सामग्री पर जाएँ
सर्वकोश
बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 1 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished728 पृष्ठ

पृष्ठ 213, कुल 728 में से

संदर्भ में पढ़ें
पृष्ठ 213

नक्षत्राणि सविकलानि भवन्ति। तेषां च धनिष्ठादिका गणना। यतो धनिष्ठास्थे गुरौ
षष्ट्यब्दप्रवृत्तिः। यतो वक्ष्यति 'आद्यं धनिष्ठांशम्' इत्यादि। अर्थदिवाशेषं भोग्यनक्षत्रपादा
भवन्तीति॥२०-२२॥
अधुना द्वादशानां षष्ट्यब्दावस्थितानां युगानां नामान्याह—
विष्णुः सुरेज्यो बलभिद्धुताशस्त्वष्टोत्तरप्रोष्ठपदाधिपश्च।
क्रमाद्युगेशाः पितृविश्वसोमशक्रानलाख्याश्विभगाः प्रदिष्टाः ॥२३॥
विष्णु, सुरेज्य ( बृहस्पति ), बलभित् ( इन्द्र ), हुताश ( अग्नि ), त्वष्टा ( प्रजापति ),
उत्तरप्रोष्ठपदाधिप ( अहिर्बुध्न्य ), पिता, विश्वेदेव, सोम, शक्रानल ( इन्द्राग्नि ), अश्वि
( अश्विनीकुमार ), भग ( सूर्य )—ये बारह पूर्वकथित बारह युगों के स्वामी हैं॥२३॥
विष्णुर्नारायणः प्रथमयुगम्। सुरेज्यो बृहस्पतिर्द्वितीययुगम्। बलभिदिन्द्रस्तृतीयम्।
हुताशोऽग्निश्चतुर्थम्। त्वष्टा नाम प्रजापतिः पञ्चमम्। उत्तरप्रोष्ठपदाधिपोऽहिर्बुध्न्यः षष्ठम्।
पिता सप्तमम्। विश्वेऽष्टमम्। सोमो नवमम्। शक्रानल इन्द्राग्निर्दशमम्। अश्विसंज्ञमेकादशम्।
भगः सूर्यो द्वादशम्। एते देवविशेषा द्वादश क्रमादानुपूर्व्येण युगेशा युगस्वामिनः
प्रदिष्टा उक्ताः। तथा च समाससंहितायाम्—
विष्णुगुरुशक्रहुतभुक्त्वष्टाहिर्बुध्न्यपित्र्यविश्वानि।
सौम्यमथेन्द्राग्न्याख्यं त्वाश्विनमपि भाग्यसंज्ञं च॥ इति॥२३॥
अत्र युगे युगे पञ्च वर्षाणि भवन्ति। तेषां नाम दैवतं च प्रत्येकस्याह—
संवत्सरोऽग्निः परिवत्सरोऽर्क इदादिकः शीतमयूखमाली।
प्रजापतिश्चाप्यनुवत्सरः स्यादिद्वत्सरः शैलसुतापतिश्च ॥२४॥
संवत्सर, परिवत्सर, इदावत्सर, अनुवत्सर, इद्वत्सर—ये प्रत्येक युग में पाँच-पाँच
संवत्सर होते हैं। इनके स्वामी क्रम से अग्नि, सूर्य, चन्द्र, प्रजापति और शिव हैं। जैसे
संवत्सर का स्वामी अग्नि, परिवत्सर का स्वामी सूर्य, इदावत्सर का स्वामी चन्द्र, अनुवत्सर
का स्वामी प्रजापति और इद्वत्सर का स्वामी शिव है॥२४॥
संवत्सरपरिवत्सरेदाद्यनुवत्सरेद्वत्सराख्यानि पञ्च वर्षाणि भवन्ति। तत्र यः संवत्सरः
प्रथमोऽब्दः सोऽग्निदैवत्यः। परिवत्सरो द्वितीयः सोऽर्कदैवत्यः सूर्याधिपः। यश्चेदादिकः
इदाशब्द आदौ यस्य स इदावत्सरस्तृतीयस्तस्य शीतमयूखमाली चन्द्रोऽधिपतिः। योऽनु-
वत्सरश्चतुर्थस्तस्य प्रजापतिर्ब्रह्माऽधिपतिः। य इद्वत्सरः पञ्चमस्तस्य शैलसुतापतिरुमाभर्ता
रुद्र इति। अत्र दैवतकथनेन किं प्रयोजनम्? उच्यते—यथा युगानामधिपतय उक्तास्तथा
वर्षाणामपि। तस्मिन् वर्षे तस्या देवताया यागः सम्पत्त्यर्थं वेदे पठ्यते। तदर्थं दैवत-
कथनमिति॥२४॥
अथैतेषां फलान्याह—
वृष्टिः समाद्ये प्रमुखे द्वितीये प्रभूततोया कथिता तृतीये।
पश्चाज्जलं मुञ्चति यच्चतुर्थं स्वल्पोदकं पञ्चममब्दमुक्तम् ॥२५॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA