बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 1 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
३०८ बृहत्संहिता
ग्रहों के उत्तरगत चन्द्र के जो फल कहे गये हैं, उनके विपरीत फल ग्रहों के
दक्षिणगत चन्द्र के होते हैं। इस तरह चन्द्र के साथ ग्रहों या नक्षत्रों के रहने को समागम,
रवि के साथ अस्त और कुजादि ग्रहों के परस्पर संयोगादि को युद्ध कहते हैं॥१८॥
इति 'विमला' हिन्दीटीकायां शशिग्रहसमागमाध्यायोऽष्टादशः ॥१८॥
शशिनि चन्द्रमसि ग्रहस्योदक्स्थे उत्तरस्यां दिशि स्थिते यत्फलमुपदिष्टमुक्तम्—
'चन्द्रमा यदि कुजस्य यात्युदक्' इत्यादिकम्, तत्सर्वमेव निःशेषमपसव्ये दक्षिणदिक्स्थे
चन्द्रे प्रतीपं विपरीतं भवति। इत्येवंप्रकारा भग्रहाणां भानां नक्षत्राणां ग्रहाणां च शशि-
समवायाश्चन्द्रसंयोगाः कीर्तिता उक्ताः खलु। खल्वित्ययं शब्दो निश्चयार्थे। इन्दोश्चन्द्रस्य
ग्रहैर्भौमादिभिर्ऋक्षैर्नक्षत्रैश्च साकं सह युद्धं न भवतीति किल सूर्यस्य ग्रहैः सह समागमो-
ऽस्तमयशब्दवाच्यः, चन्द्रेण सह समागमशब्दवाच्यः। भौमादीनां परस्परं युद्धशब्दवाच्य
इत्ययमस्मिन् शास्त्रे सिद्धान्तः। तथाऽऽचार्यविष्णुचन्द्रः—
दिवसकरेणास्तमयः समागमः शीतरश्मिसहितानाम्।
कुसुतादीनां युद्धं निगद्यतेऽन्योन्ययुक्तानाम्।। इति।
यैश्चोक्तमादित्यस्य जयपराजयं ते गोलवासनाबाह्याः।।१८।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ शशिग्रह-
समागमो नामाष्टादशोऽध्यायः ॥१८॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
अथ ग्रहवर्षफलाध्यायः
अथ ग्रहवर्षफलाध्यायो व्याख्यायते। कस्य ग्रहस्य कस्मिन् वर्षे कीदृशानि शुभा-
शुभानि फलानि भवन्तीति। यत आचार्येण पूर्वमेव प्रतिज्ञातमासीत्—
वर्षे यद्यस्य फलं मासे च मुनिप्रणीतमालोक्य।
तत्तद्त्तैर्वक्ष्ये होरातन्त्रोत्तरविधाने।। इति।
तत्रादावेवादित्यस्य वर्षफलमाह—
सर्वत्र भूर्विरलसस्ययुता वनानि
दैवाद् बिभक्षयिषुदंष्ट्रिसमावृतानि।
नद्यश्च नैव हि पयः प्रचुरं स्रवन्ति
रुग्भेषजानि न तथातिबलान्वितानि ॥१॥
तीक्ष्णं तपत्यदितिजः शिशिरेऽपि काले
नात्यम्बुदा जलमुचोऽचलसन्निकाशाः।
नष्टप्रभर्क्षगणशीतकरं नभश्च
सीदन्ति तापसकुलानि सगोकुलानि ॥२॥
हस्त्यश्वपत्तिमदसह्यबलैरुपैता
बाणासनासिमुशलातिशयाश्चरन्ति ।
घ्नन्तो नृपा युधि नृपानुचरैश्च देशान्
संवत्सरे दिनकरस्य दिनेऽथ मासे ॥३॥
सूर्य से वर्ष, मास या दिन में पृथिवी पर सब जगह अल्प धान्य, दैववश भक्षण की
इच्छा करने वाले दंष्ट्रीगण ( सर्प, सूअर आदि जन्तुओं ) से संयुत वन, नदियों में अल्प जल,
रोगनाश के लिये वीर्ययुत ओषधि का अभाव, शिशिर काल ( माघ-फाल्गुन ) में भी सूर्य
का भयङ्कर ताप, पर्वत के समान मेघ से भी अधिक वृष्टि का अभाव, आकाशस्थित नक्षत्र
और चन्द्र में दीप्ति का अभाव, तपस्वीगण शोकयुत और गौओं के समुदाय दुःखी होते हैं।
संग्राम में हाथी, घोड़ा, पदातियों से युत असह्य सैन्य, धनु, खड्ग और मुशलों से युत
मन्त्री आदि के साथ होकर राजा लोग देशों का नाश करते हुये विचरण करते हैं॥१-३॥
दिनकरस्यादित्यस्य संवत्सरे वर्षे दिने वा तद्वारे मासे वा ईदृशानि फलानि भवन्ति।
तथा च यवनेश्वरः—
अब्दाश्रयं लक्षणमीरितं यद् ग्रहस्वभावप्रभवं जनानाम्।
तदेव तन्मासदिनर्तुषूक्तं तदीश्वरस्थानविकल्पितं च।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
३१० बृहत्संहिता
एवं वर्षजं फलं मासदिवसहोरास्वपि बोद्धव्यम्।
तत्र रविवर्षे मासे दिने वा कीदृशानि फलानि? सर्वत्र सर्वस्मिन् देशे भूरवनिर्विर्-
लैस्तनुभिः स्वल्पैः सस्यैर्धान्यादिभिर्युता संयुक्ता भवति। तथैव वनानि अरण्यानि दंष्ट्रिभिः
सर्पवराहादिभिः समावृतानि संयुक्तानि भवन्ति। कीदृशैर्दंष्ट्रिभिः ? दैवाद्वैवहेतोर्ये बिभक्षयि-
षवो भक्षयितुमिच्छवस्तथाभूतैः। दैवशब्देन प्राक्कर्मोच्यते। तथा चोक्तम्—
प्राग्जन्मनि कृतं कर्म शुभं वा यदि वाऽशुभम्।
दैवशब्देन निर्दिष्टमिह जन्मनि तद्बुधैः ।। इति।
तस्माद्वनानि दैवाद् बिभक्षयिषुर्दंष्ट्रिसमावृतानि भवन्ति। नद्यः सरितः प्रचुरं प्रभूतं
पयो जलं न स्रवन्ति न स्यन्दन्ति। रुजां रोगाणामुपशमार्थं यानि च भेषजानि द्रव्याणि
तानि न तथा तेनैव प्रकारेणातिबलान्वितानि वीर्ययुक्तानि भवन्ति। रोगोपशान्तिं सम्यग्
न कुर्वन्तीत्यर्थः।
तथा अदितिज आदित्यः। शिशिरेऽपि काले माघफाल्गुनमासयोः शीतकालेऽपि
तीक्ष्णमतिचण्डं तपति सन्तापयति। अम्बुदा मेघा अचलसन्निकाशाः पर्वताकारा अपि
नातिजलमुचो न प्रभूतं जलं मुञ्चन्ति त्यजन्ति। तथा नभ आकाशं कीदृशं नष्टप्रभर्क्षगण-
शीतकरम्, नष्टप्रभो विगतकान्तिर्ऋक्षगणो नक्षत्रसमूहः शीतकरश्चन्द्रमा यत्र तत्। तापस-
कुलानि तपस्विनां वंशाः। सगोकुलानि गोकुलेन सहितानि सीदन्त्यवसादयन्ति।
तथा नृपा राजानो युधि संग्रामे नृपानुचरैः सचिवैर्लोकपालैः सह साकं देशान्
विषयान् घ्नन्तो जिघांसन्तो विचरन्ति गच्छन्ति। कीदृशा नृपाः? हस्त्यश्वपत्तिमदसह्यबलै-
रुपेताः। हस्तिनो गजाः। अश्वास्तुरगाः। पत्तयः पदातयो विद्यन्ते येषु बलेषु तानि। तथाभूतैः
हस्त्यश्वपत्तिमद्भिरसह्यैरनभिभवनीयैर्बलैः सैन्यैरुपेताः संयुक्ताः। तथा बाणासनासिमुशला-
तिशयाः। बाणा अस्यन्ते क्षिप्यन्ते येन तद्बाणासनं धनुः। असिः खड्गः। मुशल आयु-
धविशेषो मुशलाकार एव। तेषु अतिशयो यत्नो येषां ते तथाभूताः। तथा च यवनेश्वरः—
दिवाकराब्दे रणविग्रहाग्र्यक्षितीश्वरस्तीव्रविषज्वराग्निः।
अवर्षशुष्कद्रुमशुष्कसस्यप्रचण्डवह्ल्युग्रविषाक्षिरोगाः।।
तथा च समाससंहितायाम्—
तीक्ष्णोऽर्कः स्वल्पसस्यश्च गतमेघोऽतितस्करः।
बहूरगव्याधिगणो भास्कराब्दो रणाकुलः।।१९-३।।
अथ चन्द्रमस आह—
व्याप्तं नभः प्रचलिताचलसन्निकाशै-
र्व्यालाञ्जनालिगवलच्छविभिः पयोदैः।
गां पूरयद्भिरखिलाममलाभिरद्भि-
रुत्कण्ठितेन गुरुणा ध्वनितेन चाशाः ॥४॥
CC-0. JK Sanskrit Academy, Jammnu. Digitized by S3 Foundation USA
ग्रहवर्षफलाध्यायः ३११
तोयानि पद्मकुमुदोत्पलवन्त्यतीव
फुल्लद्रुमाण्युपवनान्यलिनादितानि ।
गावः प्रभूतपयसो नयनाभिरामा
रामा रतैरविरतं रमयन्ति रामान् ॥५॥
गोधूमशालयवधान्यवरेक्षुवाटा
भूः पाल्यते नृपतिभिर्नगराकराढ्या ।
चित्यङ्किता क्रतुवरेष्टिविघुष्टनादा
संवत्सरे शिशिरगोरभिसम्पवृत्ते ॥६॥
चन्द्र के वर्ष, मास या दिन में चलित पर्वत, सर्प, कज्जल, भ्रमर और गवल
( महिषशृङ्ग ) के समान निर्मल जल से पृथ्वी को पूर्ण करते हुये तथा विरही जनों के
औत्सुक्यजनक गौरवयुत ध्वनियों से दिशाओं को पूर्ण करते हुये मेघों से आच्छादित
आकाश, कमल और कुमुद से युत जल, प्रफुल्लित वृक्ष और शब्दायमान भ्रमरों से युत
उपवन, अधिक दूध देने वाली गौ, नेत्रों से सुन्दरी स्त्री ( निरन्तर अपने पति को आनन्द
देने वाली ), गेहूँ, साठी, यव, श्रेष्ठ धान्य और इक्षुवाटों से युत, नागरिक आकरों ( अर्थोत्पत्ति
स्थानों ) से युत, अग्नि स्थानों से व्याप्त तथा श्रेष्ठ यज्ञ और इष्टि ( पुत्रकाम्यादि यज्ञ ) से
समन्वित पृथ्वी राजा से परिपालित होती है॥४-६॥
शिशिरगोः शीतरश्मेः संवत्सरे वर्षे अभिसम्पवृत्ते वर्तमाने मासे दिवसे वा ईदृशानि
फलानि भवन्ति। कैः ? पयोदैर्मेघैर्नभ आकाशं व्याप्तमाच्छादितं भवति। कीदृशैः पयोदैः ?
प्रचलिताचलसन्निकाशैः। प्रचलिता ये अचलाः पर्वताः तत्सन्निकाशैः तत्सदृशैः। तथा
व्यालाञ्जनालिगवलच्छविभिः। व्यालाः सर्पाः। अञ्जनं प्रसिद्धं कज्जलम्। अलिर्भ्रमरः।
गवलं महिषशृङ्गं तद्वच्छविः कान्तिर्येषां तैः। किं कुर्वद्भिः ? अमलाभिनिर्मलाभिरद्भिर्जलैर्गां
भूमिमखिलां निःशेषां पूरयद्भिराप्यायमानैः। तथा ध्वनितेन गर्जितेन चाशा दिशः पूरयद्भिः।
कीदृशेन? उत्कण्ठितेन विरहिणामौत्सुक्यजननेन। गुरुणा गौरवसंयुक्तेन दुःसहेनेत्यर्थः।
तोयानि जलान्यतीवात्यर्थम्। पद्मकुमुदोत्पलवन्ति। पद्मानि कुमुदानि उत्पलानि च
विद्यन्ते येषां तानि। तथाभूतानि उपवनानि उद्यानानि। फुल्लद्रुमाणि फुल्लाः कुसुमिता
द्रुमा वृक्षा येषु तानि। अलिभिर्भ्रमरैर्नादितानि कृतशब्दानि। तथा गावो धेनवः प्रभूतपयसो
बहुक्षीराः। रामाः स्त्रियः। अविरतमविरामं सन्ततं रामान् वल्लभान् पुरुषान् रतैः सुरतै
रमयन्ति क्रीडयन्ति। कीदृश्यो रामाः ? नयनाभिरामाः। नयनाभ्यां नेत्राभ्यामभिमुख्येन रम्यन्ते
यास्ताः, तथाभूताः। तथा भूरवनिः। नृपतिभी राजभिः पाल्यते अभिरक्ष्यते। कीदृशी भूः ?
गोधूमैः शालिभिर्यवैर्धान्यवरैः कलमशालिप्रभृतिभिरिक्षुवाटैश्च संयुक्ता। तथा नगराकराढ्या।
नगरैः पत्तनैराकरैराकरोत्पत्तिस्थानैराढ्या बहुला। चित्यङ्किता। चितिरग्निस्थानम्। ताभिरङ्किता
चिह्निता। क्रतुवरेष्टिविघुष्टनादा। क्रतुवरा यज्ञश्रेष्ठाः। इष्टयः पुत्रकाम्यादयस्तेषु विघुष्टो
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
३१२ बृहत्संहिता
घोषितो यो नादो वेदशब्दस्तेन संयुता। तथा च यवनेश्वरः—
सम्पन्नसस्यक्षुपशष्पशालिप्ररूढगुल्मो बहुवर्षधारः।
रत्नौषधिस्नेहपटुप्रसेकश्चान्द्रो रतिस्त्रीसुखवर्धनोऽब्दः।।
तथा च समाससंहितायाम्—
बहुवर्षातिसस्यश्च गवां क्षीरप्रदायकः।
चन्द्राब्दः कामिनामिष्टश्चित्यङ्कितमहीतलः।। इति।।४-६।।
अथ भौमस्य वर्षफलमाह—
वातोद्धतश्चरति वह्निरतिप्रचण्डो
ग्रामान् वनानि नगराणि च सन्दिधक्षुः।
हाहेति दस्युगणपातहता रटन्ति
निःस्वीकृता विपशवो भुवि मर्त्यसङ्घाः ॥७॥
अभ्युन्नता वियति संहतमूर्तयोऽपि
मुञ्चन्ति कुत्रचिदपः प्रचुरं पयोदाः।
सीम्नि प्रजातमपि शोषमुपैति सस्यं
निष्पन्नमप्यविनयादपरे हरन्ति ॥८॥
भूपा न सम्यगभिपालनशक्तचित्ताः
पित्तोत्थरुक्प्रचुरता भुजगप्रकोपः।
एवंविधैरुपहता भवति प्रजेयं
संवत्सरेऽवनिसुतस्य विपन्नसस्या ॥९॥
मङ्गल के संवत्सर, मास या दिन में वायु से सञ्चालित ग्राम, वन और नगरों को दग्ध
करने की इच्छा रखने वाली भयङ्कर अग्नि चलती है। चोरों से निर्धन किये हुये पीड़ित
मनुष्यगण हाहाकार करते हैं। आकाश में संगठित मूर्ति वाले मेघ कहीं भी अधिक वृष्टि
नहीं करते। निम्न स्थान में उत्पन्न धान्य सूख जाते हैं तथा पके हुये धान्य भी वज्रपात
आदि उत्पातों से नष्ट हो जाते हैं। राजा लोग धर्मपालन में तत्पर नहीं रहते हैं। पैत्तिक रोगों
की अधिकता होती है। सर्पों से लोगों को पीड़ा होती है। इस तरह मङ्गल के स्वामित्व में
प्रजागण पीड़ित और धान्यों का नाश होता है।।७-९।।
अवनिसुतस्याङ्गारकस्य संवत्सरे वर्षे मासे दिवसे वा फलानीदृशानि भवन्ति।
कीदृशानि? वह्निरग्निर्वातेन मारुतेनोद्धतः सञ्चार्यमाणोऽतिप्रचण्डो दुःसहश्चरति। कीदृशः?
ग्रामान् वनानि नगराणि पत्तनादि च सन्दिधक्षुः। सन्दग्धुमिच्छुः। तथा भुवि भूमौ मर्त्यसङ्घा
मनुष्यसमूहाः। दस्यूनां चौराणां ये गणाः समूहास्तेषां पातैर्हताः परिपीडिताः सन्तो हाहेति
रटन्ति रणन्ति हाहाशब्दं कुर्वन्ति। कीदृशाः? निःस्वीकृता निर्द्धनीकृताः। विपशवो विगताः
पशवश्चतुष्पदा येभ्यः।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
ग्रहवर्षफलाध्यायः ३१३
तथा पयोदा मेघा वियत्याकाशे अभ्युन्नताः अभिमुख्येनोच्चाः। संहतमूर्तयो घनदेहा
अपि कुत्रचिदपो जलं प्रचुरं बहु मुञ्चन्ति त्यजन्ति। तथा सीम्नि जलप्रवेशमार्गेऽपि प्रजातम्।
निम्ने प्रजातमिति केचित् पठन्ति। निम्ने प्रजातमुत्पन्नं सस्यं धान्यादिकं शोषं नीरसत्वमुपैति
प्राप्नोति। तथा निष्पन्नमपि सञ्जातमपि सस्यमपरे अन्ये शत्रव उत्पाता वा अविनयादनीत्या
अशनिप्रपातादिना वा हरन्त्यपनयन्ति।
तथा भूपा राजानः सम्यग्धर्मेणाभिपालने रक्षणे सक्तचित्तास्तत्परा न भवन्ति। तथा
पित्तोत्थानां रुजां रोगाणां प्रचुरता बाहुल्यं भवति। भुजगेभ्यः प्रकोपो लोकानां पीडा भवति।
एवंविधैरीदृशैर्दोषैरियं प्रजा जनसमूहा उपहता पीडिता भवति। तथा विपन्नसस्या च।
तथा च यवनेश्वरः—
रणप्रचण्डः क्षितिपोऽल्पसस्यो विशुष्कवारिद्रुमशष्पशीर्णः।
अङ्गारकाब्दः प्रचुररोगाग्निरातङ्कचौर्यक्षुद्वृष्टिदृष्टः॥
तथा च समाससंहितायाम्—
अग्नितस्कररोगाढ्यो नृपविग्रहदायकः।
गतसस्यो बहुव्यालो भौमाब्दो बालहा भृशम्॥ इति॥७-९॥
अथ बुधस्याह—
मायेन्द्रजालकुहकाकरनागराणां
गान्धर्वलेख्यगणितास्त्रविदां च वृद्धिः।
पिप्रीषया नृपतयोऽद्भुतदर्शनानि
दित्सन्ति तुष्टिजननानि परस्परेभ्यः ॥१०॥
वार्ता जगत्यवितथा विकला त्रयी च
सम्यक् चरत्यपि मनोरिव दण्डनीतिः।
अध्यक्षरस्वभिनिविष्टधियोऽपि केचि-
दान्वीक्षिकीषु च परं पदमीहमानाः ॥११॥
हास्यज्ञदूतकविबालनपुंसकानां
युक्तिज्ञसेतुजलपर्वतवासिनां च।
हार्दिं करोति मृगलाञ्छनजः स्वकेऽब्दे
मासेऽथवा प्रचुरता भुवि चौषधीनाम् ॥१२॥
बुध के वर्ष, मास या दिन में प्रपञ्चों में कुशल, इन्द्रजाल विद्या को जानने वाले,
आश्चर्य देखने वाले, अर्थोत्पत्तिस्थान को जानने वाले, नगरों में रहने वाले, गान विद्या
जानने वाले, लेखक, गणितज्ञ और अस्त्र विद्या जानने वाले उन्नतियुत होते हैं। राजा लोग
परस्पर प्रीति बढ़ाने की इच्छा से आश्चर्यजनक और हर्षोत्पादक द्रव्य परस्पर एक-दूसरे
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
३१४ बृहत्संहिता
को देने की इच्छा करते हैं। वार्ता ( कृषि, पशुपालन और वाणिज्य ) अवितथा ( सफल )
होती है। त्रयी ( ऋग्वेद, यजुर्वेद और सामवेद ) का अत्यधिक पाठ होता है। मनु राजा
से रचित दण्डनीति नामक पुस्तकोक्त नीति की तरह नीति चलती है अर्थात् जिस तरह मनु
राजा प्रजारक्षण करते थे, उसी तरह उस वर्ष के राजा अपनी प्रजा की रक्षा करते हैं। कोई
अध्यात्म विद्या ( योगशास्त्र ) में और कोई आन्वीक्षिकी ( तर्कविद्या ) में विरत होते हैं।
हास्यज्ञ, दूत, कवि, बालक, नपुंसक, युक्तिज्ञ, सेतु ( स्थल ), जल और पर्वत पर निवास
करने वाले प्रसन्न होते हैं तथा पृथ्वी पर ओषधियों की अधिकता होती है।।१०-१२।।
मृगलाञ्छनश्चन्द्रस्तस्माज्जातो बुधः स च स्वके आत्मीये अब्दे वर्षे मासे दिवसे वा
ईदृशानि फलानि करोति। कीदृशानि? मायेन्द्रजालकुहकाकरनागराणाम्। मायाविनां
प्रपञ्चकुशलानाम्। इन्द्रजालज्ञानां विस्मयदर्शिनाम्। कुहकविदाम आश्चर्यदर्शकानाम्। आकरे
र्थोत्पत्तिस्थाने कुशलानाम्। नागराणां नगरवासिनाम्। गान्धर्वविदां गेयज्ञानाम्। लेख्यविदां
चित्रज्ञानाम्। गणितविदां गणितप्रवीणानाम्। अस्त्रविदाम आयुधज्ञानां तद्वर्षे वृद्धिर्भवति। नृपतयो
राजानः प्रिप्रीषया परितोषेच्छया परस्परस्नेहोत्पादनेन अद्भुतदर्शनान्याश्चर्यवन्ति दर्शनानि
परस्परेभ्योऽन्योन्यं दित्सन्ति दातुमिच्छन्ति। कीदृशानि? तुष्टिजननानि हर्षोत्पादकानि।
वर्तनं वर्ता कृषिः पशुपाल्यं वाणिज्यं चेति। वार्ता जगति लोके अवितथा सत्यस्वरूपा
सफला भवन्ति। तद्वृत्तीनां प्रभूतलाभा भवन्तीति यावत्। त्रयी ऋग्यजुःसामलक्षणा
एषा चाविकला सम्पूर्णा भवति। लोकेऽत्यर्थं वेदाः पठन्ति। सम्यग्यथागमं शास्त्रविहिता
दण्डनीतिर्मनोरिव चरति। प्रजारक्षणं दण्डनीतिः। मनुर्नाम राजा अभूत्। तत्प्रणीता दण्डनीतिः
सम्यक् चरति। तेन यथा प्रजारक्षणं कृतं तथा तद्वर्षेऽपि राजा करोति। उक्तं च—
गोरक्षा कृषिवाणिज्यं सेवावर्जं परिग्रहम्।
वर्तनं जीवनं वार्ता जीवा तूज्जीवनं स्मृतम्।।
ऋचो यजूंषि सामानीत्येषा त्रय्यभिधीयते।
त्रय्यां धर्मस्थितिर्वृत्तौ दण्डनीत्यां च रक्षणम्।।
केचिदन्ये अध्यक्षरस्वभिनिविष्टधियः। अक्षरं परमात्म, तदधिकृत्य कृतं शास्त्रमध्यक्षरं
तत्र स्वभिनिविष्टा अभियुक्ता धीर्बुद्धिर्येषां ते तथाभूताः। केचिदप्यध्यात्मविद्यासु योगशास्त्रेषु
सक्ताः। अध्यक्षराः स्वभिनिविष्टधियोऽपि केचिदित्यन्ये पठन्ति। तथा अन्ये आन्वीक्षिकीषु
तर्कविद्यासु च परं प्रकृष्टं पदं स्थानं मोक्षाख्यमीहमाना वाञ्छां कुर्वाणास्तर्कनिरता भवन्ति।
तथा हास्यज्ञानामुपहासविदां विदग्धानाम्। दूतानां गमागमिकानाम्। कवीनां पण्डितानां
काव्यज्ञानाम्। बालानां शिशूनाम्। नपुंसकानां क्लीबानाम्। युक्तिज्ञानां युक्तिविदां
प्रयोगज्ञानाम्। सेतुवासिनां स्थलवासिनां सेतौ ये वसन्ति। जलवासिनां जलसमीपस्थितानाम्।
पर्वतवासिनां हार्दि चित्ते तुष्टिं करोति। तथा भुवि भूमौ औषधीनां प्रचुरता बाहुल्यं भवति।
तथा च यवनेश्वरः—
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
ग्रहवर्षफलाध्यायः ३१५
सन्धानदानप्रयतः क्षितीशः स्वाध्यायतीर्थाध्वरभिर्द्विजौघः।
निराधिरुङ्मध्यमसस्यवर्षो बौधः सुहृत्स्नेहविवर्धनोऽब्दः ॥
तथा च समाससंहितायाम्—
ब्रह्मक्षत्रस्य सस्यानां जनानां च कलाविदाम्।
वृद्धिप्रदोऽब्दो बौधस्तु भूपसाम्यकरः क्षितौ ॥ इति ॥१०-१२॥
अथ गुरोर्वर्षफलमाह—
ध्वनिरुच्चरितोऽध्वरे द्युगामी विपुलो यज्ञमुषां मनांसि भिन्दन् ।
विचरत्यनिशं द्विजोत्तमानां हृदयानन्दकरोऽध्वरांशभाजाम् ॥१३॥
क्षितिरुत्तमसस्यवत्यनेकद्विपपत्त्यश्वधनोरुगोकुलाढ्या ।
क्षितिपरैरभिपालनप्रवृद्धा द्युचरस्पर्द्धिजना तदा विभाति ॥१४॥
विविधैर्वियदुन्नतैः पयोदैर्वृतमुर्वीं पयसाभितर्पयद्भिः ।
सुरराजगुरोः शुभे तु वर्षे बहुसस्या क्षितिरुत्तमर्द्धियुक्ता ॥१५॥
गुरु के शुभ वर्ष, मास या दिन में यज्ञों में रात्रिवर्जित काल में श्रेष्ठ ब्राह्मण से
उच्चरित, विस्तीर्ण, स्वर्ग तक पहुँचने वाली, यज्ञ में विघ्न करने वाले राक्षसों के मन को
भेदन करने वाली और इन्द्रादि के मन को प्रसन्न करने वाली वेदध्वनि होती है। राजाओं
से अच्छी तरह परिरक्षित, उत्तम धान्य, बहुत हाथी, पदाति, घोड़ा, धन और विस्तृत
गोकुलों से पृथ्वी परिपूर्ण होती है। देवता के समान मनुष्य होते हैं। सदा भूमि को जल से
परिपूर्ण करते हुये उन्नत, विविध मेघों से आकाश व्याप्त होता है तथा बहुत तरह के धान्य
और समृद्धि से युत पृथ्वी होती है।
विशेष—यहाँ पर शुभ वर्ष इसलिये कहा गया है कि बृहस्पतिचारोक्त पिङ्गल-
कालयुत और रौद्रनामक बृहस्पति के वर्ष अशुभ हैं। अतः इस वर्ष का स्वामी होने पर
बृहस्पति का सम्पूर्ण फल नहीं प्राप्त होता; किन्तु प्रभव, शुक्ल, प्रमोद आदि वर्षों का
स्वामी होने पर बृहस्पति का सम्पूर्ण फल प्राप्त होता है॥१३-१५॥
सुरराज इन्द्रः। तस्य गुरुर्जीवः। तस्य सुरराजगुरोः शुभे शोभने वर्षे मासे दिवसे
वा फलान्येतानि भवन्ति। नन्वत्र सर्वग्रहाणां वर्षफलानि सामान्येनाभिहितानि भवन्ति।
अत्र तु किमर्थं शुभग्रहणमित्यत्रोच्यते—अथैकदेशे पिङ्गलकालयुक्तरौद्रसंज्ञानि वर्षाण्यशुभ-
फलान्युक्तानि। तेषु सत्यपि गुरौ वर्षपतित्वे न तथा फलानि परिपूर्णानि भवन्ति। यदा
तु पुनः प्रभवविभवशुक्लप्रमोदवर्षाणि शुभानि भवन्ति, तदा तेषु गुरौ वर्षपतित्वे सत्येतानि
परिपूर्णानि भवन्त्यत उक्तम्—शुभे तु वर्ष इति। कीदृशानि तानि फलानि? ध्वनिरुच्चरित
इति। द्विजोत्तमानां ब्राह्मणप्रधानानामध्वरे यज्ञे ध्वनिः शब्द उच्चरित उद्घोषो विपुलो
विस्तीर्णः। अनिशं रात्रिवर्जितम्। द्युगामी स्वर्गामी। विचरति गच्छति। कीदृशो ध्वनिः?
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
भिन्दन्? Yes, भिन्दन्.
विदारयन्। - correct.
तथा - correct.
अध्वरांशभाजां - correct.
Line 3:
यज्ञभागिनामिन्द्रादीनां हृदये चेतसि आनन्दकरः।
- यज्ञभागिनामिन्द्रादीनां: यज्ञ-भागिनाम्-इन्द्रादीनां -> यज्ञभागिनामिन्द्रादीनां.
- हृदये चेतसि आनन्दकरः। - correct.
Line 4:
क्षितिर्भूः। क्षितिपैर्भूम्यधिपतिभिः। अभिमुख्येन सम्यक् पालनेन रक्षणेन प्रवृद्धा
- क्षितिर्भूः।
- क्षितिपैर्भूम्यधिपतिभिः।
- अभिमुख्येन सम्यक् पालनेन रक्षणेन प्रवृद्धा
All correct.
Line 5:
वृद्धिं गता विभाति शोभते। तदा तस्मिन् वर्षे। कीदृशी? उत्तमसस्यवती। उत्तमानि
- वृद्धिं गता विभाति शोभते।
- तदा तस्मिन् वर्षे।
- कीदृशी?
- उत्तमसस्यवती।
- उत्तमानि
All correct.
Line 6:
प्रधानानि सस्यानि धान्यादीनि विद्यन्ते यस्याम्। अनेकैर्बहुभिर्द्विपैर्गजैः। पत्तिभिः पदातिभिः।
- प्रधा
ग्रहवर्षफलाध्यायः ३१७
तालाब से व्याप्त; अतः विविध वर्णों से युत पृथ्वी सम्पूर्ण भूषणों से युत स्त्री की तरह
शोभित होती है। पृथ्वी पर शत्रुपक्ष के बहुत सेनाओं को नाश करने से उद्घोषित जयशब्दों
से सभी दिशाओं को पूर्ण करने वाले राजवर्ग होते हैं। आनन्दयुत सज्जनगण, विनष्ट
दुर्जन-गण और अर्थोत्पत्तिस्थानों से युत पृथ्वी होती है। वसन्त समय में स्त्रियाँ आनन्दपूर्वक
बार-बार मद्यपान करती हैं, बाँसुरी और वीणा के साथ श्रवणसुखद गीत गाती हैं, अभ्यागत,
मित्र और बन्धुओं के साथ बार-बार भोजन करती हैं तथा सब जगह कामदेव का जय-
जयकार होता है ।। १६-१८ ।।
सितस्य शुक्रस्य अब्दे मासे दिने वा फलानीदृशानि भवन्ति। कीदृशानि? शालीक्षुम-
त्यपीति। धरा भूरभिनवाभरणोज्ज्वलाङ्गी योषा स्त्रीव भाति शोभते। अभिनवैर्नूतनैराभरणै-
रलङ्करणैरुज्ज्वलान्युपशोभितानि अङ्गान्यवयवानि यस्या योषायाः सा। कीदृशी धरा?
शालीक्षुमत्यपि शालयो धान्यादीनि। इक्षवश्च विद्यन्ते यस्यां तथाभूता सती। धरणीधराणां
पर्वतानां सदृशी तुल्या आभा आकृतिर्येषां ते तथाभूता ये धाराधरा मेघास्तैर्यदुज्झितं त्यक्तं
पयो जलं तेन परिपूर्णा वप्रास्तटा यस्याः। श्रीर्विद्यते येषां सरोरुहाणां पद्मानां तानि
श्रीमन्ति। तैः श्रीमत्सरोरुहैः। तथा ततं विस्तीर्णं यदम्बु जलं तच्च येषां तडागानां तैः
कीर्णा संयुक्ता अत एव विचित्रवर्णत्वाद्योषेव भाति। अभिनवाभरणोज्ज्वलाङ्गी योषा धरा-
साम्येनोपमानम्।
तथा क्षत्रं राजवर्गः क्षितौ भूमौ कीदृशं भवति? क्षपितभूरिबलारिपक्षम्। क्षपितं
विनाशितं भूरिबलं प्रभूतवीर्यमरिपक्षः शत्रुपक्षश्च येन। तथा योऽसौ उद्घुष्ट उद्घोषितो-
ऽनेको बहुप्रकारो यो जयशब्दस्तेन विराविताः कृतशब्दा आशाः दिशो यस्य तत् तथाभूतम्।
तथा गां भूमिमवनिपा राजानः पालयन्ति रक्षन्ति। कीदृशीम्? संहृष्टशिष्टजनदुष्टविनष्टवर्गाम्।
संहृष्टः प्रहर्षितः शिष्टजनः साधुलोको यस्याम्। तथा दुष्टानांमसाधूनां विशेषेण नष्टो वर्गः
समूहो यस्याम्। तथा नगरैः पत्तनैराकरैरर्थोत्पत्तिस्थानैश्चाढ्यां समृद्धाम्।
पेपीयत इति। मधौ वसन्ते मधु मद्यं पानविशेषः कामिनीभिर्विलासिनीभिः पेपीयते
अत्यर्थं पीयते पुनः पुनर्वा पीयते। वेणुर्वंशः। वीणा वल्लकी। ताभ्यां सह सवेणुवीणं
श्रवणहारि कर्णसुखकारि जेगीयते। अत्यर्थं पुनः पुनर्वा गीयते। अतिथिभिरागतैः सुहृद्भिर्मित्रैः
स्वजनैर्बन्धुजनैः सह साकमन्नं भोजनं बोभुज्यते। अत्यर्थं पुनः पुनर्वा भुज्यते। मदनस्य
कामस्य जयावघोषो जयशब्दोद्घोषणम्। अतीव कामासक्ता भवन्तीत्यर्थः। तथा च
यवनेश्वरः—
पर्याप्तसौख्यस्फुटसस्यमेघाः प्ररूढवल्लीवरशष्पपुष्पः।
कामप्रकामः क्षितिपो मुदाढ्यः शौक्रोऽङ्गनाहर्षवसुप्रदोऽब्दः।।
तथा च समाससंहितायाम्—
सस्याढ्यो धर्मबहुलो गतातङ्को बहूदकः।
कामिनां कामदः कामं सिताब्दो नृपशर्मदः।। इति।। १६-१८।।
CC-0. JK Sanskrit Academy, Jammnu. Digitized by S3 Foundation USA
३१८ बृहत्संहिता
अथ सौरस्याह—
उद्धतदस्युगणभूरिरणाकुलानि राष्ट्राण्यनेकपशुवित्तविनाकृतानि।
रोरूयमाणहतबन्धुजनैर्जनैश्च रोगोत्तमाकुलकुलानि बुभुक्षया च ॥१९॥
वातोद्धताम्बुधरवर्जितमन्तरिक्ष-
मारुग्णनैकविटपं च धरातलं द्यौः।
नष्टार्कचन्द्रकिरणातिरजोऽवनद्धा
तोयाशयाश्च विजलाः सरितोऽपि तन्व्यः ॥२०॥
जातानि कुत्रचिदतोयतया विनाश-
मृच्छन्ति पुष्टिमपराणि जलोक्षितानि।
सस्यानि मन्दमभिवर्षति वृत्रशत्रु-
र्वर्षे दिवाकरसुतस्य सदा प्रवृत्ते ॥२१॥
शनि के वर्ष, मास या दिन में चोरों से सम्बन्धित युद्धों से व्याप्त, पशु और धानों से
रहित, संग्राम में बन्धुजनों के मरण से बार-बार रोते हुये वंशों से युत, प्रधान रोग तथा
क्षुधा से व्याकुल राष्ट्र होते हैं, वायु से उड़ाये गये मेघों से रहित आकाश होता है, अनेक
तरह से नष्ट वृक्षों से युत पृथ्वी होती है, सूर्य और चन्द्रकिरणों से रहित आकाश होता है,
धूलियों से स्थगित वापी, कूप और तालाब होते हैं तथा नदियों में अत्यन्त कम जल होता
है। इन्द्र अल्प वर्षा करता है, इसलिये कहीं-कहीं पर जल के बिना धान्य नष्ट हो जाते हैं
और कहीं-कहीं पर जल से सिक्त होकर पुष्ट होते हैं।।१९-२१।।
दिनकरसुतस्य सौरस्य वर्षे अब्दे प्रवृत्ते वर्तमाने मासे दिवसे वा सदा सर्वकालमेतानि
फलानि भवन्ति। कीदृशानि? उद्धतदस्युगणभूरिरणाकुलानि। उद्धत उद्गतो योऽसौ दस्युगणो
दस्यूनां चौराणां समूहस्तेन भूरि बहुप्रकारा ये रणाः संग्रामास्तैराकुलानि सोद्यमानि राष्ट्राणि
नृपकुलानि भवन्ति। तथा अनेके प्रभूता ये पशवश्चतुष्पदाः। वित्तानि धनानि। तैश्च विना-
कृतानि वर्जितानि रहितानि। हताः संग्रामे बन्धुजना येषां जनानां ते हतबन्धुजना रोरूय-
माणा अत्यर्थं रोदमानाश्च ते जनास्तैस्तथाभूतैर्जनैश्चाकुलानि सोद्यमानि कुलानि वंशाः। तथा
रोगोत्तमैर्गदप्रधानैर्बुभुक्षया क्षुधा वाऽऽकुलानि भवन्ति।
तथान्तरिक्षमाकाशं वातोद्धताम्बुधरवर्जितम्। वातेनोद्धताश्चालिता येऽम्बुदा मेघास्तै-
र्वर्जितं रहितम्। धरातलं भूतलम्। आरुग्णनैकविटपम्। आरुग्णा भग्ना नैका बहुप्रकारा
विटपाः शाखिनश्च यत्र धरातले तत्तथाभूतम्। द्यौराकाशम्। नष्टार्कचन्द्रकिरणा नष्टा अदर्शनं
गता अर्कचन्द्रयोः सूर्यशशिनोः किरणा रश्मयो यस्याम्। अतिरजसा सन्ततपांशुना अव-
नद्धा स्थगिता तोयाशया जलाधारा वापीकूपतडागादयः। विजला जलरहिताः सरितो
नद्यस्तन्व्यः स्वल्पजलाश्च भवन्ति।
अपिशब्दोऽत्र चार्थे। वृत्रशत्रुरिन्द्रः स्वल्पमभिवर्षति। केचित् सप्तम्यन्तं पठन्ति।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
ग्रहवर्षफलाध्यायः ३१९
वृत्रशत्राविन्द्रे मन्दं स्वल्पमभिवर्षति सति कुत्रचिज्जातान्युत्पन्नानि सस्यान्यतोयतया जलेन
विना विनाशमृच्छन्ति यान्ति। तथा अपराण्यन्यानि जलोक्षितान्युदकसिक्तानि पुष्टिं
वृद्धिमृच्छन्ति। तथा च यवनेश्वरः—
तुष्टाल्पवर्षः प्रबलानिलाग्निविपन्नसस्यश्चलितक्षितीशः।
मृत्युक्षुधातङ्कभयोपजुष्टः शनैश्चरोऽब्दः पशुशूद्रगोघ्नः।। ।।
तथा च समाससंहितायाम्—
दुर्भिक्षमरकं रोगान् करोति पवनं तथा।
शनैश्चरोऽब्दो दोषांश्च विग्रहांश्चैव भूभुजाम्॥
संवत्सरोक्तं सकलमृतुमासायनेषु च।
फलं ग्रहस्य वक्तव्यं बलयुक्तस्य नान्यथा।। इति।।१९-२१।।
अत्रैव वर्षफलविशेषप्रदर्शनार्थमाह—
अणुरपटुमयूखो नीचगोऽन्यैर्जितो वा
न सकलफलदाता पुष्टिदोऽतोऽन्यथा यः।
यदशुभमशुभेऽब्दे मासजं तस्य वृद्धिः
शुभफलमपि चैवं याप्यमन्योन्यतायाम् ॥२२॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां ग्रह-
वर्षफलाध्याय एकोनविंशः ॥१९॥
जो ग्रह सूक्ष्म, अस्पष्ट किरण वाला, नीच स्थानस्थित या ग्रहयुद्ध में पराजित हो, वह
सम्पूर्ण फल देने वाला नहीं होता है। इससे विपरीत लक्षणयुत होने से सम्पूर्ण फल देने
वाला होता है। अशुभ वर्ष में रवि, मंगल और शनि के अशुभ मासफल की वृद्धि होती है।
इससे यह सिद्ध होता है कि अशुभ ग्रह के वर्ष में अशुभ ग्रह का मासाधिपतित्व होने पर
अत्यन्त अशुभ फल होता है तथा वर्षाधिप, मासाधिप—दोनों शुभग्रह हों तो शुभ फल की
वृद्धि और एक शुभ एवं दूसरा अशुभ हो तो याप्य ( अल्प फल ) होता है॥२२॥
इति 'विमला' हिन्दीटीकायां ग्रहवर्षफलाध्याय
एकोनविंशतितमः ॥१९॥
यो ग्रहोऽणुः सूक्ष्मो नभसि दृश्यते। अपटुमयूखोऽस्पष्टरश्मिः। नीचगो नीचराशिस्थितः।
अन्यैर्ग्रहैर्वा ग्रहयुद्धे जितः पराजितः। स ग्रहो निःशेषाणां सकलानां फलानां शुभानां दाता
न भवति। अतोऽन्यथा अस्मादुक्तात् प्रकाराद्यो विपरीतस्थः। स पुष्टिदः पुष्टिं ददाति।
वर्षफलानां शुभानां परिपूर्णानां दाता भवति। एतदुक्तं भवति—विस्तीर्णबिम्बः स्फुटमयूख
CC-0. JK Sanskrit Academy, Jammnu. Digitized by S3 Foundation USA
३२० बृहत्संहिता
उच्चस्थः स्वगृहत्रिकोणमित्रक्षेत्राणामन्यतमस्थो जया च परिपूर्णान्युक्तानि शुभानि फलानि
ददाति। अन्यथा अनिष्टानि फलानि ददाति। यदशुभमित्यादि। अशुभेऽब्दे अशुभे वर्षे
रविभौमसौराणामन्यतमे यन्मासजं मासाधिपतेर्ग्रहस्याशुभं फलं तस्य फलस्य वृद्धिर्भवति।
एतदुक्तं भवति—अशुभग्रहवर्षम् अशुभस्यैव ग्रहस्य मासाधिपतित्वं यदा भवति तदा
तस्मिन् मासे अतीवाशुभं फलं स ग्रहो ददाति। शुभफलमपि चैवम्। मासाब्दयोः शुभत्वे
मासजस्यैव शुभस्य वृद्धिर्भवति। याप्यमन्योन्यतायाम्। अन्योन्यतायां मासाब्दयोरेकस्य
शुभत्वे अन्यस्याशुभत्वे याप्यमल्पफलं वाच्यमिति। तथा च देवलः—
बली वर्षपतिः पुष्टं फलं यच्छति शोभनम्।
विबलश्च तथानिष्टं वर्षमासदिनात्मकम्।। इति।।२२।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ ग्रहवर्षफलं
नामैकोनविंशतितमोऽध्यायः ।।१९।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
अथ ग्रहशृङ्गाटकाध्यायः
अथ ग्रहशृङ्गाटकाध्यायो व्याख्यायते। तत्रादावेव दिक्फलप्रतिपादनार्थमाह—
यस्यां दिशि दृश्यन्ते विशन्ति ताराग्रहा रविं सर्वे।
भवति भयं दिशि तस्यामायुधकोपक्षुधातङ्कैः ॥१॥
जिस दिशा में सभी ताराग्रह ( मङ्गल, बुध, गुरु, शुक्र और शनि ) दिखाई दें तथा
जिस दिशा में रवि में प्रविष्ट ( अस्त ) हों, उस दिशा में शस्त्रकोप, क्षुधा ( दुर्भिक्ष ) और
आतङ्क ( उपद्रव ) का भय होता है।।१।।
यस्यां दिशि यत्राशायां सर्वे एव ताराग्रहा भौमबुधगुरुसितसौरा दृश्यन्ते लोकैरव-
लोक्यन्ते। तथा रविमादित्यं प्रति यस्यां दिशि विशन्ति अस्तमयं यान्ति तस्यां दिशि
भयं भवति। कैः आयुधकोपक्षुधातङ्कैः। आयुधकोपेन शस्त्रकोपेन, क्षुधा दुर्भिक्षेण,
आतङ्कैरुपद्रवैः। तथा च काश्यपः—
भूमिपुत्रादयः सर्वे यस्यामस्तमिते रवौ।
दृश्यन्तेऽस्तमये वापि यत्र यान्ति रवेस्ततः।।
दुर्भिक्षं शस्त्रकोपं च जनानां मरकं भवेत्।
अन्योन्यं भूमिपाः सर्वे विनिघ्नन्ति प्रजास्तथा।। इति।।१।।
अधुना तेषामेव ग्रहाणां संस्थानप्रदर्शनार्थमाह—
चक्रधनुःशृङ्गाटकदण्डपुराप्रासवज्रसंस्थानाः ।
क्षुदवृष्टिकरा लोके समराय च मानवेन्द्राणाम् ॥२॥
यदि ग्रहसंस्थान ( ग्रह की आकृति) चक्र, धनु, शृङ्गाटक (त्रिकोण ), दण्ड, पुर,
प्रास ( आयुधविशेष ), कुन्त, वज्र या मध्य में कृश और दोनों तरफ विस्तीर्ण हो तो पृथ्वी
पर सब जगह दुर्भिक्ष, अवृष्टि एवं मनुष्यों में और राजाओं में युद्ध होता है।।२।।
चक्रं चक्राकारम्। धनुश्चापम्। शृङ्गाटकं त्रिकोणम्। दण्डं दण्डाकारम्। पुरं पुराकारमेव
प्रासादसदृशम्। प्रासमायुधविशेषः कुन्ताकारम्। वज्रं वज्राकारं मध्यक्षाममुभयाग्रविस्तीर्णम्।
एवं चक्रादिसंस्थानां ग्रहाः। संस्थानमाकृतिः। लोके सर्वत्र जनपदे क्षुदवृष्टिकराः। क्षुद्
दुर्भिक्षमवृष्टिं च कुर्वन्ति। तथा मानवेन्द्राणां राज्ञां समराय संग्रामाय च भवन्ति।
अर्थादेवोक्त-संस्थानं विना यथा तथा स्थितानां शुभं फलं कुर्वन्तीति। तथा च काश्यपः—
विहायोक्तं च संस्थानं दृश्यन्ते वै ग्रहा यदा।
तदा न तत्फलं ब्रूयाल्लोके नाशुभदाश्च ते।। इति।।२।।
बृह० भ० प्र०-२१
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
३२२ बृहत्संहिता
अथान्तरिक्षप्रविभागेनाशुभं फलमाह—
यस्मिन् खांशे दृश्या ग्रहमाला दिनकरे दिनान्तगते ।
तत्राऽन्यो भवति नृपः परचक्रोपद्रवश्च महान् ॥३॥
सूर्य के अस्तसमय में जिस देश के आकाशभाग में ग्रहमाला दिखाई दे, वहाँ पर
अन्य राजा का आगमन और दूसरे राजा का उपद्रव होता है॥३॥
दिनकरे सूर्ये दिनान्तगते दिवसस्य पर्यन्तं प्राप्ते अस्तमित इत्यर्थः । तस्मिन् खांशे
यत्राकाशभागे ग्रहमाला ग्रहपङ्क्तिर्दृश्या भवति, तत्र तस्मिन्नेव भूभागे अन्यो द्वितीयो
नृपो राजा भवति। तथा महानतीव परचक्रोपद्रवश्च भवति। अपरनृपापमर्दस्तत्र भवतीत्यर्थः।
अथ ग्रहाणां नक्षत्रस्थितानां फलमाह—
तस्मिन्नृक्षे कुर्युः समागमं तज्जनान् ग्रहा हन्युः ।
अविभेदिनः परस्परममलमयूखाः शिवास्तेषाम् ॥४॥
जिस नक्षत्र के साथ ग्रहों का समागम होता है, उस नक्षत्र के नक्षत्रकूर्म और
नक्षत्रव्यूह में उक्त जनों का नाश करता है। यदि वे दोनों ( ग्रह, नक्षत्र ) परस्पर निर्मल
किरण वाले हों तो उनका कुशल करते हैं॥४॥
यस्मिन्नृक्षे यत्र नक्षत्रे ग्रहाः समागमं सम्प्रयोगं कुर्युस्तस्य नक्षत्रस्य ये जना नक्षत्रकूर्मेण
नक्षत्रव्यूहेन च कथितास्तान् हन्युर्नाशयेयुः। यदा च त एव ग्रहाः परस्परमन्योन्यमविभेदिन-
श्छाद्यच्छादकभावेन स्थिता अमलमयूखा निर्मलरश्मयस्तेषामेव जनानां शिवाः श्रेयस्करा
भवन्ति। तथा च समाससंहितायाम्—
सर्वे यदा दिनकरं विशन्ति कुर्युर्ग्रहास्तदा पीडाम्।
क्षुच्छस्त्रभयातङ्कैरपरैश्च परस्पराघातैः ॥
प्रत्यर्चिषः प्रसन्नाः सम्भृतकिरणाः प्रदक्षिणावर्ताः।
सुस्निग्धामलतनवः क्षेमसुभिक्षावहास्ते स्युः॥४॥
अथ योगषट्कस्य नामान्याह—
ग्रहसंवर्तसमागमसम्मोहसमाजसन्निपाताख्याः ।
कोशश्चेत्येतेषामभिधास्ये लक्षणं सफलम् ॥५॥
ग्रहसंवर्त, ग्रहसमागम, ग्रहसम्मोह, ग्रहसमाज, ग्रहसन्निपात और ग्रहकोश—ये छः
योग हैं। अब इनका लक्षण और फल कहते हैं॥५॥
ग्रहसंवर्तेति । ग्रहशब्दः प्रत्येकमभिसम्बध्यते। ग्रहसंवर्त एकः। ग्रहसमागमो द्वितीयः।
ग्रहसम्मोहस्तृतीयः। ग्रहसमाजश्चतुर्थः। ग्रहसन्निपातः पञ्चमः। ग्रहकोशः षष्ठः। इत्येवंप्रकाराः
षड्योगाः। एषां सफलं फलसहितं लक्षणमभिधास्ये कथयिष्ये॥५॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
ग्रहशृङ्गाटकाध्यायः ३२३
तच्च लक्षणं सफलमाह—
एकक्षें चत्वारः सह पौरैर्यायिनोऽथवा पञ्च ।
संवर्तो नाम भवेच्छिखिराहुयुतः स सम्मोहः ॥६॥
पौरः पौरसमेतो यायी सह यायिना समाजाख्यः ।
यमजीवसङ्गमेऽन्यो यद्यागच्छेत्तदा कोशः ॥७॥
उदितः पश्चादेकः प्राक् चान्यो यदि स सन्निपाताख्यः ।
अविकृततनवः स्निग्धा विपुलाश्च समागमे धन्याः ॥८॥
एक नक्षत्र में पौर के साथ पापी ग्रह मिल कर चार या पाँच संख्यक हों तो संवर्त,
केतु या राहु हो तो सम्मोह, पौरग्रह के साथ पौरग्रह या पापी ग्रह के साथ पापी ग्रह हो तो
समाज, शनैश्चर और गुरु के संयोग में कोई दूसरा ग्रह आ जाय तो कोश, एक ग्रह पश्चिम
दिशा में और दूसरा पूर्व दिशा में उदित होकर दोनों एक नक्षत्रगत हों तो सन्निपात तथा उक्त
पाँचों लक्षणों से भिन्न लक्षणयुक्त होने से समागम होता है। इस समागम में ताराग्रह
निर्विकार शरीर वाले, निर्मल और विपुल बिम्ब वाले शुभ होते हैं; अन्यथा अशुभ होते
हैं॥६-८॥
एकस्मिन् ऋक्षे नक्षत्रे चत्वारो ग्रहाः स्थिता भवन्ति पञ्च वा, ते यदि यायिनः पौरैश्च
सह समेता भवन्ति तदा संवर्तो नाम योगो भवति। तत्रैव यदि शिखी केतू राहुर्वा भवति
तदा योगः सम्मोहो नाम भवति।
पौरो ग्रहः पौरेण ग्रहेण समेतः संयुक्तो यदि यायी यायिना वा सह यद्येकस्मिन्नृक्षे
भवति तदा स समाजाख्यो योगो भवति। समाजेत्याख्या यस्य। यमः सौरो जीवो गुरुः।
अनयोः सङ्गमे संयोगे यद्यन्यः कश्चिद् ग्रह आगच्छेत्तदा कोशाख्यो योगः।
एको ग्रहः पश्चात् पश्चिमायां दिश्युदितः। आदित्यमण्डलान्निर्गतः। अन्यो द्वितीयः
प्राक् च पूर्वस्यां दिशि अर्कमण्डलादेवोद्गतस्तौ तथाभूतौ यद्येकक्षं गतौ भवतस्तदा स
सन्निपाताख्यो योगः। एतेषां पञ्चानां संस्थानानामभावे यो ग्रहसंयोगः समागम इति
ज्ञेयः। तत्र च समागमे सर्व एव ताराग्रहा अविकृततनवो निर्विकारशरीराः स्निग्धा निर्मला
विपुला विस्तीर्णाश्च धन्याः शुभाः अन्यथा अशुभा इति। तथा च समाससंहितायाम्—
ग्रहकोशसन्निपातौ संवर्तसमागमौ समाजश्च।
सम्मोहश्चेति तेषां लक्षणमस्तात् समादेश्यम्॥
सूर्यजगुरुसंयोगे द्वावप्येकोऽपरः समागच्छेत्।
स हि भवति कोशसंज्ञो दुर्भिक्षभयावहो लोके॥
एक उदितः प्रतीच्यामपरः प्राच्यां ग्रहोदितो यदि च।
अन्योन्यमथोत्साभिर्विलिखेत् स हि सन्निपाताख्यः॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
३२४ बृहत्संहिता
सह पौरेण च पौरो यायी सह यायिना ग्रहो यश्च।
दृश्येत समायुक्तः स समाजाख्यः समुद्दिष्टः॥
अथ यायिनागराख्याश्चत्वारः पञ्च वा सह भवेयुः।
एकर्क्षे संवर्तः शिखिराहुयुतः स सम्मोहः॥
अन्यथा समागमो यतः पूर्वमेवोक्तम्—
प्रत्यर्चिषः प्रसन्नाः सम्भृतकिरणाः प्रदक्षिणावर्ताः।
सुस्निग्धामलतनवः क्षेमसुभिक्षावहास्ते स्युः॥६-८॥
अथैतेषां फलान्याह—
समौ तु संवर्तसमागमाख्यौ सम्मोहकोशौ भयदौ प्रजानाम् ।
समाजसंज्ञे सुसमा प्रदिष्टा वैरप्रकोपः खलु सन्निपाते ॥९॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां
ग्रहशृङ्गाटकाध्यायो विंशः ॥२०॥
सम्मोह और कोश में प्रजाओं को भय, समाज में सुसम ( पूर्व से पश्चात् अधिक
फल ) और सन्निपात में परस्पर द्वेष होता है॥९॥
इति 'विमला'हिन्दीटीकायां ग्रहशृङ्गाटकाध्यायो विंशः ॥२०॥
संवर्तसमागमाख्यौ द्वौ योगौ समौ। न शुभं नाप्यशुभं कुर्वते इत्यर्थः। यादृशा
भावाः पूर्वमभूवंस्तादृशा एव संवर्तसमागमयोरिति। सम्मोहकोशौ प्रजानां लोकानां
भयदौ भयं ददतः। समाजसंज्ञे समाजाख्ये सुसमा सुशोभना समा प्रदिष्टा उक्ता। तद्वर्षं
शोभनं भवतीत्यर्थः। केचिद्बहुवचनं पठन्ति। सुसमाः प्रदिष्टा इति। सुसमा भावाः प्रदिष्टा
उक्ताः। यादृशाः पूर्वमभूवन् तदधिका भवन्तीत्यर्थः। सन्निपाते वैरप्रकोपः। लोकानां परस्परं
वैरं भवति। खलुशब्द आगमद्योतनार्थः। तथा च काश्यपः—
संवर्तसङ्गमौ मध्यौ सम्मोहो भयदः स्मृतः।
कोशश्चानिष्टफलदः समाजाख्यः सुमध्यमः।
सन्निपाते महावैरमन्योन्यमुपजायते॥
तथा च समाससंहितायाम्—
संवर्तसमागमयोः साम्यं मोहे भयानि कोशे च।
सुसमा समाजसंज्ञे वैराण्यथ सन्निपाताख्ये॥
तथा चात्रायं विशेषः समाससंहितायाम्—
CC-0. JK Sanskrit Academy, Jammnu. Digitized by S3 Foundation USA
ग्रहशृङ्गाटकाध्यायः ३२५
दुर्भिक्षरोगतस्करशस्त्रावृष्टिक्षुधं ग्रहाः कुर्युः।
आनलवीथ्यां ज्ञेया अजवीथ्यां नेत्रपरिहानिः।।
शस्त्रभयं मृगवीथ्यां जारद्रव्यां क्षुधं च रोगांश्च।
पशुनाशं गोवीथ्यामृषभाख्यायां च नृपपीडा।।
सुसुभिक्षमिरावत्यां गजवीथ्यां च ऋतूत्सवामोदाः।
अतिजलमोक्षं कुर्युर्नागाख्यायां च सर्वे तु।।
ग्रहोदये प्रवासे च सोमसूर्यग्रहे तथा।
विचार्य वीथीमार्गांश्च लोके ब्रूयाच्छुभाशुभम्।। इति।।१९।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ
ग्रहशृङ्गाटकंनाम विंशोऽध्यायः।।२०।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
अथ गर्भलक्षणाध्यायः
अथ गर्भलक्षणं नामाध्यायो व्याख्यायते। तत्रादावेव प्रयोजनदर्शनार्थमाह—
अन्नं जगतः प्राणाः प्रावृट्कालस्य चान्नमायत्तम्।
यस्मादतः परीक्ष्यः प्रावृट्कालः प्रयत्नेन ॥१॥
संसार का प्राण अन्न है, वह अन्न वर्षा ऋतु के अधीन है; अतः यत्नपूर्वक वर्षा ऋतु
की परीक्षा करनी चाहिये ॥१॥
जगतो विश्वस्यान्नं प्राणा असवः। यतः प्राणिनामन्नैर्विना प्राणा न वर्तन्ते। तच्चान्नं
प्रावृट्कालस्य वर्षसमयस्यायत्तमाधीनं यस्मादतोऽस्माद्धेतोः प्रयत्नेनातिशयेन प्रावृट्कालः
परीक्ष्यो विचार्य इत्यर्थः॥१॥
अथ तल्लक्षणानि वक्ष्यामीत्याह—
तल्लक्षणानि मुनिभिर्यानि निबद्धानि तानि दृष्ट्वेदम्।
क्रियते गर्गपराशरकाश्यपवज्रादिरचितानि ॥२॥
गर्ग, पराशर, काश्यप, वज्र आदि मुनियों के द्वारा निबद्ध गर्भलक्षण को देखकर मैं
वर्षाकाल का लक्षण कर रहा हूँ॥२॥
तस्य प्रावृट्कालस्य यानि लक्षणानि विज्ञानकारणानि मुनिभिर्वसिष्ठादिभिर्निबद्धानि
रचितानि तानि दृष्ट्वा अवलोक्य, तथा गर्गपराशरकाश्यपवज्रादिभिर्यानि रचितानि विरचि-
तानि। आदिग्रहणाद्बादरायणाऽसितदेवला गृह्यन्ते। तानि सर्वाणि दृष्ट्वा मयेदं प्रावृट्काल-
लक्षणं क्रियत इति॥२॥
अथ गर्भलक्षणज्ञस्य दैवविदः प्रशंसार्थमाह—
दैवविदविहितचित्तो द्युनिशं यो गर्भलक्षणे भवति।
तस्य मुनेरिव वाणी न भवति मिथ्याम्बुनिर्देशे ॥३॥
जो दैवज्ञ रात-दिन गर्भलक्षण में अविक्षिप्त चित्त होकर लगे रहते हैं, मुनि की तरह
उनकी वाणी वृष्टि-ज्ञान में मिथ्या नहीं होती है॥३॥
यो दैववित् कालज्ञोऽविहितचित्तोऽविक्षिप्तचित्तः, न विहितं चित्तं यस्य, अनन्यमनाः,
तत्पर इत्यर्थः। केचिदवहितचित्त इति पठन्ति। अविक्षिप्तचित्तो द्युनिशमहोरात्रं यो गर्भ-
लक्षणे भवति तस्याम्बुनिर्देशे वृष्टिकथने मुनेर्ऋषेरिव वाणी गीर्मिथ्या निष्फला न भवति;
अपि तु सत्यस्वरूपा भवति। यस्मिन् दिने यस्यां वेलायां स वृष्टिमादिशति तत्र सत्य-
स्वरूपा भवतीत्यर्थः॥३॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
गर्भलक्षणाध्यायः ३२७
अथ शास्त्रप्रशंसार्थमाह—
किं वातः परमन्यच्छास्त्रज्ज्यायोऽस्ति यद्विदित्वैव ।
प्रध्वंसिन्यपि काले त्रिकालदर्शी कलौ भवति ॥४॥
इस ज्योतिषशास्त्र से कौन शास्त्र अच्छा है? अर्थात् कोई नहीं; जिसको जानकर इस
विनाशी कलिकाल में भी मनुष्य त्रिकालदर्शी होते हैं॥४॥
अतोऽस्माद् गर्भलक्षणशास्त्राज्ज्योतिःशास्त्राद्वा अन्यदपरं शास्त्रं ज्यायः प्रशस्ततरं
किं वास्ति विद्यते। यच्छास्त्रं ग्रन्थं ज्ञात्वा कलौ युगे प्रध्वंसिन्यपि सर्वशास्त्रविनाशकर्तरि
सत्यपि। यतः सर्वशास्त्राणां कलौ दिनानुदिनं ध्वंसोऽस्ति। तथाभूतेऽपि त्रिकालदर्शी भूत-
भविष्यद्वर्त्तमानकालस्य वेत्ता भवतीत्यर्थः ॥४॥
अथात्रै परमतं स्वमतं चाह—
केचिद्वदन्ति कार्तिकशुक्लान्तमतीत्य गर्भदिवसा स्युः।
न च तन्मतं बहूनां गर्गादीनां मतं वक्ष्ये ॥५॥
किसी का मत है कि कार्तिक शुक्ल पूर्णिमा के बाद गर्भ के दिन होते हैं। यह सबका
मत नहीं है; अतः अब गर्ग आदि आचार्यों का मत कहते हैं॥५॥
केचिदाचार्याः सिद्धसेनप्रभृतयः कार्तिकमासस्य शुक्लान्तं शुक्लपक्षावसानं पौर्णिमान्तं
समतीत्यातिक्रम्य गर्भदिवसाः स्युर्भवेयुरिति वदन्ति कथयन्ति। तथा च सिद्धसेनः—
शुक्लपक्षमतिक्रम्य कार्तिकस्य विचारयेत्।
गर्भाणां सम्भवं सम्यक् सस्यसम्पत्तिकारणम्॥
न च तन्मतं बहूनामिति। यदेतत्रागुक्तं कार्तिकशुक्लान्तमतीत्य गर्भदिवसाः
स्युरिति, तच्च बहूनां प्रभूतानां मुनीनां न मतम्। तस्माद् गर्गादीनां गर्गवसिष्ठपराशरऋषि-
पुत्रकश्यपानां मतं वक्ष्ये कथयिष्य इति॥५॥
तच्चाह—
मार्गशिरःसितपक्षप्रतिपत्प्रभृति क्षपाकरेऽषाढाम् ।
पूर्वा वा समुपगते गर्भाणां लक्षणं ज्ञेयम् ॥६॥
मार्गशीर्ष शुक्ल प्रतिपदा से जब चन्द्रमा पूर्वाषाढा नक्षत्र में स्थित हो, उस समय से
गर्भो का लक्षण जानना चाहिये। ( यहाँ पर 'वा' शब्द चार्थक है )॥६॥
मार्गशीर्षमासस्य सितपक्षप्रतिपत्प्रभृति शुक्लपक्षप्रतिपदारभ्य क्षपाकरे चन्द्रे अषाढां
पूर्वा वा समुपगते पूर्वाषाढां प्राप्ते। वाशब्दोऽत्र चार्थे। मार्गशीर्षशुक्लपक्षे यदा पूर्वा-
षाढास्थश्चन्द्रमा भवति तदारभ्य गर्भाणां लक्षणं ज्ञेयं ज्ञातव्यमिति। तथा चात्र गर्गः—
शुक्लादौ मार्गशीर्षस्य पूर्वाषाढाव्यवस्थिते।
निशाकरे तु गर्भाणां तत्रादौ लक्षणं वदेत्॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA