बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 1 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 199, कुल 728 में से
संदर्भ में पढ़ेंबुधचाराध्यायः १५९
सौम्ये बुधेऽस्तगते सूर्यमण्डलस्थे यानि पुराणि नगराणि रुद्धानि शत्रुभिर्वेष्टितानि
तानि तस्मिन्नेवोद्गते उदिते रविमण्डलान्निष्क्रान्ते मोक्षमुपयान्ति प्राप्नुवन्ति, ततो रोद्धा
चलतीत्यर्थः। अन्ये त्विति। अन्ये तु पुनस्तज्ज्ञाः पण्डिता नन्दिप्रभृतयः पश्चादुदिते बुधे
पश्चिमायां दिश्युद्गते पुराणां लाभो लब्धिर्भवतीति वदन्ति कथयन्ति। लाभश्चाभियोक्तुर्भवति।
अन्यथोदिते पुरपतेरेव। तथा च नन्दी—
पश्चार्द्धादुदिते सौम्ये लभते पुररोधकः।
पुनः प्रागुदिते तस्मिन् पुरमोक्षं विनिर्दिशेत्।। इति।।१९।।
अथास्य बिम्बलक्षणमाह—
हेमकान्तिरथवा शुकवर्णः सस्यकेन मणिना सदृशो वा।
स्निग्धमूर्त्तिरलघुश्च हिताय व्यत्यये न शुभकृच्छशिपुत्रः ॥२०॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां
बुधचाराध्यायः सप्तमः ॥७॥
सुवर्ण के समान कान्ति वाला, तोता पक्षी के समान वर्ण वाला, धान्य अथवा नील-
मणि के सदृश और निर्मल तथा विस्तीर्ण बुध का विम्ब दिखाई दे तो संसार के हित के
लिये होता है। इसके विपरीत वर्ण का दिखाई दे तो अशुभ करने वाला होता है॥२०॥
इति 'विमला'हिन्दीटीकायां बुधचाराध्यायः सप्तमः ॥७॥
हेमकान्तिः सुवर्णाभः, अथवा शुकवर्णः शुककान्तिर्नीलपीतवर्ण इत्यर्थः। सस्यकेन
मणिना नीलवर्णेन सदृशस्तुल्यो वा। तथा स्निग्धमूर्त्तिर्निर्मलदेहः। अलघुश्च विस्तीर्णबिम्बः।
एवंविधः शशिपुत्रो बुधो लोकानां हिताय श्रेयसे भवति। व्यत्यये उक्तविपर्यये न शुभकृन्न
शुभकरः। तथा च पराशरः—'विमलजलरजतस्फटिकाभः प्रशस्यते' इति॥२०॥
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ
बुधचारो नाम सप्तमोऽध्यायः ॥७॥
CC-0. JK Sanskrit Academy, Jammnu. Digitized by S3 Foundation USA