बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 1 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 204, कुल 728 में से
संदर्भ में पढ़ें१६४ बृहत्संहिता
कार्तिकः प्रचुरातङ्कः क्षुच्छस्त्राग्निभयप्रदः।
गोशाकटिकपीडां च करोत्येवमवृष्टिदः।। इति।।३।।
अथ मार्गशीर्ष आह—
सौम्येऽब्देऽनावृष्टिर्मृगाखुशलभाण्डजैश्च सस्यवधः ।
व्याधिभयं मित्रैरपि भूपानां जायते वैरम् ॥४॥
मार्गशीर्ष वर्ष में अनावृष्टि होती है। जंगली जानवर, चूहा, शलभ ( टीढी ) और
पक्षियों से धान्य का नाश होता है। मनुष्यों में व्याधि का भय होता है तथा मित्रों से भी
राजाओं को द्वेष होता है।।४।।
सौम्ये मार्गशीर्षेऽब्दे अनावृष्टिर्भवति। मृगा अरण्यपशवः, आखवो मूषकाः, शलभाः
प्राणिनः कीटजातयः, अण्डजाः पक्षिणः—एतैः सस्यानां वधो नाशो भवति। तथा व्याधिभयं
रोगभीतिः। भूपानां राज्ञां मित्रैरपि सुहृद्भिरपि वैरमप्रीतिर्जायत उत्पद्यते। किं पुनः शत्रुभिः
सह न भवेदिति। तथा च गर्गः—
वर्षहन्ता व्याधिकरो मिथो भेदभयावहः।
शलभाद्याकुलः सौम्यो दुर्भिक्षभयकारकः।। इति।।४।।
अथ पौष आह—
शुभकृज्जगतः पौषो निवृत्तवैराः परस्परं क्षितिपाः ।
द्वित्रिगुणो धान्यार्घः पौष्टिककर्मप्रसिद्धिश्च ॥५॥
पौष वर्ष में संसार का शुभ होता है, राजा लोग पारस्परिक द्वेष त्याग देते हैं, धान्य का
मौल्य द्विगुणित या त्रिगुणित हो जाता है एवं पौष्टिक कर्म की सिद्धि होती है।।५।।
पौषोऽब्दो जगतो लोकस्य शुभकृच्छुभमिष्टं करोति। क्षितिपा राजानः परस्परमन्योन्यं
निवृत्तवैरा विगतद्वेषा भवन्ति। धान्यस्यार्घो द्विगुणस्त्रिगुणो वा भवति। धान्यस्य यन्मूल्य-
मासीत्तेनैव द्विगुणं त्रिगुणं वा धान्यं लभ्यते। तथा पौष्टिककर्मणां पुष्टिदानां कार्याणां प्रसिद्धि-
र्भवति। अतिशयेन भवतीत्यर्थः। तथा च गर्गः—
प्रशान्तव्याधिदुर्भिक्षदुर्वर्षशनितस्करः ।
सर्वलक्षणसम्पन्नः पौषः संवत्सरोत्तमः।। इति।।५।।
अथ माघ आह—
पितृपूजापरिवृद्धिर्माघे हार्दिश्च सर्वभूतानाम् ।
आरोग्यवृष्टिधान्यार्घसम्पदो मित्रलाभश्च ॥६॥
माघ नामक वर्ष में पितरों की पूजा की वृद्धि, सभी प्राणियों को तुष्टि, आरोग्य, सुन्दर
वृष्टि, धान्यों के मौल्य में समता और मित्रों का लाभ होता है।।६।।
माघे पितॄणां पूजापरिवृद्धिर्भवति। अत्यर्थं जनाः पितृपूजाकर्मणि रता भवन्तीत्यर्थः।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA