सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 1 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished728 पृष्ठ

१५६ बृहत्संहिता
वृद्धिरेतानि भवन्ति, तथा लोके क्षेमं च भवति। संक्षिप्तमिश्रयोर्द्वयोर्गत्योरेतदेव पूर्वोक्तं फलं
मिश्रम्। आरोग्यवृष्टिसस्यप्रवृद्धयः क्षेमं च मध्यं भवति। अन्यासु परिशेषासु तीक्ष्णयोगान्त-
घोरपापाख्यासु विपरीतम्। अनारोग्यमनावृष्टिः सस्यानामवृद्धिरक्षेममिति। तथा च पराशरः—
'तासां प्रथमा गतिः क्षेमारोग्याम्बुसस्यवती। इतरे द्वे व्यामिश्रफले। शेषाश्चतस्रो दुर्भिक्षा-
क्षेमाय। विशेषतस्तु सौम्यादिषड्नक्षत्रचारी सुवृष्टये। श्रविष्ठावारुणयोश्च। दक्षिणतो नैर्ऋतेन्द्र-
पूर्वांसु भयकृत्। अश्विन्यां वणिग्विनाशाय। त्वाष्ट्रे शरत्सस्यानाम्। रोहिणीश्रवणाग्नेयब्रह्म-
राशिष्षम्भोदविनाशः। हस्तोदितो मैत्रमनुचरन् पशुगोकोशालानभिहन्ति। विशाखामध्यगश्च
सस्यमि'ति। तथा च गर्गः—
क्षेमारोग्यसुभिक्षेषु लक्षणा प्राकृता गतिः।
संक्षिप्ता च विमिश्रा च शुभाशुभफलोदये।।
तीक्ष्णा घोरा च पापा च तथा योगान्तिकापरा।
एताश्चतस्रः सौम्यस्य दुर्भिक्षाक्षेमलक्षणाः।। इति ।।१४।।
अधुना देवलमतेन बुधस्य गतिचतुष्टयमाह—
ऋज्व्यतिवक्रावक्रा विकला च मतेन देवलस्यैताः।
पञ्चचतुर्द्व्येकाहा ऋज्व्यादीनां षडभ्यस्ताः ।।१५।।
देवल के मत से बुध की गति ऋज्वी, अतिवक्रा, वक्रा, विकला—ये चार प्रकार की
होती हैं। इन गतियों की स्थिति का प्रमाण—उदय या अस्तदिन से ऋज्वी ३० दिन
तक, अतिवक्रा २४ दिन तक, वक्रा १२ दिन तक और विकला ६ दिन तक रहती है।।१५।।
आकृत्येव या स्वाभाविकी गतिः सा ऋज्वी अवक्रा। कुटिलगतित्वमाश्रित्य तन्मध्ये
ग्रहस्य यदा भुक्त्यभावो भवति तदा अतिवक्रा गतिरुच्यते। ऋजुं मार्गं परित्यज्य निवृत्तिं
करोति सा वक्रा। विकला वैकारिकी गतिर्या न्यूना। ऋज्वी चातिवक्रा च वक्रा च
यास्ता ऋज्व्यतिवक्रावक्राः। न केवलं ऋज्व्यतिवक्रावक्राः। यावद्विकला। चकारः समुच्चये।
देवलस्य मतेनैताश्चतस्रो गतयः। तथा च वृद्धगर्गः—
ऋजुर्गच्छति चेद् मार्गमविकारं प्रदक्षिणम्।
ग्रहो यस्मात्तु तस्मात् सा ऋज्वी तु गतिरुच्यते ।।
कुर्वन्ति वक्रं वक्रायां यस्मान्नित्यं महाग्रहाः।
अङ्गारकप्रभृतयस्तस्माद्वक्रेति सा गतिः।।
वक्राद् भूयो महावक्रमनुकुर्वन्ति चेद् ग्रहाः।
अनेनैवानुमानेन सातिवक्रोच्यते गतिः।।
विस्खलन्ति यथा चारान्मार्गादस्तमयोदयात्।
गतेस्तस्माद्धि विकला सा गतिः परिकीर्तिता।।
तथा चाऽऽचार्येण विकला गतिः प्रदर्शिताैव—

बुधचाराध्यायः १५७
अप्राप्य मकरमर्को विनिवृत्तो हन्ति सापरां याम्याम्।
कर्कटकमसम्प्राप्तो विनिवृत्तश्चोत्तरां सैन्द्रीम्।।
तथा च ऋषिपुत्रेणोक्तम्—
उन्मार्गस्थानमार्गस्था ग्रहाः कुर्वन्ति पार्थिवान्।
मार्गवन्तश्च मार्गस्थान् कुर्वन्ति वसुधाधिपान्।।
सत्पथप्रतिपन्नेषु पार्थिवेषु भवन्ति हि।
प्रजाः सत्पथमापन्ना विपर्यासे विपर्ययः।।
आसां प्रमाणमाह—पञ्चचतुर्द्व्येकाहा इति। उदयप्रवासदिवसैरित्यनुवर्तते। पञ्च-
चतुर्द्व्येकाहाः षडभ्यस्ताः षड्गुणितास्त्रिंशदादीनि भवन्ति। एतानि ऋज्व्यादीनां प्रमाणम्।
एतदुक्तं भवति—यदा बुधस्त्रिंश३०दिनानि उदितस्तिष्ठत्यस्तमितो वा तदा सा ऋज्वीनाम्नी
बुधस्य गतिः। एवमन्यासामपि ज्ञेयम्। तेन चत्वारः षडभ्यस्ताः चतुर्विंशतिः २४। चतुर्विंश-
दिनान्यतिवक्रायाः प्रमाणम्। द्वौ षडभ्यस्तौ द्वादश १२। द्वादशदिनानि वक्रायाः प्रमाणम्।
एकाहः षडभ्यस्तः षड्दिनानि ६ भवन्ति। एतानि विकलायाः प्रमाणम्।।१५।।
अथाऽऽसां फलान्याह—
ऋज्वी हिता प्रजानामतिवक्राऽर्घं गतिर्विनाशयति ।
शस्त्रभयदा च वक्रा विकला भयरोगसञ्जननी ।।१६।।
ऋज्वी गति प्रजाओं का हित करने वाली, अतिवक्रा दुर्भिक्ष करने वाली, वक्रा
शस्त्रभय देने वाली तथा विकला भय और रोग प्रदान करने वाली होती है।।१६।।
ऋज्वी गतिः प्रजानां हिता शुभकरी। अतिवक्रा गतिरर्घं विनाशयति दुर्भिक्षं करोति।
वक्रा शस्त्रभयदा शस्त्रभयं संग्रामभीतिं करोति। विकला भयं भीतिं रोगान् गदांश्च सञ्जन-
यत्युत्पादयति। तथा च देवलः—
दिनानि त्रिंशदुदितस्तिष्ठेद्यदि च सोमजः।
ऋज्वी गतिः सा विज्ञेया प्रजानां हितकारिणी।।
चतुर्विंशद्दिनान्येवं यदि तिष्ठेच्च सोमजः।
अतिवक्रा गतिर्ज्ञेया दुर्भिक्षगतिलक्षणा।।
अहानि द्वादश यदा बुधस्तिष्ठेत्तथोद्गतः।
वक्राः गतिः सा विज्ञेया शस्त्रसम्भ्रमकारिणी।।
षड् दिनानि यदा तिष्ठेदुद्गतः सोमनन्दनः।
विकला सा गतिर्ज्ञेया भयरोगविवर्धिनी।।
एवमस्तमये सर्वं गतिजं सोमजस्य तु।
भावाभावाय लोकानां फलं वाच्यं शुभाशुभम्।। इति।।१६।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

१५८ बृहत्संहिता
अथोदयास्तमययोः शुभाशुभलक्षणमाह—
पौषाषाढश्रावणवैशाखेष्विन्दुजः समाघेषु ।
दृष्टो भयाय जगतः शुभफलकृत्प्रोषितस्तेषु ॥१७॥
यदि पौष, आषाढ, श्रावण या माघ मास में बुध का उदय हो तो संसार में भय और
अस्त हो तो शुभ फल प्रदान करता है॥१७॥
पौषाऽऽषाढश्रावणवैशाखेषु मासेषु माघसहितेषु इन्दुजो बुधो दृष्ट उदित इत्यर्थः।
जगतो लोकस्य भयाय भीत्यै भवति। तेष्वेव पौषादिषु मासेषु प्रोषितोऽस्तं गतः शुभ-
फलकृद् भवति जगतः शुभफलं करोति। अमुमेवार्थं वृद्धगर्ग आह—
वैशाखपौषमाघेषु श्रावणाषाढयोरपि।
न दृश्यते बुधः प्रायो मासेष्वन्येषु दृश्यते॥
यदाऽदृश्येषु दृष्टः स्याद् दृश्येषु च न दृश्यते।
गवां रोगमनावृष्टिं दुर्भिक्षं चापि निर्दिशेत्॥
तथा च पराशरः—
वैशाखाषाढयोर्माघे पौषश्रावणयोस्तथा।
बुधो न दृश्यते जातु दृश्येत भयमादिशेत्॥
पौषे करोति मरकं माघे वातं तथा च सोमसुतः।
वैशाखे जनमरकमाषाढे श्रावणे च दुर्भिक्षम्॥ इति॥१७॥
अन्येष्वप्याह—
कार्तिकेऽश्वयुजि वा यदि मासे दृश्यते तनुभवः शिशिरांशोः ।
शस्त्रचौरहुतभुग्गदतोयक्षुद्भयानि च तदा विदधाति ॥१८॥
यदि कार्तिक या आश्विन मास में बुध का उदय हो तो शस्त्र, चोर, अग्नि, रोग, जल
और दुर्भिक्ष का भय करता है॥१८॥
कार्तिके अश्वयुजि मासे वा यदि शिशिरांशोश्चन्द्रस्य तनुभवः पुत्रो दृश्यते उद्गच्छती-
त्यर्थः। भयशब्दः प्रत्येकमपि सम्बध्यते। तदा शस्त्रभयं संग्रामभयम्, चौरभयं तस्करभयम्,
हुतभुग्भयमग्निभयम्, गदभयं रोगभयम्, तोयभयं जलभयम्, क्षुद्भयं दुर्भिक्षभयमेतानि विद-
धाति करोति॥१८॥
अन्यदुदयास्तमयवशोनेन्दुजस्य फलमाह—
रुद्धानि सौम्येऽस्तगते पुराणि यान्युद्गते तान्युपयान्ति मोक्षम् ।
अन्ये तु पश्चादुदिते वदन्ति लाभः पुराणां भवतीति तज्ज्ञाः ॥१९॥
बुधास्त समय में जो पुर शत्रुओं से घिर जाता है, वह उसके उदय होने पर मुक्त हो
जाता है। किसी पण्डित का मत है कि यदि पश्चिम तरफ बुध का उदय हो तो उस तरफ
के पुरों में स्थित मनुष्यों को लाभ होता है॥१९॥

बुधचाराध्यायः १५९
सौम्ये बुधेऽस्तगते सूर्यमण्डलस्थे यानि पुराणि नगराणि रुद्धानि शत्रुभिर्वेष्टितानि
तानि तस्मिन्नेवोद्गते उदिते रविमण्डलान्निष्क्रान्ते मोक्षमुपयान्ति प्राप्नुवन्ति, ततो रोद्धा
चलतीत्यर्थः। अन्ये त्विति। अन्ये तु पुनस्तज्ज्ञाः पण्डिता नन्दिप्रभृतयः पश्चादुदिते बुधे
पश्चिमायां दिश्युद्गते पुराणां लाभो लब्धिर्भवतीति वदन्ति कथयन्ति। लाभश्चाभियोक्तुर्भवति।
अन्यथोदिते पुरपतेरेव। तथा च नन्दी—
पश्चार्द्धादुदिते सौम्ये लभते पुररोधकः।
पुनः प्रागुदिते तस्मिन् पुरमोक्षं विनिर्दिशेत्।। इति।।१९।।
अथास्य बिम्बलक्षणमाह—
हेमकान्तिरथवा शुकवर्णः सस्यकेन मणिना सदृशो वा।
स्निग्धमूर्त्तिरलघुश्च हिताय व्यत्यये न शुभकृच्छशिपुत्रः ॥२०॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां
बुधचाराध्यायः सप्तमः ॥७॥
सुवर्ण के समान कान्ति वाला, तोता पक्षी के समान वर्ण वाला, धान्य अथवा नील-
मणि के सदृश और निर्मल तथा विस्तीर्ण बुध का विम्ब दिखाई दे तो संसार के हित के
लिये होता है। इसके विपरीत वर्ण का दिखाई दे तो अशुभ करने वाला होता है॥२०॥
इति 'विमला'हिन्दीटीकायां बुधचाराध्यायः सप्तमः ॥७॥
हेमकान्तिः सुवर्णाभः, अथवा शुकवर्णः शुककान्तिर्नीलपीतवर्ण इत्यर्थः। सस्यकेन
मणिना नीलवर्णेन सदृशस्तुल्यो वा। तथा स्निग्धमूर्त्तिर्निर्मलदेहः। अलघुश्च विस्तीर्णबिम्बः।
एवंविधः शशिपुत्रो बुधो लोकानां हिताय श्रेयसे भवति। व्यत्यये उक्तविपर्यये न शुभकृन्न
शुभकरः। तथा च पराशरः—'विमलजलरजतस्फटिकाभः प्रशस्यते' इति॥२०॥
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ
बुधचारो नाम सप्तमोऽध्यायः ॥७॥
CC-0. JK Sanskrit Academy, Jammnu. Digitized by S3 Foundation USA

अथ बृहस्पतिचाराध्यायः
अथ बृहस्पतिचारो व्याख्यायते। तत्रादावेव महाकार्तिकादीनां षष्ट्यब्दवर्षाणां संज्ञा-
ज्ञापनार्थमाह—
नक्षत्रेण सहोदयमुपगच्छति येन देवपतिमन्त्री ।
तत्सञ्ज्ञं वक्तव्यं वर्षं मासक्रमेणैव ॥१॥
जिस नक्षत्र में रहते हुये बृहस्पति का उदय होता है, उस नक्षत्र के अनुसार द्वादश
मास की तरह द्वादश वर्ष भी होते हैं॥१॥
येन नक्षत्रेण सहोदयं याति सुरमन्त्री गुरुर्यस्मिन्नक्षत्रे स्थितः सूर्यमण्डलादुदयं दर्शनं
याति तन्नक्षत्रं गुरुसहितम्। अथवा येन नक्षत्रेण सहास्तं याति यस्मिन्नक्षत्रे स्थितः सूर्य-
मण्डले प्रविशति तत्संज्ञं तन्नामधेयं वर्षं वक्तव्यं लोके वाच्यम्। तच्च मासक्रमेणैव मास-
परिपाट्या। अनन्तरोक्तस्यार्थस्य नक्षत्रेण सहोदयमस्तं चेत्यस्य सन्देहव्युदासार्थमाह—
मासक्रमेणैव । अन्यमासनक्षत्रेण सहास्तं गतोऽन्यमासनक्षत्रेण सहोदितः। यथा रोहिणी-
स्थोऽस्तं गतो मृगशिरःस्थश्चोदयं गतस्तदानन्तराक्रान्तमाससंज्ञितक्रमेण वर्षं बोद्धव्यमिति।
ऋषिपुत्रादिभिरुदयनक्षत्रमाससंज्ञितक्रमेण वर्षं वक्तव्यमित्युक्तम्। तथा च ऋषिपुत्र आह—
यत्रोत्तिष्ठति नक्षत्रे सह येन प्रवर्धते।
संवत्सरः स विज्ञेयस्तन्नक्षत्रविधायकः ।।
तथा च काश्यपः—
संवत्सरे युगे चैव षष्ट्यब्देऽङ्गिरसः सुतः।
यन्नक्षत्रोदयं कुर्यात्तत्संज्ञं वत्सरं विदुः।।
प्रभवादीनामब्दानां प्रवृत्तिर्गुरोरुदयकालादित एव। यतो गुरुरत्राबाधितत्वेन स्थितः।
तथा च ऋषिपुत्र आह—
तिष्यादि च युगं प्राहुर्वसिष्ठात्रिपराशराः।
बृहस्पतेस्तु सौम्यान्तं सदा द्वादशवार्षिकम्।।
उदेति यस्मिन् मासे तु प्रवासोपगतोऽङ्गिराः।
तस्मात् संवत्सरो मासो बार्हस्पत्योऽथ गम्यते।। इति।
तथा च गर्गः—
प्रवासान्ते सहर्क्षेण तूदितो युगपच्चरेत्।
तस्मात् कालादृक्षपूर्वो गुरोरब्दः प्रवर्तते।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

बृहस्पतिचाराध्यायः १६१
केचित् कृतिकादियुक्ते गुरौ यच्चन्द्रयुक्तं नक्षत्रं चैत्रमासादितो भवति, ततो महाकार्तिकादीनि
संवत्सराणि प्रभवादीनि च गणयन्ति। अपरे सौरमानेन गणयन्ति। तदयुक्तम्। यस्मात्
सौरं मानमधिकं गुरुमानात्। यदुत्कृष्टं मानं तत्स्वल्पतरमानेनानुमीयमानं बहुतरं भवति।
यथा—अष्टयवेनाङ्गुलेन ये पादोना एकाशीतिहस्तास्त एव सप्तयवेनानुमीयमाना हस्तशतं
भवन्ति। एवं सौरं मानं गुरुमानाच्चतुर्युगेण न्यूनं भवति। आचार्या-ऽऽर्यभटेन च प्रदर्शितम्—
गुरुभगणा राशिगुणा आश्वयुजाद्या गुरोरब्दाः।
गुरुभगणानां संख्या जिनयमवेदर्तुहव्यभुक्तुल्याः ३६४२२४।।
राशिगुणा इति। भगणे द्वादश राशयो भवन्ति तैर्गुणा द्वादशगुणा इत्यर्थः। द्वादशगुणा
गुरोरब्दाः। वस्वष्टरसाम्बराद्रिगुणवेदतुल्याः ४३७०६८८। रविभगणा एव रव्यब्दाः
खचतुष्टयरदवेतुल्याः ४३२००००। गुरोरब्दानां रव्यब्दानां चान्तरे कृते गुरोरब्दाः समधिका
जाता वस्वष्टर्तुखेषवः ५०६८८। अत्र च त्रैराशिकम्—यदि चतुर्युगरव्यब्दानामन्तर-
प्रदर्शितगुरुरव्यब्दान्तरं लभ्यते तदैकस्य रव्यब्दस्य कियदिहति। न्यासः—४३२००००।
५०६८८। १। फलं रविवर्षभोग इति। रव्यब्दानां कृतखगुणयमै २३०४रपवर्तितानां
शरागाष्टेन्दवो लभ्यन्ते १८७५। तावद्भागेन रविगुरुवर्षान्तरस्य द्व्यधिका विंशतिर्भवति
२२। सप्तत्यधिकेऽब्दशते एकादशभागैः पञ्चभिरधिके १७०/५/११ गते गुरुयुक्तनक्षत्र-
माससंज्ञवर्षद्वयमधिकं भवति। तथा च गर्ग आह—
युगानि द्वादशाब्दानि तत्र तानि बृहस्पतेः।
तत्र सावनसौराभ्यां सावनाब्दो निरुच्यते।।
एवमाश्वयुजं चैव चैत्रं चैव बृहस्पतिः।
संवत्सरं नाशयते सप्तत्यब्दशतेऽधिके।।
एवं नष्टजातकेऽपि—
'लग्नत्रिकोणेषु गुरुस्त्रिभागैर्विकल्प्य वर्षाणि वयोऽनुमानात्' इत्यनेन गणितेन
यान्यतीतवर्षाण्यागतानि तानि द्व्यधिकया विंशत्या २२ गुणयित्वा पादोनैरैकोनविंशतिशतै-
१८७५र्विभज्य लब्धमनन्तरोक्तश्लोकानीतगुर्वतीतजन्मवर्षाणां विशोध्य शेषं स्फुटतरम-
तीतजन्मवर्षपिण्डं भवतीति। अत्र गुणकारभागहारयोराचार्येण द्विगुणतोपनिबद्धा। यत
आचार्यप्रणीतकालेऽतीतं षष्ट्यब्दादेर्वर्षद्वयं त्रयो मासाश्चतुर्दश दिनानि दिनशेषं खद्विदश
१०२०। अक्षागाष्टरूपाणि १८७५ छेदः। तत्परिणामाय छेदं तेन वर्षद्वयेन सङ्गुण्य
ततो मासत्रयं दिनीकृत्य सदिनं कृत्वा तेन छेदेन सङ्गुण्य शेषं युक्तं कृत्वा खर्त्वग्निभि-
३६०र्विभज्यावाप्तं शतपञ्चकं चतुश्चत्वारिंशदधिकं सार्द्धम् ५४४/१/२। तच्च वर्षघ्ने
छेदे संयोज्यते। तस्य च सविकलत्वात् सवर्णनाय द्वाभ्यां गुणना क्रियते। स्वाधःस्थं
रूपार्द्धं योज्यते। ततः सवर्णीकृतो भवति। एवं क्षेपस्य द्विगुणत्वाद् गुणकारभागहारा-
वप्याचार्येण द्विगुणावुपनिबद्धाविति। तदर्थं चतुश्चत्वारिंशद् गुणकारः। शून्यशरागरामा
३७५० भागहार इति।।१।।
बृ० भ० प्र०-११
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

१६२ बृहत्संहिता
यदुक्तं वर्ष मासक्रमेणैव तत् कथमित्यत आह—
वर्षाणि कार्तिकादीन्याग्नेयाद् भद्वयानुयोगीनि ।
क्रमशस्त्रिभं तु पञ्चममुपान्त्यमन्त्यं च यद्वर्षम् ॥२॥
कृत्तिका आदि दो-दो नक्षत्रों में बृहस्पति के रहने से कार्तिक आदि बारह मास की
तरह बारह वर्ष होते हैं। इनमें केवल पञ्चम, एकादश और द्वादश वर्ष तीन-तीन नक्षत्र के
होते हैं॥२॥
कार्तिकादीनि कार्तिकमासपूर्वाणि वर्षाणि भवन्ति माससमानि द्वादश । तानि चाग्नेयात्
कृत्तिकातः प्रभृति भद्वयानुयोगीनि । भद्वयेनानुयोगो येषाम् । नक्षत्रद्वयानुयोगीनि क्रमश: क्रमेण
परिपाट्या भवन्ति ।
त्रिभं तु पञ्चममुपान्त्यमन्त्यं च यद्वर्षमिति । पञ्चमं फाल्गुनं वर्षम् । त्रिभं नक्षत्रत्रयानुयोगि।
अन्त्यं द्वादशं चाश्वयुजं त्रिभम् । तस्य समीपमुपान्त्यमित्येकादशं च त्रिभम् । एवं पञ्चम-
मुपान्त्यमन्त्यं च वर्षत्रयं त्रिभम्। तद्यथा—कृत्तिकारोहिणीभ्यां कार्तिकः। मृगशिरआर्द्राभ्यां
मार्गशीर्षः। पुनर्वसुतिष्याभ्यां पौषः । आश्लेषामघाभ्यां माघः। पूर्वफल्गुन्युत्तरफल्गुनीहस्तैः
फाल्गुनः। चित्रास्वातीभ्यां चैत्रः। विशाखानुराधाभ्यां वैशाखः। ज्येष्ठामूलाभ्यां ज्येष्ठः।
पूर्वाषाढोत्तराषाढाभ्यामाषाढः। श्रवणधनिष्ठाभ्यां श्रावणः। शतभिषकपूर्वभद्रपदोत्तरभद्रप-
दाभिर्भद्रपदः। रेवत्यश्विनीभरणीभिश्चाश्वयुज इति। एतदुक्तं भवति—यदा कृत्तिकायां
रोहिण्यामवस्थितो वा गुरुरुदयं याति तदा कार्तिकं वर्षं ज्ञेयम्। एवमन्येषामपि। अत्रान्ये
एवं व्याचक्षते—यथोपान्त्यमन्त्यं चेत्यत्रान्त्यशब्दः समीपवाची। उपान्त्यस्यैकादशस्य
समीपं दशमं श्रावणं न तु द्वादशमाश्वयुजमिति। यतस्तत्र गर्गादिवचनैः सह विरोधो भवति।
तथा च गर्ग आह—
फल्गुनी चैव हस्तं च चरेद्यदि बृहस्पतिः ।
स फाल्गुनोऽब्दः क्रूरः स्याद्धान्यमुच्चाटतां व्रजेत्॥
श्रवणादीनि च त्रीणि चरेद्यदि बृहस्पतिः।
श्रावणो नाम सोऽब्दः स्यात् क्षेमसौभिक्षमूर्तिमान्॥
पूर्वोत्तरे प्रोष्ठपदे चरेद्रेवतिमेव च।
प्रौष्ठपाद इति ज्ञेयो मध्यमो वत्सरो हि सः॥
आश्विनं चैव याम्यं च चरेद्यदि बृहस्पतिः।
संवत्सरः सोऽश्वयुक् स्यात् सर्वभूतहितावहः॥
तथा च पराशरः—
‘कृत्तिकारोहिणीषूदिते क्षुच्छस्त्राग्निना वृष्टिव्याधिप्राबल्यं गोशाकटिकपीडा च।
सौम्यरौद्रयोरेतदेव गवादिवर्ज्जम्। तिष्यपुनर्वस्वोरुक्तविपर्ययः। पुष्यवन्मघाश्लेषासु राज्ञा-
मुपतापश्च। फल्गुनीसावित्रेषु क्वचित्क्षेमसुभिक्षं नारीदौर्भाग्यं च। चित्रास्वात्योरुदितो नृप-
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

बृहस्पतिचाराध्यायः १६३
सस्यवर्षक्षेमारोग्यकरः। एवमेव मैत्रेन्द्राग्न्योरेन्द्रनैर्ऋतयोर्वनस्पतिसस्यवर्षश्रेष्ठनृपतिप्रधान-
जनविनाशायेतरवृद्धये। अषाढयोः प्राक्परसस्यानां वृद्धये मध्यमक्षेमवर्षणमन्योन्यभेदश्च।
श्रवणधनिष्ठावारुणेषु यज्ञनृपसस्यवर्षारोग्यवृद्धये। अजाहिर्बुध्न्यपौष्णेष्वाषाढवत्फलं
प्राक्परसस्यविपर्ययः। प्रभूतजलसस्यर्द्धिजलक्षेमाण्यश्वयुग्भरणयोरिति।
एवमत्रान्त्यशब्देन समीपं दशमं वर्षं श्रावणमन्त्येनाऽऽश्वयुजमिति न शोभनम्।
अत्र केचिदृषिपुत्रस्य मतभेदं मन्यन्ते—
त्रिनक्षत्रास्त्रयस्तत्र स्युः सौम्यत्वाष्ट्रवैष्णवाः।
द्विनक्षत्राः स्मृताः शेषाः पूर्वपश्चिमयोगतः।। इति।
स्वमतेनैतद्विरुध्यते। यदि त्रिनक्षत्रो मार्गशीर्षस्तदा माघस्त्वेकनक्षत्रो भवति 'द्विनक्षत्राः
स्मृताः शेषाः' इत्यनेन सह विरुद्ध्यते। यस्मात् त्रयस्त्रिनक्षत्राः शेषा द्विनक्षत्राः स्मृता-
स्त्वेकनक्षत्रो नास्त्येव। तस्मात् पुस्तकपाठोऽयं सिद्धान्तपाठः कथ्यते।
त्रिनक्षत्रास्त्रयस्तत्र ज्ञेया भाग्याजवैष्णवाः।
द्विनक्षत्राः स्मृताः शेषाः पूर्वपश्चिमयोगतः।। इति।
तथा च गर्गः—
नववारा द्विनक्षत्रा गुरोर्द्वादशमासिकाः।
शेषास्त्रयस्त्रिनक्षत्राः पञ्चमैकादशान्तिमाः।।
तथा च काश्यपः—
कार्तिकादिसमा ज्ञेया द्विनक्षत्रविचारिणा।
त्रिभं भाद्रपदे ज्ञेयं फाल्गुने श्रावणे तथा।।
तस्मात् 'क्रमशस्त्रिभं तु पञ्चममुपान्त्यमन्त्यं च यद्वर्षम्' इत्यत्र पञ्चमैकादशदशस्त्रि-
नक्षत्रांश्चेति शोभनम्।।२।।
अथैतेषां कार्तिकादीनां वर्षाणां फलानि विवक्षुरादौ कार्तिक आह—
शकटानलोपजीवकगोपीडा व्याधिशस्त्रकोपश्च।
वृद्धिस्तु रक्तपीतककुसुमानां कार्तिके वर्षे ॥३॥
कार्तिक नामक वर्ष में गाड़ी से तथा अग्नि से आजीविका चलाने वाले (लोहार,
सोनार आदि) और गौ—इन सबों को पीड़ित करता है। लोगों में व्याधि और लड़ाई होती
है; किन्तु लाल और पीले पुष्पों की वृद्धि होती है।।३।।
कार्तिके वर्षे शकटोपजीविनां शकटेन गन्त्या ये उपजीवन्ति तेषाम्। तथा अनलोप-
जीविनां सुवर्णकारलोहकारायस्कारादीनाम्। गवां च पीडा भवति। तथा व्याधयो रोगाः
शस्त्रकोपश्च युद्धानि भवन्ति। तथा रक्तपीतककुसुमानां द्रव्याणां रक्तं पीतं च पुष्पं येषां
सम्भवति तेषां च वृद्धिर्भवति। तथा च गर्गः—
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

१६४ बृहत्संहिता
कार्तिकः प्रचुरातङ्कः क्षुच्छस्त्राग्निभयप्रदः।
गोशाकटिकपीडां च करोत्येवमवृष्टिदः।। इति।।३।।
अथ मार्गशीर्ष आह—
सौम्येऽब्देऽनावृष्टिर्मृगाखुशलभाण्डजैश्च सस्यवधः ।
व्याधिभयं मित्रैरपि भूपानां जायते वैरम् ॥४॥
मार्गशीर्ष वर्ष में अनावृष्टि होती है। जंगली जानवर, चूहा, शलभ ( टीढी ) और
पक्षियों से धान्य का नाश होता है। मनुष्यों में व्याधि का भय होता है तथा मित्रों से भी
राजाओं को द्वेष होता है।।४।।
सौम्ये मार्गशीर्षेऽब्दे अनावृष्टिर्भवति। मृगा अरण्यपशवः, आखवो मूषकाः, शलभाः
प्राणिनः कीटजातयः, अण्डजाः पक्षिणः—एतैः सस्यानां वधो नाशो भवति। तथा व्याधिभयं
रोगभीतिः। भूपानां राज्ञां मित्रैरपि सुहृद्भिरपि वैरमप्रीतिर्जायत उत्पद्यते। किं पुनः शत्रुभिः
सह न भवेदिति। तथा च गर्गः—
वर्षहन्ता व्याधिकरो मिथो भेदभयावहः।
शलभाद्याकुलः सौम्यो दुर्भिक्षभयकारकः।। इति।।४।।
अथ पौष आह—
शुभकृज्जगतः पौषो निवृत्तवैराः परस्परं क्षितिपाः ।
द्वित्रिगुणो धान्यार्घः पौष्टिककर्मप्रसिद्धिश्च ॥५॥
पौष वर्ष में संसार का शुभ होता है, राजा लोग पारस्परिक द्वेष त्याग देते हैं, धान्य का
मौल्य द्विगुणित या त्रिगुणित हो जाता है एवं पौष्टिक कर्म की सिद्धि होती है।।५।।
पौषोऽब्दो जगतो लोकस्य शुभकृच्छुभमिष्टं करोति। क्षितिपा राजानः परस्परमन्योन्यं
निवृत्तवैरा विगतद्वेषा भवन्ति। धान्यस्यार्घो द्विगुणस्त्रिगुणो वा भवति। धान्यस्य यन्मूल्य-
मासीत्तेनैव द्विगुणं त्रिगुणं वा धान्यं लभ्यते। तथा पौष्टिककर्मणां पुष्टिदानां कार्याणां प्रसिद्धि-
र्भवति। अतिशयेन भवतीत्यर्थः। तथा च गर्गः—
प्रशान्तव्याधिदुर्भिक्षदुर्वर्षशनितस्करः ।
सर्वलक्षणसम्पन्नः पौषः संवत्सरोत्तमः।। इति।।५।।
अथ माघ आह—
पितृपूजापरिवृद्धिर्माघे हार्दिश्च सर्वभूतानाम् ।
आरोग्यवृष्टिधान्यार्घसम्पदो मित्रलाभश्च ॥६॥
माघ नामक वर्ष में पितरों की पूजा की वृद्धि, सभी प्राणियों को तुष्टि, आरोग्य, सुन्दर
वृष्टि, धान्यों के मौल्य में समता और मित्रों का लाभ होता है।।६।।
माघे पितॄणां पूजापरिवृद्धिर्भवति। अत्यर्थं जनाः पितृपूजाकर्मणि रता भवन्तीत्यर्थः।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

बृहस्पतचाराध्यायः १६५
मघायाः पितृदैवतत्वात् सर्वभूतानां च हार्दिश्चित्ततुष्टिर्भवति। तथा आरोग्यं नीरोगता,
वृष्टिर्वर्षणम्, धान्यस्यार्घसम्पत्समर्घता, एते भवन्ति। तथा मित्रलाभश्च भवति। यत्किञ्चिन्मित्र-
त्वमापद्यत इत्यर्थः। तथा च गर्गः-
क्षेमारोग्यं सुभिक्षं च वर्षणं शिवमेव च।
पितृपूजाः प्रवर्तन्ते माघे राज्ञां च सन्धयः।। इति।।६।।
अथ फाल्गुन आह-
फाल्गुनवर्षे विन्द्यात् क्वचित्क्वचित्क्षेमवृष्टिसस्यानि ।
दौर्भाग्यं प्रमदानां प्रबलाश्चौरा नृपाश्चोग्राः ॥७॥
फाल्गुन वर्ष में किसी-किसी स्थान में मंगलकार्य और धान्य होता है; किन्तु सर्वत्र
मंगलकार्य और धान्य की उत्पत्ति नहीं होती तथा स्त्रियों की अभाग्यता, चोरों की प्रबलता
और राजाओं की उग्रता बढ़ती है।।७।।
फाल्गुनवर्षे क्वचित्क्वचित्क्षेमवृष्टिसस्यानि विन्द्याज्जानीयात्। क्वचित्क्षेमं क्वचिद्
वृष्टिः क्वचिच्च सस्यं भवति न सर्वत्र। तथा प्रमदानां स्त्रीणां दौर्भाग्यं दुर्भाग्यत्वं तन्नृणा-
मवाल्लभ्यं भवति। प्रबलाश्चौरास्तस्करा बहवो भवन्ति। तथा नृपाश्च राजान उग्राः क्रूरा
भवन्ति। तथा च गर्गः-
नारीदौर्भाग्यकृच्चौरैः फाल्गुनः सस्यवर्षदः।
क्वचित् क्षेमं सुभिक्षं च क्वचिदक्षेमकारकः।। इति।।७।।
अथ चैत्र आह-
चैत्रे मन्दा वृष्टिः प्रियमन्नं क्षेममवनिपा मृदवः ।
वृद्धिश्च कोशधान्यस्य भवति पीडा च रूपवताम् ॥८॥
चैत्र वर्ष में थोड़ी वृष्टि, दुर्लभ अन्न, लोगों में कुशलता, राजाओं में कोमलता,
एकत्रित किये हुये धान्यों की वृद्धि और सुन्दर मनुष्यों को पीड़ा होती है।।८।।
चैत्रेऽब्दे वृष्टिर्मन्दा अल्पा भवति। प्रियमन्नं सुदुर्लभमन्नं भवति। लोके क्षेमं लब्धपालनं
तथा अवनिपा राजानो मृदवोऽक्रूरा भवन्ति। कोशधान्यस्य शिम्बिधान्यस्य मुद्गादेर्वृद्धि-
र्बाहुल्यम्। तथा रूपवतां सुरूपणां पीडा भवति। चशब्दः समुच्चये। तथा च गर्गः-
मृदुप्रचारा राजानः प्रियमन्नं जनस्य च।
क्षेमारोग्यं च मृदुता चैत्रवर्षस्तथा मृदुः।। इति।।८।।
अथ वैशाख आह-
वैशाखे धर्मरता विगतभयाः प्रमुदिताः प्रजाः सनृपाः ।
यज्ञक्रियाप्रवृत्तिर्निष्पत्तिः सर्वसस्यानाम् ॥९॥
वैशाख वर्ष में राजाओं के साथ-साथ समस्त प्रजागण भी धर्मनिरत, भयरहित,
आनन्दयुक्त और यज्ञकर्म में प्रवृत्त होते हैं तथा सभी धान्यों की वृद्धि होती है।।९।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

१६६ बृहत्संहिता
वैशाखेऽब्दे सनृपाः प्रजा नृपेण राज्ञा सहिताः सर्वजनपदा धर्मरता धर्मसक्ता विगत-
भया भयरहिताः प्रमुदिताः प्रहृष्टाश्च भवन्ति। तथा यज्ञक्रियाणां यागकर्मणां प्रवृत्तिः प्रवर्तनं
भवति। सस्यानां सर्वेषां च निष्पत्तिरशेषाणां सस्यानां समृद्धिर्भवति। तथा च गर्गः—
ईतयः प्रथमं यान्ति सन्धिं कुर्वन्ति पार्थिवाः।
वैशाखे तु सस्यजन्या वृष्टयः सम्भवन्ति हि।। इति।। ९।।
अथ ज्येष्ठ आह—
ज्येष्ठे जातिकुलधनश्रेणीश्रेष्ठा नृपाः सधर्मज्ञाः ।
पीड्यन्ते धान्यानि च हित्वा कङ्गुं शमीजातिम् ॥१०॥
ज्येष्ठ वर्ष में अच्छे कुल में उत्पन्न, अति धनी, बहुतों में प्रधान, राजा लोग, धर्म को
जानने वाले और कंगुनी तथा शमी के अतिरिक्त सभी धान्य पीड़ित होते हैं।।१०।।
ज्येष्ठेऽब्दे जातिकुलधनश्रेणीश्रेष्ठा जातीनां ये श्रेष्ठाः प्रधानाः, कुलश्रेष्ठाः सत्कुलजाः,
धनश्रेष्ठा अतिधनिनः, श्रेणीश्रेष्ठा बहूनां समानजातीयानां संज्ञा श्रेणी, ततः श्रेष्ठाः
प्रधानाः, नृपा राजानस्ते च सधर्मज्ञा धर्मज्ञैर्जनैः सहिताः, ते सर्व एव पीड्यन्ते। तथा
धान्यानि च पीड्यन्ते सर्वाण्येव। किन्तु हित्वा कङ्गुशमीजातिम्। कङ्गुः प्रियङ्गुः, शमीजा-
तिस्तिलादिः, एतद्द्वित्वा वर्जयित्वा। केचित् सबीजानीति पठन्ति। तथा च गर्गः—
वृक्षगुल्मलतासस्यक्षेमवर्षविनाशनः ।
क्रूराज्ञादीप्तिजननो ज्येष्ठो ज्येष्ठनृपान्तकृत्।। इति।।१०।।
अथाऽऽषाढ आह—
आषाढे जायन्ते सस्यानि क्वचिदवृष्टिरन्यत्र ।
योगक्षेमं मध्यं व्यग्राश्च भवन्ति भूपालाः ॥११॥
आषाढ वर्ष में कहीं-कहीं पर धान्य और कहीं-कहीं पर वर्षा का अभाव होता है,
योगक्षेम ( अलब्ध का लाभ, लब्ध का पालन ) मध्यम रूप से होता है तथा राजा लोग
काम में व्यग्र रहते हैं।।११।।
आषाढेऽब्दे क्वचित्क्वचित्सस्यानि जायन्ते उत्पद्यन्ते च सर्वत्र। अन्यत्रान्यत्र देशेषु
अवृष्टिरवर्षणं भवति। तथा लोके योगक्षेमं मध्यमं भवति। अलब्धलाभो योगः, लब्धपालनं
क्षेमम्, तच्च मध्यमं भवति। न चात्युत्कृष्टं न चातिनिकृष्टमित्यर्थः। भूपाला राजानो
व्यग्राः सोद्यमा भवन्ति। तथा च गर्गः—
दुर्भिक्षक्षेमजननश्चाषाढोऽन्योन्यभेदकृत्।
भूपालयुद्धजननो मध्यमक्षेमकारकः।। इति।।११।।
अथ श्रावण आह—
श्रावणवर्षे क्षेमं सम्यक् सस्यानि पाकमुपयान्ति।
क्षुद्रा ये पाखण्डाः पीड्यन्ते ये च तद्भक्ताः ॥१२॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

बृहस्पतिचाराध्यायः १६७
श्रावण नामक वर्ष में सभी धान्य अच्छी तरह पक जाते हैं तथा क्षुद्र ( क्रूर ),
पाखण्डी गण ( वेदनिन्दक ) और उनके भक्त लोग पीड़ित होते हैं।।१२।।
श्रावणवर्षे क्षेमं भवति। तथा सर्वाणि सस्यानि सम्यग् निश्चितं पाकं निष्पत्तिमुपयान्ति।
तथा ये क्षुद्राः क्रूरा ये च पाखण्डा वेदबाह्यास्ते सर्वे पीड्यन्ते। ये च तद्भक्तास्तेषां
क्षुद्राणां पाखण्डानां भक्ताः सेवकास्ते पीड्यन्ते बाध्यन्ते। तथा च गर्गः—
श्रावणः सस्यसम्पन्नः क्षेमारोग्यकरः शिवः।
धान्यं समर्घतां याति सम्यग् वर्षति वासवः।
क्षुद्रान् पाखण्डिनः सर्वान् तद्भक्तांश्चोपतापयेत्।। इति।।१२।।
अथ भाद्रपद आह—
भाद्रपदे वल्लीजं निष्पत्तिं याति पूर्वसस्यं च।
न भवत्यपरं सस्यं क्वचित्सुभिक्षं क्वचिच्च भयम् ।।१३।।
भाद्रपद वर्ष में वल्लीज ( मूँग आदि अन्न ) और पूर्व में बोये हुए धान्य पक जाते हैं;
परन्तु इस वर्ष के आरम्भ के बाद के बोये हुए धान्य नहीं होते हैं तथा संसार में कहीं-कहीं
पर सुभिक्ष और कहीं-कहीं पर भय होता है।।१३।।
भाद्रपदेऽब्दे वल्लीजं मुद्गादिकं निष्पत्तिं परिपाकं याति प्राप्नोति। तथा च पूर्वं
प्रथममुप्तं सस्यं निष्पत्तिं याति। अपरं पश्चादुप्तं सस्यं न भवति। क्वचित् सुभिक्षं क्वचिच्च
भयं भीतिर्भवति। तथा च गर्गः—
प्रौष्ठपात् सस्यजननो नाशयत्यपरं च यत्।
करोति च क्वचित् क्षेमं क्वचिदक्षेमकारकः।। इति।।१३।।
अथाऽऽश्वयुज आह—
आश्वयुजेऽब्देऽजस्रं पतति जलं प्रमुदिताः प्रजाः क्षेमम्।
प्राणचयः प्राणभृतां सर्वेषामन्नबाहुल्यम् ।।१४।।
आश्वयुज ( आश्विन ) वर्ष में बहुत वृष्टि, सर्वथा सानन्द प्रजा, सब प्राणियों में
प्राणचय ( अत्यधिक बल की वृद्धि ) और अन्न की अधिकता होती है।।१४।।
आश्वयुजेऽब्दे वर्षेऽजस्रं सततं जलं पतति सततं वर्षतीत्यर्थः। तथा प्रजाः सर्वाः
प्रमुदिताः प्रहृष्टाः। क्षेमं च भवति। तथा प्राणभृतां शरीरिणां सर्वेषामवशेषाणां प्राणचयो
बलोपचयो भवति। तथाऽन्नबाहुल्यमतिसुभिक्षं च। तथा च वृद्धगर्गः—
पर्याप्तसस्यान्रजलक्षेमश्चाश्वयुजः शिवः।
सम्प्रवृत्तोत्सवः श्रीमान् सर्वकामसुखावहः।। इति।
तथा च समाससंहितायाम्—
गुरुदयति नक्षत्रे यस्मिंस्तत्संज्ञितानि वर्षाणि।
द्विभयोगीन्याग्नेयात्त्रिभमन्त्यं पञ्चममुपान्त्यम्।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

१६८ बृहत्संहिता
अनेन वाक्येनाऽऽचार्यस्य प्रथमैव व्याख्या साध्वी। उपान्त्यमेकादशमन्त्यं च द्वादशमिति।
तथा च—
फाल्गुनचैत्राषाढा मध्याः सौम्योऽधमस्तथा ज्येष्ठः।
वैशाखपौषमाघाः शुभफलदाः श्रावणाद्याश्च।। इति।।१४।।
अथ नक्षत्रेषु चरतो गुरोर्विशेषफलमाह—
उदगारोग्यसुभिक्षक्षेमकरो वाक्पतिश्चरन् भानाम्।
याम्ये तद्विपरीतो मध्येन तु मध्यफलदायी ।।१५।।
नक्षत्रों के उत्तर में चलता हुआ बृहस्पति संसार में सुभिक्ष और क्षेम करता है, दक्षिण
में विपरीत फल (दुर्भिक्ष और अक्षेम) प्रदान करता है तथा नक्षत्रों के मध्य में चलता
हुआ बृहस्पति मध्यम फल प्रदान करता है।।१५।।
वाक्पतिर्बृहस्पतिर्भानां नक्षत्राणामुद्गुत्तरेण चरन् गच्छन्नारोग्यसुभिक्षक्षेमकरः आरोग्यं
सुभिक्षं क्षेमं च करोति। याम्ये दक्षिणेन चरंस्तद्विपरीतः अनारोग्यमसुभिक्षमक्षेमं च
करोति। मध्येन तु चरन् मध्यभागेन नक्षत्रस्य गच्छन् मध्यफलदायी भवति। मध्यमं फलं
ददाति न शुभं नाशुभमिति।।१५।।
अन्यदप्याह—
विचरन् भद्वयमिष्टस्तत्सार्द्धं वत्सरेण मध्यफलः।
सस्यानां विध्वंसी विचरेदधिकं यदि कदाचित् ।।१६।।
यदि बृहस्पति एक वर्ष के अन्दर दो नक्षत्रों में विचरण करे तो शुभ फल, ढाई नक्षत्रों
में विचरण करे तो मध्यम फल और यदि कदाचित् ढाई से भी अधिक नक्षत्रों में विचरण
करे तो धान्यों का नाश करने वाला होता है।।१६।।
वत्सरेण वर्षेण भद्वयं नक्षत्रद्वयं विचरन् गच्छन् गुरुरिष्टः शोभनः। एतदुक्तं भवति—
बृहस्पतिर्यदा वर्षेण नक्षत्रद्वयं भुङ्क्ते तदा स प्रजानां शुभकरो भवति। तत्सार्द्धं वत्सरेण
मध्यफलं इति। तन्नक्षत्रद्वयं सार्द्धं यदि वत्सरेण विचरति तदा मध्यफलो मध्यमं फलं
करोति। न शुभं नाप्यशुभमित्यर्थः। सस्यानां विध्वंसीति। अधिकं भद्वयात् सार्द्धाद्यदि
कदाचिद्विचरेद्वर्षेण तदा सस्यानां विध्वंसी भवति। सस्यानि विनाशयतीत्यर्थः। तथा च
पराशरः—
‘मध्यदक्षिणोत्तरमार्गप्रविचारी मध्यदारुणोत्तमप्रजाभावकरः। श्वेतरक्तपीतकृष्णवर्णो ब्राह्म-
णादिवर्णजय्याय। सपादमृक्षद्वयमब्देन प्रविचरन् सस्यसम्पत् करोति। विपर्ययाद्विपरीतः।’
अथ गुरोर्वर्णलक्षणमाह—
अनलभयमनलवर्णे व्याधिः पीते रणागमः श्यामे।
हरिते च तस्करेभ्यः पीडा रक्ते तु शस्त्रभयम् ।।१७।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

बृहस्पतिचाराध्यायः १६९
धूमाभेऽनावृष्टिस्त्रिदशगुरौ नृपवधो दिवा दृष्टे ।
विपुलेऽमले सुतारे रात्रौ दृष्टे प्रजाः स्वस्थाः ॥१८८॥
यदि बृहस्पति अग्निवर्ण का हो तो अग्नि का भय, पीतवर्ण का हो तो व्याधि,
श्यामवर्ण का हो तो युद्ध, हरा हो तो चोरों से पीड़ा, लालवर्ण का हो तो शस्त्र का भय और
धूमवर्ण का हो तो अनावृष्टि करता है। यदि बृहस्पति दिन में दिखाई दे तो राजा का नाश
और ताराओं से सुन्दर रात्रि में बृहस्पति का विपुल निर्मल विम्ब दिखाई दे तो प्रजाओं को
सर्वथा स्वस्थ करता है॥१८८॥
त्रिदशगुरौ देवाचार्ये बृहस्पतावनलवर्णेऽग्निप्रभेऽनलभयमग्निभीतिर्भवति। पीते पीतवर्णे
व्याधिः पीडा। श्यामे श्यामवर्णे रणागमः संग्रामः। हरते हरितवर्णे शुकाभे तस्करेभ्यश्चौरेभ्यः
पीडोपतापो लोकानां भवति। रक्ते लोहितवर्णे शस्त्रभयम्।
धूमाभे धूमप्रभे अनावृष्टिरवर्षणम्। दिवा दिवसभागे दृष्टे नृपवधो राज्ञो मृत्युर्भवति।
तथा च पराशरः—
कदाचिद्यत्र दृश्येत दिवा देवपुरोहितः।
राजा वा म्रियते तत्र स देशो वा विनश्यति।।
विपुले महाबिम्बे। अमले निर्मले। सुतारे शोभनतारे। रात्रौ निशि। दृष्टे प्रजा लोकाः
स्वस्था नीरोगा भवन्ति। केचिन्नृपाः स्वस्था इति पठन्ति॥१८८॥
अथ संवत्सरपुरुषमाह—
रोहिण्योऽनलभं च वत्सरतनुर्नाभिस्त्वषाढाद्वयं
सार्पं हृत्पितृदैवतं च कुसुमं शुद्धैः शुभं तैः फलम् ।
देहे क्रूरनिपीडितेऽग्न्यनिलजं नाभ्यां भयं क्षुत्कृतं
पुष्पे मूलफलक्षयोऽथ हृदये सस्यस्य नाशो ध्रुवम् ॥१९१॥
संवत्सरपुरुष के रोहिणी और कृत्तिका नक्षत्र शरीर, पूर्वाषाढा और उत्तराषाढा नाभि,
आश्लेषा हृदय और मघा पुष्प हैं। यदि संवत्सरपुरुष के ये शरीर आदि अङ्ग शुद्ध
( पापग्रह से रहित ) हों तो शुभ फल देते हैं। यदि देह ( रोहिणी और कृत्तिका ) में पाप
ग्रह हो तो अग्नि और वायु का भय, नाभि ( पूर्वाषाढा और उत्तराषाढा ) में पाप ग्रह हो तो
दुर्भिक्ष का भय, पुष्प ( मघा ) में पाप ग्रह हो तो मूल ( मूल पदार्थ ) और फल ( आम्र
आदि ) का क्षय तथा हृदय ( आश्लेषा नक्षत्र ) में पाप ग्रह हो तो धान्यों का नाश होता
है॥१९१॥
रोहिण्योऽनलभं कृत्तिकाः। एते द्वे नक्षत्रे संवत्सरतनुः संवत्सरपुरुषस्य शरीरम्।
अषाढाद्वयं पूर्वाषाढोत्तराषाढे तस्यैव नाभिः। सार्पमाश्लेषा हृत् हृदयम्। पितृदैवतं मघा
कुसुमं पुष्पमिति। प्रयोजनमप्याह—शुद्धैः शुभं तैः फलमिति । तैस्तन्वादिभिः शुद्धैः
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

१७० बृहत्संहिता
पापग्रहविरहितैर्लोके शुभं फलं भवति। देहे क्रूरनिपीडित इति। क्रूरग्रहा रविभौमसौराः।
देहे तनौ कृत्तिकारोहिण्योरित्यर्थः। क्रूरनिपीडिते क्रूरहते तयोर्यदि पापाः स्थितास्तदा अग्न्य-
निलजं भयं भवति। अग्निर्मुहुतवहः, अनिलो वायुः, अनयोर्जातम्। तथा नाभ्यां पीडिताया-
मषाढाद्वय इत्यर्थः। क्षुत्कृतं दुर्भिक्षभयं भवति। पुष्ये मघायां पीडितायां मूलफलक्षयः, मूलानां
मूलद्रव्याणां फलानां चाम्रादीनां क्षयो विनाशो भवति। अथशब्दः स्वार्थे। हृदये आश्ले-
षायां पीडितायां ध्रुवमवश्यं सस्यस्य धान्यस्य नाशः क्षयो भवति। तथा च काश्यपः—
कृत्तिका रोहिणी चोभे संवत्सरतनुः स्मृता।
आषाढाद्वितयं नाभी सार्पं हृत्कुसुमं मघा।।
क्रूरग्रहहते देहे दुर्भिक्षानलमारुताः।
क्षुद्भयं तु भवेन्नाभ्यां पुष्ये मूलफलक्षयः।।
हृदये सस्यहानिः स्यात् सौम्यैः पुष्टिः प्रकीर्तिता।। इति।।१९।।
अधुना षष्ट्यब्दानयनमाह—
गतानि वर्षाणि शकेन्द्रकाला-
द्धतानि रुद्रैर्गुणयेच्चतुर्भिः।
नवाष्टपञ्चाष्ट८५८९युतानि कृत्वा
विभाजयेच्छून्यशरागरामैः ३७५० ॥२०॥
लब्धेन युक्तं शकभूपकालं
संशोध्य षष्ट्या विषयैर्विभज्य।
युगानि नारायणपूर्वकाणि
लब्धानि शेषाः क्रमशः समाः स्युः ॥२१॥
एकैकमब्देषु नवाहतेषु दत्त्वा पृथग् द्वादशकं क्रमेण।
हृत्वा चतुर्भिर्वसुदेवताद्यान्युडूनि शेषांशकपूर्वमब्दम् ॥२२॥
शकादित्य (शालिवाहन) नृप के समय से जितने वर्ष बीते हों, उनको ग्यारह से
गुणा कर गुणनफल को फिर चार से गुणा करे। उस गुणनफल में ८५८९ जोड़कर ३७५०
से भाग देने पर जो लब्धि मिले, उसमें शकाब्द जोड़ कर ६० का भाग देने पर जो शेष बचे,
उसमें पाँच का भाग दे। लब्ध गत युग और शेष वर्तमान युग के वर्ष आदि होंगे एवं उक्त
वर्षों की संख्या को १२ से भाग दे और भागफल को नवगुणित अङ्क में मिलाकर ४ का
भाग करने पर जो लब्धि हो, उतनी संख्या के नक्षत्रों में बृहस्पति की मान्यता समझे; परन्तु
गणना के समय २४ वें नक्षत्र से गणना करनी चाहिए अर्थात् १ लब्धि हो तो २५वाँ
(पूर्वाभाद्रपद) और २ लब्धि हो तो २६वाँ (उत्तराभाद्रपदा) नक्षत्र समझना चाहिये।
उदाहरण—जैसे शाके १८७६ में संवत्सर का आनयन करना है तो १८७६ को ११
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

से गुणा कर गुणनफल २०६३६ को फिर ४ से गुणा किया तो ८२५४४ हुआ; इसमें ३७५०
का भाग देने से लब्ध वर्ष २४, शेष वर्ष ११३३ को १२ से गुणा कर गुणनफल १३५९६
में भाजक ३७५० का भाग देने से लब्ध मास ३, मासशेष २३४६ को ३० से गुणा कर
गुणनफल ७०३८० में भाजक ३७५० का भाग देने से लब्ध दिन १८, दिनशेष २८८० को
६० से गुणा कर गुणनफल १७२८०० में भाजक ३७५० का भाग देने से लब्ध घटी ४६,
घटीशेष ३०० को ६० से गुणा कर गुणनफल १८००० में भाजक ३७५० का भाग देने से
लब्ध पला ४, पलाशेष ३००० 'अर्धाधिके रूपं ग्राह्यम्' इस नियम से लब्ध पला ५ हुआ।
अतः वर्ष आदि लब्धि = ( २४ । ३ । १८ । ४६ । ५ ) इतनी हुई, इसमें इष्ट शकाब्द १८७६
जोड़ा तो १९०० । ३ । १८ । ४६ । ५ हुआ। इसके वर्षस्थान १९०० में ६० का भाग देने से
लब्धि ३१ और शेष षष्ट्यब्द प्रमाण—४० । ३ । १८ । ४६ । ५ रहा, अतः ४०वें संवत्सर के
अग्रिमस्थ ४१वाँ संवत्सर 'प्लवङ्ग' नाम का इष्ट शकाब्द १८७६ में सिद्ध हुआ। इस ४० ।
३ । १८ । ४६ । ५ में ५ का भाग देने से लब्धि ८ और शेष ० । ३ । १८ । ४६ । ५ रहा। अतः
नवम युग ( सोम ) में वर्ष आदि ० । ३ । १८ । ४६ । ५ बीता है॥२०-२२॥
शका नाम म्लेच्छजातयो राजानस्ते यस्मिन् काले विक्रमादित्यदेवेन व्यापादिताः
स कालो लोके शक इति प्रसिद्धः। तस्माच्छकेन्द्रकालात् शकनृपवधादारभ्याभीष्टवर्षं
यावद् यानि वर्षाणि गतान्यतीतानि तानि संस्थाप्य हतानि रुद्रैरेकादशभिर्गुणयेत्, ततः
पुनरपि चतुर्भिर्गुणयेत्। एवं चतुश्चत्वारिंशता गुणितानि भवन्तीत्यर्थः। ततो नवाष्टपञ्चाष्टयुतानि
कार्याणि। अष्टभिः सहस्रैः पञ्चभिः शतैरेकोननवत्यधिकैरित्यर्थः ८५८९। एवं कृत्वा
ततः शून्यशरागारामैर्विभाजयेत्। त्रिभिः सहस्रैः सप्तभिः शतैः सार्द्धैरित्यर्थः ३७५०।
एतैर्भागमपह shape? एतैर्भागमपह shape -> एतैर्भागमपहरेत्, लब्धं फलं वर्षाणि। तान्येव बृहस्पतिराशयः। शेषं त्रिंशता सङ्गुण्य
तेनैव छेदेन विभज्यावाप्तं भागा राशीनामधः स्थाप्याः। भागशेषं षष्ट्या सङ्गुण्य तेनैव
छेदेन भागमपहृत्यावाप्तं लिप्ता भागानामधः स्थाप्याः। भागशेषं षष्ट्या सङ्गुण्य तेनैव
छेदेन भागमपहृत्यावाप्तं विलिप्ता लिप्तानामधः स्थाप्याः।
लब्धेन युक्तमिति। ततस्तेन लब्धेन राश्यादिना फलेन शकभूपकालं शकनृपसमयं
युक्तं कार्यम्। वर्षेषु राशयः क्षेप्याः शेषमधः स्थापयेत्। यतस्तानि वर्षरूपाण्येव गुरो
राशयः सम्पन्नाः। ततः संशोध्य षष्ट्या। वर्षस्थाने योऽसौ राशिस्ततः षष्ट्या भागमपह shape? भागमपहरेत्।
लब्धमतीतषष्ट्यब्दाः। शेषं वर्तमानषष्ट्यब्दस्य गतवर्षाणि। यतो गुरो राशिभोग एव वर्षम्।
ततस्तान्यब्दान्यत्र विषयैः पञ्चभिर्विभज्य लब्धं वर्तमानषष्ट्यब्दस्यातीतयुगानि। एतानि
नारायणपूर्वकाणि विष्णुप्रभृतीनि भवन्ति। पञ्चभिर्भागे हते यच्छेषं तदेव वर्तमानयुगस्याब्दाः
सविकला गताः। शेषं पञ्चभ्यः संशोध्य यदवशिष्यते तावन्ति वर्षाणि तत्र भवन्ति।
अथ बृहस्पतिनक्षत्रज्ञानं तद्वशेन वर्षज्ञानमप्याह—एकैकमिति। वर्तमानषष्ट्यब्दस्य
ये गताः सविकला अब्दा अनष्टाः पृथक् स्थापिताः। तान् सविकलान् पृथगेकत्र नवभिर्गुणयेत्,
ततो द्वितीयस्थानस्थेभ्यो वर्तमानषष्ट्यब्दगतवर्षेभ्यो द्वादशभागं वर्षादिकं गृहीत्वा नवगुणि-

१७२ बृहत्संहिता
ष्ष्वब्देषु योजयेत्। यत उक्तम्—एकैकमब्देषु नवाहतेषु दत्त्वा पृथग् द्वादशकं क्रमेणेति।
द्वादशभिर्द्वादशभिर्वर्षैरैकैकं योजयेत्। वर्षस्थाने द्वादशभिर्भागमपहृत्य लब्धं वर्षाणि त
एव राशयः। शेषं त्रिंशता षष्ट्या षष्ट्या च सङ्गुण्य विकलासहितं कृत्वा प्राग्वद् भागा-
द्यानीय तत्र राशीनामधः स्थापयित्वा द्वादशभागं नवाहतेष्वब्देषु योजयेद्यथास्थानमेव।
ततः स्वच्छेदर्भागमपहृत्यावाप्तं यथास्थानमुपर्युपरि योजयेत्। ततस्तत्र चतुर्भिर्भागमपहृत्य
यल्लब्धं तान्युडूनि नक्षत्राणि वसुदेवताद्यानि धनिष्ठादीनि भवन्ति। शेषं स्थाप्यम्। लब्धस्य
सप्तविंशत्यावशेषाङ्कसमं धनिष्ठादिकं नक्षत्रं वक्तव्यम्। तत्र चतुर्भिर्भागे हृते यच्छेषं स्थापितं
तदंशकपूर्वमब्दं भवति। लब्धसंख्यनक्षत्रात् पर

नक्षत्राणि सविकलानि भवन्ति। तेषां च धनिष्ठादिका गणना। यतो धनिष्ठास्थे गुरौ
षष्ट्यब्दप्रवृत्तिः। यतो वक्ष्यति 'आद्यं धनिष्ठांशम्' इत्यादि। अर्थदिवाशेषं भोग्यनक्षत्रपादा
भवन्तीति॥२०-२२॥
अधुना द्वादशानां षष्ट्यब्दावस्थितानां युगानां नामान्याह—
विष्णुः सुरेज्यो बलभिद्धुताशस्त्वष्टोत्तरप्रोष्ठपदाधिपश्च।
क्रमाद्युगेशाः पितृविश्वसोमशक्रानलाख्याश्विभगाः प्रदिष्टाः ॥२३॥
विष्णु, सुरेज्य ( बृहस्पति ), बलभित् ( इन्द्र ), हुताश ( अग्नि ), त्वष्टा ( प्रजापति ),
उत्तरप्रोष्ठपदाधिप ( अहिर्बुध्न्य ), पिता, विश्वेदेव, सोम, शक्रानल ( इन्द्राग्नि ), अश्वि
( अश्विनीकुमार ), भग ( सूर्य )—ये बारह पूर्वकथित बारह युगों के स्वामी हैं॥२३॥
विष्णुर्नारायणः प्रथमयुगम्। सुरेज्यो बृहस्पतिर्द्वितीययुगम्। बलभिदिन्द्रस्तृतीयम्।
हुताशोऽग्निश्चतुर्थम्। त्वष्टा नाम प्रजापतिः पञ्चमम्। उत्तरप्रोष्ठपदाधिपोऽहिर्बुध्न्यः षष्ठम्।
पिता सप्तमम्। विश्वेऽष्टमम्। सोमो नवमम्। शक्रानल इन्द्राग्निर्दशमम्। अश्विसंज्ञमेकादशम्।
भगः सूर्यो द्वादशम्। एते देवविशेषा द्वादश क्रमादानुपूर्व्येण युगेशा युगस्वामिनः
प्रदिष्टा उक्ताः। तथा च समाससंहितायाम्—
विष्णुगुरुशक्रहुतभुक्त्वष्टाहिर्बुध्न्यपित्र्यविश्वानि।
सौम्यमथेन्द्राग्न्याख्यं त्वाश्विनमपि भाग्यसंज्ञं च॥ इति॥२३॥
अत्र युगे युगे पञ्च वर्षाणि भवन्ति। तेषां नाम दैवतं च प्रत्येकस्याह—
संवत्सरोऽग्निः परिवत्सरोऽर्क इदादिकः शीतमयूखमाली।
प्रजापतिश्चाप्यनुवत्सरः स्यादिद्वत्सरः शैलसुतापतिश्च ॥२४॥
संवत्सर, परिवत्सर, इदावत्सर, अनुवत्सर, इद्वत्सर—ये प्रत्येक युग में पाँच-पाँच
संवत्सर होते हैं। इनके स्वामी क्रम से अग्नि, सूर्य, चन्द्र, प्रजापति और शिव हैं। जैसे
संवत्सर का स्वामी अग्नि, परिवत्सर का स्वामी सूर्य, इदावत्सर का स्वामी चन्द्र, अनुवत्सर
का स्वामी प्रजापति और इद्वत्सर का स्वामी शिव है॥२४॥
संवत्सरपरिवत्सरेदाद्यनुवत्सरेद्वत्सराख्यानि पञ्च वर्षाणि भवन्ति। तत्र यः संवत्सरः
प्रथमोऽब्दः सोऽग्निदैवत्यः। परिवत्सरो द्वितीयः सोऽर्कदैवत्यः सूर्याधिपः। यश्चेदादिकः
इदाशब्द आदौ यस्य स इदावत्सरस्तृतीयस्तस्य शीतमयूखमाली चन्द्रोऽधिपतिः। योऽनु-
वत्सरश्चतुर्थस्तस्य प्रजापतिर्ब्रह्माऽधिपतिः। य इद्वत्सरः पञ्चमस्तस्य शैलसुतापतिरुमाभर्ता
रुद्र इति। अत्र दैवतकथनेन किं प्रयोजनम्? उच्यते—यथा युगानामधिपतय उक्तास्तथा
वर्षाणामपि। तस्मिन् वर्षे तस्या देवताया यागः सम्पत्त्यर्थं वेदे पठ्यते। तदर्थं दैवत-
कथनमिति॥२४॥
अथैतेषां फलान्याह—
वृष्टिः समाद्ये प्रमुखे द्वितीये प्रभूततोया कथिता तृतीये।
पश्चाज्जलं मुञ्चति यच्चतुर्थं स्वल्पोदकं पञ्चममब्दमुक्तम् ॥२५॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

१७४ बृहत्संहिता
संवत्सर नामक वर्ष में मध्यम रूप से ( जैसे—श्रावण, भाद्रपद, आश्विन, कार्तिक—
इन चारों मासों में समान ) वृष्टि होती है, परिवत्सर नामक वर्ष में आद्य भाग में ( श्रावण,
भाद्र में ) एवं इदावत्सर नामक वर्ष में चारों मासों में बहुत वृष्टि होती है। अनुवत्सर
नामक वर्ष में अन्त में ( आश्विन और कार्तिक में ) वृष्टि होती है और इद्वत्सर नामक वर्ष
में थोड़ी वृष्टि होती है।।२५।।
आद्ये संवत्सराख्ये वर्षे समा वृष्टिर्भवति, न चातिबह्वी न चात्यल्पा। श्रावणभाद्र-
पदाऽश्वयुजकार्तिकमासेषु चतुर्ष्वपि तुल्या भवतीत्यर्थः। द्वितीये परिवत्सरे प्रमुखे प्रथमभागे
आदावेव वृष्टिर्भवति न पश्चात्। श्रावणभाद्रपदयोर्भवति नाश्वयुजकार्तिकयोरित्यर्थः।
तृतीये इदावत्सरे प्रभूततोया बहुजला वृष्टिर्भवति चतुर्ष्वपि मासेषु। यच्चतुर्थवर्षमनुवत्सराख्यं
तत्पश्चादन्ते जलं मुञ्चति वर्षति। न प्रथममाश्वयुजकार्तिकयोर्न श्रावणभाद्रपदयोरित्यर्थः।
यत्पञ्चममब्दं वर्षमिद्वत्सराख्यं तत्स्वल्पोदकमल्पजलमुक्तं कथितं चतुर्ष्वपि मासेषु।।२५।।
अधुना युगान्युत्तममध्यमाधमान्याह—
चत्वारि मुख्यानि युगान्यथैषां
विष्ण्विन्द्रजीवानलदैवतानि ।
चत्वारि मध्यानि च मध्यमानि
चत्वारि चान्त्यान्यधमानि विन्द्यात् ।।२६।।
पूर्वकथित बारह युगों में विष्णु, इन्द्र, बृहस्पति और अग्नि जिनके देवता हैं, वे उत्तम,
मध्य के चार ( प्रजापति, उत्तरप्रौष्ठपदाधिप, पिता और विश्वेदेव ) जिनके देवता हैं, वे
मध्यम और अन्त के चार ( सोम, शक्रानल, अश्वि और सूर्य ) जिनके देवता हैं, वे अशुभ
होते हैं।।२६।।
एषां द्वादशानां युगानां मध्याच्चत्वारि युगानि मुख्यानि उत्तमफलानि प्रयच्छन्ति।
अथशब्दः पादपूरणे चार्थे वा। कानि तानि? विष्णुः। इन्द्रः। जीवो बृहस्पतिः। अनलोऽग्निः।
विष्णुदैवतं प्रथमम्। इन्द्रदैवतं तृतीयम्। बृहस्पतिदैवतं द्वितीयम्। अग्निदैवतं चतुर्थम्।
एतानि मुख्यानि। तथा चत्वारि युगानि मध्यानि मध्यमान्येव मध्यफलानि न शुभानि
नाप्यशुभानि। कानि च तानि? त्वष्टृदैवतम्। अहिर्बुध्न्यदैवतम्। पितृदैवतम्। विश्वदैवतम्।
एतानि मध्यफलानि। तथा चान्त्यानि चत्वारि। सोमदैवतम्। इन्द्राग्निदैवतम्। अश्विदैवतम्।
भगाख्यदैवतम्। एतान्यधमानि दुष्टफलानि विन्द्याज्जानीयात्। तथा च समाससंहितायाम्—
चत्वारि युगान्यादौ शुभानि मध्यानि मध्यमफलानि।
चत्वार्यन्त्यानि न शोभनानि वर्षैर्विशेषोऽत्र।। इति।।२६।।
अधुना षष्ट्यब्दपूर्वस्य प्रभवाख्यस्याब्दस्य प्रवृत्तिकालमाह—
आद्यं धनिष्ठांशमभिप्रपन्नो माघे यदा यात्युदयं सुरेज्यः ।
षष्ट्यब्दपूर्वः प्रभवः स नाम्ना प्रपद्यते भूतहितस्तदाब्दः ।।२७।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

बृहस्पतिचाराध्यायः १७५
जब धनिष्ठा के प्रथम अंश में स्थित होकर बृहस्पति माघ मास में उदित होता है, उस
समय से षष्ट्यब्दों में प्रथम प्रभव नामक वर्ष का प्रारम्भ होता है। यह वर्ष प्राणियों के लिये
हितकारी होता है॥२७॥
सुरेज्यो बृहस्पतिः। आद्यं प्रथमं धनिष्ठांशं धनिष्ठायाः प्रथमपादमभिप्रपन्नस्तत्र
स्थितो माघे मासे यदा यस्मिन् काले उदयं याति सूर्यमण्डलादुद्गच्छति तदा तस्मिन्
काले षष्ट्यब्दपूर्वः षष्ट्यब्दस्य प्रथमोऽब्दः। स च प्रभवो नाम्ना प्रभवसंज्ञः प्रपद्यते प्रवर्तते।
तस्य प्रारम्भो भवतीत्यर्थः। एतच्चान्द्रेण मानेन यो मासस्तत्र सम्भवति न सौरमानेन।
यतः कृतदृक्कर्मद्वयो गुरुर्यदा राशिनवकाद्भागत्रयोविंशतेर्लिप्ताविंशतेश्चार्वाग्भवति, सूर्यश्च
राशिदशकं षड् भागान् द्वादशलिप्ताश्च भुक्त्वा स्थितो भवति, तदैतत्सम्भवति नान्यत्रेति।
कीदृशोऽब्दः? भूतहितो भूतानां सत्त्वानां हितोऽनुकूल इति॥२७॥
तथा च स्वरूपमाह—
क्वचित्त्ववृष्टिः पवनाग्निकोपः
सन्तीतयः श्लेष्मकृताश्च रोगाः।
संवत्सरेऽस्मिन् प्रभवे प्रवृत्ते
न दुःखमाप्नोति जनस्तथापि ॥२८॥
यद्यपि प्रभव संवत्सर में कहीं-कहीं पर अवृष्टि, कहीं-कहीं पर वायु का प्रकोप, कहीं
कहीं पर अग्नि का कोप, कहीं-कहीं पर अतिवृष्टि आदि छः ईतियों का भय और कहीं-
कहीं पर कफजन्य रोग होते हैं, तथापि संसारस्थित प्राणियों को विशेष कष्ट का अनुभव
नहीं होता है॥२८॥
अस्मिन् प्रभवाख्ये संवत्सरे वर्षे प्रवृत्ते प्रतिपन्ने सति क्वचित्त्ववृष्टिरवर्षणं भवति
न सर्वत्र। तथा पवनाग्निकोपः। पवनो वायुः। अग्निर्हुताशनः। वायुप्रकोपोऽग्निप्रकोपश्च
क्वचिद् भवति। तथा ईतयोऽतिवृष्ट्यादय उपद्रवाः सन्ति भवन्ति। श्लेष्मकृताः कफोत्पन्नाश्च
रोगा गदाश्च क्वचिद् भवन्ति। तथापि जनो लोको न दुःखं कृच्छ्रमाप्नोति लभते॥२८॥
अथान्येष्वब्देषु नामानि फलं चाह—
तस्माद् द्वितीयो विभवः प्रदिष्टः शुक्लस्तृतीयः परतः प्रमोदः।
प्रजापतिश्चेति यथोत्तराणि शस्तानि वर्षाणि फलान्यथैषाम् ॥२९॥
निष्पन्नशालीक्षुयवादिसस्यां भयैर्विमुक्तामुपशान्तवैराम्।
संहृष्टलोकां कलिदोषमुक्तां क्षत्रं तदा शास्ति च भूतधात्रीम् ॥३०॥
इसके बाद दूसरे वर्ष का नाम विभव, तीसरे का शुक्ल, चौथे का प्रमोद और पाँचवें
वर्ष का नाम प्रजापति है। ये चारो वर्ष उत्तरोत्तर शुभ फल देने वाले होते हैं। इन वर्षों में राजाओं
की शासनपद्धति ऐसी होती है, जिससे धान्य, ईख, यव आदि अन्न अच्छी तरह पककर सुन्दर
फल देने वाले होते हैं तथा सभी प्राणी निर्भय, द्वेषरहित, आनन्दयुत और कलि के दोष
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA