्षयोऽङ्गनादोषाः।
वामेऽर्थधान्यहानिः शिरसि गुणैर्हीयते सर्वैः ॥६५॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
४२ बृहत्संहिता
स्त्रीदोषाः सुतमरणं प्रेष्यत्वं चापि चरणवैकल्ये।
अविकलपुरुषे वसतां मानार्थयुतानि सौख्यानि ॥६६॥
यदि वास्तु पुरुष की दक्षिण भुजा हीन हो तो गृहस्वामी को धननाश और स्त्रीकृत
दोष होता है। इसी प्रकार यदि वाम भुजा हीन हो तो गृहस्वामी के धन-धान्यों का नाश,
शिर हीन हो तो धन, आरोग्य आदि सब गुणों का नाश तथा चरण हीन हो तो स्त्रीदोष,
पुत्र की मृत्यु और दासत्व की प्राप्ति होती है। यदि वास्तु पुरुष के सभी अङ्ग पूर्ण हों तो
उस स्थान में निवास करने वाले मनुष्य को मान और धन से समन्वित सुख की प्राप्ति
होती है॥६५-६६॥
वास्तुनरे वास्तुपुरुषे दक्षिणेन सव्येन भुजेन बाहुना हीने रहितेऽर्थक्षयो वित्तनाशः,
अङ्गनादोषाः स्त्रीकृता दोषा भवन्ति। वामेऽपसव्ये भुजे हीने वास्तुनरे अर्थानां धनानां धान्यानां
च हानिर्विनाशो भवति। शिरसि मूर्धनि हीने वास्तुनरे सर्वैर्निःशेषैर्गुणैरारोग्यादिभिर्हीयते
रहितो भवति।
चरणवैकल्ये पादभागहीने वास्तुनरे स्त्रीदोषा योषित्प्रभवा दोषाः सुतमरणं पुत्रविपत्तिः
प्रेष्यत्वं दासत्वं चापि भवति। अविकलपुरुषे परिपूर्णावयवे वास्तुनरे वसतां पुंसां मानार्थयुतानि
सौख्यानि भवन्ति॥६५-६६॥
न केवलं वास्तुनरस्यायं प्रविभागो यावन्नगरग्रामेष्वप्येवमेवेत्याह—
गृहनगरग्रामेषु च सर्वत्रैवं प्रतिष्ठिता देवाः।
तेषु च यथानुरूपं वर्णा विप्रादयो वास्याः ॥६७॥
इसी प्रकार से गृह, नगर और ग्रामों में सभी देवगण विराजमान रहते हैं। उन नगर
और ग्रामों में ब्राह्मण आदि वर्णों को भी यथाक्रम निवास करना चाहिये॥६७॥
एवमनेनैव प्रकारेण गृहे वेश्मनि नगरे पुरे ग्रामे चैतेष्वपि सर्वत्र सर्वस्मिन् देशे देवाः
सुराः प्रतिष्ठिताः परिकल्पिताः। एतदुक्तं भवति—यथा गृहे वास्तुनरस्य परिकल्पना कृता
तथैव नगरे ग्रामे च कार्या। तत्रापि च यानि मर्माणि तानि प्राग्वच्चिन्तनीयानि। तेषु नगर-
ग्रामेषु विप्रादयो ब्राह्मणाद्या वर्णा ब्राह्मणक्षत्रियवैश्यशूद्रा यथाक्रमं वास्या विवासनीयाः।
यत्र दिग्भागे यस्योचितं तत्र वासयेदित्यर्थः॥६७॥
कथमिति तत्प्रतिपादयन्नाह—
वासगृहाणि च विन्द्याद्विप्रादीनामुदग्दिगाद्यानि ।
विशतां च यथा भवनं भवन्ति तान्येव दक्षिणतः ॥६८॥
ब्राह्मण आदि वर्ण को क्रम से उत्तर आदि दिशा में वासगृह बनाना चाहिये। जैसे
ब्राह्मण को उत्तर में, क्षत्रिय को पूर्व में, वैश्य को दक्षिण में और शूद्र को पश्चिम में अपना
निवासस्थान बनाना चाहिये। गृह इस प्रकार बनाना चाहिये, जिससे कि आङ्गन में प्रवेश
करते समय वे गृह दक्षिण की ओर पड़ें। जैसे पूर्वमुख वाले गृह के आङ्गन का द्वार उत्तर
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA