बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 2 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
वास्तुविद्याध्यायः ७
यथा नृपस्य प्रथमगृहमुष्टाधिकं हस्तशतं विस्तारादुक्तम्, तथाष्टाधिकं हस्तशतमेवोच्छ्रितं
कार्यमिति। एकशालगृहेषु च विस्ताराद् द्विगुणं दैर्घ्यं कार्यमिति। तथा च काश्यपः—
चतुःशालगृहेष्वेवमुच्छ्रायो व्याससम्मितः।
विस्तारं द्विगुणं दैर्घ्यमेकशालयुतस्य च।। इति।। ११।।
अथ ब्राह्मणादिवर्णचतुष्टयस्य गृहप्रमाणमाह—
चातुर्वर्ण्यव्यासो द्वात्रिंशत् सा चतुश्चतुर्हीना।
आषोडशादिति परं न्यूनतरमतीव हीनानाम् ।। १२।।
सदशांशं विप्राणां क्षत्रस्याष्टांशसंयुतं दैर्घ्यम्।
षड्भागयुतं वैश्यस्य भवति शूद्रस्य पादयुतम् ।।१३।।
ब्राह्मण आदि चारो वर्णों के गृहों का विस्तार क्रम से ३२ हाथ में चार-चार हाथ
कम करके १६ हाथ पर्यन्त बनाना चाहिये। जैसे—३२, २८, २४, २० या १६ हाथ
ब्राह्मणों के गृह का; २८, २४, २० या १६ हाथ क्षत्रियों के गृह का; २४, २० या
१६ हाथ वैश्यों के गृह का तथा २० या १६ हाथ शूद्रों के गृह का विस्तार बनाना
चाहिये। इससे कम विस्तार का गृह नीच जातियों के लिये बनाना चाहिये। ब्राह्मणों के
गृह का दैर्घ्य विस्तार से दशमांश अधिक, क्षत्रियों का अष्टमांश, वैश्यों का षष्ठांश और
शूद्रों के गृह का दैर्घ्य विस्तार से चतुर्थांश अधिक होना चाहिये ।।१२-१३।।
चातुर्वर्ण्य इति। चतुर्वर्णानां भावश्चातुर्वर्ण्यम्। चत्वारो वर्णाः—ब्राह्मणक्षत्रिय-
वैश्यशूद्राः। तस्मिंश्चातुर्वर्ण्ये ब्राह्मणादिके व्यासो विस्तार द्वात्रिंशत्, सा चतुश्चतुर्हीना।
आषोडशादिति, षोडशं यावदिति। द्वात्रिंशच्चतुश्चतुर्भिर्हीना तावत् कार्या यावत् षोडशेति।
एतदुक्तं भवति—ब्राह्मणस्य प्रथमगृहव्यासो द्वात्रिंशद्धस्ताः, अन्यानि चत्वारि चतुर्भि-
श्चतुर्भिर्हीनानि। क्षत्रियस्य प्रथमगृहव्यासो हस्ता अष्टाविंशतिः, अन्यानि त्रीणि चतुर्भि-
श्चतुर्भिर्हीनानि। वैश्यस्य प्रथमगृहं चतुर्विंशतिः, अन्ये द्वे चतुर्भिंश्चतुर्भिर्हीने। शूद्रस्य प्रधानं
गृहं विंशतिर्हस्ताः, अपरं षोडशेति। एवं ब्राह्मणस्य पञ्च गृहाणि, क्षत्रियस्य चत्वारि,
वैश्यस्य त्रीणि, शूद्रस्य द्वे। अतः परं निकृष्टं न्यूनतरमल्पतरमतीव हीनानां चाण्डालश्वपाका-
दीनां कार्यमिति।
विप्राणां ब्राह्मणानां व्यासो यद्विस्तारमानमुक्तं तदेव सदशांशं स्वदशभागयुतं दैर्घ्यं
कार्यम्, पञ्चस्वपि गृहेषु। एवं क्षत्रियस्याष्टांशयुतमष्टभागाधिकम्। वैश्यस्य स्वषड्भागयुतम्।
शूद्रस्य पादयुतं चतुर्भागाधिकमित्यर्थः। तथा च किरणाख्ये तन्त्रे—
हस्तद्वात्रिंशता युक्तो विस्तारः स्याद् द्विजालये।
विस्तारं सदशांशं तु दैर्घ्यं तस्य प्रकल्पयेत् ।।
त्रयाणां क्षत्रियादीनां मानं यत्पूर्वचोदितम्।
तच्चतुर्भिः करैस्तार्क्ष्य ह्रासयेदनुपूर्वशः।।
एषामष्टांशषड्भागपाददैर्घ्यं क्रमाद् भवेत् ।। इति ।। १२-१३ ।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
८ बृहत्संहिता
अथ कोशरतिभवनयोः प्रमाणं राजपुरुषाणां च गृहप्रमाणान्याह—
नृपसेनापतिगृहयोरन्तरमानेन कोशरतिभवने ।
सेनापतिचातुर्वर्ण्यविवरतो राजपुरुषाणाम् ॥१४॥
राजा और सेनापति के गृह के अन्तरतुल्य कोश ( खजाना ) का घर और रतिभवन
( क्रीडागृह ) बनाना चाहिये तथा सेनापति और चारो वर्णों के गृह के अन्तरतुल्य
राजपुरुषों का घर बनाना चाहिये । जैसे कि सेनापति और ब्राह्मण के गृह के अन्तरतुल्य
ब्राह्मण राजपुरुषों का, सेनापति और क्षत्रिय के गृह के अन्तरतुल्य क्षत्रिय राजपुरुषों का,
सेनापति और वैश्य के गृह के अन्तरतुल्य वैश्य राजपुरुषों का तथा सेनापति और शूद्र
के गृह के अन्तरतुल्य शूद्र राजपुरुषों का घर बनाना चाहिये ॥१४॥
स्फुटार्थ चक्रम्
| ज्ञातयः | हस्त | अङ्गुल | हस्त | अङ्गुल | हस्त | अङ्गुल | हस्त | अङ्गुल | हस्त | अङ्गुल | प्रमाणम् |
|---|---|---|---|---|---|---|---|---|---|---|---|
| ब्राह्मणस्य | ३२ | ० | २८ | ० | २४ | ० | २० | ० | १६ | ० | विस्तारः |
| ३५ | ५ | ३० | १९ | २६ | १० | २२ | ० | १७ | १४ | दैर्घ्यम् | |
| क्षत्रियस्य | २८ | ० | २४ | ० | २० | ० | १६ | ० | × | × | विस्तारः |
| ३१ | १२ | २७ | ० | २२ | १२ | १८ | ० | × | × | दैर्घ्यम् | |
| वैश्यस्य | २४ | ० | २० | ० | १६ | ० | × | × | × | × | विस्तारः |
| २८ | ० | २३ | ८ | १८ | १६ | × | × | × | × | दैर्घ्यम् | |
| शूद्रस्य | २० | ० | १६ | ० | × | × | × | × | × | × | विस्तारः |
| २५ | ० | २० | ० | × | × | × | × | × | × | दैर्घ्यम् | |
| कोशरति- | ४४ | ० | ४२ | ० | ४० | ० | ३८ | ० | ३६ | ० | विस्तारः |
| भवनस्य | ६० | ८ | ५७ | ८ | ५४ | ८ | ५१ | ८ | ४८ | ८ | दैर्घ्यम् |
| राजपुरुषा- | ३२ | ० | ३० | ० | २८ | ० | २६ | ० | २४ | ० | विस्तारः |
| णाम | ३९ | ११ | ३६ | २१ | ३४ | ६ | ३१ | १६ | २९ | २ | दैर्घ्यम् |
| नृपस्य गृहमानस्य प्रागुक्तस्य सेनापतिगृहमानेन प्रागुक्तेनैव सह यदन्तरं तेन मानेन | |||||||||||
| कोशभवनं च कार्यम्। कोशभवनं गञ्जः, रतिभवनं क्रीडागृहम्, अनयोस्तुल्यं प्रमाणम्। | |||||||||||
| सेनापतेश्चातुर्वर्ण्यस्य च यद्विवरमन्तरं तेन मानेन राजपुरुषाणां कार्यम्। अत्र यदा ब्राह्मणो | |||||||||||
| राजपुरुषो भवति, तदा ब्राह्मणवास्तुमानं सेनापतिवास्तुमानादपास्य यदवशिष्यते तेन | |||||||||||
| मानेन गृहपञ्चकं कार्यम्। एवं क्षत्रियादीनां विज्ञेयम्, किन्तु सेनापतिगृहस्य द्वितीयस्य | |||||||||||
| क्षत्रियवास्तुमानेन सहान्तरं कृत्वा शेषं क्षत्रियराजपुरुषस्य प्रधानगृहम्। एवं तृतीयस्य | |||||||||||
| द्वितीयेन, चतुर्थस्य तृतीयेन, पञ्चमस्य चतुर्थेनेति। एवं तृतीयेन सेनापतिगृहेण सहान्तरं | |||||||||||
| वैश्यस्य प्रधानगृहम्, चतुर्थेन शूद्रस्येति॥१४॥ | |||||||||||
| CC-0. JK Sanskrit Academy, Jammmmu. Digitized by S3 Foundation USA |
वास्तुविद्याध्यायः ९
अथ पारशवादीनां वास्तुप्रमाणं हीनाधिकस्य वास्तुनश्चाशुभत्वमाह—
अथ पारशवादीनां स्वमानसंयोगदलसमं भवनम् ।
हीनाधिकं स्वमानादशुभकरं वास्तु सर्वेषाम् ॥१५॥
पारशव ( ब्राह्मण के वीर्य और शूद्रा के रज से उत्पन्न ), आदि ( भूर्जकण्टक = ब्राह्मण
के वीर्य और वेश्या के रज से उत्पन्न ), मूर्धावसिक्त ( ब्राह्मण के वीर्य और क्षत्रिया के
रज से उत्पन्न ) को माता और पिता के वर्णजनित पूर्वोक्त मान के योगार्ध समान विस्तार
दैर्घ्य लेकर गृह बनाना चाहिये। कथित मान से न्यूनाधिक मान वाला गृह सबके लिये
अशुभ होता है ॥१५॥
अथानन्तरं ये ब्राह्मणेन शूद्रायां जाताः पारशवाः। एवं वैश्यायां जातो भूर्जकण्टकः।
क्षत्रियायां जातो मूर्धावसिक्तः । एतेषां पारशवादीनां स्वमानसंयोगदलसमं भवनं कार्यम्।
स्वमानस्यात्मीयमानस्य द्वयोरेव मातापित्रोः संयोगादैक्यं कृत्वा तस्य दलमर्धं तत्तुल्यं
पारशवादेर्भवनं गृहं कार्यम्। एतदुक्तं भवति—ब्राह्मणस्य यन्मानं यच्च शूद्रस्य तयोरैक्यं
कृत्वा अर्धीकार्यम् । तन्मानं पारशवगृहस्य । वैश्यायाः क्षत्रियायाः पुत्राणामेवमपि। सर्वेषां
नृपादीनां पारशवान्तानां स्वमानादात्मीयमानाद्धीनमधिकं वास्तु न शुभकरमिति ॥१५॥
अथ पश्चाश्रमिणां धान्यायुधवह्निरतिगृहाणां च परमतेनोच्छ्रायप्रमाणं चाह—
पश्चाश्रमिणाममितं धान्यायुधवह्निरतिगृहाणां च ।
नेच्छन्ति शास्त्रकारा हस्तशतादुच्छ्रितं परतः ॥१६॥
पशु, आश्रमी ( संन्यासी ) के गृह, धान्यगृह, आयुधगृह, अग्निगृह और क्रीड़ागृह
को अमित ( परिमाणरहित ) बनाना चाहिये अर्थात् जैसी इच्छा हो, वैसा निर्मित करना
चाहिये। सौ हाथ से अधिक ऊँचा गृह बनाने की इच्छा वास्तुशास्त्रकार नहीं करते
अर्थात् सौ हाथ से अधिक ऊँचा गृह बनाना अशुभ होता है ॥१६॥
पशूनां चतुष्पदानाम्। आश्रमिणां च प्रव्राजकानाममितमपरिमितं यथेष्टप्रमाणं गृहस्य।
तथा धान्यगृहस्य धान्यानि यत्र स्थाप्यन्ते, आयुधगृहस्यायुधानि यत्र स्थाप्यन्ते, वह्निगृहस्य
चाग्निशालायाः, रतिगृहस्य च क्रीडावेश्मनः। एषाममितमपरिमितं प्रमाणम्। शास्त्रकारा
वास्तुज्ञानविदो हस्तशतात् परत उच्छ्रितं नेच्छन्ति। हस्तशतादूर्ध्वमुच्छ्रितं गृहं न कार्यम्।
‘वास्तुनि यो विस्तारः स एव चोच्छ्रायनिश्चयः शुभदः' इत्यस्यायमपवादः। तथा च गर्गः—
शतहस्तोच्छ्रितं कार्यं चतुःशालगृहं बुधैः।
अपि तच्चैकशालं तु शुभदं तत्प्रकीर्तितम्॥ इति ॥१६॥
अथ सेनापतिनृपद्वारेण सर्ववास्तूनां शालाऽलिन्दयोः प्रमाणमाह—
सेनापतिनृपतीनां सप्ततिसहिते द्विधाकृते व्यासे ।
शाला चतुर्दशहृते पञ्चत्रिंशद्धृतेऽलिन्दः ॥१७॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
१० बृहत्संहिता
सेनापति और राजा के गृह के व्यासमान के योग में सत्तर मिला कर दो जगह रख
कर एक जगह चौदह का भाग देने से शाला ( गृहाभ्यन्तर भाग ) और दूसरी जगह
पन्द्रह का भाग देने से अलिन्द ( शाला की भित्ति के बाहर सोपान मार्ग ) का प्रमाण
होता है।।१७।।
सेनापतेर्नृपतेर्वास्तुनि व्यासस्य वा चातुर्वर्ण्यविवर्जितस्यान्यस्य वा यस्य कस्यचित्
सप्ततिसहितस्य सप्तत्या युक्तस्य तथाभूतस्य द्विधाकृतस्य द्विष्ठस्यैकत्र चतुर्दशभिर्भागमपहृत्य
यल्लभ्यते हस्ता अङ्गुलानि च तेन प्रमाणेन शाला कार्या। शालाशब्देन गृहाभ्यन्तरमुच्यते।
अन्यत्र पञ्चत्रिंशता भागे हृते यल्लभ्यते हस्तादिकं तेन प्रमाणेनालिन्दः कार्यः। अलिन्दशब्देन
शालाभित्तेर्बाह्या या गमनिका जालकावृताङ्गणसम्मुखा क्रियते सा ज्ञेयेति। पूर्वमुक्तमुत्तम-
मष्टाभ्यधिकं हस्तशतमित्यादि क्षेत्रप्रमाणं तत्र चायं निर्माणविधिरिति।।१७।।
अथ चातुर्वर्ण्यस्य शालालिन्दयोः प्रमाणमाह—
हस्तद्वात्रिंशादिषु चतुश्चतुस्त्रित्रिकत्रिकाः शालाः।
सप्तदशत्रितयतिथिस्त्रयोदशकृताङ्गुलाभ्यधिकाः॥१८॥
त्रित्रिद्विद्विसमाः क्षयक्रमादङ्गुलानि चैतेषाम्।
व्येका विंशतिरष्टौ विंशतिरष्टादश त्रितयम्॥१९॥
पूर्वोक्त ब्राह्मण आदि के क्रम से ३२, २८, २४, २० और १६ हाथ विस्तार वाले
गृह में क्रम से ४ हाथ १७ अङ्गुल, ४ हाथ ३ अङ्गुल, ३ हाथ १५ अङ्गुल, ३ हाथ
१३ अङ्गुल और ३ हाथ ४ अङ्गुल प्रमाण की शाला तथा क्रम से ३ हाथ १९ अङ्गुल,
३ हाथ ८ अङ्गुल, २ हाथ २० अङ्गुल, २ हाथ १८ अङ्गुल और २ हाथ ३ अङ्गुल प्रमाण
का अलिन्द बनाना चाहिये।।१८-१९।।
हस्तद्वात्रिंशादिषु। द्वात्रिंशादादौ ब्राह्मणादीनां वर्णानामित्यर्थः। तेषां चतुश्चतुस्त्रित्रिकत्रिका
हस्ताः शालाः कार्याः। किम्भूताश्च ते हस्ताः? सप्तदशत्रितयतिथिस्त्रयोदशकृताङ्गुलाभ्यधिका
इति। तद्यथा—चातुर्वर्ण्यस्य प्रथमगृहे प्रधाने शाला चतुर्हस्ता सप्तदशाङ्गुलाभ्यधिका
कार्या, द्वितीये चतुर्हस्ताङ्गुलत्रितयेनाधिका, तृतीये त्रिहस्ता तिथिभिः पञ्चदशभिरङ्गुलैरधिका,
चतुर्थे त्रिहस्ता त्रयोदशभिरङ्गुलैरधिका, पञ्चमे त्रिहस्ता कृतैश्चतुर्भिरङ्गुलैरधिका कार्येति।
एवं यद् गृहं ब्राह्मणस्य द्वितीयं तत् क्षत्रियस्य प्रधानम्, यत् क्षत्रियस्य द्वितीयं तद्वैश्यस्य
प्रधानम्, यद्वैश्यस्य द्वितीयं तच्छूद्रस्य प्रधानम्। अनेनैव प्रकारेण शालाप्रमाणं सिद्धम्।
त्रित्रिद्विद्विसमा इति। त्र्यादयश्च हस्ता व्येकविंशतिप्रभृतिभिरङ्गुलैर्युक्ताः। चातुर्वर्ण्य-
वास्तुष्वलिन्दप्रमाणमनुक्तमपि ज्ञायते। तद्यथा—ब्राह्मणस्य प्रथमगृहेऽलिन्दप्रमाणं हस्तत्रितय-
मेकोनविंशत्यङ्गुलैरधिकम्। व्येका विंशतिः। विगत एको विंशतेः। द्वितीये हस्तत्रिकमष्टाभि-
रङ्गुलैरधिकम्। तृतीये हस्तद्वयं विंशत्यङ्गुलैरधिकम्। चतुर्थे हस्तद्वितयमष्टादशभिरङ्गुलै-
रधिकम्। पञ्चमे हस्तद्वितयं त्रिभिरङ्गुलैरधिकम्। एवमेतेषां हस्तानां क्षयक्रमाद् गृहक्रमेणै-
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
वास्तुविद्याध्यायः ११
तान्यङ्गुलान्यधिकानि कार्याणि। अत्र केचित् पठन्ति—व्यतिक्रमादङ्गुलानि चैतेषामिति।
अन्ये एवं व्याचक्षते। यथा—एतान्यङ्गुलानि क्षयो हानिरेषां हस्तानां कार्यः। एतद्वृद्ध-
स्थपतिभिर्नाङ्गीकृतम्। अत्र यथा सेनापतिचातुर्वर्ण्यविवरतो राजपुरुषाणामिति तच्छाला-
लिन्दयोरपि कार्यमिति ।।१८-१९।।
अथ वीथिकाप्रमाणं तदुपलक्षितानां च वास्तूनां नामान्याह—
शालात्रिभागतुल्या कर्तव्या वीथिका बहिर्भवनात्।
यद्यग्रतो भवति सा सोष्णीषं नाम तद्वास्तु ॥२०॥
सायाश्रयमिति पश्चात् सावष्टम्भं तु पार्श्वसंस्थितया ।
सुस्थितमिति च समन्ताच्छास्त्रज्ञैः पूजिताः सर्वाः ॥२१॥
शाला के तृतीयांशतुल्य भवन के बाहर वीथिका ( स्थला = कृत्रिम भूमि )
बनानी चाहिये। यह जिस भवन के पूर्व में हो वह 'सोष्णीष', जिसके
१२ बृहत्संहिता
वास्तुनि यो विस्तार उक्तस्तस्य यः षोडशभागः सचतुर्हस्तः चतुर्हस्ताधिको गृहस्यो-
च्छ्रायो भवति, अधस्तनभूमिकायामुच्छ्राय औच्च्यं भवतीत्यर्थः। यथा नृपगृहस्याष्टाधिकं
हस्तशतं पृथुत्वम्, अतः षोडशांशो हस्ताः षडङ्गुलान्यष्टादश एव चतुर्हस्ताधिका हस्ता
दश एतदधस्तनभूमिकाप्रमाणम्। एवमन्यत्रापि ज्ञेयम्। तदुपरि या भूमिका सा तद्द्वादश-
भागोना कार्या। प्रथमभूमिकाप्रमाणात्तद्द्वादशभागमपास्य यद् भवति तेन प्रमाणेनेत्यर्थः।
एवमेतस्या अप्युपरि या भूमिका सा तद्द्वादशभागोना कार्या। एवं समस्तानां सर्वासां
भूमिकानां द्वादशभागेनोनं प्रमाणमुपर्य्युपरि कार्यमित्यर्थः।।२२।।
अथ भित्तिप्रमाणज्ञानं पक्वेष्टकादारुकृतानां च विशेषमाह—
व्यासात् षोडशभागः सर्वेषां सद्मनां भवति भित्तिः ।
पक्वेष्टकाकृतानां दारुकृतानां तु न विकल्पः ।।२३।।
प्रत्येक पक्की ईंटों से निर्मित गृह के व्यास के सोलहवें भागतुल्य उसके भीत का
प्रमाण होना चाहिये। परन्तु लकड़ी से निर्मित गृहों के लिये इस प्रकार की कोई व्यवस्था
नहीं है, अपितु उसमें अपनी-अपनी सुविधा के अनुसार भीत का प्रमाण बना लेना
चाहिये।।२३।।
सर्वेषां नृपाद्यानां पारशवान्तानां सद्मनां गृहाणां व्यासाद्विस्ताराद्यः षोडशभागः षोडशांशः
स भित्तिप्रमाणं भवति। यथा नृपगृहस्य व्यासस्याष्टाधिकशतस्य षोडशभागः षड्ढस्ता अष्टा-
दशाङ्गुलान्येतद्भित्तिप्रमाणम्। एवमन्येषामपि ज्ञेयम्। तथा च गर्गः—
विस्तारषोडशांशेन गृहभित्तिं प्रकल्पयेत् ।
हीनाधिका न कर्तव्या गृहभर्तुर्न शोभना ।।
एतद्भित्तिप्रमाणं तत्पक्वेष्टकाकृतानां वास्तूनाम्, अन्येषां दारुकृतानां तु वास्तूनां न
विकल्पः, नेयं विकल्पना। तेषां यथेच्छं कार्यम्। न केवलं भित्तिप्रमाणं यावत् पृथुत्वदैर्घ्य-
त्वोच्छ्रायाश्च यथाऽभिमताः कार्या इति। तथा च किरणाख्ये तन्त्रे—
पक्वेष्टनामयं व्यासो दारुजानां यथेच्छया।
द्विजाद्येव गृहं कार्यं तत् स्याच्छुभ्रं स्वदिग्गतम् ।।
नवत्रयोदशाद्यैश्च करैर्ज्ञात्वा प्रकल्पयेत्।। इति।।२३।।
अथ नृपबलेशद्वारेण चातुर्वर्ण्यविवर्जितानां सर्वेषां वास्तूनां द्वारप्रमाणज्ञानमाह—
एकादशभागयुतः ससप्ततिर्नृपबलेशयोर्व्यासः ।
उच्छ्रायोऽङ्गुलतुल्यो द्वारस्यार्धेन विष्कम्भः ।।२४।।
राजा और सेनापति-हेतु निर्मित गृह के विस्तार के एकादश भाग से युत विस्तार में
७० मिलाने पर जो प्राप्त हो, तत्तुल्य अङ्गुल प्रधान द्वार की ऊँचाई और द्वार की ऊँचाई
के आधे तुल्य उसका व्यास बनाना चाहिये ।।२४।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
वास्तुविद्याध्यायः १३
अत्र नृपबलेशग्रहणमुपलक्षणार्थम्। नृपो राजा। बलेशः सेनापतिः। नृपबलेशयोरन्यस्य
वा यस्य कस्यचिच्चातुर्वर्ण्यविवर्जितस्य यो व्यासो गृहविस्तारः स एकादशभागयुतः
स्वकीयेनैकादशभागेन युक्तः ससप्ततिः सप्तत्या सहितः कार्यः। एवं कृते यद्भवति
तावन्त्यङ्गुलानि द्वारस्योच्छ्रायः, औच्च्यमित्यर्थः। यथा नृपव्यासोऽष्टाधिकं हस्तशतमस्यै-
कादशभागोऽर्धाधिकादश, तत्सहितमष्टाधिकं शतं तच्च सप्तत्यधिकमष्टाशीत्यधिकं शतम्।
एतावन्त्यङ्गुलानि द्वारोच्छ्रायः। यत उक्तमुच्छ्रायोऽङ्गुलतुल्यो द्वारस्य। एवमन्येषामपि ज्ञेयम्।
अर्धेन विष्कम्भ इति। अस्मादुच्छ्रायादर्धेन विष्कम्भो विस्तारः कार्यः। यथा—नृपगृह-
द्वारस्य नवनवत्यङ्गुलानि विस्तारः। एवमन्येषामपि ज्ञेयम्॥२४॥
अथ चातुर्वर्ण्यस्य द्वारप्रमाणमाह—
विप्रादीनां व्यासात् पञ्चांशोऽष्टादशाङ्गुलसमेतः।
साष्टांशो विष्कम्भो द्वारस्य त्रिगुण उच्छ्रायः ॥२५॥
ब्राह्मण आदि वर्णों के गृह के व्यास के पञ्चमांश से युत अठारह अङ्गुल में उसका
अष्टमांश मिला कर जो प्राप्त हो, उतने अङ्गुलतुल्य द्वार का विस्तार और त्रिगुणित
विस्तारतुल्य अङ्गुल ऊँचाई होनी चाहिये।
उदाहरण—ब्राह्मण के गृह-विस्तार ३२ हाथ का पञ्चमांश ६ में १८ अङ्गुल
युत किया तो २४ हुआ, इसमें इसका अष्टामांश ३ जोड़ने से २७ अङ्गुल द्वार का व्यास
आया और इसके त्रिगुणित तुल्य ८१ उसकी ऊँचाई आई॥२५॥
विप्रादीनां ब्राह्मणादीनां वर्णानां ब्राह्मणक्षत्रियवैश्यशूद्राणां व्यासाद्विस्ताराद्यः पञ्चांशः
पञ्चमो भागः स चाष्टादशभिरङ्गुलैरधिकः कार्यः। ततः पुनरस्य योऽष्टांशस्तेन युतं कृत्वा
यद्भवति तावन्त्यङ्गुलानि द्वारस्य विष्कम्भो विस्तारः कार्यः। यथा—ब्राह्मणव्यासो द्वात्रिंशत्।
अस्य पञ्चांशः षड्हस्ताः। एते अङ्गुलत्वेन परिकल्प्याः। अष्टादशाङ्गुलसमेतश्चतुर्विंशतिः।
पुनरस्या अष्टांशेनाङ्गुलत्रितयेन युता सप्तविंशतिरेतद्विष्कम्भप्रमाणम्। विष्कम्भात्त्रिगुणादुच्छ्राय
इति॥२५॥
अथ शाखोदुम्बराणां बाहुल्यं पृथुत्वं च स्तम्भस्याग्रमूलयोः प्रमाणमाह—
उच्छ्रायहस्तसंख्यापरिमाणान्यङ्गुलानि बाहुल्यम्।
शाखाद्वयेऽपि कार्यं सार्धं तत् स्यादुदुम्बरयोः ॥२६॥
हस्त जाति ऊँचाई तुल्य अङ्गुल शाखाओं की मोटाई बनानी चाहिये। उस मोटाई
को डेढ़ से गुणा करने पर जो प्राप्त हो, तत्तुल्य अङ्गुल उदुम्बर ( देहली = 'उदुम्बरस्तु
देहल्यामि'ति मेदिनी ) की मोटाई होनी चाहिये।
उदाहरण—जैसे राजा के गृहद्वार की ऊँचाई १८८ अङ्गुल को हस्तात्मक बनाने से
१८८/२४ = ७ ५/६ = शाखाओं की मोटाई तथा डेढ़ गुणित मोटाई ४७/६ + ४७/१२ = (९४+४७)/१२ = १४१/१२ =
११ ३/४ = उदुम्बर की मोटाई प्राप्त होती है॥२६॥
९४ बृहत्संहिता
द्वारोच्छ्रायस्य यावती हस्तसङ्ख्या तावन्त्यङ्गुलानि बाहुल्यं घनत्वं शाखाद्वयेऽपि
कार्यम्। शाखा द्वारिका। अपिशब्दः सम्भावनायाम्। बहुष्वेवमेवेति। यथा नृपगृहद्वारस्यो-
च्छ्रायोऽङ्गुलानामष्टाशीत्यधिकं शतम्। अतो हस्ता अर्धाधिकेनाष्टौ भवन्ति। एतावन्त्यङ्गुलानि
शाखाद्वये बाहुल्यम्। एवमन्यत्रापि।
सार्धं तत्स्यादुदुम्बरयोरिति । तच्छाखाबाहुल्यं सार्धं सार्धकमुदुम्बरयोः प्रमाणं स्याद्
भवेत्। यथाऽत्र नृपगृहे सार्धकं शाखाबाहुल्यं द्वादशाङ्गुलान्येवमन्यत्र। उदुम्बरौ शाखयो-
रुपर्यधःस्थिते काष्ठे देहलीनिटालाख्ये॥२६॥
उच्छ्रायात् सप्तगुणादशीतिभागः पृथुत्वमेतेषाम्।
नवगुणितेऽशीत्यंशः स्तम्भस्य दशांशहीनोऽग्रे ॥२७॥
राजा के द्वार की ऊँचाई को ७ से गुणा कर ८० का भाग देने पर जो लब्धि प्राप्त
हो, तत्तुल्य शाखा और औदुम्बर की विस्तृति बनानी चाहिये तथा स्तम्भ की ऊँचाई को
९ से गुणा कर ८० से भाग देने पर जो लब्धि प्राप्त हो, तत्तुल्य स्तम्भ के मूल की
मोटाई और अपना दशवाँ भाग हीन मोटाई तुल्य अग्र भाग की मोटाई बनानी चाहिये।
उदाहरण—राजा के द्वार की ऊँचाई १८८ अङ्गुल को ७ से गुणा कर ८० का
भाग देने पर लब्धि = १८८×७ / ८० = १३१६ / ८० = १६ ३६/८० तुल्य शाखा और उदुम्बर का विस्तार
प्राप्त होता है।
तथा—राजा के प्रथम महल की ऊँचाई तुल्य स्तम्भ की ऊँचाई १० हाथ १८
अङ्गुल है। इसको अङ्गुलात्मक बनाया तो १०×२४+१८ = २५८ हुआ। इसको ९
से गुणा कर ८० का भाग देने से लब्ध = २५८×९ / ८० = १२९×९ / ४० = ११६१ / ४० = १९ ४१/४०, तुल्य
स्तम्भ के मूल की मोटाई आई। इसमें इसके दशांश हीन करने से = ११६१ / ४० - ११६१ / ४०० =
११६१०-११६१ / ४०० = १०४४९ / ४०० = २६ ४९/४०० स्तम्भ के अग्र भाग की मोटाई हुई॥२७॥
उच्छ्रायात् सप्तगुणादिति। द्वारस्य य उच्छ्रायस्तस्मात् सप्तगुणाद्योऽशीतिभागोऽशी-
त्यंशः तत्तुल्यं पृथुत्वं विस्तृतत्वमेतेषां शाखोदुम्बराख्ये कार्ये। यथा—नृपद्वारोच्छ्रायोऽष्टा-
शीत्यधिकमङ्गुलशतम्, अस्मात् सप्तगुणादशीतिभागः षोडश सार्धाङ्गुलानि। एतत्सर्वेषां
पृथुत्वम्। एवमन्यत्रापि।
नवगुणित इति। स्तम्भोच्छ्राये नवगुणिते नवाहते योऽशीत्यंशोऽशीतितमो भागस्तत्
प्रमाणं स्तम्भस्य मूले पृथुत्वम्, तदेव स्वदशांशोनमग्रे पृथुत्वं स्तम्भस्य। यथा नृपगृहेऽध-
स्तनभूमिकाप्रमाणे दश हस्ता अष्टादशाङ्गुलानि। एतदेव स्तम्भस्यौच्छ्र्र्यम्। अस्मात्रव-
गुणितादशीत्यंशः अष्टाविंशत्येतदङ्गुलानि। एतन्मूले पृथुत्वम्। तदेव स्वदशांशोनमग्रे
पृथुत्वम्। अतस्त्रिगुणः परिधिः। एतदुदाहरणमात्रेण प्रदर्शनम्। अन्यथा 'स्तम्भं विभज्य
नवधा वहनं भाग' इत्यनया परिभाषया यो मध्यभागः समचतुरस्त्रादिकस्तस्यैष विभागो
ज्ञेय इति॥२७॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
वास्तुविद्याध्यायः १५
अथ स्तम्भादीनां नामाह—
समचतुरस्रो रुचको वज्रोऽष्टास्रिर्द्विवज्रको द्विगुणः ।
द्वात्रिंशता तु मध्ये प्रलीनको वृत्त इति वृत्तः॥२८॥
स्तम्भ का मध्य भाग समान चार कोण वाला हो तो वह स्तम्भ 'रुचक', आठ
कोण वाला हो तो 'वज्र', सोलह कोण वाला हो तो 'द्विवज्र', बत्तीस कोण वाला हो तो
'प्रलीनक' और वर्तुलाकार हो तो 'वृत्त' कहलाता है। ये पाँच स्तम्भ शुभ और शेष
अशुभ फल देने वाले होते हैं॥२८॥
स्तम्भो मध्ये मध्यभागे समचतुरस्रः, समाभिस्तुल्याभिश्चतसृभिरस्रिभिर्युक्तः स रुचक-
नामा। यस्य मध्ये समा अष्टास्रिः स वज्रनामा। यस्य मध्ये द्विगुणः समाभिः षोडश-
भिरस्रिभिर्युक्तः स द्विवज्रनामा। अष्टास्रापेक्षया द्विगुणः। यश्च मध्येऽस्रीणां द्वात्रिंशता युक्तः
स प्रलीनकनामा। यश्च मध्ये वृत्तः परिवर्तुलः स वृत्तसंज्ञः। एते पञ्च स्तम्भाः। सर्व एव
प्रशस्तफलाः। अतोऽन्ये नेष्टा इत्यर्थाद्द्विज्ञेयाः। अत्र मध्यग्रहणं किमर्थं कृतमुभयतः स्तम्भं
विभज्य नवधेत्यनेनाध-ऊर्ध्वभागयो रचना भविष्यतीति। तथा च किरणाख्ये तन्त्रे—
वेदास्त्रो रुचकः स्तम्भो वज्रोऽष्टास्रियुतो मतः।
द्विवज्रः षोडशास्रिः स्याद् द्विगुणास्रिः प्रलीनकः।।
समन्तवृत्तो वृत्ताख्यः स्तम्भः प्रोक्तो द्विजोत्तमैः॥ इति॥२८॥
अथ स्तम्भस्याधरोर्ध्वभागयो रचनाप्रदर्शनार्थमाह—
स्तम्भं विभज्य नवधा वहनं भागो घटोऽस्य भागोऽन्यः ।
पद्मं तथोत्तरोष्ठं कुर्याद् भागेन भागेन ॥२९॥
स्तम्भ का नव भाग करके उसमें नीचे के प्रथम भाग का नाम 'वहन' ( उस भाग
द्वारा भूमि को धारण करने के कारण ), द्वितीय भाग का 'घट' ( घड़े की आकृति वाला
होने के कारण ), तृतीय भाग का 'पद्म' ( पद्माकृति वाला होने के कारण ) और चतुर्थ
भाग का नाम 'उत्तरोष्ठ' ( जहाँ पर शोभा के लिये विशेष रूप बनाते हैं ) कहा गया
है॥२९॥
स्तम्भं स्तम्भप्रमाणं नवधा नवभिर्भागैर्विभज्य पृथक्पृथङ्नवभागे विभक्तं कृत्वा तत्र
सर्वाधोभागे वहनं कार्यम्। उह्यते धार्यते भूमौ येन स्तम्भभागेन तद्वहनम्। अस्य भागस्यो-
पर्यन्यो यो द्वितीयो भागः स घटस्ततोऽन्यः पद्मं कमलं पद्माकारमेव कार्यम्। तथा तेनैव
प्रकारेण पद्मस्योपरि यो नवमो भागः स उत्तरोष्ठः कार्यः। उत्तरोष्ठो यत्र शोभार्थं रूपक-
विशेषाः क्रियन्ते। एवं पद्मं भागेनोत्तरोष्ठं च भागेन कार्यम्। केचिदुत्तरोष्ठमष्टमभागे नवमे
कमलामितीच्छन्ति। एतदुक्तं भवति—नवधा विभक्ते स्तम्भेऽधरोर्ध्वभागचतुष्केऽधो हिरण्या-
दीनि कार्याणि, शेषं भागपञ्चकं समचतुरस्रादिकं कार्यम्। तथा च किरणाख्ये तन्त्रे—
विभज्य नवधा स्तम्भं कुर्यादुद्वहनं घटम्।
कमलं चोत्तरोष्ठं तु भागे भागे प्रकल्पयेत्॥ इति॥२९॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
१६ बृहत्संहिता
अथ भारतुलातुलोपतुलानां च प्रमाणमाह—
स्तम्भसमं बाहुल्यं भारतुलानामुपर्य्युपर्यासाम् ।
भवति तुलोपतुलाना मूनं पादेन पादेन ॥३०॥
स्तम्भतुल्य मोटाई वाला ( राजगृह में स्तम्भ की मोटाई २८ अङ्गुल है, तत्तुल्य
मोटाई वाला ) पञ्चम भाग का नाम ‘भारतुला’, इसके ऊपर षष्ठ भाग का नाम ‘तुला’
और उसके ऊपर सप्तम भाग का नाम ‘उपतुला’ है।
राजगृह के अतिरिक्त भारतुला से चतुर्थांश कम करके मान रखना चाहिये। जैसे
राजगृह में भारतुला का मान २१ अङ्गुल है तो राजगृह से अतिरिक्त गृह में २१ — २१/४ =
(८४-२१)/४ = ६३/४ = १५ ३/४ इतना भारतुला आदि का मान बनाना चाहिये॥३०॥
भारं तोलयन्तीति भारतुलाः। स्तम्भस्योपरि यत्तिर्यक् कृत्वा काष्ठं दीयते तद्भारतुला-
संज्ञम्। प्रासादादिषु स्तम्भानां बहुत्वाद् भारतुला इति बहुवचननिर्देशः कृतः। भारतुलाया
उपरि यदन्यत् काष्ठं दीयते तत्तुलोपतुलासंज्ञम्। भारतुलानां स्तम्भसमं स्तम्भप्रमितं
बाहुल्यं घनत्वं कार्यम्। यथा नृपगृहे स्तम्भस्य पृथुत्वमष्टाविंशत्यङ्गुलानि, तदेव भारतुलानाम्।
एवमन्यत्र।
आसां भारतुलानामुपर्य्युपरि यास्तुलोपतुलास्तासां ताभ्यः सकाशात् पादोनं बाहुल्यं
कार्यम्। यथा नृपगृहे एकविंशत्यङ्गुलम्। अन्यत्र पादेन चतुर्थभागेनोनं कार्यम्। वीप्साकरणात्
केचिच्चतस्र इति वर्धयन्ति। भारतुला उपतुला तुलोपतुला चेति। आसां भारतुलातः
पादेन पादेनो नं बाहुल्यं कार्यम्। ताश्चोपर्युपरि दीयन्त इति॥३०॥
अत्र वास्तुकरणे पञ्च चतुःशालगृहाणि भवन्ति, सर्वतोभद्रनन्द्यावर्तवर्धमानस्वस्तिक-
रुचकाख्यानि। तत्रादावेव सर्वतोभद्रस्य लक्षणमाह—
अप्रतिषिद्धालिन्दं समन्ततो वास्तु सर्वतोभद्रम् ।
नृपविबुधसमूहानां कार्यं द्वारैश्चतुर्भिरपि ॥३१॥
जिस वास्तु के चारो तरफ अलिन्द हो, उसको ‘सर्वतोभद्र’ वास्तु कहते हैं। यह
वास्तु चारो दिशाओं में चार द्वारों से उपलक्षित राजा और देवताओं लिये बनाना
चाहिये॥३१॥
यस्मिन् वास्तुन्यलिन्दानां गमनिकानां प्रतिषेधो विच्छित्तिर्नास्ति समन्ततः सर्वासु दिक्षु,
तद्वास्तु सर्वतोभद्रसंज्ञम्। तच्च नृपाणां राज्ञां विबुधसमूहानां देववृन्दानां कार्यं विधेयम्।
चतुर्भिद्वारैरुपलक्षितं चतसृष्वपि दिक्षु तत्र द्वाराणि कार्याणीत्यर्थः। तथा च गर्गः—
अलिन्दानां व्यवच्छेदो नास्ति यत्र समन्ततः।
तद्वास्तु सर्वतोभद्रं चतुर्द्वारसमायुतम्॥ इति॥३१॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
वास्तुविद्याध्यायः १७
सर्वतोभद्रम्
पूर्वा
शाला
अथ नन्द्यावर्तस्य लक्षणमाह—
नन्द्यावर्तमलिन्दैः शालाकुड्यात् प्रदक्षिणान्तगतैः ।
द्वारं पश्चिममस्मिन् विहाय शेषाणि कार्याणि ॥३२॥
जिस वास्तु में शाला की भीत से आरम्भ करके प्रदक्षिणक्रम से अलिन्द हो, उसको
‘नन्द्यावर्त्त’ वास्तु कहते हैं। इसमें पश्चिम दिशा को छोड़ कर शेष तीन दिशाओं में तीन
द्वार रहते हैं॥३२॥
नन्द्यावर्तम्
पूर्वा
शाला
बृ० भ० द्वि०-२
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
१८ बृहत्संहिता
शालाकुड्यात् शालाभित्तेरारभ्य प्रदक्षिणान्तगतैरालिन्दैर्नन्द्यावर्तनाम वास्तु। प्रादक्षिण्ये-
नान्तं ये गता अलिन्दास्तैरुपलक्षितैः। चतसृष्वपि शालासु शालाप्रदक्षिणान्तगतास्तत्रा-
लिन्दा भवन्ति। अस्मिन्नन्द्यावर्तिनि पश्चिमद्वारं विहाय त्यक्त्वा शेषाण्यन्यानि त्रीणि द्वाराणि
पूर्वदक्षिणोत्तराणि कार्याणि। तथा च गर्गः—
प्रदक्षिणां गतैः सर्वैः शालाभित्तेरलिन्दकैः।
विना परेण द्वारेण नन्द्यावर्तमिति स्मृतम्।। इति।।३२।।
अथ वर्धमानस्य लक्षणमाह—
द्वारालिन्दोऽन्तगतः प्रदक्षिणोऽन्यः शुभस्ततश्चान्यः ।
तस्मिंश्च वर्धमाने द्वारं तु न दक्षिणं कार्यम् ॥३३॥
द्वारालिन्द ( प्रधान भवन के द्वार का अलिन्द ) के अन्तगत ( दक्षिणोत्तर भित्ति
संलग्न ) हो और द्वितीय अलिन्द उससे प्रदक्षिणक्रम से गया हो तथा तृतीय अलिन्द
उससे प्रदक्षिणक्रम से स्थित हो तो उसको 'वर्धमान' वास्तु कहते हैं। इसके दक्षिण में
द्वार नहीं रहता है।।३३।।
प्रधानवास्तुनो यद्द्वारन्तत्र योऽलिन्दः स द्वारालिन्दः। स चान्तगतः कार्यः। दक्षिणोत्तर-
शालासंलग्न इत्यर्थः। अन्यो द्वितीयोऽलिन्दः प्रदक्षिणः प्रादक्षिणयेन गतः, स च शुभः
शोभनः। ततश्चान्यस्तस्मात्प्रदक्षिणादन्तर्गत एव। एवंविधैरलिन्दैरुपलक्षितो वर्धमानः।
तस्मिन् वर्धमाने दक्षिणं द्वारं न कार्यम्। अन्यानि त्रीणि पूर्वपश्चिमोत्तराणि कार्याणि। तथा
च गर्गः—
द्वारालिन्दोऽन्तगस्तेषां ये त्रयो दक्षिणां गताः।
विहाय दक्षिणं द्वारं वर्धमानमिति स्मृतम्।। इति।।३३।।
पूर्वा
शाला
वर्धमानम्
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
वास्तुविद्याध्यायः १९
अथ स्वस्तिकलक्षणमाह—
अपरोऽन्तगतोऽलिन्दः प्रागन्तगतौ तदुत्थितौ चान्यौ ।
तदवधिविधृतश्चान्यः प्राग्द्वारं स्वस्तिके शुभदम् ॥३४॥
‘स्वस्तिक’ वास्तु में पश्चिम का अलिन्द अन्तगत ( दक्षिणोत्तर शाला से संलग्न )
बनाना चाहिये। पश्चिम अलिन्द से निकले हुये अन्य दो अलिन्दों को पूर्व दिशा की
शाला से संलग्न करते हुये बनाना चाहिये। उन दोनों के मध्य में पूर्व का अलिन्द
बनाना चाहिये। इस स्वस्तिक वास्तु में केवल पूर्व दिशा में द्वार बनाना शुभ होता है;
अन्य दिशा में नहीं॥३४॥
स्वस्तिकेऽपरः पश्चिमोऽलिन्दोऽन्तगतः कार्यो दक्षिणोत्तरशालासंलग्नः। अन्यौ तु
दक्षिणोत्तरौ द्वावलिन्दौ तदुत्थितौ तस्मात् पश्चिमादलिन्दादुत्पन्नौ प्राक्पूर्वस्यां दिश्यन्तगतौ
शालासंलग्नौ कार्यौ। अन्यश्चतुर्थः पूर्वोऽलिन्दस्तदवधिविधृतस्तयोरवधौ मध्ये विधृतः
स्थित इत्यर्थः। एवं स्वस्तिकं प्राग्द्वारं शुभदं पूर्वस्यां दिशि द्वारं तस्मिन् कार्यम्, नान्यत्र
क्वचिदिति। तथा च गर्गः—
पश्चिमोऽन्तगतोऽलिन्दः प्रागन्तो द्वौ तदुत्थितौ।
अन्यस्तन्मध्यविधृतः प्राग्द्वारं स्वस्तिकं शुभम्॥ इति॥३४॥
स्वस्तिकम्
पूर्वा
शाला
अथ रुचकलक्षणमाह—
प्राक्पश्चिमावलिन्दावन्तगतौ तदवधिस्थितौ शेषौ।
रुचके द्वारं न शुभदमुत्तरतोऽन्यानि शस्तानि ॥३५॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
२० बृहत्संहिता
'रुचक' वास्तु में पूर्व और पश्चिम का अलिन्द अन्तगत ( दक्षिणोत्तर शाला से
संलग्न ) और शेष दो उन दोनों के मध्य में स्थित होता है। इस रुचक वास्तु में उत्तर
दिशा का द्वार अशुभ और अन्य ( पूर्व, पश्चिम और दक्षिण ) द्वार शुभ होता है।।३५।।
रुचके प्राक्पश्चिमौ पूर्वापरौ द्वावलिन्दावन्तगतौ शेषौ, तयोरवधौ मध्ये स्थितौ तत्सं-
लग्नावित्यर्थः। एवं रुचके द्वारमुत्तरं न शुभदम्। अन्यानि त्रीणि पूर्वदक्षिणपश्चिमानि शस्ता-
नीति। तथा च गर्गः—
प्राक्पश्चिमावलिन्दौ यावन्तगौ तद्द्वौ परौ।
सौम्यं द्वारं विना यत्स्याद् रुचकाख्यं तु तत्स्मृतम्।। इति।।३५।।
रुचकम्
पूर्वा
[रेखाचित्र: शाला]
अथ तेषां पञ्चानां चतुःशालानां फलान्याह—
श्रेष्ठं नन्द्यावर्तं सर्वेषां वर्धमानसंज्ञं च।
स्वस्तिकरुचके मध्ये शेषं शुभदं नृपादीनाम् ।।३६।।
नन्द्यावर्त्त और वर्धमानसंज्ञक वास्तु सबके लिये श्रेष्ठ होते हैं। स्वस्तिक और
रुचकसंज्ञक वास्तु मध्यम होते हैं। शेष सर्वतोभद्रसंज्ञक वास्तु राजा आदि ( राजमन्त्री,
राजाश्रित पुरुष और देवता ) के लिये शुभ होते हैं; अन्य के लिये नहीं।।३६।।
सर्वेषां वर्णानां नन्द्यावर्तं चतुःशालं श्रेष्ठं प्रशस्तम्। वर्धमानसंज्ञं वर्धमानाख्यं च।
चशब्दाच्छ्रेष्ठमेव। स्वस्तिकरुचके सर्वेषामेव मध्ये मध्यफले, न शुभे नाप्यशुभे इत्यर्थः।
शेषं सर्वतोभद्रसंज्ञं चतुःशालं नृपादीनां राज्ञां राजमन्त्रिणां राजाश्रितानां देवानां च शुभम्,
नान्येषामिति।।३६।।
अथ त्रिशालानां हिरण्यनाभसुक्षेत्रचुल्लीपक्षघ्नानां लक्षणमाह—
उत्तरशालाहीनं हिरण्यनाभं त्रिशालकं धन्यम्।
प्राक्शालया वियुक्तं सुक्षेत्रं वृद्धिदं वास्तु ।।३७।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
वास्तुविद्याध्यायः २१
याम्याहीनं चुल्ली त्रिशालकं वित्तनाशकरमेतत् ।
पक्षघ्नमपरया वर्जितं सुतध्वंसवैरकरम् ॥३८॥
जिसके उत्तर तरफ भीत (दीवाल) न हो और शेष तीन दिशाओं में हो, उसको
‘हिरण्यनाभ’ नामक त्रिशाल वास्तु कहते हैं, यह वास्तु प्रशस्त है। जिसके पूर्व तरफ
भीत न हो और शेष तीन दिशाओं में हो, उसको ‘सुक्षेत्र’ नामक त्रिशाल वास्तु कहते हैं,
यह वास्तु धन, पुत्र आदि की वृद्धि करती है। जिसके दक्षिण तरफ भीत न हो और शेष
तीन दिशाओं में हो उसको ‘चुल्ली’ नामक त्रिशाल वास्तु कहते हैं, यह वास्तु धन का
नाश करती है। जिसके पश्चिम तरफ भीत न हो और शेष तीन दिशाओं में हो उसको
‘पक्षघ्न’ नामक त्रिशाल वास्तु कहते हैं, यह वास्तु पुत्र का नाश और वैर कराने वाली
होती है॥३७-३८॥
उत्तरशालया यद्विहीनम्। अन्यासु तिसृषु दिक्षु शाला भवन्ति। केवलयोत्तरया रहितं
तत्रिशालकं हिरण्यनाभाख्यम्, तच्च धन्यं प्रशस्तम्। एवं प्राक्शालया पूर्वशालया वियुक्तं
रहितं तत्रिशालं सुक्षेत्रं नाम वास्तु, तच्च वृद्धिं धनसुतादीनां ददाति।
याम्याहीनं दक्षिणस्यां दिशि रहितं तच्चुल्लीसंज्ञं त्रिशालम्। एतच्च वित्तस्य
धनस्य नाशकरं क्षयावहम्। अपरया पश्चिमशालया यद्विवर्जितं तत्पक्षघ्नं पक्षघ्नसंज्ञम्,
तच्च सुतध्वंसवैरकरम्—सुतानां पुत्राणां ध्वंसं विनाशं वैरं च करोति। एषां विन्यासः
सुगमत्वान्न प्रदर्शितः। यतश्चतुःशालाकृतिरेवालिन्दवर्जिता एकादिगृहीतेति। तथा च
किरणाख्ये तन्त्रे—
शस्तं हिरण्यनाभाख्यं हीनं चोत्तरशालया।
सुक्षेत्रं पूर्वतो हीनं शालया वृद्धिदं मतम्॥
चुल्ली दक्षिणया हीनं धनार्थप्राणनाशनम्।
यत् स्यादपरया हीनं पक्षघ्नं तत् सुतान्तकृत्॥ इति॥३७-३८॥
अथ द्विशालानां सिद्धार्थयमसूर्यदण्डवाताख्यचुल्लीकाचानां लक्षणं सफलमाह—
सिद्धार्थमपरयाम्ये यमसूर्यं पश्चिमोत्तरे शाले।
दण्डाख्यमुदक्पूर्वे वाताख्यं प्राग्युता याम्या ॥३९॥
पूर्वापरे तु शाले गृहचुल्ली दक्षिणोत्तरे काचम्।
सिद्धार्थेऽर्थावाप्तिर्यमसूर्ये गृहपतेर्मृत्युः ॥४०॥
दण्डवधो दण्डाख्ये कलहोद्वेगः सदैव वाताख्ये।
वित्तविनाशश्चुल्यां ज्ञातिविरोधः स्मृतः काचे ॥४१॥
जिसके पश्चिम और दक्षिण में शाला हो उसको ‘सिद्धार्थ’, जिसके पश्चिम और
उत्तर में शाला हो उसको ‘यमसूर्य’, जिसके उत्तर और पूर्व में शाला हो उसको ‘दण्ड’,
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
२२ बृहत्संहिता
जिसके पूर्व और दक्षिण में शाला हो उसको 'वात', जिसके पूर्व और पश्चिम में शाला हो
उसको 'गृहचुल्ली' और जिसके दक्षिण और उत्तर में शाला हो उसको 'काच'संज्ञक
वास्तु कहते हैं। सिद्धार्थ वास्तु में धन की प्राप्ति, यमसूर्य में गृहस्वामी की मृत्यु, दण्ड
में दण्ड से मृत्यु ( या दण्ड और वध ), वात में सदा कलह, गृहचुल्ली में धन का
नाश और काचसंज्ञक वास्तु में बन्धुओं से विरोध होता है।।३९-४१।।
अपरयाम्ये पश्चिमदक्षिणे द्वे शाले यत्र भवतस्तद् द्विशालं सिद्धार्थसंज्ञम्। एवं पश्चिमोत्तरे
यत्र शाले तद्यमसूर्यम्। उदक्पूर्वे उत्तरपूर्वे यत्र द्वे शाले विद्येते तद्दण्डाख्यम्। प्राग्युता
याम्या पूर्वयुक्ता दक्षिणा यत्र भवति, तद्वाताख्यं वातसंज्ञम्। पूर्वापरे पूर्वपश्चिमे यत्र द्वे
शाले विद्येते तद् गृहचुल्ली नाम द्विशालम्। एवं दक्षिणोत्तरशालं तत्काचं नाम द्विशालम्।
एषा द्विशालानां फलान्याह—सिद्धार्थेऽर्थवाप्तिरिति। सिद्धार्थसंज्ञे द्विशाले-
ऽर्थवाप्तिर्धनलब्धिर्भवति स्वामिनः। यमसूर्ये तद्गृहपतेर्गृहनाथस्य मृत्युर्मरणं भवति।
दण्डाख्ये दण्डसंज्ञे द्विशाले दण्डवधः। दण्डताडनेन वधो मरणम्। अथवा दण्डश्च
वधश्च दण्डवधाविति केचित् पठन्ति। दण्डोऽर्थाय कर्षणम्, वधस्ताडनं तौ द्वावेव भवतः।
वाताख्ये वातसंज्ञे सदैव सर्वकालं कलहोद्वेगश्चित्तशोकः। चुल्ल्यां वित्तस्य धनस्य विनाशः।
काचे ज्ञातिविरोधो बन्धुभिः सह द्वेष इति स्मृतः। तथा च किरणाख्ये तन्त्रे—
सिद्धार्थं तु भवेच्छुभ्रं याम्यापरयुतं यदि।
पश्चिमोत्तरसंयुक्तं यमसूर्यं तु मृत्युदम्।।
उदक्पूर्वयुतं यत्स्याद्दण्डाख्यं दण्डकारकम्।
पूर्वयाम्ययुतं ज्ञेयं वाताख्यं कलहप्रियम्।।
पूर्वापरयुतं गेहं चुल्लीनामार्थनाशकृत्।
दक्षिणोत्तरशालाढ्यं काचसंज्ञं विरोधकृत्।। इति।
अथ विश्वकर्ममयकामादिभिरेकैकस्मिन् वास्तुनि योऽर्थो महता ग्रन्थसन्दर्भेण चोक्तः,
स एवाचार्येण गृहीतशास्त्रेण महाग्रन्थभीरुणा समासोक्तिप्रियेणैकैकेनैवापादकेनार्थो निर्दिष्टः।
तथा च हिरण्यगर्भेण गृहाणां विंशत्यधिकं शतमुक्तम्। तथा चाह—
गृहाणां क्रमयोगेन चतुःषष्टिः समासतः।
अनेकयोगभेदाच्च शतं विंशोत्तरं स्मृतम्।। इति।
तथा च विश्वकर्मा—
एवं शतद्वयं पिण्डं षट्पञ्चाशच्च वेश्मनाम्।
यथावत् कृत्यजः कृत्स्न उक्तशास्त्रेऽपि यत्नतः।।
आचार्येण चतुःशालत्रिशालद्विशालानि पञ्चदश गृहाण्यभिहितानि। विश्वकर्मादीनां
चोक्तिभिरनुपन्यस्यमानाभिः स्पष्टार्थोऽभिधातुं न शक्यते। तद्युक्त्युपन्यासो वा क्रियते, तदा
हि विस्तरोक्तिः स्यात्। अतिविस्तरोक्तिश्च न गृह्यते। तथा च चिकित्साशास्त्रे चरके पठ्यते—
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
वास्तुविद्याध्यायः २३
'पराधिकारेषु न विस्तरोक्तिः शस्तेति नो नात्र ततः प्रयत्नः' इति।
तस्मात्तातपर्यार्थोऽभिधीयते—'वास्तुनि यो विस्तारः, स एव चोच्छ्रायनिश्चयः शुभदः'
इत्युक्तमाचार्येण। पुनः स एवाह—'नेच्छन्ति शास्त्रकारा हस्तशतादुच्छ्रितं परतः' ।
रूपाणामष्टोत्तरशतं गृहविस्तारः। गृहविस्तारतुल्यश्च गृहोच्छ्रायः शुभदः। नेच्छन्ति शास्त्र-
कारा हस्तशतादुच्छ्रितं परत इत्यनेन सह विरुध्यते। अत्र केचिदविदितशास्त्रसद्भावा
मन्यन्ते। यथा गृहविस्तारतुल्यो गृहोच्छ्रायोऽभिहितो यः स उत्सर्गः। नेच्छन्ति शास्त्रकारा
हस्तशतादुच्छ्रितं परत इत्यपवादः। 'उत्सर्गश्चापवादेन बाध्यते' इति। वयं त्वत्र ब्रूमः—
विषयविभागेन कल्पना कृता। तत्र नोत्सर्गो न चापवाद इति। आचार्य आह—
विस्तारषोडशांशः सचतुर्हस्तो भवेद् गृहोच्छ्रायः।
द्वादशभागेनोनो भूमौ भूमौ समस्तानाम्॥
विप्रादीनां गृहेषु भूमिकामानमिदं विश्वकर्मणाऽभिहितम्।
अर्धचतुष्कभूमिकं गृहं शूद्राणां कर्तव्यम्, विशामर्धपञ्चकभूमिकम्, अर्धषष्ठभूमिकं
क्षत्रियाणाम्, द्विजानामर्धसप्तमभूमिकम्, अर्धाष्टमभूमिकं नृपाणां कर्तव्यम्। तथा च विश्व-
कर्माऽऽह—
यजन्ते राजसूयाद्यैः क्रतुभिर्येऽवनीश्वराः।
तलैरर्धाष्टमैस्तेषां कारयेद् भवनोत्तमम्॥
तथाऽर्धसप्तमैरेव विप्राणां कारयेद् गृहम्।
अर्धषष्ठैः क्षत्रियाणां वैश्यानामर्धपञ्चमैः॥
त्रिभिः सार्धैश्च शूद्राणां भवनं शुभदं स्मृतम्॥ इति।
विश्वकर्मा मन्दबुद्धिप्रबोधनार्थं पुनः स्पष्टतरं साधारणेन हस्तेन गृहोच्छ्रायहस्त-
संख्यामाह—
साधारणेन हस्तेन परं शूद्रस्य विंशतिः।
चत्वारिंशच्च वैश्यस्य षष्टिः स्यात् क्षत्रियस्य तु।
ब्राह्मणस्य तथाशीतिः शतं च नृपतेः स्मृतम्।
नातः परतरं नृणामूर्ध्वमानं विधीयते।
गन्धर्वसिद्धयक्षाणां धर्मतः समुदाहृतम्॥
साधारणेन हस्तेन हस्तशतं यत्तत्रैराशिकगणनया ज्येष्ठहस्तेनानुमीयमानं सप्ता-
शीतिर्हस्ताः सार्द्धा भवन्ति, 'द्वादशभागेनोने भूमौ भूमौ' इत्यनेनापि न्यायेनार्धाष्टमभूमिका
हस्ता द्विषष्टिः सार्धा भवन्ति। अथात्रेदं मन्यसे साधारणेन हस्तेन हस्तशतोच्छ्रायं ज्येष्ठ-
हस्तमितेन हस्ताः सप्ताशीतिः सार्धा भवन्ति। नृपगृहस्योत्तमस्याष्टोत्तरशतविस्तृतस्य द्वादश-
भागेनोने भूमौ भूमौ समस्तानामित्यनेन न्यायेन हस्ता द्विषष्टिः सार्धा भवन्ति। एककर्तृ-
कस्यैव ग्रन्थस्यात्रापि भिन्नवाक्यतेति। अत्रोच्यते—
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
२४ बृहत्संहिता
विश्वकर्मणोत्तमगृहाणां हस्तद्वयं सार्धं पीठोच्छ्रायमुक्तम्। भूमिकान्तरे काण्डोच्छ्राय-
पांशुकस्तरवरण्डिकादिभिः सहितमेव मानं भवति, तस्मात् पुनरुक्तदोषो नात्रावगम्यत इति।
द्वित्रिचतुःशालेषु गृहेषु भूमिकोच्छ्रायनियमोऽवगन्तव्यः। एकशालेषु व्यासतुल्यगृहोच्छ्रायः
शस्यते, न द्वित्रिचतुःशालेषु। तथा च शक्र आह—
एकशालं यथाकामं विस्तारं कारयेद् गृहम्।
गृहमायामहीनं तत्त्वेकशालं प्रचक्षते।।
गृहविस्तारमाधिक्यं प्राहोत्सर्गास्तु गौतमः।
आचार्येण त्वेकशाले गृहे व्यासतुल्य उच्छ्रायोऽभिहितः। व्यासद्विगुणश्चायामः। एक-
शालं विप्रादीनां न क्रियते, द्वित्रिचतुःशाला एव क्रियन्ते। तथा च वृद्धगर्गः—
अनाजीवकरं सर्वमेकशालमुदाहृतम्।
अपि शाला तृणमयी कार्या तस्य शुभप्रदा।।
आचार्य आह—
वास्तुनि यो विस्तारः स एव चोच्छ्रायनिश्चयः शुभदः।
शालैकेषु गृहेष्वपि............................................................॥
इत्यत्रापिशब्दश्चकारको द्रष्टव्यः।
विस्ताराद् द्विगुणितं च तेष्वेकशालेषु दैर्घ्यं कर्त्तव्यम्—'त्रित्रिद्विद्विद्विशमाः क्षय-
क्रमादङ्गुलानि चैतेषाम्' इत्यत्र सन्दिह्यते किमष्टयवेनाङ्गुलेन चतुर्विंशत्यङ्गुलैर्यो हस्तः
स सम इति। विश्वकर्मणा त्रिविधो हस्त उच्यते—
यवा मध्यान्विता अष्टा
वास्तुविद्याध्यायः २५
षड्यवाङ्गुलहस्तस्य कर्माण्यूाह—
शयनासनयानानि कर्मदण्डायुधं तथा।
वापीकूपप्रमाणानि तथा नृगजवाजिनाम्॥
इक्षुयन्त्रारघट्टांश्च हलयूपयुगध्वजान्।
आतोयानि च नावश्च शिल्पिनां चाप्युपस्करान्॥
पादुके च वृषीं छत्रं चर्मोपकरणानि च।
मात्रा शमेन हस्तेन नलवदण्डांश्च मापयेत्॥
इत्येतन्न, यस्मादाचार्येण शब्दाभिधाने सामान्येनैव शमो हस्त इत्युक्तः। केचिच्छ्रय
इति पठन्ति त्रित्रिद्विद्विद्विशया इति। एतत्प्रागुक्तं लक्षणं शायाख्यस्येति।
व्यासात् षोडशभागः सर्वेषां सद्मनां भवति भित्तिः।
पक्वेष्टकाकृतानां दारुकृतानां तु न विकल्पः॥
इत्यत्र सर्वशब्देनेदं ज्ञापयति, यथा चतुर्वर्णादिसद्मनां चतुःशालादिगृहाणां विस्तारात्
षोडशभागतुल्या पृथुला भित्तिः पक्वेष्टकाकृतानां कर्तव्या। पक्वेष्टकामेष्टकासंयोगनिषेध-
स्तन्त्रान्तरे पठ्यते—
न नवं पुराणयुक्तं न पक्वमामेन चैव संयोज्यम्।
अन्यत्र स्खलितशिलाविशीर्णमच्छिन्नसंस्कारात्॥
संयोगो वेष्यते, तदा तेनानुक्रमेणेत्यत्र हिरण्यगर्भ आह—
आमेष्टकास्त्वधश्श्रेयाः पक्वाश्च चिनुयात्ततः।
पक्वाश्रिता ह्यधश्श्रेया यथेष्टमुपरीष्टकाः॥
पक्वेष्टकागृहाणां सुवर्णतृणवस्त्रादिकृतानां हिरण्यगर्भोक्तानां निषेधार्थं मयेन पञ्च
प्रकारा उक्ताः—
कटिमं ग्रन्थि मं चैव दायिमं रिपिमं तथा।
खातिमं च पुरं ख्यातं क्रियाः पञ्चविधा गृहे॥
सुवर्णादिभेदान् हिरण्यगर्भ आह—
गृहं तु विविधं प्रोक्तं शरीरैस्तु पृथग्विधैः।
पाषाणैर्निचितं यच्च तद्गृहं मन्दिरं स्मृतम्॥
पक्वेष्टकं वास्तुनाम भवनं हितमुत्तमम्।
आमेष्टकं सुमन्तं तु सुधारं कर्दमेन तु॥
मानस्य वर्धितं काष्ठैर्वेणुभिर्नन्दनं स्मृतम्॥
वस्त्रैश्च विजयं प्रोक्तं राज्ञां शिल्पिविकल्पितम्।
कालिमेति च विज्ञेयमष्टमं तृणजातिभिः॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
२६ बृहत्संहिता
उत्तमानि तु चत्वारि गृहाणि गृहमेधिनाम्।
सौवर्णं राजतं ताम्रमायसं च प्रकीर्तितम्।।
सौवर्णं पुष्करं नाम राजतं श्रीभवं तथा।
ताम्रेण सूर्यमन्तं तु चण्डनाम तथायसम्।।
देवदानवगन्धर्वयक्षराक्षसकिन्नरैः ।
द्वादशैते प्रकारास्तु गृहाणां नियताः स्मृताः।।
जातुषं त्वानिलं नाम त्रापुषं वारिबन्धकम्।
एवं जातिषु सर्वासु गृहाणि तु चतुर्दश।।
दारुकृतानां तु न विकल्पः। दारुकृतानाममीषां च सुवर्णादिकृतभित्तिविस्तारविकल्पो
नास्त्येव, किं यद्भित्तिविस्तारमेव केवलं दारुसुवर्णादिरचितानां नेति; उत सर्व एव स्तम्भ-
भूमिविभागा विकल्पा इति। अत्रोच्यते—सर्व एव विकल्पाः पक्वेष्टकाकृतानां क्रियन्ते,
नान्येषाम्। दारुकृतादीनां तु पुनर्देवतानिवेशभोजनदेवागारमहानसादिनिवेशमात्रमेव क्रियते,
नान्यदिति। तथा च तन्त्रान्तरे पठ्यते—
तत्र च विसस्यभूमेः परीक्षणं देवतानिवेशश्च।
तलकोच्छ्रायः कार्यों विधानतो वास्तुपुरुषस्य।।
शेषाणामपि च तथैव सन्निविष्टक्रिया समुद्दिष्टा।
भोजनशालासंस्थानलक्षणं चैषु सामान्यम्।।
नैषां नियमस्तलकोच्छ्रयेषु नायामविस्तारार्थेषु।
न द्वारेषु न दारुषु न पालिनाडीविभागेषु।।
इत्यलमतिप्रसङ्गेन प्रकृतमभिधीयत इति।।३९-४१।।
अधुनैकाशीतिपदस्य क्षेत्रस्य विभागप्रदर्शनार्थमाह—
एकाशीतिविभागे दश दश पूर्वोत्तरायता रेखाः ।
अन्तस्त्रयोदश सुरा द्वात्रिंशद्वाह्यकोष्ठस्थाः ।।४२।।
इक्यासी पद के क्षेत्र बनाने के लिये दश रेखा पूर्वपरा और दश रेखा दक्षिणोत्तरा
बनानी चाहिये, इस तरह रेखायें करने से ८१ कोष्ठ का क्षेत्र बन जायगा। उस कोष्ठ के
बाहर तेरह और भीतर बत्तीस देवता होते हैं।।४२।।
एकाशीतिपदविभागार्थं क्षेत्रे दश रेखाः पूर्वापरायता दश दक्षिणोत्तरायताश्च कार्याः।
एवं कृते एकाशीतिपदं क्षेत्रमुत्पद्यते। अस्य क्षेत्रस्यान्तर्मध्ये त्रयोदश सुराः देवाः स्थिताः।
बाह्यकोष्ठस्था बहिष्कोष्ठेषु स्थिता द्वात्रिंशत्। एवं पञ्चचत्वारिंशत् सुरा अत्र क्षेत्र इति।।४२।।
तत्र द्वात्रिंशद्वाह्यकोष्ठस्थान् सुरानाह—
शिखिपर्जन्यजयन्तेन्द्रसूर्यसत्या भृशोऽन्तरिक्षश्च ।
ऐशान्यादिक्रमशो दक्षिणपूर्वेऽनिलः कोणे ।।४३।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA