बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 1 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 366, कुल 728 में से
संदर्भ में पढ़ें३२४ बृहत्संहिता
सह पौरेण च पौरो यायी सह यायिना ग्रहो यश्च।
दृश्येत समायुक्तः स समाजाख्यः समुद्दिष्टः॥
अथ यायिनागराख्याश्चत्वारः पञ्च वा सह भवेयुः।
एकर्क्षे संवर्तः शिखिराहुयुतः स सम्मोहः॥
अन्यथा समागमो यतः पूर्वमेवोक्तम्—
प्रत्यर्चिषः प्रसन्नाः सम्भृतकिरणाः प्रदक्षिणावर्ताः।
सुस्निग्धामलतनवः क्षेमसुभिक्षावहास्ते स्युः॥६-८॥
अथैतेषां फलान्याह—
समौ तु संवर्तसमागमाख्यौ सम्मोहकोशौ भयदौ प्रजानाम् ।
समाजसंज्ञे सुसमा प्रदिष्टा वैरप्रकोपः खलु सन्निपाते ॥९॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां
ग्रहशृङ्गाटकाध्यायो विंशः ॥२०॥
सम्मोह और कोश में प्रजाओं को भय, समाज में सुसम ( पूर्व से पश्चात् अधिक
फल ) और सन्निपात में परस्पर द्वेष होता है॥९॥
इति 'विमला'हिन्दीटीकायां ग्रहशृङ्गाटकाध्यायो विंशः ॥२०॥
संवर्तसमागमाख्यौ द्वौ योगौ समौ। न शुभं नाप्यशुभं कुर्वते इत्यर्थः। यादृशा
भावाः पूर्वमभूवंस्तादृशा एव संवर्तसमागमयोरिति। सम्मोहकोशौ प्रजानां लोकानां
भयदौ भयं ददतः। समाजसंज्ञे समाजाख्ये सुसमा सुशोभना समा प्रदिष्टा उक्ता। तद्वर्षं
शोभनं भवतीत्यर्थः। केचिद्बहुवचनं पठन्ति। सुसमाः प्रदिष्टा इति। सुसमा भावाः प्रदिष्टा
उक्ताः। यादृशाः पूर्वमभूवन् तदधिका भवन्तीत्यर्थः। सन्निपाते वैरप्रकोपः। लोकानां परस्परं
वैरं भवति। खलुशब्द आगमद्योतनार्थः। तथा च काश्यपः—
संवर्तसङ्गमौ मध्यौ सम्मोहो भयदः स्मृतः।
कोशश्चानिष्टफलदः समाजाख्यः सुमध्यमः।
सन्निपाते महावैरमन्योन्यमुपजायते॥
तथा च समाससंहितायाम्—
संवर्तसमागमयोः साम्यं मोहे भयानि कोशे च।
सुसमा समाजसंज्ञे वैराण्यथ सन्निपाताख्ये॥
तथा चात्रायं विशेषः समाससंहितायाम्—
CC-0. JK Sanskrit Academy, Jammnu. Digitized by S3 Foundation USA