सामग्री पर जाएँ
सर्वकोश
बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 2 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished760 पृष्ठ

पृष्ठ 66, कुल 760 में से

संदर्भ में पढ़ें
पृष्ठ 66

३८ बृहत्संहिता
इति वृत्तक्षेत्रे चतुःषष्टिपदे। एवमेव षडश्रिप्रभृतीनां विन्यासः कार्य। त्र्यस्रे क्षेत्रे च—
त्र्यस्राणि पञ्च क्षेत्राणि त्रिकोणे परिकल्पयेत्।
प्राची दिगष्टधा कार्या कोणवर्ज्या ततः परे।।
रविभागविभक्ते ते वास्तुद्वाराणि तानि तु।
दितिं वायुं जलपतिं कोणेषु त्रिषु विन्यसेत्।।
ततः शिख्यादिकान् सर्वान् शेषेषु विनिवेशयेत्।
द्वितीये पूर्ववद् भागाः षोडशद्विगुणास्ततः।।
तत्रापि कोणत्रितये पूर्वोक्तान् विबुधान् न्यसेत्।
शेषेषु वास्तुकोष्ठस्थान् सुरांश्च विनिवेशयेत्।।
क्षेत्रे तृतीये चत्वारि सर्वशाखासु कारयेत्।
प्राग्गतिर्यमसावित्रौ सविता च ततः परम्।।
विवस्वानिन्द्रमित्रा च जयश्चैव हरस्तथा।
राजयक्ष्मा भूमिधर आपो वत्सयुतः स च।।
चतुर्थे पञ्चभिर्भागैः कृत्वा तन्मध्यगस्तथा।
पितामहो विनिर्दिष्टस्त्र्यस्रक्षेत्रेऽप्ययं विधिः।। इति।
एवमेते सर्व एव स्वल्पधियां विन्यासेन द्वितीयपत्रे प्रदर्श्यन्ते।।५५-५६।।
अथात्र मर्मविभागप्रदर्शनार्थमाह—
सम्पाता वंशानां मध्यानि समानि यानि च पदानाम्।
मर्माणि तानि विन्द्यान्न तानि परिपीडयेत् प्राज्ञः ॥५७॥
पदों के ठीक-ठीक मध्य स्थान में वंशों (कोण से कोणगत सूत्रों) का परस्पर
जो सम्पात हो, उसको ‘मर्म स्थान’ कहते हैं। बुद्धिमान् पुरुषों को उन मर्मस्थानों को
पीड़ित नहीं करना चाहिये (यहाँ पर आचार्य ने वंश और रज्जु का विभाग-प्रदर्शन नहीं
किया है; अतः उनका ज्ञान भट्टोत्पलकृत विवृति में प्रदत्त विभाग-प्रदर्शक श्लोकों से
करना चाहिये)।।५७।।
वंशानां कोणात् कोणगतानां सूत्राणां ये सम्पाताः परस्परमेकीभावाः, तथा च वक्ष्यति—
रोगाद्वायुं पितृतो हुताशनं शोषसूत्रमपि वितथात्।
मुख्याद् भृशं जयन्ताच्च भृङ्गमदितेश्च सुग्रीवम्।। इति।
अत्राचार्येण वंशानां रज्जूनां च विभागो नोक्तः, समासेन रोगाद्वायुमिति सूत्रलक्षणं कृतम्।
तथा चास्मदीयवास्तुविद्यायाम्—
रोगाद्वायुं नयेत् सूत्रं पितृतोऽथ हुताशनम्।
एतत्सूत्रद्वयं प्रोक्तं मुनिभिर्वंशसंज्ञितम्।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA