बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 1 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 405, कुल 728 में से
संदर्भ में पढ़ेंरोहिणीयोगाध्यायः ३६३
योगतारकां प्रधानतारकाम्। तथा चोक्तम्—
सतारागणमध्ये तु या तारा दीप्तिमुत्तरा।
योगतारेति सा प्रोक्ता नक्षत्राणां पुरातनैः॥
तां च योगतारकां यदि ताडयेद् भिन्द्यात् शृङ्गैकदेशेन स्पृशतीत्यर्थः। अथवा वपुषा
शरीरेणावृणोत्याच्छादयति, तदा ताडने दारुणं तीव्रं भयं भीतिमुशन्ति कथयन्ति। तथा
छादने अङ्गनाकृतः स्त्रीकृतो नृपस्य राज्ञो बधः मरणमुशन्ति॥३४॥
अन्यदपि शुभाशुभज्ञानमाह—
गोप्रवेशसमयेऽग्रतो वृषो याति कृष्णपशुरेव वा पुरः।
भूरि वारि शबले तु मध्यमं नो सितेऽम्बुपरिकल्पनापरैः ॥३५॥
यदि गो-प्रवेश ( पश्चिम सन्ध्या ) समय में वन से आये हुये पशुओं में आगे बैल
या काला पशु हो तो उस वर्ष बहुत वृष्टि होती है। यदि शबल ( कृष्ण-श्वेत ) पशु आगे
हो तो मध्यम फल, उसमें कालापन ज्यादा हो तो वृष्टि, सफेदी ज्यादा हो तो थोड़ी वृष्टि
और बिलकुल सफेदी हो तो अवृष्टि होती है॥३५॥
गोप्रवेशसमये गवामरण्यादागतानां प्रवेशकाले पश्चिमसन्ध्यायां यद्यग्रतः पुरतो वृषो
बलीवर्दो भवति पुरद्वारे, अथवा पुरोऽग्रतः कृष्णोऽसितः पशुश्छागादिको भवति, तदा
तद्वर्षं भूरि वारि बहु जलं भवति। शबले तु मध्यमम्। शबलः कृष्णश्वेतः पशु-स्तस्य
यदा द्वौ वर्णौ समौ भवतस्तदा मध्यमं फलम्। तस्यैव कार्ष्ण्येऽधिके भूरि वारि, शौक्ल्येऽधिके
ऊनम्। सिते श्वेतवर्णे न किञ्चिदम्बु भवति।
अपरैर्वर्णैरम्बुपरिकल्पना स्वबुद्ध्या कार्या। शुक्लवर्णवर्जैरन्यैर्वर्णैः किञ्चित् किञ्चिद्
भवतीत्यर्थः। तथा च गर्गः—
प्राक् प्रवेशे तु यूथस्य पुरतो वृषभो यदा।
प्रवेशे कृष्णवर्णो वा पशुर्बहुजलप्रदः॥
कृष्णा तु गौः सुभिक्षाय क्षेमारोग्याय चोच्यते।
गौर्यामथ च नीलायां मध्याः सस्यस्य सम्पदः॥
अनावृष्टिकरी श्वेता वाताय कपिला स्मृता।
पाटला सस्यनाशाय रोगाय करटा स्मृता॥
एकदेशाय शबला चित्रं चित्रा तु वर्षति।
पाण्डुरा मध्यमाङ्गी वा ग्रीष्मधान्यविवर्द्धिनी॥
कपिला पश्चिमं वर्षं शोणा त्वग्रे प्रवर्षति।
तथा च पराशरः—'अथास्तमयवेलायां पुरद्वारमभिगम्य निमित्तान्युपलक्षयेत्। तत्र
गोगजाश्वरथप्रथमप्रवेशे पुरविजयो वानरखरोष्ट्रनकुलमार्जारप्रवेशे विद्रवो नेत्राङ्गहीनप्रवेशे
त्वशनिभय' इति॥३५॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA