सामग्री पर जाएँ
सर्वकोश
बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 1 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished728 पृष्ठ

पृष्ठ 200, कुल 728 में से

संदर्भ में पढ़ें
पृष्ठ 200

अथ बृहस्पतिचाराध्यायः
अथ बृहस्पतिचारो व्याख्यायते। तत्रादावेव महाकार्तिकादीनां षष्ट्यब्दवर्षाणां संज्ञा-
ज्ञापनार्थमाह—
नक्षत्रेण सहोदयमुपगच्छति येन देवपतिमन्त्री ।
तत्सञ्ज्ञं वक्तव्यं वर्षं मासक्रमेणैव ॥१॥
जिस नक्षत्र में रहते हुये बृहस्पति का उदय होता है, उस नक्षत्र के अनुसार द्वादश
मास की तरह द्वादश वर्ष भी होते हैं॥१॥
येन नक्षत्रेण सहोदयं याति सुरमन्त्री गुरुर्यस्मिन्नक्षत्रे स्थितः सूर्यमण्डलादुदयं दर्शनं
याति तन्नक्षत्रं गुरुसहितम्। अथवा येन नक्षत्रेण सहास्तं याति यस्मिन्नक्षत्रे स्थितः सूर्य-
मण्डले प्रविशति तत्संज्ञं तन्नामधेयं वर्षं वक्तव्यं लोके वाच्यम्। तच्च मासक्रमेणैव मास-
परिपाट्या। अनन्तरोक्तस्यार्थस्य नक्षत्रेण सहोदयमस्तं चेत्यस्य सन्देहव्युदासार्थमाह—
मासक्रमेणैव । अन्यमासनक्षत्रेण सहास्तं गतोऽन्यमासनक्षत्रेण सहोदितः। यथा रोहिणी-
स्थोऽस्तं गतो मृगशिरःस्थश्चोदयं गतस्तदानन्तराक्रान्तमाससंज्ञितक्रमेण वर्षं बोद्धव्यमिति।
ऋषिपुत्रादिभिरुदयनक्षत्रमाससंज्ञितक्रमेण वर्षं वक्तव्यमित्युक्तम्। तथा च ऋषिपुत्र आह—
यत्रोत्तिष्ठति नक्षत्रे सह येन प्रवर्धते।
संवत्सरः स विज्ञेयस्तन्नक्षत्रविधायकः ।।
तथा च काश्यपः—
संवत्सरे युगे चैव षष्ट्यब्देऽङ्गिरसः सुतः।
यन्नक्षत्रोदयं कुर्यात्तत्संज्ञं वत्सरं विदुः।।
प्रभवादीनामब्दानां प्रवृत्तिर्गुरोरुदयकालादित एव। यतो गुरुरत्राबाधितत्वेन स्थितः।
तथा च ऋषिपुत्र आह—
तिष्यादि च युगं प्राहुर्वसिष्ठात्रिपराशराः।
बृहस्पतेस्तु सौम्यान्तं सदा द्वादशवार्षिकम्।।
उदेति यस्मिन् मासे तु प्रवासोपगतोऽङ्गिराः।
तस्मात् संवत्सरो मासो बार्हस्पत्योऽथ गम्यते।। इति।
तथा च गर्गः—
प्रवासान्ते सहर्क्षेण तूदितो युगपच्चरेत्।
तस्मात् कालादृक्षपूर्वो गुरोरब्दः प्रवर्तते।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA