सामग्री पर जाएँ
सर्वकोश
बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 1 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished728 पृष्ठ

पृष्ठ 404, कुल 728 में से

संदर्भ में पढ़ें
पृष्ठ 404

३६२ बृहत्संहिता
रोहिण्याः शशी चन्द्रो यदि पृष्ठतः पश्चादनुगच्छत्युदेति प्रियां वनितां वल्लभां स्त्रियं
कामिनीं कामी कामुको यथा अनुगच्छति। तदा प्रमदानां स्त्रीणां तस्मिन् वर्षे नराः पुरुषा
मकरध्वजबाणखेदिताः कामशरपीडिताः सन्तो वशगा भवन्ति॥३२॥
अथ रोहिण्याः शेषासु दिक्षु स्थिते चन्द्रे फलमाह—
आग्नेय्यां दिशि चन्द्रमा यदि भवेत्तत्रोपसर्गो महान्
नैर्ऋत्यां समुपद्रुतानि निधनं सस्यानि यान्तीतिभिः ।
प्राजेशानिलदिक्स्थिते हिमकरे सस्यस्य मध्यश्रयो
याते स्थाणुदिशं गुणाः सुबहवः सस्यार्घवृष्ट्यादयः ॥३३॥
जिस वर्ष में रोहिणी के आग्नेय कोण में चन्द्रमा स्थित हो, उस वर्ष में बहुत उपद्रव,
नैर्ऋत्य कोण में चन्द्रमा स्थित हो तो अति वृष्टि आदि ईतियों से पीड़ित होकर धान्य का
नाश, वायव्य कोण में स्थित चन्द्र हो तो मध्यम धान्य और ईशान कोण में स्थित चन्द्र हो
तो उस वर्ष धान्यों के मूल्य में अल्पता, सुन्दर वृष्टि आदि बहुत गुण होते हैं॥३३॥
प्राजेशस्य ब्राह्मण इयं प्राजेशी रोहिणी, तस्यामाग्नेय्यां पूर्वदक्षिणस्यां दिशि यदि
चन्द्रमाः शशी भवेत् स्यात्तदा तत्र तस्मिन् वर्षे महानतीवोपसर्ग उपद्रवो भवति। तथा
नैर्ऋत्यां दक्षिणपश्चिमायां दिशि स्थिते चन्द्रमसि सस्यानि ईतिभिरतिवृष्ट्यादिभिरुपद्रवैः
समुपद्रुतानि उपतप्तानि निधनं नाशं यान्ति प्राप्नुवन्ति। हिमकरे चन्द्रेऽनिलदिक्स्थिते
वायव्यां पश्चिमोत्तरस्यां दिशि स्थिते समाश्रिते सस्यस्य धान्यादेर्मध्यश्रयो मध्यमं सङ्घटनं
भवति। तथा स्थाणुदिशमैशानीमुत्तरपूर्वामाशां याते प्राप्ते चन्द्रे सुबहवः सुप्रभूता गुणा
भवन्ति। के ते सस्यार्घवृष्ट्यादयः सस्यानि चार्घवृष्टयश्च ताः सस्यार्घवृष्टयः। आदिग्रहणा-
द्योगक्षेमनीरोगता गृहीतव्याः। तथा च समाससंहितायाम्—
उदगपि च तुहिनकिरणः पूर्वोत्तरतोऽथवा स्थितः प्राच्याम्।
यदि भवति तदा वसुधा भवति विवृद्धा प्रहृष्टजना॥
उपसर्गोऽनलदिक्स्थे याम्याशासंस्थिते शकटके च।
किं कष्टैस्तैरुक्तैः श्रुतमात्रैर्यैः कृशो भवति॥
क्रिमिशुकशलभादिभयं नैर्ऋत्यां नातिपुष्टिरपरेण।
वायव्याशासंस्थे मध्यं सस्यं कुमुदनाथे॥ इति॥३३॥
अथ योगतारोपतापे छादने च फलमाह—
ताडयेद्यदि च योगतारकामावृणोति वपुषा यदापि वा।
ताडने भयमुशन्ति दारुणं छादने नृपबधोऽङ्गनाकृतः ॥३४॥
यदि चन्द्रमा रोहिणी की योगतारा को भेदित ( शृङ्ग के एक देश से स्पर्श ) करे या
अपने बिम्ब से उसको आच्छादित करे तो भेदित करने से कठोर भय और छादित करने
से स्त्री के द्वारा राजा का मरण होता है॥३४॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA