बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 1 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
१७६ बृहत्संहिता
( अधर्म, व्याधि, दारिद्र्य, शोक, कलह, मृत्यु आदि ) से विमुक्त होते हैं।।२९-३०।।
तस्मात् प्रभवाद् द्वितीयोऽब्दो विभवनामा प्रदिष्ट उक्तः । तृतीयः शुक्लः । परतोऽनन्तरं
चतुर्थः प्रमोदः । प्रजापतिः पञ्चमश्चेति। इतिशब्दः प्रकाराय। एतानि वर्षाणि यथोत्तराणि
उत्तरोत्तराणि। शस्तानि शुभानि। अथानन्तरमेषां वर्षाणां फलानि भवन्ति।
निष्पन्नेत्यादि । तदा तस्मिन् युगे क्षत्रं राजवर्गो भूतधात्रीं वसुन्धरामेवंविधां शास्ति
पालयति। किम्भूताम्? निष्पन्ना निष्ठाः प्राप्ताः शालय इक्षवो यवादयः सस्यानि च यस्यां
ताम्। आदिग्रहणाद् गोधूममसूरचणकमुद्गमाषा गृह्यन्ते। तथा भयैर्दुःखैर्विमुक्तां वर्जि-
ताम्। उपशान्तवैरां नष्टद्वेषाम्। संहृष्टलोकां प्रहृष्टजनाम्। कलिदोषमुक्तां कलियुगे ये दोषा
अधर्मव्या
बृहस्पतिचाराध्यायः १७७
आद्यं द्वितीयं च शुभे तु वर्षे कृतानुकारं कुरुतः प्रजानाम् ।
पापः प्रमाथी वृषविक्रमौ तु सुभिक्षदौ रोगभयप्रदौ च ॥३४॥
तृतीय ( ऐन्द्र ) युग में ईश्वर, बहुधान्य, प्रमाथी, विक्रम, वृष—ये पाँच वर्ष बृहस्पति
के सञ्चारवश होते हैं। इनके प्रथम ( ईश्वर ) और द्वितीय ( बहुधान्य ) वर्ष शुभ हैं तथा
इनमें प्रजागण कृतयुग की तरह ( धर्म में निरत, सुखी और दीर्घजीवी ) होते हैं। प्रमाथी
नाम का तृतीय वर्ष पापफल देने वाला होता है। वृष और विक्रम नामक वर्ष सुभिक्ष तो
करता है; किन्तु रोग और भय देने वाला भी होता है॥३३-३४॥
शाके इन्द्रे युगे पूर्वं प्रथमं वर्षमीश्वरसंज्ञम्। अथशब्दः पादपूरणे। द्वितीयं वर्षं बहु-
धान्यसंज्ञमाहुरुक्तवन्तः। प्रमाथिनं तृतीयम्। विक्रमं चतुर्थम्। अपिशब्दश्चार्थे। अथशब्द
आनन्तर्ये। अन्यत् पञ्चमं वृषं नाम गुरुचारयोगाद् बृहस्पतिचारसंयोगाद्विन्द्याज्जानीयात्।
यतो बार्हस्पत्येनैव मानेनैतानि वर्षाणि भवन्ति। यस्मिन् काले गुरुरादित्यमण्डलादुदेति
तस्मिन्नेव कालेऽब्दप्रवृत्तिः। अत उक्तं गुरुचारयोगादिति।
आद्यं द्वितीयं चेति । आद्यं वर्षं द्वितीयं च एते द्वे वर्षे शुभे प्रशस्तफले प्रजानां लोकानां
कृतानुकारं कृतयुगस्यानुकारं कुरुतः। तद्धर्मानुष्ठानात् तत्सदृशमित्यर्थः। धर्मरताः सुखिता
दीर्घजीविन्यः प्रजा भवन्तीति यावत्। प्रमाथी नाम तृतीयोऽब्दः, स पापोऽनिष्टफलः। वृष-
विक्रमौ तु द्वावब्दौ सुभिक्षदौ सुभिक्षं ददतः, किन्तु रोगभयप्रदौ रोगभयं कुरुतः॥३३-३४॥
अथ चतुर्थस्य युगस्याह—
श्रेष्ठं चतुर्थस्य युगस्य पूर्वं यच्चित्रभानुं कथयन्ति वर्षम् ।
मध्यं द्वितीयं तु सुभानुसञ्ज्ञं रोगप्रदं मृत्युकरं नतं च ॥३५॥
तारणं तदनु भूरिवारिदं सस्यवृद्धिमुदितातिपार्थिवम्।
पञ्चमं व्ययमुशन्ति शोभनं मन्मथप्रबलमुत्सवाकुलम् ॥३६॥
चतुर्थ ( हुताश ) युग के अन्तर्गत चित्रभानु नामक प्रथम वर्ष शुभ फल देने वाला,
द्वितीय सुभानु नामक वर्ष मध्यम फल देने वाला और तृतीय नत नाम का वर्ष रोगप्रद और
मृत्यु को देने वाला होता है। चतुर्थ तारण नामक वर्ष में बहुत जल, धान्यों की वृद्धि और
राजाओं में आनन्द की वृद्धि होती है। पञ्चम व्यय नामक वर्ष शुभ है, इसमें काम की
प्रबलता और उत्सव ( विवाहादि मङ्गलकार्य ) होते हैं॥३५-३६॥
श्रेष्ठमिति । चतुर्थस्य युगस्य हुताशाख्यस्य पूर्वं प्रथमं वर्षं यच्चित्रभानुसंज्ञं तच्छ्रेष्ठं
शुभं कथयन्ति प्रवदन्ति। तस्यैव द्वितीयं सुभानुसंज्ञं तच्च मध्यं मध्यफलम्। तृतीयं
नतं नाम तच्च रोगप्रदं रोगान् ददाति। मृत्युकरं मृत्युं च करोति।
तदनु तस्य तृतीयस्य वर्षस्य पश्चाच्चतुर्थं वर्षं तारणं नाम, तच्च भूरिवारिदम्, भूरि
बहु वारि जलं ददाति। तथा सस्यवृद्धिमुदितातिपार्थिवम्, सस्यानां वृद्धिः, मुदिताति-
बृ० भ० प्र०-१२
CC-0. JK Sanskrit Academy, Jammu. Digitized by S3 Foundation USA
१७८ बृहत्संहिता
पार्थिवं मुदितो हृष्टोऽतीवात्यर्थं पार्थिवो राजा च यत्र। तथा पञ्चमं वर्षं व्ययसंज्ञं तच्च
श्रेष्ठमुशन्ति कथयन्ति। मन्मथप्रबलम्, मन्मथः कामः प्रबल उद्धतो यस्मिन् वर्षे तत्।
तथोत्सवैर्विवाहादिभिराकुलं सोद्यमम्।।३५-३६।।
अथ पञ्चमस्य युगस्याह—
त्वाष्ट्रे युगे सर्वजिदाद्य उक्तः संवत्सरोऽन्यः खलु सर्वधारी ।
तस्माद्विरोधी विकृतः खरश्च शस्तो द्वितीयोऽत्र भयाय शेषाः ।।३७।।
पञ्चम ( त्वाष्ट्र ) युग के अन्तर्गत सर्वजित्, सर्वधारी, विरोधी, विकृत, खर—ये
पाँच संवत्सर होते हैं। इनमें दूसरा ( सर्वधारी ) शुभ और शेष ( सर्वजित्, विरोधी,
विकृत और खर ) भय देने वाले होते हैं।।३७।।
त्वाष्ट्रे युगे आद्यः प्रथमः संवत्सरोऽब्दः सर्वजिन्नामा उक्तः कथितः। अन्यो द्वितीयः
सर्वधारी। खलुशब्दो वाक्यालङ्कारे आगमद्योतनार्थे वा। तस्माद् द्वितीयात् परतस्तृतीयो
विरोधी नाम। चतुर्थो विकृतः। पञ्चमः खरः। शस्तो द्वितीयोऽत्र भयाय शेषा इति।
अत्रास्मिन् युगे द्वितीयोऽब्दः शस्तः शुभः। शेषाः प्रथमतृतीयचतुर्थपञ्चमा भयाय भवन्ति
भयं कुर्वन्ति। अनिष्टफलदा इत्यर्थः।।३७।।
अथ षष्ठस्य युगस्याह—
नन्दनोऽथ विजयो जयस्तथा मन्मथोऽस्य परतश्च दुर्मुखः ।
कान्तमत्र युग आदितस्त्रयं मन्मथः समफलोऽधमोऽपरः ।।३८।।
षष्ठ ( प्रोष्ठपद ) युग में नन्दन, विजय, जय, मन्मथ, दुर्मुख—ये पाँच संवत्सर होते
हैं। इनमें आदि के तीन ( नन्दन, विजय और जय ) शुभ, मन्मथ मध्यम और शेष
( दुर्मुख ) अशुभ है।।३८।।
अहिर्बुध्न्ये युगे प्रथमोऽब्दो नन्दनः। अथानन्तरं द्वितीयो विजयः। तथा तेनैव प्रकारेण
तृतीयो जयः। चतुर्थो मन्मथः। अस्य चतुर्थस्य परतोऽनन्तरं दुर्मुखः पञ्चमः। अत्रास्मिन्
युगे आदित आदौ प्रथमं वर्षत्रयं कान्तं शुभमित्यर्थः। केचित् 'कान्तमत्र युगमादितस्त्रये'
इति पठन्ति। अत्रास्मिन् युगमादित आदौ प्रथमवर्षत्रये कान्तम्। मन्मथः समफलः, न
शुभो नाप्यशुभ इत्यर्थः। अपरश्च दुर्मुखोऽधमः, अशुभफल इत्यर्थः।।३८।।
अथ सप्तमस्य युगस्याह—
हेमलम्ब इति सप्तमे युगे स्याद्विलम्बि परतो विकारि च ।
शर्वरीति तदनु प्लवः स्मृतो वत्सरो गुरुवशेन पञ्चमः ।।३९।।
ईतिप्राया प्रचुरपवना वृष्टिरब्दे तु पूर्वे
मन्दं सस्यं न बहुसलिलं वत्सरेऽतो द्वितीये ।
अत्युद्वेगः प्रचुरसलिलः स्यात्तृतीयश्चतुर्थो
दुर्भिक्षाय प्लव इति ततः शोभनो भूरितोयः ।।४०।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
बृहस्पतिचाराध्यायः १७९
सप्तम (पितृसंज्ञक) युग में हेमलम्ब, विलम्बी, विकारी, शर्वरी, प्लव—ये पाँच
संवत्सर होते हैं। इनमें प्रथम (हेमलम्ब) संवत्सर में अधिकतर अतिवृष्टि आदि छः
ईतियों का भय और अधिक वायु के प्रकोप से युत वृष्टि होती है। दूसरे (विलम्बी) संवत्सर
में थोड़ा धान्य और अधिक वृष्टि होती है। तृतीय संवत्सर बहुत उद्वेग (दोष) करने वाला
और अधिक जल देने वाला होता है। चौथा (शर्वरी) संवत्सर दुर्भिक्ष करने वाला होता है
एवं पाँचवाँ (प्लव) संवत्सर शुभ फल और बहुत वृष्टि देने वाला होता है।।३९-४०।।
सप्तमे पैत्रे हेमलम्ब इति प्रथमो वत्सरः स्यात्। विलम्बि द्वितीयः। परतोऽनन्तरं
तृतीयो विकारि। चशब्दः समुच्चये। शर्वरीति चतुर्थः। तदनु तत्पश्चात् पञ्चमो वत्सरोऽब्दः
प्लवः इति उक्तः। गुरुवशेन बृहस्पतिचारयोगात्।
ईतिप्रायेति। पूर्वे प्रथमेऽब्दे वर्षे ईतिप्रायाऽतिवृष्ट्याद्युपद्रवबहुला। प्रचुरपवना बहुवाता
वृष्टिर्भवति। अतोऽब्दाद् द्वितीये वत्सरे मन्दमल्पं सस्यं न बहुसलिलं प्रभूतजलं भवति।
तृतीयो वत्सरोऽत्युद्वेगकरः प्रभूतदोषदस्तथा प्रचुरसलिलः प्रभूतजलः स्याद् भवेत्। चतुर्थो
दुर्भिक्षाय भवति। ततोऽनन्तरं प्लव इति पञ्चमः शोभनः श्रेष्ठ इति। स च भूरितोयो बहु-
जलश्च भवति।।३९-४०।।
अथाष्टमस्य युगस्याह—
वैश्वे युगे शोक हृदित्यथाद्यः संवत्सरोऽतः शुभकृद् द्वितीयः।
क्रोधी तृतीयः परतः क्रमेण विश्वावसुश्चेति पराभवश्च ॥४१॥
पूर्वापरौ प्रीतिकरौ प्रजानामेषां तृतीयो बहुदोषदोऽब्दः।
अन्त्यौ समौ किन्तु पराभवेऽग्निः शस्त्रामयार्तिर्द्विजगोभयं च ॥४२॥
अष्टम (वैश्व) युग में शोकहृत्, शुभकृत्, क्रोधी, विश्वावसु, पराभव—ये पाँच
संवत्सर होते हैं। इनमें प्रथम (शोकहृत्) और द्वितीय (शुभकृत्) संवत्सर प्रजाओं को
आनन्द देने वाले होते हैं। तृतीय (क्रोधी) संवत्सर बहुत अशुभकारी है। अन्त्य के
चतुर्थ (विश्वावसु) और पञ्चम (पराभव) संवत्सर मध्यम फल देने वाले होते हैं;
किन्तु पराभव संवत्सर में अग्नि का भय, शस्त्र से पीड़ा, रोग से पीड़ा एवं ब्राह्मणों और
गौओं को भय होता है।।४१-४२।।
वैश्वे युगे इति। अथानन्तरं वैश्वे अष्टमे युगे आद्यः प्रथमः संवत्सरोऽब्दः शोकहृदिति।
केचिच्छोककृदिति पठन्ति। शोकं कृन्तति छिनत्तीति शोककृत्। यतोऽस्य शोभनं फलमा-
चार्यो वक्ष्यति—'पूर्वापरौ प्रीतिकरौ प्रजानाम्' इति। तस्माच्छोकहृदिति निःसन्देहः पाठः।
अतोऽन्यो द्वितीयः शुभकृत्। तृतीयः क्रोधी। परतोऽनन्तरं क्रमेण विश्वावसुश्चेति चतुर्थः।
इतिशब्दः प्रकारे। पराभवश्च पञ्चमः।
पूर्वापराविति। प्रथमद्वितीयावब्दौ प्रजानां प्रीतिकरौ। एषां सर्वेषां पञ्चानां क्रोधी
योऽब्दस्तृतीयः स बहुदोषदः, बहुदोषानशुभान् ददाति। अन्त्यौ पश्चिमौ चतुर्थपञ्चमौ समौ
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
१८० बृहत्संहिता
समफलौ न शुभौ नाप्यशुभौ भवतः। किन्त्वत्र वर्षद्वये पराभवेऽग्निरग्निभयं भवति। तथा
शस्त्राग्न्यार्तिः शस्त्रेण आमयैश्च रोगैरार्तिः पीडा भवति। तथा द्विजगोभयं च द्विजानां
ब्राह्मणानां गवां च भयं भवति।।४१-४२।।
अथ नवमस्य युगस्याह—
आद्यः प्लवङ्गो नवमे युगेऽब्दः
स्यात् कीलकोऽन्यः परतश्च सौम्यः ।
साधारणो रोधकृदित्यथैवं
शुभप्रदौ कीलकसौम्यसंज्ञौ ।।४३।।
कष्टः प्लवङ्गो बहुशः प्रजानां साधारणोऽल्पं जलमीतयश्च ।
यः पञ्चमो रोधकृदित्यथाब्दश्चित्रं जलं तत्र च सस्यसम्पत् ।।४४।।
नवम ( सौम्य ) युग में प्लवङ्ग, कीलक, सौम्य, साधारण, रोधकृत्—ये पाँच
संवत्सर होते हैं। इनमें कीलक और सौम्य संवत्सर शुभप्रद हैं। प्लवङ्ग संवत्सर में प्रजाओं
को कष्ट होता है। साधारण संवत्सर में थोड़ा जल और अनावृष्टि आदि ईति का भय होता
है। रोधकृत् संवत्सर में चित्रजल ( कहीं-कहीं पर वृष्टि और कहीं पर अवृष्टि ) एवं
धान्य की उत्पत्ति होती है।।४३-४४।।
आद्यः प्लवङ्ग इति। नवमे युगे सौम्ये आद्यः प्रथमोऽब्दः प्लवङ्गसंज्ञः स्याद्भवेत्।
अन्यो द्वितीयः कीलकः। परतस्तृतीयः सौम्यः। साधारणश्चतुर्थः। रोधकृत् पञ्चमः। इत्येवं
प्रकारे। अथशब्द आनन्तर्ये। तत्र कीलकसौम्यसंज्ञौ द्वावब्दौ शुभप्रदौ श्रेष्ठौ।
कष्ट इति। प्लवङ्गसंज्ञः प्रजानां बहुशो बहुप्रकारं कष्टोऽशुभः। अब्दे साधारणे
अल्पं जलं स्वल्पमुदकम्। ईतय अतिवृष्ट्यादय उपद्रवाः। अथानन्तरं यः पञ्चमोऽब्दो
रोधकृदिति तत्र तस्मिन्नब्दे चित्रं नानाप्रकारं जलं क्वचित्क्वचिद्वर्षति। तथा सस्यानां सम्पच्च
भवति।।४३-४४।।
अथ दशमस्य युगस्याह—
इन्द्राग्निदैवं दशमं युगं यत्तत्राद्यवर्षं परिधाविसंज्ञम् ।
प्रमादिनं विक्रममप्यतोऽन्यत् स्याद्राक्षसं चानलसंज्ञितं च ।।४५।।
परिधाविनि मध्यदेशनाशो नृपहानिर्जलमल्पमग्निकोपः ।
अलसस्तु जनः प्रमादिसंज्ञे डमरं रक्तकपुष्पबीजनाशः ।।४६।।
विक्रमः सकललोकनन्दनो राक्षसः क्षयकरोऽनलस्तथा ।
ग्रीष्मधान्यजननोऽत्र राक्षसो वह्निकोपमरकप्रदोऽनलः ।।४७।।
दशम ( शक्राग्नि ) युग में परिधावी, प्रमादी, विक्रम, राक्षस, अनल—ये पाँच
संवत्सर होते हैं। परिधावी संवत्सर में मध्यदेश का नाश, राजा का मरण, थोड़ी वर्षा और
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
[Header] बृहस्पतिचाराध्यायः १८१
अग्निभय होता है। प्रमादी संवत्सर में आलसी मनुष्य, डमर (सशस्त्र कलह), रक्त
पुष्प और रक्त बीज वाले वृक्षों का नाश होता है। विक्रम संवत्सर में सभी मनुष्यों को
आनन्द प्राप्त होता है। राक्षस और अनल संवत्सर में सब लोगों का नाश होता है; पर
राक्षस संवत्सर में ग्रीष्म धान्य (यव, गेहूँ, चना आदि) की उत्पत्ति और अनल संवत्सर
में अग्निकोप एवं मरक (मरी) होता है॥४५-४७॥
इन्द्राग्निदैवमिति। दशमं युगमिन्द्राग्निदैवतं यत्तत्र तस्मिन्नाद्यवर्षं प्रथमवर्षं परिधा-
विसंज्ञम्। प्रमादिनं द्वितीयम्। अतोऽस्मादन्यत्तृतीयं विक्रमं स्याद् भवेत्। राक्षसं चतुर्थम्।
अनलसंज्ञितं पञ्चमम्। चशब्दोऽत्रोभयत्र समुच्चये।
परिधाविनीति। परिधाविनि वर्षे मध्यदेशनाशो भवति। तत्रैव नृपहानी राज्ञो मरणम्।
जलमुदकमल्पं स्तोकम्। अग्निकोपो वह्निभयम्। प्रमादिसंज्ञे जनो लोकः। अलसः सालसो
भवति। तथा डमरं कलहः सशस्त्रः। रक्तकपुष्पाणां येषां वृक्षाणां लोके रक्तपुष्पं भवति,
तथा रक्तकबीजानां च नाशो भवति।
विक्रम इति। विक्रमः सकललोकानां नन्दनोऽब्दः समस्तजनसमृद्धिकरः। राक्षसः
समस्तलोकानां क्षयकरो विनाशकरो भवति। अनलस्तेनैव प्रकारेण क्षयकर एव। अत्रास्मिन्
युगे राक्षसोऽब्दो ग्रीष्मधान्यानां यवगोधूमादीनां जननः सम्पत्करः। अनलो वह्निकोपमरकप्रदः।
अग्निकोपं मरकं च ददाति॥४५-४७॥
अथैकादशस्य युगस्याह—
एकादशे पिङ्गलकालयुक्तसिद्धार्थरौद्राः खलु दुर्मतिश्च।
आद्ये तु वृष्टिर्महती सचौरा श्वासो हनूकम्पयुतश्च कासः ॥४८॥
यत्कालयुक्तं तदनेकदोषं सिद्धार्थसंज्ञे बहवो गुणाश्च।
रौद्रोऽतिरौद्रः क्षयकृत् प्रदिष्टो यो दुर्मतिर्मध्यमवृष्टिकृत् सः ॥४९॥
एकादश (आश्विन) युग में पिङ्गल, कालयुक्त, सिद्धार्थ, रौद्र, दुर्मति—ये पाँच
संवत्सर होते हैं। इनमें प्रथम (पिङ्गल) संवत्सर में अतिवृष्टि, चोरों का भय, श्वास और ठोढ़ी
को कम्पित करने वाली खाँसी होती है। कालयुक्त संवत्सर में अनेक फल होते हैं। सिद्धार्थ-
संज्ञक संवत्सर में बहुत गुण (सम्पत्ति आदि) होते हैं। रौद्र संवत्सर में अतिशय अशुभ
फल और प्रजाओं का नाश होता है। दुर्मति संवत्सर में मध्यम वृष्टि होती है॥४८-४९॥
एकादशेति। एकादशो आश्विने युगे प्रथमोऽब्दः पिङ्गलः। द्वितीयः कालयुक्तः।
तृतीयः सिद्धार्थः। चतुर्थो रौद्रः। पञ्चमो दुर्मतिः। खलुशब्द आगमद्योतनार्थः। आद्ये प्रथमे
वर्षे महती चण्डा अतिवृष्टिर्भवति सा तु सचौरा चौरयुक्ता। तस्करा भवन्तीत्यर्थः। तथा श्वासो
भवति जनानां हनूकम्पयुतश्च कासः। कासपीडा च भूतानां भवति यया हनू कम्प्येते।
यत्कालयुक्तमिति। यदब्दं कालयुक्तं तदनेकदोषं बहुदोषप्रदम्। सिद्धार्थसंज्ञे बहवः
प्रभूता गुणाः सम्पदादयो भवन्ति। यो रौद्रः सोऽतिरौद्रः। अतिदुष्टफलः। तथा क्षयकृ-
[Footer] CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
१८२ बृहत्संहिता
प्रजानां क्षयकरः प्रदिष्ट उक्तः। यो दुर्मतिः स मध्यमवृष्टिकृत् मध्यमां वृष्टिं करोतीति।।
अथ द्वादशस्य युगस्याह—
भाग्ये युगे दुन्दुभिसंज्ञमाद्यं सस्यस्य वृद्धिं महतीं करोति।
अङ्गारसंज्ञं तदनु क्षयाय नरेश्वराणां विषमा च वृष्टिः ॥५०॥
रक्ताक्षमब्दं कथितं तृतीयं तस्मिन् भयं दंष्ट्रिकृतं गदाश्च।
क्रोधं बहुक्रोधकरं चतुर्थं राष्ट्राणि शून्यीकुरुते विरोधैः ॥५१॥
द्वादश ( भाग्य ) युग में प्रथम दुन्दुभि नामक संवत्सर में धान्य की अधिक वृद्धि
होती है। द्वितीय अङ्गार संवत्सर में राजाओं का नाश और अत्यन्त भयङ्कर वृष्टि होती है।
तृतीय रक्ताक्ष नामक संवत्सर में दंष्ट्री ( सूकर आदि ) का भय और रोग होता है। चतुर्थ
क्रोध नामक संवत्सर में लोगों को बहुत क्रोध होता है ॥५०-५१॥
भाग्ये युगे इति। भाग्यसंज्ञे द्वादशे युगे आद्यं प्रथमं वर्षं दुन्दुभिसंज्ञं तच्च महतीम-
तिबह्वीं सस्यवृद्धिं करोति। तदनु तत्पश्चात् द्वितीयमङ्गारसञ्ज्ञं तच्च नरेश्वराणां राज्ञां क्षयाय
नाशाय भवति। वृष्टिश्च विषमा अतुला अतिचण्डा वा भवति।
तथा तृतीयमब्दं वर्षं रक्ताक्षसंज्ञं कथितमुक्तम्। तस्मिन्नब्दे दंष्ट्रिकृतं भयं भवति।
दंष्ट्रिणः सूकरादयस्तत्कृतं भयं भवति। तथा गदा रोगाश्च भवन्ति। चतुर्थं क्रोधसंज्ञं तच्च
बहुक्रोधकरं बहुप्रकारं लोकानां क्रोधं करोति। तथा राष्ट्राणि विरोधैः कलहैः शून्यीकुरुते।
अशून्यानि शून्यानि करोतीति शून्यीकुरुते। उद्वासयतीत्यर्थः ॥५०-५१॥
अथ पञ्चमस्य वर्षस्य फलं षष्ट्यब्दलक्षणं मया संक्षेपतः कृतमित्येतच्चाह—
क्षयमिति युगस्यान्त्यस्यान्त्यं बहुक्षयकारकं
जनयति भयं तद्विप्राणां कृषीबलवृद्धिदम्।
उपचयकरं विट्शूद्राणां परस्वहृतां तथा
कथितमखिलं षष्ट्यब्दे यत्तदत्र समासतः ॥५२॥
बारहवें युग का अन्तिम क्षय नामक संवत्सर बहुत प्रकार से लोगों का नाश करने
वाला, ब्राह्मणों को भय देने वाला, किसानों, वैश्यों, शूद्रों तथा दूसरे के धन का अपहरण
करने वालों को बढ़ाने वाला होता है। शास्त्रान्तर में षष्ट्यब्दों का जो फल वर्णित है, उसको
संक्षेप से मैंने ( वाराहमिहिर ने ) यहाँ पर बृहस्पतिचाराध्याय में कहा है॥५२॥
अन्त्यस्य युगस्य द्वादशस्य अन्त्यं पञ्चमं वर्षं क्षयमिति क्षयसंज्ञम्। तच्च बहुक्षयकरं
बहुविधं जनानां क्षयं करोति। विप्राणां ब्राह्मणानां भयं भीतिं जनयत्युत्पादयति। कृषीबलानां
कर्षकाणां वृद्धिदम्। विट्शूद्राणां वैश्यानां शूद्राणां चोपचयकरं वृद्धिकरम्। तथा परस्वहृतां
परधनहर्तृणामप्युपचयकरम्। अखिलं निःशेषं षष्ट्यब्दे षष्ट्यब्दाख्ये।
माघशुक्लप्रवृत्तस्य पौषकृष्णसमापिनः।
युगस्य पञ्चकस्येह कालज्ञानं निबोध्यते।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
बृहस्पतिचाराध्यायः १८३
इति तस्मिन् शास्त्रे यत्कथितमुक्तं तदत्रास्मिन् बृहस्पतिचारे सर्व समासतः संक्षेपतः
कथितमुक्तम्। तथा च समाससंहितायाम्—
ऐन्द्रे तृतीयमशुभं द्वितीयवर्जानि पञ्चमे तु युगे ।
पित्र्ये युगे तृतीयं चतुर्थमपि पापदं वर्षम् ।।
वैश्वे तृतीयमशुभं शुभदान्युक्तानि चावशेषाणि ।
सौम्ये द्वितीयवर्षं शुभावहं यत्तृतीयं तु ।।
प्रथितं शुभमैन्द्राग्नौ तृतीयवर्षं तथाश्विदैवत्ये।
भाग्ये प्रथमं वर्षं षष्ट्यब्दस्यैष संक्षेपः।। इति ।। ५२ ।।
अथ बिम्बलक्षणमाह—
अकलुषांशुजटिलः पृथुमूर्तिः कुमुदकुन्दकुसुमस्फटिकाभः ।
ग्रहहतो न यदि सत्पथवर्ती हितकरोऽमरगुरुर्मनुजानाम् ।। ५३ ।।
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां
बृहस्पतिचाराध्यायोऽष्टमः ।। ८ ।।
निर्मल किरण वाला, जटिल ( सघन किरण वाला ), विशाल बिम्ब वाला, कुमुदपुष्प,
कुन्दपुष्प या स्फटिक मणि के समान कान्ति वाला, ग्रहयुद्ध में अविजित होकर सत्पथ
( ग्रहनक्षत्रों के उत्तरमार्ग ) में गत बृहस्पति मनुष्यों का हितकारी होता है ।। ५३ ।।
इति 'विमला' हिन्दीटीकायां बृहस्पतिचाराध्यायोऽष्टमः ।। ८ ।।
एवंविधोऽमरगुरुर्बृहस्पतिर्मनुजानां मनुष्याणां हितकरः शिवप्रदः। कीदृशः ? अक-
लुषांशुर्निर्मलरश्मिः । जटिलः समन्ततो रश्मिभिर्व्याप्तः। पृथुमूर्तिर्विस्तीर्णदेहः। तथा कुमु-
दस्य कुमुदपुष्पस्य कुन्दकुसुमस्य स्फटिकस्य च मणेः सदृशी आभा कान्तिर्यस्य। अति-
स्निग्धः श्वेतवर्ण इत्यर्थः। यदि च ग्रहहतो न भवति ग्रहयुद्धे अन्येन ग्रहेण विजितो न
भवति। तथा सत्पथवर्ती ग्रहनक्षत्राणामुत्तरमार्गगोचराणामधिकृतश्चेति ।। ५३ ।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ
बृहस्पतिचारो नामाष्टमोऽध्यायः ।। ८ ।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
अथ शुक्रचाराध्यायः
अथ शुक्रचारो व्याख्यायते। तस्य च नव वीथयस्त्रयो मार्गा उदङ्मध्यदक्षिणा। वातव्या-
डवैश्वानरास्त्रयो मार्गभेदाः षड् मण्डलानि भवन्ति। तत्रादावेव परमतेन वीथीनां लक्षणमाह—
नागगजैरावतवृषभभोजरद्गवमृगाजदहनाख्याः ।
अश्विन्याद्याः कैश्चित्त्रिभाः क्रमाद्वीथयः कथिताः ॥१॥
शुक्र की नव वीथियाँ, तीन मार्ग एवं छः मण्डल होते हैं। उनमें मतान्तर से प्रथमतः
वीथियों के नक्षत्रों को कहते हैं—
अश्विनी आदि तीन-तीन नक्षत्रों में क्रम से नाग, गज, ऐरावत, वृष, गो, जरद्गव, मृग,
अज, दहन—ये नव वीथियाँ होती हैं। जैसे—अश्विनी, भरणी और कृत्तिका में नागवीथि;
रोहिणी, मृगशिर और आर्द्रा में गजवीथि; पुनर्वसु, पुष्य और आश्लेषा में ऐरावतवीथि;
मघा, पूर्वाफाल्गुनी और उत्तरफाल्गुनी में वृषवीथि; हस्त, चित्रा और स्वाती में गोवीथि;
विशाखा, अनुराधा और ज्येष्ठा में जरद्गववीथि; मूल, पूर्वाषाढा और उत्तराषाढा में मृगवीथि;
श्रवण, धनिष्ठा और शतभिषा में अजवीथि तथा पूर्वाभाद्रपदा, उत्तराभाद्रपदा और रेवती में
दहन नाम की वीथि होती है॥१॥
स्फुटार्थ चक्र
| वीथियाँ | नाग | गज | ऐरावत | वृष | गौ | जरद्गव | मृग | अज | दहन |
|---|---|---|---|---|---|---|---|---|---|
| न | अश्विनी | रोहिणी | पुनर्वसु | मघा | हस्त | विशा. | मूल | श्रवण | पू. भा. |
| क्ष | भरणी | मृगशिरा | पुष्य | पू.फा. | चित्रा | अनुरा. | पू. षा. | धनिष्ठा | उ. भा. |
| त्र | कृत्तिका | आर्द्रा | आश्लेषा | उ.फा. | स्वाती | ज्येष्ठा | उ. षा. | शतभि. | रेवती |
नागवीथी प्रथमा। गजवीथी द्वितीया। ऐरावतवीथी तृतीया। वृषभवीथी चतुर्थी।
गोवीथी पञ्चमी। जगद्गववीथी षष्ठी। मृगवीथी सप्तमी। अजवीथी अष्टमी। दहनवीथी
नवमी। एता नव वीथयः कैश्चिदाचार्यैर्देवलप्रभृतिभिरश्विन्याद्यास्त्रिभास्त्रिभिर्भैर्नक्षत्रैः कथिता।
अश्विनीभरणीकृत्तिका नागवीथी। रोहिणीमृगशिरआर्द्रा गजवीथी। पुनर्वसुतिष्याश्लेषा
ऐरावतवीथी। एवं क्रमेण त्रिभिस्त्रिभिर्नक्षत्रैरन्या अपि ज्ञेयाः। एताः क्रमात् परिपाट्या
वीथयः कथिता उक्ताः। तथा च देवलः—
अश्विन्यादित्रिभाः सर्वा नागाद्या दहनान्तिकाः।
वीथयो भृगुपुत्रस्य नव प्रोक्ताः पुरातनैः॥
तथा च काश्यपः—
शुक्रचाराध्यायः १८५
त्रिष्वश्विन्यादिषु यदा चरति भृगुनन्दनः ।
नागवीथीति सा ज्ञेया प्रथमान्या निबोधत ।।
रोहिण्यादिगजा ज्ञेयाऽदित्याद्यैरावती स्मृता ।
मघाद्या वृषभा ज्ञेया हस्ताद्या गौः प्रकीर्तिता ।।
जारद्रवी विशाखाद्या मूलाद्या मृगवीथिका ।
अजवीथी विष्णुभाद्याऽजाद्या तु दहना स्मृता ।। इति ।। १ ।।
अथ स्वमतेन प्रविभागमाह—
नागा तु पवनयाम्यानलानि पैतामहात्रिभास्तिस्रः ।
गोवीथ्यामश्विन्यः पौष्णं द्वे चापि भद्रपदे ।। २ ।।
जारद्गव्यां श्रवणात्त्रिभं मृगाख्या त्रिभं तु मैत्राद्यम् ।
हस्तविशाखात्वाष्ट्राण्यजेत्यषाढाद्वयं दहना ।। ३ ।।
अपने मत से वीथियों में नक्षत्रविभाग कहते हैं—स्वाती, भरणी और कृत्तिका में
नागवीथि; रोहिणी, मृगशिर और आर्द्रा में गजवीथि; पुनर्वसु, पुष्य और आश्लेषा में
ऐरावतवीथि; मघा, पूर्वाफाल्गुनी और उत्तराफाल्गुनी में बृषवीथि; अश्विनी, रेवती, पूर्वाभाद्रपदा,
उत्तराभाद्रपदा—इन चार नक्षत्रों में गोवीथि; श्रवण, धनिष्ठा और शतभिषा में जरद्गववीथि;
अनुराधा, ज्येष्ठा और मूल में मृगवीथि; हस्त, विशाखा और चित्रा में अजवीथि तथा
पूर्वाषाढा एवं उत्तराषाढा—इन दो नक्षत्रों में दहनवीथि होती है ।। २-३ ।।
पवनः स्वातिः । याम्यं भरणी । अनलः कृत्तिकाः । एतानि नक्षत्राणि नागवीथी ।
पैतामहात्रिभास्तिस्रः । पैतामहं रोहिणी तत आरभ्य त्रिभास्त्रिभिस्त्रिभिर्भैर्नक्षत्रैस्तिस्रो वीथयो
भवन्ति । तद्यथा—रोहिणीमृगशिरआर्द्रा गजवीथी । पुनर्वसुतिष्याश्लेषा ऐरावती । मघा पूर्व-
फल्गुनी उत्तरफल्गुनी चेति वृषभा । गोवीथ्यामिति । अश्विन्यः पौष्णं रेवती द्वे भद्रपदे
पूर्वभद्रपदोत्तरभद्रपदे । एतानि चत्वारि नक्षत्राणि गोवीथी ।
जारद्गव्यामिति । श्रवणात्प्रभृति त्रिभं नक्षत्रत्रयं श्रवणा धनिष्ठा शतभिषगिति जार-
द्गव्याम् । मृगाख्या त्रिभं तु मैत्राद्यम् । मैत्रमनुराधा तदाद्यं त्रिभं नक्षत्रत्रितयम् । अनुराधा ज्येष्ठा
मूलमिति मृगाख्या । तुशब्दः पादपूरणे । हस्तो विशाखा त्वाष्ट्रं चित्रा । एतानि नक्षत्राण्यजा
अजवीथी । अषाढाद्वयं पूर्वाषाढोत्तराषाढा चेति दहनवीथी ।। २-३ ।।
अथ तासां मार्गप्रविभागमाह—
तिस्रस्तिस्रस्तासां क्रमादुदङ्मध्ययाम्यमार्गस्थाः ।
तासामप्युत्तरमध्यदक्षिणेन स्थितैकैका ।। ४ ।।
नाग आदि तीन-तीन वीथियाँ क्रम से उत्तर, मध्य और दक्षिण में स्थित होती हैं । जैसे
नाग, गज और ऐरावत उत्तर मार्ग में; वृष, गो और जरद्गव मध्य मार्ग में तथा मृग, अज
और दहन दक्षिण मार्ग में स्थित होती हैं। इन तीन-तीन वीथियों में भी एक-एक क्रम से
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
उत्तर, मध्य और दक्षिण मार्ग में स्थित हैं। जैसे—नाग उत्तर मार्ग में, गज मध्य मार्ग में,
ऐरावत दक्षिण मार्ग में, वृष उत्तर मार्ग में, गो मध्य मार्ग में, जरद्गव दक्षिण मार्ग में, मृग
उत्तर मार्ग में, अज मध्य मार्ग में और दहन दक्षिण मार्ग में स्थित है। अतः नाग उत्तरोत्तर
मार्ग में, गज उत्तर-मध्य मार्ग में, ऐरावत उत्तर-दक्षिण मार्ग में, वृष मध्योत्तर मार्ग में, गो
मध्यमध्य मार्ग में, जरद्गव मध्य दक्षिण मार्ग में, मृग दक्षिणोत्तर मार्ग में, अज दक्षिण मध्य
मार्ग में और दहन दक्षिण-दक्षिण मार्ग में स्थित है॥४॥
तासां नागाद्यानां नवानां वीथीनां क्रमात् परिपाट्या तिस्रस्तिस्रो वीथय उदङ्मध्य-
याम्यमार्गस्थाः। उत्तरे मार्गे मध्ये मध्यमे याम्ये दक्षिणे च स्थिताः। तद्यथा—नागगजैरावत्य
उत्तरमार्गस्थाः। वृषभगोजारद्गव्यो मध्यममार्गस्थाः। मृगाजदहना दक्षिणमार्गस्था। तासामपि
वीथीनामुत्तरमध्यमदक्षिणमार्गस्थानामुत्तरमध्यदक्षिणैनेकैका स्थिता। तद्यथा—नागा उत्तरोत्तरा।
गजा उत्तरमध्यमा। ऐरावती उत्तरदक्षिणा। तथा वृषभा मध्योत्तरा। गोवीथी मध्यमध्या।
जरद्गववीथी मध्यदक्षिणा। तथा मृगा दक्षिणोत्तरा। अजा दक्षिणमध्यमा। दहना दक्षिण-
दक्षिणा इति। तथा च पराशरः—
‘अथ मार्गास्त्रयो भवन्त्युत्तरमध्यमदक्षिणाः। पुरनेकैकशस्त्रिधा नव वीथय इत्याचक्षते।
तत्रोत्तरे नागगजैरावत्यः। मध्ये वृषभगोजारद्गव्यः। दक्षिणे मृगाजदहनाः। तासां नागाऽऽग्नेय-
याम्यवायव्यानि। गजवीथी रोहिण्यादीनि त्रीणि। चत्वारि परमैरावती। वृषभा फल्गुन्यौ।
गोवीथी प्राक्प्रोष्ठपदादीनि चत्वारि। श्रवणधनिष्ठावरुणानि जारद्रवी। मृगवीथी त्वाष्ट्रहस्तम्।
आजी मैत्रमिन्द्राग्न्यधिपमैन्द्रम्। मूलमषाढाद्वयं च वैश्वानरीमितीच्छन्ति।’
अत्र वराहमिहिरेण सह भेदः। तथा च गर्गः—
कृत्तिका भरणी स्वाती नागवीथी प्रकीर्तिता।
रोहिण्याद्यास्त्रिभास्तिस्रो गजैरावतवार्षभाः॥
अहिर्बुध्न्याश्विपौष्णं च गोवीथीति प्रकीर्तिता।
श्रवणत्रितयं ज्ञेया वीथी जारद्रवीति सा॥
मैत्रत्रिभा मृगाख्या स्याद्धस्तचित्राविशाखिका।
अजवीथी तु दहनाषाढायुग्ममिति स्मृता॥
पूर्वोत्तरा नागवीथी गजवीथी तदुत्तरा।
ऐरावती ततो याम्या एतास्तूत्तरतः स्मृता।
आर्षभी तु चतुर्थी स्याद् गोवीथी पञ्चमी स्मृता।
षष्ठी जारद्रवी ज्ञेया तिस्रस्ता मध्यमाश्रिताः॥
सप्तमी मृगवीथी स्यादजवीथी तथाष्टमी।
दहना नवमी ज्ञेया दक्षिणं मार्गमाश्रिताः॥
तथा च समाससंहितायाम्—
शुक्रचाराध्यायः १८७
वीथी नागा नाम्नी स्वातिर्भरणी च कृत्तिका चैव ।
स्वायम्भुवस्त्रिभाः स्युर्गजवीथ्यैरावती वृषभा ।।
एकपदादिचतुष्कं गौः स्याज्जार्द्रवी त्रिभा श्रवणात् ।
मैत्रात्त्रिभं मृगाऽजा हस्तश्चित्रा विशाखा च ।।
द्वे चाषाढे दहना तिस्र उदग्विथयः क्रमाच्छुभदाः ।
मध्या मध्यास्तिस्रो याम्याः पापा मृगाद्यास्ताः ।। इति ।। ४ ।।
अत्रैव मतान्तरमाह—
वीथीमार्गानपरे कथयन्ति यथास्थितान् भमार्गस्य ।
नक्षत्राणां तारा याम्योत्तरमध्यमास्तद्वत् ।। ५ ।।
किसी का मत है कि नक्षत्रमार्ग में जिस तरह वीथी के मार्ग स्थित हैं, उसी तरह
दक्षिण, उत्तर और मध्यममार्ग की कल्पना करनी चाहिए। जैसे नक्षत्रमार्ग के दक्षिण में
स्थित योग तारागण दक्षिणमार्गस्थित, उत्तर में उत्तरमार्गस्थित और मध्य में मध्यममार्गस्थित
होता है अथवा नक्षत्रमार्ग से दक्षिण में स्थित ग्रह दक्षिणमार्गगत, उत्तर में उत्तरमार्गगत और
मध्य में मध्यममार्गस्थित होता है ।। ५ ।।
अपरे आचार्या भमार्गस्य नक्षत्रपथस्य यथास्थितान् येनैव प्रकारेण व्यवस्थितान्
वीथीमार्गान् तेनैव प्रकारेण कथयन्ति प्रवदन्ति। यतस्तद्वत्तेनैव प्रकारेण नक्षत्राणां तारा
याम्योत्तरमध्यमाः स्थिताः। याम्यास्तारा दक्षिणो मार्गः। उत्तराः उत्तरो मार्गः। मध्यमा
मध्यमो मार्गः। अथवा नक्षत्राद्दक्षिणभागस्थो ग्रहो दक्षिणमार्गः। उत्तरमार्गस्थ उत्तरमार्गः।
मध्यममार्गस्थो मध्यममार्गः। तथा च काश्यपः—
नक्षत्राणां त्रयो मार्गा दक्षिणोत्तरमध्यमाः।
उदक्स्थास्तारकाः सौम्यो मध्यमो मध्यमाः स्मृतः।।
दक्षिणा दक्षिणो मार्गो नक्षत्रेषु प्रकीर्तितः।
नक्षत्रात् सौम्यगः सौम्यमार्गस्थो ग्रह उच्यते।।
दक्षिणे दक्षिणो मार्गो मध्ये मध्य इति स्मृतः।। इति।।५।।
पुनरपि मतान्तरमाह—
उत्तरमार्गों याम्यादि निगदितो मध्यमस्तु भाग्याद्यः ।
दक्षिणमार्गोंऽषाढादि कैश्चिदेवं कृता मार्गाः ॥६॥
किसी का मत है कि भरणी आदि नव नक्षत्र ( भरणी, कृत्तिका, रोहिणी, मृगशिर,
आर्द्रा, पुनर्वसु, पुष्य, आश्लेषा और मघा ) उत्तरमार्ग में, पूर्वाफाल्गुनी आदि नव नक्षत्र
( पूर्वाफाल्गुनी, उत्तराफाल्गुनी, हस्त, चित्रा, स्वाती, विशाखा, अनुराधा, ज्येष्ठा और मूल )
मध्यममार्ग में और पूर्वाषाढा आदि नव नक्षत्र ( पूर्वाषाढा, उत्तराषाढा, श्रवण, धनिष्ठा शतभिषा,
पूर्वाभाद्रपदा, उत्तराभाद्रपदा, रेवती और अश्विनी ) दक्षिणमार्ग में स्थित हैं।।६।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
१८८ बृहत्संहिता
कैश्चिदाचार्यैरवमनेन प्रकारेण मार्गाः कृताः। ते च गर्गादयः। याम्या भरणी तदादिको
नवनक्षत्रान्त उत्तरो मार्गो निगदित उक्तः। यथा—भरणीकृत्तिकारोहिणीमृगशिरआर्द्रापुनर्व-
सुतिष्याश्लेषामघा उत्तरो मार्गः। मध्यमस्तु भाग्याद्यः। भाग्यं पूर्वफल्गुनी तदादिको नवन-
क्षत्रान्तो मध्यमो मार्गः। तद्यथा—पूर्वफल्गुन्युत्तरफल्गुनीहस्तचित्रास्वातीविशाखानुराधा-
ज्येष्ठामूलमिति मध्यमो मार्गः। दक्षिणमार्गोऽषाढादि। अषाढा पूर्वाषाढा तदादिको
नवनक्षत्रान्तो दक्षिणमार्गः। तद्यथा—पूर्वाषाढोत्तराषाढा श्रवणा धनिष्ठा शतभिषक्पूर्व-
भाद्रपदोत्तरभाद्रपदा रेवती अश्विनी दक्षिणो मार्ग इति। तथा च गर्गः—
अश्वयुग्भोगपर्यन्तेऽषाढादौ नवके गणे।
वर्तमानः सदा क्रूरो दक्षिणे पथि वर्तते॥
शुक्रो निर्ऋतिपर्यन्ते भाग्यादौ नवके गणे।
वर्तमानश्च मध्यस्थो मध्यमे पथि वर्तते॥
भरण्यादौ मघान्ते च तृतीये नवके गणे।
वर्तमानः शुभो ज्ञेय उत्तरे पथि वर्तते॥ इति॥६॥
ननु संग्रहकर्त्रा यत्सारं तदेव वक्तव्यं किं मतान्तरैः प्रयोजनमित्येतदाशङ्कयाऽऽह—
ज्यौतिषमागमशास्त्रं विप्रतिपत्तौ न योग्यमस्माकम्।
स्वयमेव विकल्पयितुं किन्तु बहूनां मतं वक्ष्ये ॥७॥
ज्योतिष शास्त्र आगमशास्त्र है। इसको आगम के विना नहीं जान सकते; अतः इसमें
स्वयं सन्देह ( यह ठीक है या नहीं इत्यादि ) करना हमारे लिये उचित नहीं है। यतः सभी
ऋषि त्रिकालदर्शी थे। नहीं कह सकते कि किस ऋषि का कैसा आगम था; अतः हमारे
लिये सभी के माननीय होने के कारण बहुतों का मत संग्रह करके यहाँ कहता हूँ॥७॥
ज्योतींषि ग्रहनक्षत्रादीनि तान्यधिकृत्य कृतं शास्त्रं ज्यौतिषं तच्चागमशास्त्रमागमेन
विना न ज्ञायते। अस्माकं विप्रतिपत्तौ विषये स्वयमेवाऽऽत्मना विकल्पयितुं न योग्यं न
न्याय्यम्। इदं शोभनमिदमशोभनमिति। यतः सर्व एव मुनयस्त्रिकालदर्शिनः। न ज्ञायते
कस्य मुनेः कीदृश आगमः। तस्मादस्माकं विकल्पयितुं न न्याय्यम्। किन्तु बहूनां प्रभूतानां
मतं वक्ष्ये कथयिष्ये॥७॥
अधुना वीथीनां फलमाह—
उत्तरवीथिषु शुक्रः सुभिक्षशिवकृद् गतोऽस्तमुदयं वा।
मध्यासु मध्यफलदः कष्टफलो दक्षिणस्थासु ॥८॥
यदि उत्तरवीथी में स्थित शुक्र का उदय या अस्त हो तो सुभिक्ष और मङ्गल करने वाला,
मध्यवीथी में हो तो मध्यम फल देने वाला तथा दक्षिणवीथी में कष्ट देने वाला होता है।
शुक्र उत्तरवीथिषु नागगजैरावताख्यासु स्थितो यद्यर्क्रमण्डले अस्तमयं गतस्तस्मादेवोदयं
वा गतस्तदा सुभिक्षशिवकृत्। सुभिक्षं श्रेयश्च करोति। एवं मध्यासु मध्यमासु वीथिषु ऋष-
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
शुक्रचाराध्यायः १८९
भगोजारद्गवाख्यासु मध्यमफलदः । न शुभं नाप्यशुभं फलं करोति । तथा च दक्षिणस्थासु
वीथिषु मृगाजदहनाख्यासु कष्टफलोऽनिष्टफल इति। तथा च गर्गः—
उदयास्तमयं कुर्यान्मार्गमुत्तरमाश्रितः।
सुभिक्षं च सुवृष्टिं च योगक्षेमं विनिर्दिशेत्।।
उदयास्तमयं कुर्यात् मध्यमं मार्गमाश्रितः।
मध्यमं चार्थसस्यं च योगक्षेमं विनिर्दिशेत्।।
उदयास्तमयं कुर्याद्दक्षिणं मार्गमाश्रितः।
धान्यस्य संग्रहं कृत्वा केदारेषु तिलान् वपेत्।।
तथा च पराशरः—
‘तत्र नागवीथीगतो नागाश्रितांश्च पीडयति गजकुलानि गजवीथ्याम्। ऐरावत्यां नृपति-
बलविरोधः। आर्षभ्यां वयोवित्तज्ञानबलाधिकसस्यपीडा श्लेष्मव्याधिप्रादुर्भावश्च। गोवीथ्यां
सस्यगोमतां हानिर्जरद्गववीथ्यां शास्त्रविदाम्। मृगवीथ्यां मृगव्याधिः सस्यतपस्विनामपि
रोगोद्भवश्च। अजवीथ्यां सस्यवर्षब्रह्मचारिणामाधिक्यम्। दहनवीथ्यां सस्यविलयनमग्नि-
पित्तव्याधिसम्भवश्च'।।८।।
अथाऽऽसामपि विशेषफलमाह—
अत्युत्तमोत्तमोनं सममध्यन्यूनमधमकष्टफलम् ।
कष्टतरं सौम्याद्यासु वीथिषु यथाक्रमं ब्रूयात् ॥९॥
नाग आदि नव वीथियों में क्रम से अत्युत्तम, उत्तम, ऊन, ( कुछ कम शुभ फल ),
सम, मध्यम, न्यून ( किञ्चित् शुभ फल ), अधम, कष्ट और कष्टतम फल होते हैं। जैसे
नागवीथी में अत्युत्तम, गजवीथी में उत्तम, ऐरावतवीथी में ऊन, वृषवीथी में सम, गोवीथी
में मध्यम, जरद्गववीथी में न्यून, मृगवीथी में अधम, अजवीथी में कष्ट और दहनवीथी में
कष्टतम फल होता है ।।९।।
सौम्याद्यासु उदगाशाद्यासु वीथिषु नागाद्यासु नवसु यथाक्रमं परिपाट्याऽनेन प्रकारेण
फलमिदं ब्रूयाद्वदेत्। तद्यथा—नागायामत्युत्तममतिशुभं फलम्। गजाख्यायां वीथ्यामुत्तमं
शुभफलं किञ्चिदूनं पूर्वापेक्षया। एवमूनं किञ्चिच्छुभफलमैरावत्याम्। समं मध्यमं फलमृष-
भवीथ्याम्। मध्यममेव गोवीथ्याम्। न्यूनमीषदशुभं जारद्गव्याम्। अधममनिष्टं मृगवीथ्याम्।
कष्टमशुभमजवीथ्याम्। कष्टतरमतिकष्टं दहनवीथ्याम्।।९।।
अथ शुक्रस्य षण्मण्डलानि भवन्ति। तेषां लक्षणं सफलमाह—
भरणीपूर्वं मण्डलमृक्षचतुष्कं सुभिक्षकरमाद्यम् ।
वङ्गाङ्गमहिषबाह्निककलिङ्गदेशेषु भयजननम् ॥१०॥
अत्रोदितमारोहेद् ग्रहोऽपरो यदि सितं ततो हन्यात् ।
भद्राश्वशूरसेनकयौधेयककोटिवर्षनृपान् ॥११॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
१९० बृहत्संहिता
भरणी से चार नक्षत्र ( भरणी, कृत्तिका, रोहिणी और मृगशिरा ) प्रथम मण्डल के
होते हैं। यदि इस मण्डल में शुक्र का उदय या अस्त हो तो संसार में सुभिक्ष तथा अंग,
वंग, महिष, वाह्लीक और कलिङ्ग देशों में भय होता है। यदि प्रथम मण्डल में उदित शुक्र
के ऊपर कोई ग्रह हो तो भद्राश्व, शूरसेनक, यौधेयक और कोटिवर्ष देशों के राजाओं का
नाश होता है ।।१०-११।।
आद्यं प्रथममण्डलं भरणीपूर्वमृक्षचतुष्कम्। भरणी पूर्वा प्रथमा यस्य ऋक्षचतुष्कस्य
तद्भरणीपूर्वम्। भरणी कृत्तिका रोहिणी मृगशिरश्चेति। तच्च सुभिक्षकरं सुभिक्षं करोति।
तथा वङ्गा अङ्गा महिषा बाह्लिकाः कलिङ्गाः। एषां ये देशास्तेषु देशेषु भयजननं भीतिं
जनयत्युत्पादयति।
अत्रास्मिन् मण्डले सितं शुक्रमुदितं सूर्यमण्डलादुद्गतं यद्यपि परोऽन्यो ग्रह आरोहेदुपरि
पतेत्। अग्रतस्तिष्ठतीत्यर्थः। तदा भद्राश्वा जनाः। शूरसेनकाः। यौधेयकाः। कोटिवर्षाः।
एतेषां ये नृपा राजानस्तान् हन्यान्नाशयेत् ।।१०-११।।
अथ द्वितीयमण्डलं सफलमाह—
भचतुष्टयमार्द्राद्यं द्वितीयममिताम्बुसस्यसम्पत्त्यै ।
विप्राणामशुभकरं विशेषतः क्रूरचेष्टानाम् ।।१२।।
अन्येनात्राक्रान्ते म्लेच्छाटविकश्वजीविगोमन्तान् ।
गोनर्दनीचशूद्रान् वैदेहांश्चानयः स्पृशति ।।१३।।
आर्द्रा से चार नक्षत्र ( आर्द्रा, पुनर्वसु, पुष्य और आश्लेषा ) तक द्वितीय मण्डल
होता है। यदि इस मण्डल में शुक्र का उदय या अस्त हो तो अधिक वृष्टि और धान्यों की
विशेष उत्पत्ति होती है; ब्राह्मणों के लिये अशुभकारी और दुष्टों के लिये तो विशेष
अशुभकारी होता है। यदि इसमें उदित शुक्र किसी अन्य ग्रह से आक्रान्त हो तो म्लेच्छ
मनुष्य, वन में रहने वाले, कुत्तों से आजीविका करने वाले, गौ रखने वाले, गोनर्द
( पतञ्जलि की जन्मभूमि चिदम्बरम् में निवास करने वाले ), अधम कर्म करने वाले,
शूद्र, विदेह के देश ( मिथिला ) में निवास करने वाले—इन सबों को अनीति स्पर्श करती
है ( ये सब उपद्रवयुक्त होते हैं ) ।।१२-१३।।
आर्द्राद्यमार्द्राप्रथमं भचतुष्टयं नक्षत्रचतुष्कं द्वितीयं मण्डलं तच्चामिताम्बुसस्यसम्पत्त्यै
भवति। अमितमपरिमितमम्बु जलं सस्यानां च सम्पदं करोति। विप्राणां ब्राह्मणानामशुभ-
करमनिष्टफलदम्। क्रूरचेष्टानां विषमस्वभावानां विशेषतो न शुभकरम्।
अत्रास्मिन् मण्डले अन्येन परेण ग्रहेणाऽऽक्रान्ते रुद्धे शुक्रे म्लेच्छा जनाः। आटविका
अरण्यवासिनः। श्वजीविनश्च श्वभिर्ये जीवन्ति। गोमन्तो विद्यमानगावः। गोनर्दा जनाः।
नीचा अधमकर्मकराः। शूद्राः। वैदेहा जनाः। एतान् सर्वाननयः स्पृशति। सोपद्रवा भवन्ती-
त्यर्थः ।।१२-१३।।
CC-0. JK Sanskrit Academy, Jammnu. Digitized by S3 Foundation USA
शुक्रचाराध्यायः १९१
अथ तृतीयं मण्डलं सफलमाह—
विचरन् मघादिपञ्चकमुदितः सस्यप्रणाशकृच्छुकः ।
क्षुत्तस्करभयजननो नीचोन्नतिसङ्करकरश्च ॥१४॥
पित्र्याद्येऽवष्टब्धो हन्त्यन्येनाविकान् शबरशूद्रान् ।
पुण्ड्रापरान्त्यशूलिकवनवासिद्रविडसामुद्रान् ॥१५॥
मघा से पाँच नक्षत्र ( मघा, पूर्वाफाल्गुनी, उत्तराफाल्गुनी, हस्त और चित्रा ) तक
तृतीय मण्डल होता है। इसमें उदित शुक्र धान्य का नाश करने वाला, दुर्भिक्ष और चोरों का
भय करने वाला, अधम कर्म करने वालों की उन्नति करने वाला तथा वर्णसंकर की उत्पत्ति
करने वाला होता है। यदि इस मण्डल में स्थित शुक्र अन्य ग्रह से आक्रान्त हो तो वृक्ष,
शबर, शूद्र, पुण्ड्र, पश्चिम शूलिक देश और वन में रहने वाले, द्रविड तथा समुद्रतीर में
रहने वालों का नाश करता है॥१४-१५॥
तृतीयमण्डलं मघादिपञ्चकम्। मघा आदौ यस्य ऋक्षपञ्चकस्य तत्। तत्र शुक्र
उदितः सूर्यमण्डलादुद्गतो विचरंस्तिष्ठन् सस्यप्रणाशकृत् सस्यानां प्रणाशं करोतीति
सस्यप्रणाशकृत्। तथा क्षुद् दुर्भिक्षम्। तस्करश्चौरः। आभ्यां भयं जनयति उत्पादयति।
तथा नीचानामुन्नतिं प्राधान्यं करोति। सङ्करकरश्च वर्णसङ्करं करोति।
पित्र्याद्ये मघाद्ये। अन्येनापरेणावष्टब्धो रुद्धो यदि भवति तदाऽऽविकानविसम्भूतान्
शबरान् जनान्। शूद्रान्। पुण्ड्रा अपरान्त्याः शूलिका जनाः। वनवासिनो वनेचराः। द्रविडा
जनाः। सामुद्राः समुद्रतीरवासिनः। एतान् हन्ति घातयति॥१४-१५॥
अथ चतुर्थं मण्डलं सफलमाह—
स्वात्याद्यं भत्रितयं मण्डलमेतच्चतुर्थमभयकरम् ।
ब्रह्मक्षत्रसुभिक्षाभिवृद्धये मित्रभेदाय ॥१६॥
अत्राक्रान्ते मृत्युः किरातभर्तुः पिनष्टि चेक्ष्वाकून् ।
प्रत्यन्तावन्तिपुलिन्दतङ्गणान् शूरसेनांश्च ॥१७॥
स्वाती से तीन नक्षत्र ( स्वाती, विशाखा और अनुराधा ) तक चतुर्थ मण्डल होता
है। यदि इसमें शुक्र का उदय या अस्त हो तो ब्राह्मण और क्षत्रियों के लिये सुभिक्ष तथा
उन्नति करने वाला होता है। पर मित्रों में परस्पर द्वेष उत्पन्न कराता है। यदि इस मण्डल में
स्थित शुक्र किसी अन्य ग्रह से आक्रान्त हो तो किरातों के स्वामी की मृत्यु, इक्ष्वाकु
वंशोत्पन्न, प्रत्यन्त ( म्लेच्छ देश ), अवन्ती, पुलिन्द, तङ्गण और शूरसेन देश में निवास करने
वालों का नाश करता है॥१६-१७॥
स्वात्याद्यं स्वातिपूर्वकं भत्रितयं चतुर्थं मण्डलम्। एतदभयकरं भयं न करोति।
व्याध्यादिकृता भीतिं नोत्पादयति। ब्राह्मणानां क्षत्रियाणां च सुभिक्षस्याभिवृद्धये भवति।
CC-0. JK Sanskrit Academy, Jammu. Digitized by S3 Foundation USA
१९२ बृहत्संहिता
एतेषां वृद्धिं करोति। तथा मित्रभेदाय भवति मित्राणां सुहृदां परस्परं भेदमप्रीतिं जनयति।
अत्रास्मिन् मण्डले अन्येन ग्रहेणाक्रान्ते शुक्रे मृत्युः किरातभर्तुः किराताधिपस्य।
पिनष्टि सञ्चूर्णयति तथा चेक्ष्वाकून् जनान्। प्रत्यन्ता गह्वरवासिनः। अवन्तयो जनाः।
पुलिन्दाः। तङ्गणाः। शूरसेनाः। एतांश्च पिनष्ट्येव।।१६-१७।।
अथ पञ्चममण्डलं सफलमाह—
ज्येष्ठाद्यं पञ्चर्क्षं क्षुत्तस्कररोगदं प्रबाधयते।
काश्मीराश्मकमत्स्यान् सचारुदेवीनवन्तींश्च ॥१८॥
अत्रारोहेद् द्रविडाभीराम्बष्ठत्रिगर्तसौराष्ट्रान्।
नाशयति सिन्धुसौवीरकांश्च काशीश्वरस्य वधः ॥१९॥
ज्येष्ठा से पाँच नक्षत्र (ज्येष्ठा, मूल, पूर्वाषाढा, उत्तराषाढा और श्रवण) तक पञ्चम
मण्डल होता है। यदि इसमें शुक्र का उदय या अस्त हो तो दुर्भिक्ष, चोर और रोग का भय
होता है तथा काश्मीर, अश्मक, मत्स्य, चारुदेवी नदी के तट और अवन्ती देशवासियों को
पीड़ित करता है। यदि इस मण्डल में स्थित शुक्र किसी अन्य ग्रह से आक्रान्त हो तो
द्रविड़, आभीर (शबर), अम्बष्ठ, त्रिगर्त, सौराष्ट्र, सिन्धु और सौवीरक देशवासियों का
तथा काशिराज का नाश करता है॥१८-१९॥
ज्येष्ठाद्यं ज्येष्ठापूर्वकं पञ्चर्क्षं पञ्चनक्षत्रं पञ्चमं मण्डलम्। तच्च क्षुत्तस्कररोगदम्।
क्षुद् दुर्भिक्षम्। तस्कराश्चौराः। रोगा गदाश्च। एतान् ददाति। अथ काश्मीरान् जनान्।
अश्मकान्। मत्स्यान्। एतान् जनान्। चारुदेवीन्। चारुदेवी नदी तटतन्निवासिन इत्यर्थः।
अवन्तीन् जनान् सचारुदेवीन् चारुदेव्या सहितान् एतान् प्रबाधयते उपतापयति।
अत्रास्मिन् मण्डले यद्यपरो ग्रहः सितं शुक्रमारोहेत् तदा द्रविडान् जनान्। आभीरान्।
अम्बष्ठान्। त्रिगर्तन्। सौराष्ट्रान्। एतान्नाशयति क्षयं नयति। तथा सिन्धुसौवीरकांश्च जनान्
नाशयत्येव। काशीश्वरस्य काशिराजस्य च वधो मरणं भवति।।१८-१९।।
अथ षष्ठं मण्डलं सफलमाह—
षष्ठं षण्नक्षत्रं शुभमेतन्मण्डलं धनिष्ठाद्यम्।
भूरिधनगोकुलाकुलमनल्पधान्यं क्वचित् सभयम् ॥२०॥
अत्रारोहेच्छूलिकगान्धारावन्तयः प्रपीड्यन्ते।
वैदेहवधः प्रत्यन्तयवनशकदासपरिवृद्धिः ॥२१॥
धनिष्ठा से छः नक्षत्र (धनिष्ठा, शतभिषा, पूर्वाभाद्रपदा, उत्तराभाद्रपदा, रेवती और
अश्विनी) तक षष्ठ मण्डल है। इसमें यदि शुक्र का उदय या अस्त हो तो शुभ होता है।
पृथ्वी बहुत धन, गौ और धान्यों से व्याप्त होती है; परन्तु कहीं-कहीं पर भय की मात्रा रहती
है। यदि इस मण्डल में शुक्र किसी ग्रह से आक्रान्त हो तो शूलिक, गान्धार, अवन्ती—
CC-0. JK Sanskrit Academy, Jammnu. Digitized by S3 Foundation USA
शुक्रचाराध्यायः १९३
इन देशों में स्थित मनुष्यों को पीड़ा होती है। विदेह देश-स्थित जनों का मरण होता है
तथा गुहा में निवास करने वाले, यवन, शक और दासों की वृद्धि होती है॥२०-२१॥
धनिष्ठाद्यं धनिष्ठापूर्वकं षण्णक्षत्रम्—धनिष्ठा, शतभिषक्, पूर्वभद्रपदोत्तरभद्रपदा,
रेवती, अश्विनीति। एतत् षष्ठं मण्डलम्। तच्च शुभं शुभफलप्रदम्। भूरिधनगोकुलाकुलम्।
भूरि बहुलम्। धनं वित्तम्। गोकुलानि गोवाटाः। एतैराकुलं सोद्यमं व्याप्तम्। अनल्पधान्यं
प्रभूतशालिसंयुक्तम्। क्वचित् क्वचिच्च सभयं भीतिसंयुक्तं न सर्वत्र।
अत्रास्मिन् मण्डले यद्यपरो ग्रहः सितं शुक्रमारोहेत्तदा शूलिकाः। गान्धाराः। अवन्तयः।
एते जनाः प्रपीड्यन्ते। तथा वैदेहानां जनानां वधो मरणम्। प्रत्यन्ता गह्वरवासिनः। यवनाः।
शकाः। दासाः कर्मकराः। एतेषां परिवृद्धिर्भवति॥२०-२१॥
अथैषां मण्डलानां विशेषफलमाह—
अपरस्यां स्वात्याद्यं ज्येष्ठाद्यं चापि मण्डलं शुभदम्।
पित्र्याद्यं पूर्वस्यां शेषाणि यथोक्तफलदानि ॥२२॥
पूर्वोक्त मण्डलों में स्वाती आदि ( चतुर्थ ) और ज्येष्ठा आदि ( पञ्चम ) मण्डल
पश्चिम दिशा में शुभ करने वाले होते हैं। मघा आदि ( तृतीय ) मण्डल पूर्व दिशा में शुभद
होता है। शेष तीन मण्डलों ( प्रथम, द्वितीय और षष्ठ ) का यथोक्त फल समझना
चाहिये॥२२॥
अपरस्यां पश्चिमायां दिशि स्वात्याद्यं मण्डलं ज्येष्ठाद्यं च तच्छुभदम्। एतदुक्तं
भवति—अस्मिन् मण्डलद्वये शुक्र उदितः पश्चिमायां शुभफलदः। एवमेव पित्र्याद्यं मघाद्यं
मण्डलं पूर्वस्यां दिशि शुभदम्। शेषाण्यन्यानि मण्डलानि यथोक्तफलदानि यथा प्रागुक्तं
फलं तदेव प्रयच्छन्तीत्यर्थः। तथा च पराशरः—
'आद्यरोहितदारुणविरोचनोर्ध्वदण्डतीक्ष्णान्येतानि षण्मण्डलानि। तत्र भरण्यादीनि
चत्वारि चतुर्नक्षत्राणि। ज्येष्ठाद्ये द्वे पञ्चनक्षत्रे। आद्यमेव मण्डलचतुष्टयं वातमाहुस्तीक्ष्णं
व्याडममार्गम्। ऊर्ध्वदण्डं वैश्वानरमृते श्रवणात्। अथ मण्डलेषु विचरन् क्रमाद् गोब्रह्मचारि-
नृपतनयसुहृद्भूपालप्रजानामुपतापायेति। तेष्वेवोदयास्तमयौ कुर्वन् प्रथमेऽतीवसुभिक्षा-
याङ्गवङ्गशबरकलिङ्गाननयैः स्पृशति। अत्रैवान्यग्रहारूढोऽसौ माञ्जिष्ठपुरुषादशूरसेनपटच्चर-
पण्यागाराभावाय। द्वितीयेऽन्नसम्पत्प्रदोऽवन्त्यश्मकमालवपाण्ड्यकैकयोपद्रवाय च। तृतीये
शकसौराष्ट्रनृपान्यायान्यग्रहारूढः काश्मीरयवनक्षुद्रमालवकिरातशाकाननयेन स्पृशति। चतुर्थे
सुवर्षसस्यक्षेमाणि विधत्तेऽन्यग्रहारूढः सुभगान्श्वित्रांश्चोपतापयति। पञ्चमे मगधान् शूद्रान्
जनाननयैः स्पृशति। अत्रैवान्यग्रहारूढो व्याधिभयशस्त्रदुर्भिक्षावर्षाणि सृजति। विशेषतस्तु
कुरुपाञ्चालशाल्वेयशूरसेनपटच्चराहारभूतोऽभिपीड्यन्ते। षष्ठे बालगर्भान् बालान् शूद्रांश्च
हिनस्ति। यद्यारोहेत तदा काम्बोजैः सैन्धवो नृपतिः पराजयेत आवन्त्याश्मकाधिपती चोप-
सृज्येते।' अत्र मतभेदो वराहमिहिरेण सहास्ति। तथा च समाससंहितायाम्—
बृ० सं० प्र०-१३
CC-0. JK Sanskrit Academy, Jammu. Digitized by S3 Foundation USA
१९४ बृहत्संहिता
भरणीरौद्रमघाऽनिलशक्रधनिष्ठादिसम्प्रवृत्तेषु।
चारोदयः शुभो मण्डलेषु हित्वैन्द्रयपित्र्याद्ये।। इति।।२२।।
अथ दिवादृष्टस्य शुक्रस्य विशेषफलमाह—
दृष्टोऽनस्तमितेऽर्के भयकृत् क्षुद्रोगकृत्समस्तमहः।
अर्द्धदिवसे च सेन्दुर्नृपबलपुरभेदकृच्छुक्रः॥२३॥
यदि शुक्र सूर्यास्त से पहले दिखाई दे तो भय करता है, दिन भर दिखाई दे तो दुर्भिक्ष
और रोग करता है तथा मध्याह्न काल में चन्द्र के साथ दिखाई दे तो राजा, सेना और नगर
में भेद-भाव उत्पन्न करता है॥२३॥
शुक्रो भार्गवोऽनस्तमिते नास्तमितेऽर्के सूर्ये दृष्टोऽवलोकितो भयकृद् भयं करोति।
तथा समस्तमहः सकलं दिनं दृष्टः क्षुद्रोगकृत्। क्षुद् दुर्भिक्षम्। रोगान् गदांश्च करोति।
तथा अर्द्धदिवसे मध्याह्नसमये सेन्दुः सचन्द्रः शुक्रो दृष्टो नृपबलपुरभेदकृद् भवति।
नृपस्य राज्ञो बलस्य सेनायाः परस्य नगरस्य भेदं पृथग्भावं करोति। तथा च पराशरः—
अहः सर्वं यदा शुक्रो दृश्यतेऽथ महाग्रहः।
तदान्वागन्तुभिर्ग्रामा बाध्यन्ते नगराणि च।। इति।।२३।।
अथ शुक्रस्य नक्षत्राणां भेदनात् फलमाह—
भिन्दन् गतोऽनलर्क्षं कूलातिक्रान्तवारिवाहाभिः।
अव्यक्ततुङ्गनिम्ना समा सरिद्भिर्भवति धात्री॥२४॥
यदि कृत्तिका नक्षत्र का भेदन करते हुए शुक्र गमन करे तो किनारा काटने वाली, जल
धारण करने वाली नदियों के द्वारा ऊबड़-खाबड़ स्थल लुप्त होकर पृथ्वी समान हो जाती
है अर्थात् नदी की बाढ़ से पृथ्वी भर जाती है॥२४॥
अनलर्क्षं कृत्तिकां भिन्दन् भित्त्वा यदि शुक्रो गतस्तदा सरिद्भिर्नदीभिः कूलातिक्रान्त-
वारिवाहाभिः कूलातिक्रान्तं वारि जलं वहन्ति याः। आत्मीयं प्रवाहमतिक्रम्यातिप्रभूतं जलं
वहन्तीत्यर्थः। तथाभूताभिः। धात्री भूरव्यक्ततुङ्गनिम्ना समा भवति। न व्यक्तमव्यक्तम्। तुङ्ग-
मुच्चम्। निम्नं नीचम्। अव्यक्तौ तुङ्गनिम्नौ यस्याः। अलक्षितोच्चनीचप्रदेशेत्यर्थः॥२४॥
अथ रोहिण्याः शकटभेदे फलमाह—
प्राजापत्ये शकटे भिन्ने कृत्वेव पातकं वसुधा।
केशास्थिशकलशबला कापालमिव व्रतं धत्ते॥२५॥
यदि रोहिणीशकट का भेदन करते हुये शुक्र गमन करे तो पातकी ( ब्रह्महत्या करने
वाले की तरह ) होकर पृथ्वी केश और अस्थिखण्डों से शबल ( विचित्र वर्ण की )
होकर कापालिक की तरह व्रत धारण करती है। जिस तरह ब्रह्महत्या करने वाले मनुष्य
पापशान्ति के लिये मनुस्मृति आदि के अनुसार केश और अस्थिखण्डों को धारण करके
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
शुक्रचाराध्यायः १९५
कापालिक-व्रत धारण करते हैं, उसी तरह केश और अस्थिखण्डों से व्याप्त होकर पृथिवी
कापालिक की तरह व्रत धारण करती है अर्थात् पृथिवी पर अत्यधिक मरी पड़ती है।।२५।।
प्राजापत्ये शकटे रोहिण्याः शकटे भिन्ने। शकटभेदलक्षणं गणितकारैरुक्तम्। तथा
च ब्रह्मसिद्धान्ते—
विक्षेपोऽंशाद्वितयादधिको वृषभस्य सप्तदशभागे।
यस्य ग्रहस्य याम्यो भिनत्ति शकटं स रोहिण्याः।।
तथा च भानुभट्टः—
वृषस्यांशे सप्तदशे विक्षेपो यस्य दक्षिणः।
अंशद्वयाधिको भिन्द्याद्रोहिण्याः शकटं तु सः।।
एवं रोहिण्याः शकटे शुक्रेण भिन्ने वसुधा भूः पातकं ब्रह्महत्यामिव कृत्वा केशैर्मूर्द्ध-
जैरस्थिशकलैरस्थिखण्डैः शबला मिश्रितशुक्लकृष्णा भवति। अतः कापालं व्रतमिव धत्ते
धारयति। ब्रह्महत्यायाः कापालं व्रतं प्रायश्चित्तम्। कापालिकश्च केशास्थिशकलैः शबलो
भवति।।२५।।
अथ मृगशिरआर्द्रयोराह—
सौम्योपगतो रससस्यसंक्षयायोशनाः समुद्दिष्टः ।
आर्द्रागतस्तु कोशलकलिङ्गहा सलिलनिकरकरः ।।२६।।
यदि शुक्र मृगशिरा नक्षत्र में आवे तो रस ( मधुर आदि ) और धान्यों का नाश करता
है। यदि आर्द्रा नक्षत्र में आवे तो कोशल तथा कलिङ्ग देश का नाश और अतिवृष्टि करता है।
उशनाः शुक्रः। सौम्योपगतो मृगशिरसि प्राप्तो रसानां मधुरादीनां सस्यानां च संक्ष-
याय विनाशाय समुद्दिष्टः कथितः। आर्द्रागतस्तु कोशलान् कलिङ्गांश्च हन्ति तथा सलिलं
जलं निकरं निवहं करोति। अतिवृष्टिं करोतीत्यर्थः।।२६।।
अथ पुनर्वसुतिष्ययोराह—
अश्मकवैदर्भाणां पुनर्वसुस्थे सिते महाननयः।
पुष्ये पुष्टा वृष्टिर्विद्याधररणविमर्दश्च ॥२७॥
यदि शुक्र पुनर्वसु नक्षत्र में स्थित हो तो अश्मक और विदर्भ देश में अनय ( उपद्रव )
होता है। यदि शुक्र पुष्य नक्षत्र में स्थित हो तो अधिक वृष्टि तथा विद्याधरों के युद्ध में
विमर्द होता है।।२७।।
पुनर्वसुस्थे सिते। अश्मकानां जनानां वैदर्भाणां च महाननय उपद्रवो भवति। तथा
पुष्ये तिष्यस्थे सिते पुष्टा बह्वी वृष्टिर्भवति। तथा विद्याधराणां देवयोनीनां रणे संग्रामे
विमर्दो भवति।।२७।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA