बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 1 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
३५६ बृहत्संहिता
अब्दा मेघास्त एव नागा हस्तिनस्तैर्यदाकाशं वृतं व्याप्तम्। तडिता विद्युतस्ता
एव हेमकक्ष्याः सौवर्णानि मध्यबन्धनानि येषाम्। बलाका हंसपङ्क्तिविशेषास्ता एवाग्रदन्ताः
पुरोवर्तिनो रदाः शुक्लत्वाद्येषाम्। स्रवद्वारि वर्षजलं तदेव दानं मदजलं येषाम्। चलन्ति
प्रान्तान्यग्राणि यानि तान्येव हस्ताः करा येषाम्। विचित्रं नानावर्णमिन्द्रचापं सुरेन्द्रधनुस्तदेव
ध्वजोच्छ्रायशोभा येषाम्। उच्छ्रितं चोपरि ध्वजं नृपजनानां भवति। तमालो वृक्षः कृष्ण-
वर्णः। अलिर्भ्रमरस्तद्वन्नीलत्वं येषां तैस्तथाभूतैः।।१७।।
अन्यच्च मेघवर्णनमाह—
सन्ध्यानुरक्ते नभसि स्थितानामिन्दीवरश्यामरुचां घनानाम्।
वृन्दानि पीताम्बरवेष्टितस्य कान्तिं हरेश्चोरयतां यदा वा ॥१८॥
जिस आकाश में सन्ध्याकालिक राग से रंगे, नील कमल के समान मानो पीताम्बर
पहने हुए विष्णु भगवान् की कान्ति को चुराने वाले मेघ हैं।। १८।।
घनानां मेघानां नभस्याकाशे सन्ध्यानुरक्ते सन्ध्यारागरञ्जिते लोहिते स्थितानां सन्तिष्ठ-
ताम्। कीदृशानाम्? इन्दीवरश्यामरुचाम्, इन्दीवरं नीलोत्पलं तद्वत् श्यामा रुक् कान्तिर्येषां
तथाभूतानाम्। वृन्दानि समूहाः। अत एवोत्प्रेक्ष्यते—हरेर्भगवतो नारायणस्य पीताम्बर-
वेष्टितस्य पीतवस्त्रप्रावृतशरीरस्य कान्तिं दीप्तिं चोरयतां मुष्णतां यदा यस्मिन्नभसि।।१८।।
अन्यमेघवर्णनमाह—
सशिखिचातकदर्दुरनिःस्वनैर्यदि विमिश्रितमन्द्रपटुस्वनाः।
खमवतत्य दिगन्तविलम्बिनः सलिलदाः सलिलौघमुचः क्षितौ ॥१९॥
मयूर, चातक और मेढक के शब्दों से युत मधुर शब्द वाले, आकाश को व्याप्त कर
दिगन्त तक लटके हुये तथा पृथिवी पर अधिक वृष्टि करने वाले मेघ।।१९।।
एवं यदा सलिलौघमुचो मेघाः सलिलस्य जलस्यौघं समूहं मुञ्चन्ति परित्यजन्ति ये
ते क्षितौ भूतौ सलिलदा जलं ददतीत्यर्थः। अथ चैवंविधाः सलिलदा मेघाः क्षितौ भूमौ
सलिलौधमुचो भवन्तीति योजना। कीदृशाः? शिखिनो मयूराः, चातकाः सारङ्गाः, दर्दुरा
मण्डूकाः, तेषां निःस्वनाः शब्दाः। सशिखिचातकानां दर्दुराणां ये निःस्वनास्तैर्विमिश्रिता
मन्द्रा मधुराः पटवश्चतुराः स्वनाः शब्दा येषां ते तथाविधाः। तथा खमाकाशमवतत्य व्याप्य
यदि दिगन्तविलम्बिनो दिगन्तेष्वाशापर्यन्तेषु ये विलम्बन्ते ते तथाविधाः।।१९।।
अन्यच्चाह—
निगदितरूपैर्जलधरजालैस्त्र्यहमवरुद्धं द्व्यहमथवाहः।
यदि वियदेवं भवति सुभिक्षं मुदितजना च प्रचुरजला भूः ॥२०॥
तीन या दो दिन तक पूर्वोक्त स्वरूप वाले मेघों से युत आकाश हो तो सुभिक्ष,
आनन्दयुत मनुष्य और पृथिवी पर अधिक वृष्टि होती है।।२०।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
रोहिणीयोगाध्यायः ३५७
यदि वियदाकाशं निगदितरूपैः कथितरूपैर्जलधराणां मेघानां जालैर्वृन्दैस्त्र्यहं दिनत्रय-
मवरुद्धं स्थगितम्। द्वयहं दिनद्वयं वाऽहर्दिनमेकम्। अनेन प्रकारेण सुभिक्षं भवति। तथा
भूरवनिर्मुदितजना प्रहृष्टलोका प्रचुरजला भूरितोया च भवति। तथा च गर्गः—
दधिरौप्यामलाक्रौञ्चताम्राभारुणसन्निभाः ।
शुककौशेयमाञ्जिष्ठास्तपनीयसमप्रभाः ।।
अच्छिन्नमूलाः सुस्निग्धाः पर्वताकारसन्निभाः ।
घना घनाः प्रशस्यन्ते विद्युत्स्तनितसङ्कुलाः ।।
तथा च पराशरः—'रोहिणीयोगे पुनः प्रदक्षिणो मृदुर्मारुतः स्नेहवन्ति चाभ्राणि विद्यु-
च्छक्रचापालंकृतानि स्वादुसुरभिविमलशिशिरतावृद्धिश्चाम्भसां वृष्टिक्षेमसुभिक्षाय। यावतो
दिवसान् निमित्तप्रादुर्भावानुबन्धस्तावद्वर्षाणि सुभिक्षक्षेमम्। आसप्तरात्राद्विलवासिनां बिलेभ्यो
निष्क्रमणं स्त्रीपुरुषबालानां प्रमोदः पक्षिणां क्षीरपुष्पफलवृक्षसेवनं तरूणामच्छिद्रपत्रता
पुरपौरहिताय' इति। तथा च समाससंहितायाम्—
आषाढबहुलपक्षे शिशिरकरे रोहिणीसमायुक्ते।
यदि गगनममलमत्यन्ततीक्ष्णरश्मिः सहस्रांशुः ।।
सलिलगुरुनम्रजलधरतडिल्लतालोलरञ्जितदिगन्तः ।
अमितमलभेकचातककादम्बविमिश्रमाकाशम् ।।
क्षितितनयरविजरहितः स्फटिकनिभश्चन्द्रमा निरुत्पातः।
मरुतश्च पूर्वपूर्वोत्तरोत्तराः शान्तमृगविहगाः ।। इति ।। २० ।।
अथाशुभानां मेघानां लक्षणमाह—
रूक्षैरल्पैर्मारुताक्षिप्तदेहैरूष्ट्रध्वाङ्क्षप्रेतशाखामृगाभैः ।
अन्येषां वा निन्दितानां स्वरूपैर्मूकैश्शब्दैर्नो शिवं नापि वृष्टिः ।।२१।।
रूक्ष, अल्प, वायु से प्रेरित, ऊँट, कौआ, मुर्दा, वानर या अन्य निन्दित जीवों (कुत्ता,
बिल्ली, राक्षस आदि) की तरह कान्ति वाले और शब्दरहित मेघ अशुभ और अवृष्टि
करने वाले होते हैं ।।२१।।
एवंविधैरब्दैर्मेघैनों शिवं श्रेयः, न चापि वृष्टिर्वर्षणं भवति। कीदृशैः ? रूक्षैरस्निग्धैः ।
अल्पैर्लघुभिः । मारुतेन वायुना आसमन्तात्क्षिप्ताः प्रेरिता देहाः शरीराणि येषां तैः । उष्ट्रः
करभः। ध्वाङ्क्षः काकः । प्रेतः शवः । शाखामृगो मर्कटः। एतेषां सदृशी आभा सादृश्य-
माकृत्या च येषां तैस्तथाभूतैः। अन्येषामपरेषां वा प्राणिनां निन्दितानां कुत्सितानां श्वा-
जारराक्षसानां स्वरूपैः सदृशैर्मूकैर्निःशब्दैश्च। तथा च गर्गः—
छिन्नमूलाश्च वृक्षाश्च शुष्का वाष्पाकुलाकृताः।
पापसत्त्वानुकाराश्च मेघाः पापफलप्रदाः ।। इति ।। २१ ।।
CC-0. JK Sanskrit Academy, Jammpu. Digitized by S3 Foundation USA
३५८ बृहत्संहिता
अन्यच्छुभलक्षणमाह—
विगतघने वा वियति विवस्वानमृदुमयूखः सलिलकृद्देवम्।
सर इव फुल्लं निशि कुमुदाढ्यं खमुडुविशुद्धं यदि च सुवृष्ट्यै ॥२२॥
यदि मेघरहित आकाश में सूर्य के किरण तीक्ष्ण हों तथा रात्रि में निर्मल नक्षत्रों से
युत आकाश, खिली हुई कुमुदिनियों से युत सरोवर की तरह हो तो सुन्दर वृष्टि होती है।
अथ विवस्वानादित्यो वियत्याकाशे विगतघने मेघरहिते अमृदुमयूखश्चण्डरश्मिर्भवति
तदैवमनेन प्रकारेण सलिलकृज्जलं करोति। तथा खमाकाशं निशि रात्रावुडुविशुद्धं निर्मल-
नक्षत्रं कुमुदाढ्यं कुमुदबहुलं सर इव फुल्लं विकसितं यदि दृश्यते तदा सुवृष्ट्यै शोभन-
वृष्टये भवति।।२२।।
अथ दिग्भागेन मेघफलान्याह—
पूर्वोद्भूतैः सस्यनिष्पत्तिरब्दैराग्नेयाशासम्भवैरग्निकोपः ।
याम्ये सस्यं क्षीयते नैर्ऋतेऽर्द्धं पश्चाज्जातैः शोभना वृष्टिरब्दैः ॥२३॥
वायव्योत्थैर्वातवृष्टिः क्वचिच्च पुष्टा वृष्टिः सौम्यकाष्ठासमुत्थैः ।
श्रेष्ठं सस्यं स्थाणुदिक्सम्प्रवृद्धैर्वायुश्चैवं दिक्षु धत्ते फलानि ॥२४॥
पूर्व दिशा में उत्पन्न मेघों से धान्य की उत्तम निष्पत्ति, आग्नेय कोण में उत्पन्न मेघों से
अग्नि का भय, दक्षिण दिशा में उत्पन्न मेघों से धान्य का नाश, नैर्ऋत्य कोण में उत्पन्न मेघों
से धान्य की आधी निष्पत्ति, पश्चिम दिशा में उत्पन्न मेघों से सुन्दर वृष्टि, वायव्य कोण में
उत्पन्न मेघों से कहीं-कहीं पर वायुयुत वृष्टि (सर्वत्र नहीं), उत्तर दिशा में उत्पन्न मेघों से
पूर्ण वृष्टि और ईशान कोण में उत्पन्न मेघों से उत्तम धान्य होता है। दिशाओं के अनुसार
वायु का भी इसी तरह फल समझना चाहिये।।२३-२४।।
अब्दैर्मेघैः पूर्वोद्भूतैः पूर्वस्यां दिशि सम्भूतैः सस्यानां निष्पत्तिः सम्पद् भवति।
एवमाग्नेयाशासम्भूतैरनलदिक्स्थैरग्निकोपो वह्निकोपः। याम्ये दक्षिणदिगुत्थैः सस्यं क्षीयते
क्षयं याति। नैर्ऋते नैर्ऋतदिगुत्थैरब्दैरर्द्धं क्षीयते। अर्द्धनिष्पत्तिं याति। पश्चाज्जातैः पश्चिमायां
दिश्युत्पन्नैरब्दैर्मेघैः शोभना वृष्टिर्भवति। वायव्योत्थैर्वातयुक्ता वृष्टिर्भवति, सा क्वचित्
क्वचिच्च न सर्वत्र। सौम्यकाष्ठासमुत्थैरुत्तरदिक्सम्भूतैः पुष्टा परिपूर्णा वृष्टिर्भवति। स्थाणु-
दिगैशानी। तत्सम्प्रवृद्धैस्तदुत्पन्नैः श्रेष्ठं सस्यं भवति। एवमनेन प्रकारेण यथा मेघाः शुभा-
शुभफलप्रदा उक्तास्तथैव वायुर्मारुतः फलानि धत्ते ददाति। एतदुक्तं भवति—यथा पूर्वोद्भूतैः
सस्यनिष्पत्तिरब्दैरेवं पूर्वोद्भूतेन वायुनापि सस्यनिष्पत्तिर्भवतीत्यादि योज्यम्।।२३-२४।।
अथैषामप्युत्पातानामतिदेशार्थमाह—
उल्कानिपातास्तडितोऽशनिश्च दिग्दाहनिर्घातमहीप्रकम्पाः ।
नादा मृगाणां सपतत्रिणाञ्च ग्राह्या यथैवाम्बुधरास्तथैव ॥२५॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
रोहिणीयोगाध्यायः ३५१
रोहिणी योग के समय दिशाओं के अनुसार मेघों के फल (पूर्वोद्भूतैः सस्यनिष्पत्ति-
रित्यादि पदोक्त फल) की तरह दिशाओं के अनुसार उल्कापात, विद्युत्, दिग्दाह, आकाश
में शब्द, भूकम्प, पक्षी और वन-जन्तुओं के शब्द का फल कहना चाहिये।।२५।।
उल्कानिपाताः। तडितो विद्युतः प्रघाताः। अशनिपाताः। आसां लक्षणानि पुरस्तादाचार्य
एवं वक्ष्यति। दिग्दाहो दिशां दाहः। निर्घातो नभःशब्दा। महीप्रकम्पो भूमिकम्पः। मृगाणा-
मरण्यप्राणिनां सपतत्रिणां पक्षिसहितानां नादाः शब्दा यथा येन प्रकारेणाम्बुधरास्तथा तेनैव
प्रकारेण ग्राह्या गृहीतव्याः। पूर्वोद्भूतैः सस्यनिष्पत्तिरब्दैरिति न्यायेन।।२५।।
अथ ये पूर्वं चतसृषु दिक्षु कुम्भाः स्थापितास्तैः शुभाशुभज्ञानमाह—
नामाङ्कितैस्तैरुदगादिकुम्भैः प्रदक्षिणं श्रावणमासपूर्वैः।
पूर्णैः स मासः सलिलस्य दाता स्रुतैरवृष्टिः परिकल्प्यमूनैः ॥२६॥
रोहिणी योग के दिन वृष्टि होने पर उत्तर आदि चारो दिशाओं में प्रदक्षिण क्रम से
श्रावण आदि चार मासों का नाम अङ्कित करके चार घड़ों का स्थापन करे। जिस मास
का घड़ा जल से पूर्ण हो जाय, वह मास फल देने वाला, घड़े से बिलकुल जल निकल
जाय तो अवृष्टि और थोड़ा जल हो तो अपनी बुद्धि से तारतम्य करके वृष्टि की कल्पना
करनी चाहिये। जैसे आधे में आधा, चौथाई में चौथाई इत्यादि वृष्टि कहनी चाहिये।।२६।।
तैः कुम्भैरुदगादिस्थैरुत्तराद्यासु दिक्षु प्रदक्षिणं प्रादक्षिण्येन व्यवस्थितैस्तैश्च श्रावण-
मासचतुष्टयपरिकल्पितैः। एतदुक्तं भवति—उदक्कुम्भः श्रावणमासः परिकल्प्यः। प्राग्भाद्र-
पदः। दक्षिण आश्वयुजः। पश्चिमस्थः कार्तिकः परिकल्प्य इति। तैः पूर्णैः स मासः सलि-
लस्य दाता भवति। तेषां चतुर्णां मध्याद्यः कुम्भः परिपूर्णो यस्मिन् मासे परिकल्पितः स
मासः सलिलस्य दांता भवति। तस्मिन् मासे देवो वर्षतीत्यर्थः। एतदुक्तं भवति—
उदक्कुम्भे परिपूर्णे श्रावणे वृष्टिर्वक्तव्या। प्राक्कुम्भे भाद्रपदे। दक्षिणे आश्वयुजे। पश्चिमे
कार्तिक इति। सर्वेषु परिपूर्णेषु चतुर्ष्वपि मासेषु वृष्टिर्वक्तव्या। द्वयोर्मासद्वयोरपि। तैरैव
कुम्भैः परिस्रुतै रिक्तीभूतैरवृष्टिरवर्षणम्। ऊनैः स्वबुद्ध्या परिकल्पनीयम्। अर्द्धस्रुतैरर्द्धम्यमा
वृष्टिरन्तरेऽनुपाताद्वाच्यम्। तथा च गर्गः—
सौम्ये तु श्रावणं विन्द्यात् पूर्वे भाद्रपदं वदेत्।
दक्षिणेऽश्वयुजो ज्ञेयः पश्चिमे कार्तिकं विदुः।।
सर्वे कुम्भाः सुपूर्णाः स्युरभग्नाः कान्तिसंयुताः।
चतुरो वार्षिकान् मासान् सर्वान् वर्षति वासवः।।
सर्वस्रुतैरवृष्टिः स्यादर्द्धैर्मध्यमवर्षणम्।
द्रवैस्तथाविधा वृष्टिर्वक्तव्या जलमानतः।। इति।।२६।।
अन्यदप्याह—
अन्यैश्च कुम्भैर्नृपनामचिह्नैर्देशाङ्कितैश्चाप्यपरैस्तथैव।
भग्नैः स्रुतैन्यूनजलैः सुपूर्णैर्भाग्यानि वाच्यानि यथानुरूपम् ।।२७।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
३६० बृहत्संहिता
रोहिणी योग के समय वृष्टि होने पर उत्तर आदि चार दिशाओं में प्रदक्षिण क्रम से
उत्तर आदि दिशाओं में स्थित राजा, देश और ब्राह्मण आदि चार वर्गों का नाम अङ्कित
करके पूर्ववत् चार घड़ों का स्थापन करे। बाद में जिस दिशा का घड़ा नष्ट हो जाय, उस
दिशा के राजा, देश और वर्गों का नाश; जिस दिशा के घड़ा से सब जल बह जाय उस
दिशा के राजा आदियों में उपद्रव; जिस दिशा के घड़ा में थोड़ा जल शेष रहे उस दिशा के
राजा आदियों को मध्यम फल और जिस दिशा का घड़ा जल से पूर्ण हो जाय उस दिशा
के राजा आदियों को अति शुभ फल होता है॥२७॥
अन्यैरपरैरपि कुम्भैर्नृपनामचिह्नैर्नृपाणां राज्ञां नाम्ना संज्ञया चिह्नैरुपलक्षितैस्तथा तेनैव
प्रकारेणापरैरन्यैर्देशाङ्कितैर्देशनाम्ना चिह्नितैः। एतदुक्तं भवति—तत्र बहव उदकुम्भा
नृपदिग्देशचातुर्वर्ण्यैश्चिह्निताः शुभाशुभज्ञानार्थं स्थाप्याः। तैश्च भग्नैः स्रुतैन्यूनजलैः सुपूर्णै-
र्यथानुरूपं यथासादृश्यं भाग्यानि शुभाशुभानि वाच्यानि वक्तव्यानि। एतदुक्तं भवति—
तैः कुम्भैः परिपूर्णैरतिशुभम्। भग्नैर्नष्टैः स्रुतैरुपद्रवाः। ऊनजलैर्मध्यमं फलम्। तथा च
काश्यपः—
अन्यदेशाङ्किताः कुम्भा भिद्यन्ते च स्रवन्ति च।
बन्धहीना वितोयाश्च तेऽभियोज्या नृपेण वै।। इति।।२७।।
अथ रोहिण्याश्चन्द्रसंस्थाने विशेषेण शुभाशुभफलमाह—
दूरगो निकटगोऽथवा शशी दक्षिणे पथि यथातथा स्थितः ।
रोहिणीं यदि युनक्ति सर्वथा कष्टमेव जगतो विनिर्दिशेत् ॥२८॥
यदि दूर स्थित या समीप स्थित चन्द्रमा रोहिणी के दक्षिणगत होकर संयोग करे तो
संसार को दुःखी करने वाला होता है॥२८॥
शशी चन्द्रो यथा येन प्रकारेण तथा तेन प्रकारेण दूरगो विप्रकृष्टस्थो निकटगः समीप-
स्थो वा दक्षिणे पथि दक्षिणस्यां दिशि स्थितो यदि रोहिणीं प्राजापत्यं युनक्ति संयोगं याति
तदा जगतो जनपदस्य कष्टमशुभं दुर्भिक्षजनमरकादिकं विनिर्दिशेद् वदेत्।।२८।।
अन्यदप्याह—
स्पृशन्नुदग्द्याति यदा शशाङ्कस्तदा सुवृष्टिर्बहुलोपसर्गा ।
असंस्पृशन्योगमुदक्समेतः करोति वृष्टिं विपुलां शिवञ्च ॥२९॥
यदि रोहिणी के दक्षिण में स्पर्श करते हुये उत्तर तरफ होकर चन्द्रमा गमन करे तो
सुन्दर वृष्टि और लोगों में अनेक प्रकार के उपद्रव होते हैं। यदि रोहिणी को स्पर्श नहीं
करते हुये उत्तर तरफ होकर चन्द्रमा गमन करे तो सुन्दर वृष्टि और लोगों का शुभ करने
वाला होता है॥२९॥
रोहिण्याः स्पृशन्नेव दक्षिणेन स्पर्शं कृत्वा यद्युत्तरेण शशाङ्को याति गच्छति तदा बहु-
लोपसर्गा प्रभूतोपद्रवा बहुभिर्दोषैर्युक्ता सुवृष्टिः शोभनवृष्टिर्भवति। लोकानामुपद्रवा भवन्ति,
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
रोहिणीयोगाध्यायः ३६१
यथा कालोचिता वृष्टिर्भवतीत्यर्थः। अथवा रोहिण्या योगमसंस्पृशन्नादावुदक्समेत उत्तरेण
गतस्तदा सुवृष्टिं शोभनवृष्टिं विपुलां विस्तीर्णां करोति। शिवं श्रेयश्च भवति।।२९।।
अथ रोहिण्याः शकटमध्यगते चन्द्रे फलमाह—
रोहिणीशकटमध्यसंस्थिते चन्द्रमस्यशरणीकृता जनाः।
क्वापि यान्ति शिशुयाचिताशनाः सूर्यतप्तपिठराम्बुपायिनः ।।३०।।
यदि रोहिणी शकट (छः तारा होने के कारण रोहिणी शकट कहते हैं) के मध्य
स्थित होकर चन्द्रमा गमन करे तो आश्रयरहित, बच्चों के लिये भोजन माँगते हुये, सूर्य
किरण से अत्यन्त उष्ण जल पीते हुये लोग (प्रजागण) अनिश्चित स्थान पर गमन करते
हैं।।३०।।
शकटभेदलक्षणं गणित उक्तम्। तथा च ब्रह्मसिद्धान्ते—
विक्षेपोऽशद्वितयाधिको वृषभस्य सप्तदशभागे।
यस्य ग्रहस्य याम्यो भिनत्ति शकटं स रोहिण्याः।। इति।
चन्द्रमसि रोहिण्याः शकटमध्यसंस्थिते जना लोका अशरणीकृता निःशरणीभूताः
क्वापि यान्ति कुत्रापि गच्छन्ति। केचित् प्रजा इति पठन्ति। प्रजाः क्वापि यान्ति। कीदृशाः
शिशुयाचिताशनाः, शिशवो बालास्तेषामशनं भोजनं याचमानाः प्रार्थ्यमानाः। तथा सूर्येणा-
ऽऽदित्येन पिठरे भाण्डविशेषे तप्तं परितापितं यदम्बु पानीयं तत्पायिनस्तत्पानशीलाः।
अनेन जलाभाव उक्तः। षट्तारकत्वाद्रोहिण्याः शकटः समूहः।।३०।।
अथ रोहिण्याः पश्चिमदिक्स्थे चन्द्रमसि फलमाह—
उदितं यदि शीतदीधितिं प्रथमं पृष्ठत एति रोहिणी।
शुभमेव तदा स्मरातुराः प्रमदाः कामवशेन संस्थिताः ।।३१।।
पहले चन्द्र का उदय होकर पश्चात् चन्द्र के पश्चिम दिशा में रोहिणी उदित होकर
गमन करे तो लोगों में अनेक प्रकार के शुभ होते हैं तथा कामातुर स्त्रीगण पति के वश में
हो जाती हैं।।३१।।
शीतदीधितिं चन्द्रं प्रथममादौ यद्युदितमभ्युद्गतं तस्य च पृष्ठतः पश्चाद्रोहिणी एत्या-
गच्छति समुदेति, तदा शुभमेव शोभनं लोके। प्रमदाः स्त्रियः स्मरातुराः कामार्ताः काम-
वशेन संस्थिताः कामुकानां वशवर्तिन्यो भवन्ति।।३१।।
अथ रोहिण्याः पूर्वस्यां दिशि स्थिते चन्द्रे फलमाह—
अनुगच्छति पृष्ठतः शशी यदि कामी वनितामिव प्रियाम्।
मकरध्वजबाणखेदिताः प्रमदानां वशगास्तदा नराः ।।३२।।
जैसे प्रिया स्त्री के पीछे कामी पुरुष गमन करता है, उसी तरह यदि रोहिणी के पीछे
चन्द्र गमन करे तो काम के बाण से खेदित होकर मनुष्यगण स्त्री के वश में हो जाते हैं।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
३६२ बृहत्संहिता
रोहिण्याः शशी चन्द्रो यदि पृष्ठतः पश्चादनुगच्छत्युदेति प्रियां वनितां वल्लभां स्त्रियं
कामिनीं कामी कामुको यथा अनुगच्छति। तदा प्रमदानां स्त्रीणां तस्मिन् वर्षे नराः पुरुषा
मकरध्वजबाणखेदिताः कामशरपीडिताः सन्तो वशगा भवन्ति॥३२॥
अथ रोहिण्याः शेषासु दिक्षु स्थिते चन्द्रे फलमाह—
आग्नेय्यां दिशि चन्द्रमा यदि भवेत्तत्रोपसर्गो महान्
नैर्ऋत्यां समुपद्रुतानि निधनं सस्यानि यान्तीतिभिः ।
प्राजेशानिलदिक्स्थिते हिमकरे सस्यस्य मध्यश्रयो
याते स्थाणुदिशं गुणाः सुबहवः सस्यार्घवृष्ट्यादयः ॥३३॥
जिस वर्ष में रोहिणी के आग्नेय कोण में चन्द्रमा स्थित हो, उस वर्ष में बहुत उपद्रव,
नैर्ऋत्य कोण में चन्द्रमा स्थित हो तो अति वृष्टि आदि ईतियों से पीड़ित होकर धान्य का
नाश, वायव्य कोण में स्थित चन्द्र हो तो मध्यम धान्य और ईशान कोण में स्थित चन्द्र हो
तो उस वर्ष धान्यों के मूल्य में अल्पता, सुन्दर वृष्टि आदि बहुत गुण होते हैं॥३३॥
प्राजेशस्य ब्राह्मण इयं प्राजेशी रोहिणी, तस्यामाग्नेय्यां पूर्वदक्षिणस्यां दिशि यदि
चन्द्रमाः शशी भवेत् स्यात्तदा तत्र तस्मिन् वर्षे महानतीवोपसर्ग उपद्रवो भवति। तथा
नैर्ऋत्यां दक्षिणपश्चिमायां दिशि स्थिते चन्द्रमसि सस्यानि ईतिभिरतिवृष्ट्यादिभिरुपद्रवैः
समुपद्रुतानि उपतप्तानि निधनं नाशं यान्ति प्राप्नुवन्ति। हिमकरे चन्द्रेऽनिलदिक्स्थिते
वायव्यां पश्चिमोत्तरस्यां दिशि स्थिते समाश्रिते सस्यस्य धान्यादेर्मध्यश्रयो मध्यमं सङ्घटनं
भवति। तथा स्थाणुदिशमैशानीमुत्तरपूर्वामाशां याते प्राप्ते चन्द्रे सुबहवः सुप्रभूता गुणा
भवन्ति। के ते सस्यार्घवृष्ट्यादयः सस्यानि चार्घवृष्टयश्च ताः सस्यार्घवृष्टयः। आदिग्रहणा-
द्योगक्षेमनीरोगता गृहीतव्याः। तथा च समाससंहितायाम्—
उदगपि च तुहिनकिरणः पूर्वोत्तरतोऽथवा स्थितः प्राच्याम्।
यदि भवति तदा वसुधा भवति विवृद्धा प्रहृष्टजना॥
उपसर्गोऽनलदिक्स्थे याम्याशासंस्थिते शकटके च।
किं कष्टैस्तैरुक्तैः श्रुतमात्रैर्यैः कृशो भवति॥
क्रिमिशुकशलभादिभयं नैर्ऋत्यां नातिपुष्टिरपरेण।
वायव्याशासंस्थे मध्यं सस्यं कुमुदनाथे॥ इति॥३३॥
अथ योगतारोपतापे छादने च फलमाह—
ताडयेद्यदि च योगतारकामावृणोति वपुषा यदापि वा।
ताडने भयमुशन्ति दारुणं छादने नृपबधोऽङ्गनाकृतः ॥३४॥
यदि चन्द्रमा रोहिणी की योगतारा को भेदित ( शृङ्ग के एक देश से स्पर्श ) करे या
अपने बिम्ब से उसको आच्छादित करे तो भेदित करने से कठोर भय और छादित करने
से स्त्री के द्वारा राजा का मरण होता है॥३४॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
रोहिणीयोगाध्यायः ३६३
योगतारकां प्रधानतारकाम्। तथा चोक्तम्—
सतारागणमध्ये तु या तारा दीप्तिमुत्तरा।
योगतारेति सा प्रोक्ता नक्षत्राणां पुरातनैः॥
तां च योगतारकां यदि ताडयेद् भिन्द्यात् शृङ्गैकदेशेन स्पृशतीत्यर्थः। अथवा वपुषा
शरीरेणावृणोत्याच्छादयति, तदा ताडने दारुणं तीव्रं भयं भीतिमुशन्ति कथयन्ति। तथा
छादने अङ्गनाकृतः स्त्रीकृतो नृपस्य राज्ञो बधः मरणमुशन्ति॥३४॥
अन्यदपि शुभाशुभज्ञानमाह—
गोप्रवेशसमयेऽग्रतो वृषो याति कृष्णपशुरेव वा पुरः।
भूरि वारि शबले तु मध्यमं नो सितेऽम्बुपरिकल्पनापरैः ॥३५॥
यदि गो-प्रवेश ( पश्चिम सन्ध्या ) समय में वन से आये हुये पशुओं में आगे बैल
या काला पशु हो तो उस वर्ष बहुत वृष्टि होती है। यदि शबल ( कृष्ण-श्वेत ) पशु आगे
हो तो मध्यम फल, उसमें कालापन ज्यादा हो तो वृष्टि, सफेदी ज्यादा हो तो थोड़ी वृष्टि
और बिलकुल सफेदी हो तो अवृष्टि होती है॥३५॥
गोप्रवेशसमये गवामरण्यादागतानां प्रवेशकाले पश्चिमसन्ध्यायां यद्यग्रतः पुरतो वृषो
बलीवर्दो भवति पुरद्वारे, अथवा पुरोऽग्रतः कृष्णोऽसितः पशुश्छागादिको भवति, तदा
तद्वर्षं भूरि वारि बहु जलं भवति। शबले तु मध्यमम्। शबलः कृष्णश्वेतः पशु-स्तस्य
यदा द्वौ वर्णौ समौ भवतस्तदा मध्यमं फलम्। तस्यैव कार्ष्ण्येऽधिके भूरि वारि, शौक्ल्येऽधिके
ऊनम्। सिते श्वेतवर्णे न किञ्चिदम्बु भवति।
अपरैर्वर्णैरम्बुपरिकल्पना स्वबुद्ध्या कार्या। शुक्लवर्णवर्जैरन्यैर्वर्णैः किञ्चित् किञ्चिद्
भवतीत्यर्थः। तथा च गर्गः—
प्राक् प्रवेशे तु यूथस्य पुरतो वृषभो यदा।
प्रवेशे कृष्णवर्णो वा पशुर्बहुजलप्रदः॥
कृष्णा तु गौः सुभिक्षाय क्षेमारोग्याय चोच्यते।
गौर्यामथ च नीलायां मध्याः सस्यस्य सम्पदः॥
अनावृष्टिकरी श्वेता वाताय कपिला स्मृता।
पाटला सस्यनाशाय रोगाय करटा स्मृता॥
एकदेशाय शबला चित्रं चित्रा तु वर्षति।
पाण्डुरा मध्यमाङ्गी वा ग्रीष्मधान्यविवर्द्धिनी॥
कपिला पश्चिमं वर्षं शोणा त्वग्रे प्रवर्षति।
तथा च पराशरः—'अथास्तमयवेलायां पुरद्वारमभिगम्य निमित्तान्युपलक्षयेत्। तत्र
गोगजाश्वरथप्रथमप्रवेशे पुरविजयो वानरखरोष्ट्रनकुलमार्जारप्रवेशे विद्रवो नेत्राङ्गहीनप्रवेशे
त्वशनिभय' इति॥३५॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
३६४ बृहत्संहिता
अथादर्शने चन्द्रमसः फलमाह—
दृश्यते न यदि रोहिणीयुतश्चन्द्रमा नभसि तोयदावृते।
रुग्भयं महदुपस्थितं तदा भूश्च भूरिजलसस्यसंयुता ॥३६॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां रोहिणी-
योगाध्यायश्चतुर्विंशः ॥२४॥
मेघ से ढके हुये आकाश में रोहिणी योग के समय यदि चन्द्र नहीं दिखाई दे तो उस
वर्ष में अतिशय रोग का भय होता है तथा पृथ्वी बहुत धान्य और वृष्टि से युत होती है।
इति 'विमला' हिन्दीटीकायां रोहिणीयोगाध्यायश्चतुर्विंशः ॥२४॥
यदि नभस्याकाशे तोयदावृते मेघच्छन्ने चन्द्रमा रोहिणीयुतो न दृश्यते लोके तदा
तस्मिन् वर्षे महदतीव रुग्भयं रोगभयमुपस्थितं प्राप्तं वदेत्। भूश्च भूमिर्भूरिजलसस्यसंयुता
बहुभिस्तोयैः सस्यैश्च युक्ता भवतीति॥३६॥
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ रोहिणी-
योगो नाम चतुर्विंशोऽध्यायः ॥२४॥
अथ स्वातीयोगाध्यायः
अथ स्वातियोगाध्यायो व्याख्यायते। तत्रादावेव रोहिणीयोगोक्तस्य फलस्यातिदेशं
कालनिर्देशं चाह—
यद्रोहिणीयोगफलं तदेव स्वातावषाढासहिते च चन्द्रे।
आषाढशुक्ले निखिलं विचिन्त्यं योऽस्मिन् विशेषस्तमहं प्रवक्ष्ये ॥१॥
रोहिणी योग में उक्त सभी फलों की तरह आषाढ़ शुक्ल में स्वाती नक्षत्र में स्थित
चन्द्र के समस्त फलों का विचार करना चाहिये तथा इस ( स्वाती योग ) में जो विशेष
फल हैं, उन्हें मैं कहता हूँ॥१॥
रोहिणीसहिते चन्द्रे यद्योगफलं प्रागुक्तं तदेव स्वातिसहिते चन्द्रे आषाढासहिते फलं
निखिलं निःशेषं विचिन्त्यं विचारणीयम्। किन्त्वाषाढशुक्ले शुचौ शुक्लपक्ष एतद्योगद्वयं
विचार्यम्। एतदुक्तं भवति—मेघानां वायोश्चोत्पातानां च यत्फलं रोहिणीयोग उक्तं तत्सर्वं
स्वात्याषाढास्थे चन्द्रमसि ज्ञातव्यम्। तदा दूरगो निकटगोऽथवा शशी इत्यादि। यथासम्भवं
समागमफलं यदुक्तं तत्सर्वमत्रैव वेदितव्यम्। तथा गोप्रवेशसमयेऽग्रतो वृष इत्यादिकं सर्व-
मपि वेदितव्यम्। तथा च पराशरः—'सर्व एते योगा मास्याषाढे भवन्ति। तान् दैवज्ञः प्रयतः
शुचिरवधारयेत्, स्वातिसंयुते चन्द्रमसि घनस्निग्धस्तनितविद्युन्मालैरम्भोदैर्नभसोऽवच्छादनं
सुभिक्षक्षेमाय तद्वत्सर्ववातप्रादुर्भाव इति। उल्कानिर्घातकम्पोपघातैश्च विपर्ययः' इति।
योऽस्मिन् विशेषस्तमहं प्रवक्ष्ये इति। अस्मिन् स्वातियोगे रोहिणीयोगाद्यो विशेषस्त-
महं प्रवक्ष्ये कथयिष्य इति॥१॥
अथ तत्र रात्रौ दिवसे च वृष्टे शुभाशुभलक्षणमाह—
स्वातौ निशांशे प्रथमेऽभिवृष्टे सस्यानि सर्वाण्युपयान्ति वृद्धिम्।
भागे द्वितीये तिलमुद्गमाषा ग्रैष्मं तृतीयेऽस्ति न शारदानि ॥२॥
वृष्टेऽह्निभागे प्रथमे सुवृष्टिस्तद्वद् द्वितीये तु सकीटसर्पा।
वृष्टिस्तु मध्यापरभागवृष्टेनिश्छिद्रवृष्टिर्द्युनिशं प्रवृष्टे ॥३॥
स्वाती नक्षत्र में स्थित चन्द्र के समय रात-दिन दोनों के तीन-तीन भाग करे। यदि
रात्रि के प्रथम भाग में वृष्टि हो तो सब धान्यों की वृद्धि, द्वितीय भाग में तिल, मूंग और
उड़द की वृद्धि, तृतीय भाग में ग्रीष्म ऋतु के धान्य की उत्पत्ति और शारदीय धान्य का
अभाव, दिन के प्रथम भाग में सुन्दर वृष्टि, द्वितीय भाग में कीड़े और साँपों से युत वृष्टि
तथा तृतीय भाग में वृष्टि हो तो मध्यम वृष्टि होती है। यदि सम्पूर्ण दिन और रात में वृष्टि
हो तो वर्षाकाल में दोषरहित वृष्टि होती है॥२-३॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
३६६ बृहत्संहिता
स्वातौ स्वातियोगे प्रथमे निशांशे आद्यरात्रित्रिभागे वृष्टे सर्वाणि निःशेषाणि सस्यानि
वृद्धिमुपयान्ति गच्छन्ति। द्वितीये रात्रित्रिभागे वृष्टे तिलमुद्गमाषा वृद्धिमुपयान्ति। तृतीये
त्रिभागे वृष्टे ग्रैष्ममस्ति ग्रीष्मधान्यानि भवन्ति। न शारदानि शरत्सस्यानि न भवन्ति।
अह्नि दिवसे प्रथमे आद्ये त्रिभागे वृष्टे सुवृष्टिः शोभना वृष्टिर्भवति। द्वितीये दिन-
त्रिभागे वृष्टे तद्ऋतुसुवृष्टिर्भवति, किन्तु सकीटसर्पा कीटैः क्रिमिभिः सर्पैर्भुजङ्गैश्च सहिता
वृष्टिर्भवति। अपरभागे तृतीये दिनत्रिभागे वृष्टिर्मध्यमा भवति, नातिबह्वी नात्यल्पा। द्युनिशं
प्रवृष्टे समग्रमहोरात्रं प्रवृष्टे निश्छिद्रा छिद्ररहिता निर्दोषा वृष्टिर्भवति। सर्वत्र कालोचितं
वर्षतीत्यर्थः। तथा च गर्गः—
स्वातियोगे यदा युक्ते पूर्वरात्रे प्रवर्षति।
ग्रीष्मशारदसम्पन्नं तां समामभिनिर्दिशेत्।
रात्रेर्द्विभागमाश्रित्य स्वातियोगेऽभिवर्षति।
सम्पदो मुद्गमाषाणां तिलानां चावधारयेत्।।
त्रिभागशेषे शर्वर्याः स्वातियोगेऽभिवर्षति।
ग्रैष्मं सम्पद्यते सस्यं शारदं तु विनश्यति।।
अहस्तु प्रथमे भागे वर्षाक्षेमसुवृष्टये।
द्वितीये शोभना वृष्टिर्बहुसस्यसरीसृपाः।।
अह्नस्तृतीये भागे तु मध्यमां कुरुते समाम्।
अहोरात्रं यदा वर्ष स्वातियोगे पुरन्दरः।।
तदा तु चतुरो मासान् सर्वान् वर्षति वासवः।। इति।।२-३।।
अथापांवत्सनिकटस्थे चन्द्रमसि शुभाशुभमाह—
सममुत्तरेण तारा चित्रायाः कीर्त्यते ह्यपांवत्सः।
तस्यासन्ने चन्द्रे स्वातेर्योगः शिवो भवति ॥४॥
चित्रा के उत्तर में अपांवत्स नामक तारा है, उसके समीप में यदि स्वाती के साथ चन्द्र
का संयोग हो तो शुभ होता है।।४।।
चित्रायाः सममुत्तरेण समं कृत्वा उत्तरेण तिर्यग् या तारा स्थिता सापांवत्स इति
कीर्त्यते कथ्यते। तस्यापांवत्सस्याऽऽसन्ने निकटस्थे चन्द्रे स्वातेर्योगश्चन्द्रसंयोगः शिवः
श्रेयस्करो भवति।।४।।
अथ स्वातियोगस्य कालयोगमाह—
सप्तम्यां स्वातियोगे यदि पतति हिमं माघमासान्धकारे
वायुर्वा चण्डवेगः सजलजलधरो वापि गर्जत्यजस्रम्।
विद्युन्मालाकुलं वा यदि भवति नभो नष्टचन्द्रार्कतारं
विज्ञेया प्रावृडेषा मुदितजनपदा सर्वसस्यैरुपैता ॥५॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
स्वातीयोगाध्यायः ३६७
यदि माघ कृष्ण सप्तमी में स्वाती नक्षत्रगत चन्द्र होने के समय हिम गिरे, भयङ्कर
वायु चले, जलयुत मेघ गर्जे, विद्युन्माला से व्याप्त आकाश रहे तथा मेघाच्छन्न होने के
कारण चन्द्र, सूर्य और तारा न दिखाई दे तो वर्षाकाल में आनन्दित और सब धान्यों से युक्त
जनपद जानना चाहिये।।५।।
माघमासस्यान्धकारे कृष्णपक्षे सप्तम्यां तिथौ स्वातिनक्षत्रयुक्ते चन्द्रे हिमं तुहिनं यदि
पतति, वायुर्मारुतो वा चण्डवेगः परुषो महास्वनो वहति अथवा सजलो जलेन पानीयेन
सहितो जलधरो मेघोऽजस्रमनवरतं वापि गर्जति शब्दं करोति। अथवा नभ आकाशं
विद्युन्मालाभिराकुलं सौदामिनीनां पंक्तिभिर्व्याप्तम्, नष्टचन्द्रार्कतारं नष्टा अदर्शनं गताश्चन्द्र-
तारकार्काः सोमतारकसूर्या यत्र मेघच्छन्नमित्यर्थः, तदैषा प्रावृड् वर्षा मुदितजनपदा प्रहृष्टलोका
सर्वैर्निःशेषैः सस्यैरुपैता संयुक्ता विज्ञेया विज्ञातव्या।।५।।
अन्यदपि शुभाशुभलक्षणमाह—
तथैव फाल्गुने चैत्रे वैशाखस्यासितेऽपि वा।
स्वातियोगं विजानीयादाषाढे च विशेषतः ॥६॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां स्वाति-
योगाध्यायः पञ्चविंशः ॥२५॥
इसी तरह फाल्गुन, चैत्र और वैशाख के कृष्ण पक्ष में स्वाती योग का विचार करे;
किन्तु आषाढ मास में विशेष रूप से इसका विचार करना चाहिये।। ६।।
इति 'विमला'हिन्दीटीकायां स्वातियोगाध्यायः पञ्चविंशः ॥२५॥
यथा सप्तम्यां स्वातियोगे यदि पतति हिममित्याद्युक्तं तथैव फाल्गुने मासि स्वातौ
भवति। चैत्रे वैशाखमासस्यासिते कृष्णपक्षेऽपि स्वातियोगं विजानीयाद्विन्द्याद्विचारयेत्।
विशेषत आषाढस्य यः स्वातियोगस्तं विचारयेदिति। अनार्षोऽयं श्लोकः॥६॥
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ
स्वातियोगोनाम पञ्चविंशोऽध्यायः ॥२५॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
अथाषाढीयोगाध्यायः
अथाषाढीयोगाध्यायो व्याख्यायते। तत्र तावद्रोहिणीयोगफलं यदुक्तं तत्सर्वमुत-
राषाढायुक्ते चन्द्रमसि विज्ञातव्यं तथाषाढपौर्णमास्यां विचारयेत्। तथा च पराशरः—
'अतोऽनन्तरमाषाढासंयुक्ते शशिन्यादानविसर्गान्तर्भागेषु निमित्तानि प्रावृष्याद्यन्तमध्येषु
फलन्ति। तत्र सुरभिरनुकूलः स्पर्शवान् मारुतः पूर्वपूर्वोत्तरोऽतिवर्षसस्यकरो नैर्ऋताग्नेय-
याम्यवारुणवायव्या मध्यसस्यकराः। विपर्ययो विपरीतेषु। वैदूर्यरजतमधुहेमप्रभा सन्ध्या
स्निग्धाभ्रवृक्षप्रादुर्भावश्च प्रावृड्वृद्धये। प्राङ्मध्यपश्चाद्भागेष्वाषाढानां योगः शशिनो वर्षासु
तत्कालमेव वर्षाय। वैश्वदेवादुत्तरतः शशी वर्षकरो न दक्षिणतः। निर्घातोल्काशानि-
भूचलनदण्डान्यावग्रहोपतापे सस्यवधो भवति। भवति चात्र—
सोदकं सातपं साभ्रं सविद्युत् स्तनयित्नुमत्।
प्रवातं च निवातं च प्रशस्तं तदहः स्मृतम्।। इति।
अथाषाढीयोगे यत्कर्तव्यं तदाह—
आषाढ्यां समतुलिताधिवासिताना-
मन्येद्युर्यदधिकतामुपैति बीजम्।
तद्वृद्धिर्भवति न जायते यदूनं
मन्त्रोऽस्मिन् भवति तुलाभिमन्त्रणाय ॥१॥
आषाढ शुक्ल पूर्णिमा के दिन उत्तराषाढा नक्षत्रगत चन्द्र के समय बराबर सब
धान्यों को अभिमन्त्रित तराजू से अलग-अलग तौल कर रख दे। दूसरे दिन उन सबों को
फिर तोले। जो धान्य बढ़ जाय उसकी उस वर्ष में वृद्धि और जो कम हो जाय उसकी
हानि होती है। तुला को अभिमन्त्रित करने के लिये समाससंहिता में मन्त्र दिया गया है,
जो भट्टोत्पलविवृति में द्रष्टव्य है॥१॥
आषाढस्येयं पौर्णमासी आषाढी। उत्तराषाढायुक्तेत्यर्थः। तथा च गर्गः—
वायव्यवैश्वदेवाभ्यां प्राजापत्यस्य चैव हि।
एषामप्यधिकं चापि रोहिणी नाम याप्यते।। इति।
तस्यामाषाढ्यां सर्वबीजानां समतुलिताधिवासितानां समं कृत्वोनातिरिक्तवर्जं यानि
बीजानि धान्यादीनि तुलितानि तुलया परिच्छिन्नानि तेषां तथाभूतानामधिवासितानाम्। अधि-
वाससा महाव्रतमन्त्रेणाभिमन्त्र्य रात्रिमेकामुषितानि। ततोऽन्येद्युरन्यस्मिन्नहनि द्वितीयदिवसे यद्-
बीजं तुलितमधिकतामुपैत्याधिक्यं गच्छति तद्वृद्धिस्तस्य धान्यादेस्तस्मिन् वर्षे वृद्धिर्भवति।
यदूनं भवति तन्न जायते नोत्पद्यते। मन्त्रोऽस्मिन् भवति तुलाभिमन्त्रणाय। अस्मिंस्तुलाकर्मणि
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
आषाढीयोगाध्यायः ३६९
तुलाभिमन्त्रणाय मन्त्रो भवति येन तुलाभिमन्त्र्यते इत्यर्थः। तथा च समाससंहितायाम्—
तुलिताधिवासितानामन्येद्युर्यदधिकं भवति बीजम्।
आषाढपौर्णमास्यां तद्वृद्धिस्तत्र मन्त्रोऽयम्।। इति।।१।।
अथ तं मन्त्रमार्षमाह—
स्तोतव्या मन्त्रयोगेन सत्या देवी सरस्वती।
दर्शयिष्यसि यत्सत्यं सत्ये सत्यव्रता ह्यसि।।२।।
येन सत्येन चन्द्रार्कौ ग्रहा ज्योतिर्गणास्तथा।
उत्तिष्ठन्तीह पूर्वेण पश्चादस्तं व्रजन्ति च।।३।।
यत्सत्यं सर्ववेदेषु यत्सत्यं ब्रह्मवादिषु।
यत्सत्यं त्रिषु लोकेषु तत्सत्यमिह दृश्यताम्।।४।।
ब्रह्मणो दुहितासि त्वमादित्येति प्रकीर्तिता।
काश्यपी गोत्रतश्चैव नामतो विश्रुता तुला।।५।।
मन्त्रयोग से सत्यरूपा सरस्वती देवी की उपासना करनी चाहिये। हे सत्यरूपे सरस्वति!
जो परमार्थरूप वस्तु है, उसको तुम ही दिखा सकती हो; क्योंकि तुम सत्य व्रत वाली हो।
जिस सत्य से चन्द्र, सूर्य, कुजादि ग्रह और नक्षत्रगण पूर्व दिशा में उदित होकर पश्चिम में
अस्त होते हैं, जो सत्य सब वेदों में है, जो सत्य ब्रह्मवादियों में है और जो सत्य तीनों
लोकों में है, उसको दिखा दो। तुम ब्रह्मा जी की पुत्री हो; पर आदित्या ( अदिति की पुत्री )
कहलाती हो, गोत्र से कश्यप गोत्र की हो और तुला के नाम से विख्यात हो।।२-५।।
स्तोतव्येति। सा तुला अनेन मन्त्रयोगेन सह स्तोतव्या स्तवनीया। सत्या सत्यरूपा
सरस्वती देवी। हे सत्ये सत्यरूपे यत्सत्यं परमार्थं दर्शयिष्यसि यस्मादसि त्वं सत्यव्रता।
सत्यमेव व्रतं यस्याः।
चन्द्रार्कौ शशिसूर्यौ ग्रहाश्चान्ये भौमादयः। तथा ज्योतिर्गणाः। ज्योतिषां ताराणां
गणाः समूहा येन सत्येन पूर्वेण पूर्वस्यां दिश्युत्तिष्ठन्ति उदयं यान्ति इहास्मिँल्लोके तथा
पश्चात्पश्चिमायां दिश्यस्तं व्रजन्ति अस्तमयं यान्ति।
तथा सर्वेषु वेदेषु यत्सत्यं तत्सत्यं ब्रह्मवादिषु परं ब्रह्म ये वदन्ति। त्रिषु लोकेषु
भूर्भुवःस्वराख्येषु यत्सत्यं तत्सत्यमिहास्मिंस्तुलाकर्मणि दृश्यताम्।
त्वं ब्रह्मणः कमलजस्य दुहिता तनया असि भवसि, तथा आदित्या अदितेरपत्यमित्येवं
प्रकारा प्रकीर्तिता कथिता। गोत्रतः काश्यपी कश्यपगोत्रा। नामतः संज्ञया तुला इति च
विश्रुता ख्याता।।२-५।।
अथ तुलाया लक्षणमाह—
क्षौमं चतुःसूत्रकसन्निबद्धं षडङ्गुलं शिक्यकवस्त्रमस्याः।
सूत्रप्रमाणं च दशाङ्गुलानि षडेव कक्ष्योभयशिक्यमध्ये।।६।।
बृ० सं० प्र०-२४
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
३७० बृहत्संहिता
दश अङ्गुल प्रमाण चार-चार सूत्रों से छः अङ्गुल प्रमाण शिक्यक वस्त्र ( दोनों पलड़े
के वस्त्रों ) को बाँधे और दोनों पलड़ों के बीच में छः अङ्गुल प्रमाण कक्ष्य ( डंडी ) बाँधे।
अस्यास्तुलायाः शिक्यकवस्त्रं क्षौमं कार्यम्। यत्र स्थितानि द्रव्याणि परिच्छिद्यन्ते
तच्छिक्यवस्त्रं तच्चतुःसूत्रकसन्निबद्धम्, चतुर्भिः सूत्रैस्तन्तुभिः सन्निबद्धं संलग्नं कार्यम्। तच्च
शिक्यकवस्त्रं षडङ्गुलं षडङ्गुलप्रमाणम्। यः सूत्रैस्तद्वध्यते, तेषां प्रमाणं दशाङ्गुलानि। उभय-
शिक्यमध्ये शिक्यद्वयस्यान्तः कक्ष्यासूत्रं षडङ्गुलं कार्यम्। कक्ष्यासूत्रेण ग्रहणसूत्रमुच्यते।।६।।
कथं तत्र द्रव्याणि परिच्छेद्यानीत्याह—
याम्ये शिक्ये काञ्चनं सन्निवेश्यं शेषद्रव्यान्युत्तरेऽम्बूनि चैव।
तोयैः कौप्यैः सैन्धवैः सारसैश्च वृष्टिर्हीना मध्यमा चोत्तमा च ॥७॥
दन्तैर्नागा गोहयाद्याश्च लोम्ना हेम्ना भूपाः शिक्यकेन द्विजाद्याः ।
तद्वद्देशा वर्षमासा दिशश्च शेषद्रव्याण्यात्मरूपस्थितानि ॥८॥
दक्षिण तरफ के पलड़े पर सुवर्ण और उत्तर तरफ के पलड़े पर कूप, नदी या सरोवर
के जल के साथ शेष द्रव्य का स्थापन करे। यदि प्रथम दिन की अपेक्षा द्वितीय दिन में कूप
का जल बढ़ जाय तो अवृष्टि, नदी का जल बढ़ जाय तो मध्यम वृष्टि और सरोवर का जल
बढ़ जाय तो उत्तम वृष्टि होती है। गजदन्त के प्रमाण से हाथी का, गौ, घोड़ा, आदि
( गदहा, ऊँट, बकरी और भेड़ ) के लोम से क्रमशः उन सबों का, सुवर्ण से राजा का,
मोम से ब्राह्मण आदि चारों वर्णों का, देश, वर्ष, मास और दिशाओं का तथा अपने-अपने
प्रमाण से शेष द्रव्यों का शुभाशुभ ज्ञान करना चाहिये।।७-८।।
याम्ये दक्षिणशिक्ये काञ्चनं सुवर्णं सन्निवेश्यं स्थापनीयम्। शेषाणि द्रव्याणि तथाम्बूनि
पानीयानि उत्तरे शिक्ये सन्निवेश्यानि। एतदुक्तं भवति—सुवर्णं यदा परिच्छिद्यते तदा
दक्षिणे शिक्ये विनिवेशयेत्। अन्यानि सर्वाण्युत्तर इति।
तोयैर्जलैः कौप्यैः कूपसम्भवैर्वृद्धिमद्भिर्हीना वृष्टिर्भवति। सैन्धवैर्नादेयैर्जलैर्वृद्धि-
मद्भिर्मध्यमा वृष्टिर्भवति, नातिबह्वी नात्यल्पा। तथा सारसैः सरःसम्भवैर्वृद्धिमद्भिर्जलै-
रुत्तमा प्रधाना वृष्टिर्भवति। सर्वेषां वृद्धावतिमहती वृष्टिः, सर्वेषां हानाववृष्टिरिति। केचि-
द्वृद्धिर्हीना मध्यमा चोत्तमा चेति पठन्ति। सस्यानां वृद्धिर्भवति न चैतच्छोभनम्।
दन्तैर्नागा इति। नागाः करिणो दन्तैर्हस्तिदन्तैः परिच्छेद्याः। गोहयाद्याश्च लोम्ना।
गावः, हया अश्वाः, आदिग्रहणात् खरकरभच्छागमेषाः। एते सर्व एव लोम्ना। हेम्ना
सुवर्णेन भूपा राजानः परिच्छेद्याः। शिक्थकेन मधूच्छिष्टेन द्विजाद्या ब्राह्मणाद्याश्चत्वारो
वर्णा ब्राह्मणक्षत्रियवैश्यशूद्राः। देशा मध्यदेशप्रभृतयः। वर्षाण्येतानि यथेष्टानि। मासा
वर्षान्तःस्थाः। दिशश्च पूर्वाद्याः। शुभाशुभज्ञानार्थं तद्वत् शिक्थकेनैव परिच्छेद्याः। शेषा-
ण्यन्यान्यनुक्तानि यानि द्रव्याणि तान्यात्मरूपस्थितानि स्वयमेव परिच्छेद्यानि धान्यादी-
नीत्यर्थः।।७-८।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
आषाढीयोगाध्यायः ३७१
अथ तुलालक्षणमाह—
हैमी प्रधाना रजतेन मध्या तयोरलाभे खदिरेण कार्या।
विद्धः पुमान् येन शरेण सा वा तुला प्रमाणेन भवेद्वितस्तिः ॥९॥
सुवर्ण का तुलादण्ड ( डण्डी ) श्रेष्ठ, चाँदी का मध्यम और इन दोनों के अलाभ में
खैर की लकड़ी का तुलादण्ड बनाना चाहिये अथवा जिस बाण से कोई मनुष्य बेधित हुआ
हो, उसका तुलादण्ड बनाना चाहिये। वह तुलादण्ड बारह अङ्गुल प्रमाण का होना चाहिये।
हैमी सुवर्णतुला प्रधानोत्तमा। रजतेन रौप्येण या क्रियते सा मध्यमा, न शुभा नाप्य-
शुभा। तयोः सुवर्णरौप्ययोरलाभे अभावे सति खदिरेण कार्या। खदिरकाष्ठमयी कर्तव्या।
अथवा येन शरेणेषुणा पुमान् पुरुषः कश्चिद्विद्धो भिन्नः सा वा तुला कार्या तस्माच्छरादित्यर्थः।
सा च तुला प्रमाणेन वितस्तिर्द्वादशाङ्गुला भवतीति॥९॥
अथ तुलितानां शुभाशुभफलज्ञानमाह—
हीनस्य नाशोऽभ्यधिकस्य वृद्धीस्तुल्येन तुल्यं तुलितं तुलायाम्।
एतत्तुलाकोशरहस्यमुक्तं प्राजेशयोगेऽपि नरो विदध्यात् ॥१०॥
दूसरे दिन में तोला हुआ द्रव्य अल्प हो तो उस वर्ष में उसका नाश, अधिक हो तो
वृद्धि और समान हो तो मध्यम फल होता है। यह परम गोपनीय तुला का रहस्य मैंने
कहा है। रोहिणी योगकाल में भी इसका विचार करना चाहिये॥१०॥
तुलायां तुलितस्य परिच्छिन्नस्य द्रव्यस्य हीनस्य नाशः क्षयो वक्तव्यः। अभ्यधिकस्य
वृद्धिः। तुल्येन समेन तुल्यं समम्। न हानिर्न च वृद्धिः। तथा च गर्गः—
येषां प्रणमते सारं ते भवन्ति च नासमम्।
येषां तु हीयते सारं तेषां नाशं विनिर्दिशेत्॥
समानि तु समानि स्युस्तुलया तुलितानि तु॥
तथा च पराशरः—
सारसेऽम्भसि सस्यानां राज्ञां च विजयोऽधिके।
नादेये मध्यमा सम्पत्कनीयस्य चलोदके॥
यस्यां दिशि भवेन्माल्यमम्लानं शुचिगन्धिमत्।
तस्यां दिशि विजानीयाद्राज्ञां शिवमनामयम्॥ इति।
एतत्तुलाकोशरहस्यं तुलाभाण्डागाररहस्यं परमं गुह्यमुक्तं कथितम्। नरो मनुष्यः
प्राजेशयोगेऽपि न केवलमाषाढयोगे तुलाकोशं विदध्यात् कारयेत्, यावत्प्राजेशयोगे रोहिणी-
योगेऽपि कारयेत्॥१०॥
अन्यस्मिन् योगत्रयेऽपि पापग्रहा व्यवस्थिता न शुभदाः। अधिमासके सति योगे
CC-0. JK Sanskrit Academy, Jammnu. Digitized by S3 Foundation USA
३७२ बृहत्संहिता
विशेषविधानमाह—
स्वातावषाढास्वथ रोहिणीषु पापग्रहा योगगता न शस्ताः ।
ग्राह्यं तु योगद्वयमप्युपोष्य यदाधिमासो द्विगुणीकरोति ॥११॥
स्वाती, उत्तराषाढा या रोहिणी नक्षत्रगत चन्द्र के साथ यदि पापग्रह (मंगल, शनि,
राहु या केतु) का योग हो तो शुभ नहीं होता है।।११।।
स्वातौ स्वातिसंयुक्ते चन्द्रे। अषाढासूत्तराषाढासु युक्तं च। अथ रोहिणीसंयुक्ते चन्द्रे।
एतेषु त्रिषु योगेषु पापग्रहा भौमसौरराहुकेतवो योगगतास्तत्र स्थिता न शुभदा न शस्ताः।
तथा च गर्गः—
योगैः पापैरुपहतैः प्रजानामशुभं वदेत्।
दुर्भिक्षावृष्टिमरकान् सौम्यैः सौभिक्षमादिशेत्।।
तथा च पराशरः—
शुक्रबुधबृहस्पतिसंयोगे शूकधान्यतिलमुद्गविनाशः, सौरस्य मध्यदेशाभावः, भौमस्य
शस्त्रकोपः, केतोर्भयदुर्भिक्षप्रादुर्भावावग्रहः, रोहिणीमध्यगमनमिन्दोः सुभिक्षक्षेमवृष्टिकरम्।
यदा यस्मिन् काले एतेषां योगानामधिमासो द्विगुणीकरोति द्वितीयोऽधिमासोऽषाढाख्यो
भवति, तदा तस्मिन् काले योगद्वयं रोहिण्यषाढाख्यमुपोष्य भुक्त्वा ग्राह्यम्। एतदुक्तं
भवति—यदा द्वावाषाढौ भवतस्तदोपोष्य मासद्वयेऽपि योगद्वयं ग्राह्यं द्वितीयस्मिन् योगे
मलरूपत्वादानादरो न कार्य इत्यत उक्तं—योगद्वयमपीति । यदाधिमासो द्विगुणीकरोति
द्वावधिमासकेन सह भवत इत्यर्थः। स्वातियोगस्य सामान्यविहितत्वाद्योगद्वयमित्युक्तमन्यथा
योगत्रयं भवति।।११।।
अथात्र योगत्रयमध्याद्रोहिणीयोगस्य विशेषमाह—
त्रयोऽपि योगाः सदृशाः फलेन यदा तदा वाच्यमसंशयेन ।
विपर्यये यत्त्विह रोहिणीजं फलं तदेवाभ्यधिकं निगद्यम् ॥१२॥
तीनों (रोहिणी, स्वाती और आषाढी) योगों का फल या दो योगों का फल समान
हो तो निःसन्देह वही फल कहना चाहिये। यदि तीनों का अलग-अलग फल हो तो
अधिकतर रोहिणी योग का फल ही उस वर्ष में कहना चाहिये।।१२।।
त्रयोऽपि स्वात्यषाढारोहिणीति योगा यदा फलेन सदृशास्तुल्या भवन्ति, तदा शुभं
फलमशुभं वा प्रधानत्वाद्योगद्वयजं फलं न बाधत इत्यष्टासु दिक्षु तदा शुभं फलमशुभं वा
असंशयेन सन्देहं विहाय वाच्यं वक्तव्यम्। त्रिभिरेव शुभैः शुभमशुभैरत्यशुभमिति।
फलानां वैसदृशे विपर्यये फलविपर्ययेऽन्यादृशे भिन्नफले सति यत्तु रोहिणीजं शुभं फलम-
शुभं वा असंशयेन सन्देहं विहाय तदेव निगद्यं वक्तव्यम्। प्रधानत्वाद्योगद्वयं फलं न
बाधत इति ।।१२।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
आषाढीयोगाध्यायः ३७३
अथाष्टासु दिक्षु वातफलमाह—
निष्पत्तिरग्निकोपो वृष्टिर्मन्दाथ मध्यमा श्रेष्ठा।
बहुजलपवना पुष्टा शुभा च पूर्वादिभिः पवनैः ॥१३॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायामाषाढी-
योगाध्यायः षड्विंशः ॥२६॥
उक्त तीनों योगों के समय यदि पूर्व दिशा की हवा चले तो धान्यों की उत्तम निष्पत्ति,
आग्नेय कोण की हवा चले तो अग्निकोप, दक्षिण दिशा की हवा चले तो थोड़ी वृष्टि,
नैर्ऋत्य कोण की हवा चले तो मध्यम वृष्टि, पश्चिम दिशा की हवा चले तो उत्तम वृष्टि,
वायव्य कोण की हवा चले तो अधिक वृष्टि, उत्तर दिशा की हवा चले तो सुन्दर वृष्टि और
ईशान कोण की हवा चले तो उत्तम वृष्टि होती है॥१३॥
इति 'विमला' हिन्दीटीकायामाषाढीयोगाध्यायः षड्विंशः ॥२६॥
पूर्वाद्यासु दिक्ष्वष्टसु पवनैर्वातैः क्रमेणैतानि फलानि। तत्र पूर्वस्यां दिशि यदा वातो
वहति तदा निष्पत्तिः सस्यानां भवति। सस्यानि सर्वाणि निष्पद्यन्ते। अग्निकोपो-
ऽग्निभयमाग्नेय्याम्। वृष्टिर्मन्दा अल्पा दक्षिणस्याम्। मध्यमा वृष्टिर्नैर्ऋत्याम्। श्रेष्ठा प्रधाना
वृष्टिः पश्चिमायाम्। बहुजलपवना प्रभूतोदका प्रभूतवाता वायव्याम्। पुष्टा परिपूर्णा अति-
शोभनोत्तरस्याम्। शुभा अतिश्रेयस्करी ऐशान्यां वृष्टिरिति। रोहिणीयोगे 'वायुश्चैवं दिक्षु
धत्ते फलानि' इत्युक्तत्वात्पुनः करणं 'निष्पत्तिरग्निकोप' इत्यादिकं शिष्यं भ्रान्तिनिराशाय
कृतमिति॥१३॥
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतावाषाढी-
योगोनाम षड्विंशोऽध्यायः ॥२६॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
अथ वातचक्राध्यायः
अथ वातचक्रं व्याख्यायते। अतः परं केचिद्वातचक्रं पठन्ति। तच्च वराहमिहिरकृतं
न भवति। यतः—
निष्पत्तिरग्निकोपो वृष्टिर्मन्दाथ मध्यमा श्रेष्ठा।
बहुजलपवना पुष्टा शुभा च पूर्वादिभिः पवनैः॥
इत्यनेन पौनरुक्त्यं भवति। बहुष्वादशेषु च दृश्यते। अतोऽस्माभिः सरसत्वाद्
व्याख्यायते शिष्यहितार्थम्। तत्रादावैशान्यां दिशि स्थितस्य वातस्य लक्षणमाह—
आषाढपौर्णमास्यां तु यद्यैशानोऽनिलो भवेत्।
अस्तं गच्छति तीक्ष्णांशौ सस्यसम्पत्तिरुत्तमा ॥१॥
यदि आषाढ के पूर्णिमा के दिन सूर्यास्त काल में ईशान कोण की हवा चले तो पृथ्वी
पर धान्य उत्तम रूप से होता है॥१॥
आषाढमासस्य पौर्णमास्यां तीक्ष्णांशावर्केऽस्तं गच्छति यद्यैशान ऐशान्यां दिशि
अनिलो वातो भवेद्वहति तदा सस्यानां धान्यादीनां सम्पत्तिरुत्तमा प्रधाना भवति॥१॥
अथ पूर्वस्यामाह—
पूर्वः पूर्वसमुद्रवीचिशिखरप्रस्फालनाघूर्णित-
श्चन्द्रांर्काशुसटाकलापकलितो वायुर्यदाकाशतः।
नैकान्तस्थितनीलमेघपटला शारद्यसंवर्धिता
वासन्तोत्कटसस्यमण्डिततला सर्वा मही शोभते ॥२॥
जिस आषाढ शुक्ल पूर्णिमा के दिन पूर्वी समुद्र के तरङ्गाग्र भाग से चालित होने के
कारण घूमती हुई तथा सूर्य और चन्द्र के किरणरूप जटा से शोभित वायु आकाश से
चलती है, उस वर्ष में सब जगह नील वर्ण वाले मेघों से युत, शारदीय धान्यों की समृद्धि
से मण्डित और वसन्त ऋतु के अति समृद्धियुत धान्यों से भूषित सारी पृथ्वी शोभित होती
है॥२॥
तस्यामेवाषाढपौर्णमास्यां पूर्वो वायुः पूर्वस्यां दिशि यस्मिन् काले आकाशातो नभसो
वहतीत्यर्थः। कीदृशो वायुः? पूर्वसमुद्रस्य प्रागुदधेर्ये वीचय ऊर्मयस्तेषां ये शिखरा
अग्राणि तेषां प्रस्फालना चालनं तेन घूर्णितो भ्रमितः। तथा चन्द्रार्कयोः सूर्यशशिनोर्येऽशवो
रश्मयस्त एव सटाः स्कन्धावलम्बिनः केशा इव तेषां यः कलापो विस्तारस्तेन कलितो
मिश्रितः। तदा मही कीदृशी भवति? नैकान्तस्थितेति। नैकान्तमत्यर्थमेव सर्वत्र ये
स्थिता नीलवर्णानां मेघानां पटलाः समूहास्तैः शोभिता। तथा शारद्यसंवर्धिता। शारद्यैः
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
वातचक्राध्यायः ३७५
सस्यैर्धान्यादिभिः संवर्धिता समृद्धयुक्ता भवति। तथा वासन्तैर्वसन्तसम्भवैरुत्कटैरतिसमृद्धैः
सस्यैर्मण्डितं भूषितं तलं पृष्ठं यस्याः सा तथाभूता। सर्वा निःशेषा मही भूः शोभते
विराजते।।२।।
अथाग्नेय्यामाह—
यदा वह्नौ वायुर्वहति गगने खण्डिततनुः
प्लवत्यस्मिन् योगे भगवति पतङ्गे प्रवसति।
तदा नित्योद्दीप्ता ज्वलनशिखरालिङ्गिततला
स्वगात्रोष्मोच्छ्वासैर्वमति वसुधा भस्मनिकरम् ॥३॥
यदि आषाढ शुक्ल पूर्णिमा के दिन अस्त समय में अप्रतिहत गति वाली आग्नेय
कोण की वायु चले तो उस वर्ष में सर्वत्र अग्नि की ज्वाला से व्याप्त पृष्ठ वाली प्रज्वलित
पृथ्वी अपने शारीरिक उष्ण उच्छ्वास के द्वारा भस्मों को वमन करती है अर्थात् पृथ्वी पर
वृष्टि का अभाव, अग्नि का भय, प्रजाओं का नाश आदि उपद्रव होते हैं।।३।।
यदा यस्मिन् काले वायुः पवनो वहावाग्नेय्यां दिशि वहति। गगने आकाशे।
कीदृशः ? अखण्डिततनुः। अखण्डिता तनुर्यस्य अविहतगतिरित्यर्थः। प्लवति प्रवहति
अस्मिन्नाषाढीयोगे। कदा भगवति पतङ्गे सूर्ये प्रवसत्यस्तमेति सति। तदा तस्मिन् वर्षे
वसुधा भूर्नित्योद्दीप्ता सर्वकालमुज्ज्वलिता। ज्वलनशिखरालिङ्गिततला ज्वलनस्याग्नेर्ये
शिखरा ज्वालाग्राणि तैरालिङ्गितं परिष्वक्तं तलं यस्याः। तथाभूता स्वगात्रोष्मोच्छ्वासैः
स्वगात्रादात्मीयदेहाद्य ऊष्मा स एवोच्छ्वासास्तैस्तथाभूतैर्बहुप्रकारैः स्वगात्रोष्मोच्छ्वा-
सैर्भस्मनिकरं भस्मसमूहं वमत्युद्गिरति।।३।।
अथ दक्षिणस्यामाह—
तालीपत्रलतावितानतरुभिः शाखामृगान्नर्तयन्
योगेऽस्मिन् प्लवति ध्वनिः सपरुषो वायुर्यदा दक्षिणः।
तद्द्योगसमुत्थितस्तु गजवत्तालाङ्कुशैर्घट्टिताः
कीनाशा इव मन्दवारिकणिका मुञ्चन्ति मेघास्तदा ॥४॥
इस योग में आषाढ़ शुक्ल पूर्णिमा के दिन सूर्यास्त समय में तालपत्र, लताओं की
विस्तृत और वृक्षों से वाहनों को नचाते हुये, कठोर शब्द वाले दक्षिण तरफ की हवा चले
तो तालरूप अङ्कुश से ताड़ित हस्ती की तरह मेघ कृपण मनुष्य की तरह थोड़ी जलबिन्दु
छोड़ता है, अर्थात् उस वर्ष में थोड़ी वृष्टि होती है।।४।।
अस्मिन् योगेऽषाढाख्ये यदा यस्मिन् काले दक्षिणो याम्याशास्थो वायुः पवनः
प्लवति वहति। किं कुर्वंस्ताली वृक्षविशेषस्तस्य पत्राणि पर्णानि तथा लतावितानो लतानां
विस्तारस्तरवो वृक्षाः। एतैश्चालितैः शाखामृगान् वानरान्नर्तयन् वहति। वातवेगात्ता-
लादयश्चलन्ति तच्चलनातान्नर्तयन्निव। तथा तद्गतेनैव प्रकारेण योगे पौर्णमास्यां सूर्यास्तमये
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA