सामग्री पर जाएँ
सर्वकोश
बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 1 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished728 पृष्ठ

पृष्ठ 197, कुल 728 में से

संदर्भ में पढ़ें
पृष्ठ 197

बुधचाराध्यायः १५७
अप्राप्य मकरमर्को विनिवृत्तो हन्ति सापरां याम्याम्।
कर्कटकमसम्प्राप्तो विनिवृत्तश्चोत्तरां सैन्द्रीम्।।
तथा च ऋषिपुत्रेणोक्तम्—
उन्मार्गस्थानमार्गस्था ग्रहाः कुर्वन्ति पार्थिवान्।
मार्गवन्तश्च मार्गस्थान् कुर्वन्ति वसुधाधिपान्।।
सत्पथप्रतिपन्नेषु पार्थिवेषु भवन्ति हि।
प्रजाः सत्पथमापन्ना विपर्यासे विपर्ययः।।
आसां प्रमाणमाह—पञ्चचतुर्द्व्येकाहा इति। उदयप्रवासदिवसैरित्यनुवर्तते। पञ्च-
चतुर्द्व्येकाहाः षडभ्यस्ताः षड्गुणितास्त्रिंशदादीनि भवन्ति। एतानि ऋज्व्यादीनां प्रमाणम्।
एतदुक्तं भवति—यदा बुधस्त्रिंश३०दिनानि उदितस्तिष्ठत्यस्तमितो वा तदा सा ऋज्वीनाम्नी
बुधस्य गतिः। एवमन्यासामपि ज्ञेयम्। तेन चत्वारः षडभ्यस्ताः चतुर्विंशतिः २४। चतुर्विंश-
दिनान्यतिवक्रायाः प्रमाणम्। द्वौ षडभ्यस्तौ द्वादश १२। द्वादशदिनानि वक्रायाः प्रमाणम्।
एकाहः षडभ्यस्तः षड्दिनानि ६ भवन्ति। एतानि विकलायाः प्रमाणम्।।१५।।
अथाऽऽसां फलान्याह—
ऋज्वी हिता प्रजानामतिवक्राऽर्घं गतिर्विनाशयति ।
शस्त्रभयदा च वक्रा विकला भयरोगसञ्जननी ।।१६।।
ऋज्वी गति प्रजाओं का हित करने वाली, अतिवक्रा दुर्भिक्ष करने वाली, वक्रा
शस्त्रभय देने वाली तथा विकला भय और रोग प्रदान करने वाली होती है।।१६।।
ऋज्वी गतिः प्रजानां हिता शुभकरी। अतिवक्रा गतिरर्घं विनाशयति दुर्भिक्षं करोति।
वक्रा शस्त्रभयदा शस्त्रभयं संग्रामभीतिं करोति। विकला भयं भीतिं रोगान् गदांश्च सञ्जन-
यत्युत्पादयति। तथा च देवलः—
दिनानि त्रिंशदुदितस्तिष्ठेद्यदि च सोमजः।
ऋज्वी गतिः सा विज्ञेया प्रजानां हितकारिणी।।
चतुर्विंशद्दिनान्येवं यदि तिष्ठेच्च सोमजः।
अतिवक्रा गतिर्ज्ञेया दुर्भिक्षगतिलक्षणा।।
अहानि द्वादश यदा बुधस्तिष्ठेत्तथोद्गतः।
वक्राः गतिः सा विज्ञेया शस्त्रसम्भ्रमकारिणी।।
षड् दिनानि यदा तिष्ठेदुद्गतः सोमनन्दनः।
विकला सा गतिर्ज्ञेया भयरोगविवर्धिनी।।
एवमस्तमये सर्वं गतिजं सोमजस्य तु।
भावाभावाय लोकानां फलं वाच्यं शुभाशुभम्।। इति।।१६।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA