बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 1 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 229, कुल 728 में से
संदर्भ में पढ़ेंशुक्रचाराध्यायः १८९
भगोजारद्गवाख्यासु मध्यमफलदः । न शुभं नाप्यशुभं फलं करोति । तथा च दक्षिणस्थासु
वीथिषु मृगाजदहनाख्यासु कष्टफलोऽनिष्टफल इति। तथा च गर्गः—
उदयास्तमयं कुर्यान्मार्गमुत्तरमाश्रितः।
सुभिक्षं च सुवृष्टिं च योगक्षेमं विनिर्दिशेत्।।
उदयास्तमयं कुर्यात् मध्यमं मार्गमाश्रितः।
मध्यमं चार्थसस्यं च योगक्षेमं विनिर्दिशेत्।।
उदयास्तमयं कुर्याद्दक्षिणं मार्गमाश्रितः।
धान्यस्य संग्रहं कृत्वा केदारेषु तिलान् वपेत्।।
तथा च पराशरः—
‘तत्र नागवीथीगतो नागाश्रितांश्च पीडयति गजकुलानि गजवीथ्याम्। ऐरावत्यां नृपति-
बलविरोधः। आर्षभ्यां वयोवित्तज्ञानबलाधिकसस्यपीडा श्लेष्मव्याधिप्रादुर्भावश्च। गोवीथ्यां
सस्यगोमतां हानिर्जरद्गववीथ्यां शास्त्रविदाम्। मृगवीथ्यां मृगव्याधिः सस्यतपस्विनामपि
रोगोद्भवश्च। अजवीथ्यां सस्यवर्षब्रह्मचारिणामाधिक्यम्। दहनवीथ्यां सस्यविलयनमग्नि-
पित्तव्याधिसम्भवश्च'।।८।।
अथाऽऽसामपि विशेषफलमाह—
अत्युत्तमोत्तमोनं सममध्यन्यूनमधमकष्टफलम् ।
कष्टतरं सौम्याद्यासु वीथिषु यथाक्रमं ब्रूयात् ॥९॥
नाग आदि नव वीथियों में क्रम से अत्युत्तम, उत्तम, ऊन, ( कुछ कम शुभ फल ),
सम, मध्यम, न्यून ( किञ्चित् शुभ फल ), अधम, कष्ट और कष्टतम फल होते हैं। जैसे
नागवीथी में अत्युत्तम, गजवीथी में उत्तम, ऐरावतवीथी में ऊन, वृषवीथी में सम, गोवीथी
में मध्यम, जरद्गववीथी में न्यून, मृगवीथी में अधम, अजवीथी में कष्ट और दहनवीथी में
कष्टतम फल होता है ।।९।।
सौम्याद्यासु उदगाशाद्यासु वीथिषु नागाद्यासु नवसु यथाक्रमं परिपाट्याऽनेन प्रकारेण
फलमिदं ब्रूयाद्वदेत्। तद्यथा—नागायामत्युत्तममतिशुभं फलम्। गजाख्यायां वीथ्यामुत्तमं
शुभफलं किञ्चिदूनं पूर्वापेक्षया। एवमूनं किञ्चिच्छुभफलमैरावत्याम्। समं मध्यमं फलमृष-
भवीथ्याम्। मध्यममेव गोवीथ्याम्। न्यूनमीषदशुभं जारद्गव्याम्। अधममनिष्टं मृगवीथ्याम्।
कष्टमशुभमजवीथ्याम्। कष्टतरमतिकष्टं दहनवीथ्याम्।।९।।
अथ शुक्रस्य षण्मण्डलानि भवन्ति। तेषां लक्षणं सफलमाह—
भरणीपूर्वं मण्डलमृक्षचतुष्कं सुभिक्षकरमाद्यम् ।
वङ्गाङ्गमहिषबाह्निककलिङ्गदेशेषु भयजननम् ॥१०॥
अत्रोदितमारोहेद् ग्रहोऽपरो यदि सितं ततो हन्यात् ।
भद्राश्वशूरसेनकयौधेयककोटिवर्षनृपान् ॥११॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA