सामग्री पर जाएँ
सर्वकोश
बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 1 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished728 पृष्ठ

पृष्ठ 369, कुल 728 में से

संदर्भ में पढ़ें
पृष्ठ 369

गर्भलक्षणाध्यायः ३२७
अथ शास्त्रप्रशंसार्थमाह—
किं वातः परमन्यच्छास्त्रज्ज्यायोऽस्ति यद्विदित्वैव ।
प्रध्वंसिन्यपि काले त्रिकालदर्शी कलौ भवति ॥४॥
इस ज्योतिषशास्त्र से कौन शास्त्र अच्छा है? अर्थात् कोई नहीं; जिसको जानकर इस
विनाशी कलिकाल में भी मनुष्य त्रिकालदर्शी होते हैं॥४॥
अतोऽस्माद् गर्भलक्षणशास्त्राज्ज्योतिःशास्त्राद्वा अन्यदपरं शास्त्रं ज्यायः प्रशस्ततरं
किं वास्ति विद्यते। यच्छास्त्रं ग्रन्थं ज्ञात्वा कलौ युगे प्रध्वंसिन्यपि सर्वशास्त्रविनाशकर्तरि
सत्यपि। यतः सर्वशास्त्राणां कलौ दिनानुदिनं ध्वंसोऽस्ति। तथाभूतेऽपि त्रिकालदर्शी भूत-
भविष्यद्वर्त्तमानकालस्य वेत्ता भवतीत्यर्थः ॥४॥
अथात्रै परमतं स्वमतं चाह—
केचिद्वदन्ति कार्तिकशुक्लान्तमतीत्य गर्भदिवसा स्युः।
न च तन्मतं बहूनां गर्गादीनां मतं वक्ष्ये ॥५॥
किसी का मत है कि कार्तिक शुक्ल पूर्णिमा के बाद गर्भ के दिन होते हैं। यह सबका
मत नहीं है; अतः अब गर्ग आदि आचार्यों का मत कहते हैं॥५॥
केचिदाचार्याः सिद्धसेनप्रभृतयः कार्तिकमासस्य शुक्लान्तं शुक्लपक्षावसानं पौर्णिमान्तं
समतीत्यातिक्रम्य गर्भदिवसाः स्युर्भवेयुरिति वदन्ति कथयन्ति। तथा च सिद्धसेनः—
शुक्लपक्षमतिक्रम्य कार्तिकस्य विचारयेत्।
गर्भाणां सम्भवं सम्यक् सस्यसम्पत्तिकारणम्॥
न च तन्मतं बहूनामिति। यदेतत्रागुक्तं कार्तिकशुक्लान्तमतीत्य गर्भदिवसाः
स्युरिति, तच्च बहूनां प्रभूतानां मुनीनां न मतम्। तस्माद् गर्गादीनां गर्गवसिष्ठपराशरऋषि-
पुत्रकश्यपानां मतं वक्ष्ये कथयिष्य इति॥५॥
तच्चाह—
मार्गशिरःसितपक्षप्रतिपत्प्रभृति क्षपाकरेऽषाढाम् ।
पूर्वा वा समुपगते गर्भाणां लक्षणं ज्ञेयम् ॥६॥
मार्गशीर्ष शुक्ल प्रतिपदा से जब चन्द्रमा पूर्वाषाढा नक्षत्र में स्थित हो, उस समय से
गर्भो का लक्षण जानना चाहिये। ( यहाँ पर 'वा' शब्द चार्थक है )॥६॥
मार्गशीर्षमासस्य सितपक्षप्रतिपत्प्रभृति शुक्लपक्षप्रतिपदारभ्य क्षपाकरे चन्द्रे अषाढां
पूर्वा वा समुपगते पूर्वाषाढां प्राप्ते। वाशब्दोऽत्र चार्थे। मार्गशीर्षशुक्लपक्षे यदा पूर्वा-
षाढास्थश्चन्द्रमा भवति तदारभ्य गर्भाणां लक्षणं ज्ञेयं ज्ञातव्यमिति। तथा चात्र गर्गः—
शुक्लादौ मार्गशीर्षस्य पूर्वाषाढाव्यवस्थिते।
निशाकरे तु गर्भाणां तत्रादौ लक्षणं वदेत्॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA