बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 1 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 201, कुल 728 में से
संदर्भ में पढ़ेंबृहस्पतिचाराध्यायः १६१
केचित् कृतिकादियुक्ते गुरौ यच्चन्द्रयुक्तं नक्षत्रं चैत्रमासादितो भवति, ततो महाकार्तिकादीनि
संवत्सराणि प्रभवादीनि च गणयन्ति। अपरे सौरमानेन गणयन्ति। तदयुक्तम्। यस्मात्
सौरं मानमधिकं गुरुमानात्। यदुत्कृष्टं मानं तत्स्वल्पतरमानेनानुमीयमानं बहुतरं भवति।
यथा—अष्टयवेनाङ्गुलेन ये पादोना एकाशीतिहस्तास्त एव सप्तयवेनानुमीयमाना हस्तशतं
भवन्ति। एवं सौरं मानं गुरुमानाच्चतुर्युगेण न्यूनं भवति। आचार्या-ऽऽर्यभटेन च प्रदर्शितम्—
गुरुभगणा राशिगुणा आश्वयुजाद्या गुरोरब्दाः।
गुरुभगणानां संख्या जिनयमवेदर्तुहव्यभुक्तुल्याः ३६४२२४।।
राशिगुणा इति। भगणे द्वादश राशयो भवन्ति तैर्गुणा द्वादशगुणा इत्यर्थः। द्वादशगुणा
गुरोरब्दाः। वस्वष्टरसाम्बराद्रिगुणवेदतुल्याः ४३७०६८८। रविभगणा एव रव्यब्दाः
खचतुष्टयरदवेतुल्याः ४३२००००। गुरोरब्दानां रव्यब्दानां चान्तरे कृते गुरोरब्दाः समधिका
जाता वस्वष्टर्तुखेषवः ५०६८८। अत्र च त्रैराशिकम्—यदि चतुर्युगरव्यब्दानामन्तर-
प्रदर्शितगुरुरव्यब्दान्तरं लभ्यते तदैकस्य रव्यब्दस्य कियदिहति। न्यासः—४३२००००।
५०६८८। १। फलं रविवर्षभोग इति। रव्यब्दानां कृतखगुणयमै २३०४रपवर्तितानां
शरागाष्टेन्दवो लभ्यन्ते १८७५। तावद्भागेन रविगुरुवर्षान्तरस्य द्व्यधिका विंशतिर्भवति
२२। सप्तत्यधिकेऽब्दशते एकादशभागैः पञ्चभिरधिके १७०/५/११ गते गुरुयुक्तनक्षत्र-
माससंज्ञवर्षद्वयमधिकं भवति। तथा च गर्ग आह—
युगानि द्वादशाब्दानि तत्र तानि बृहस्पतेः।
तत्र सावनसौराभ्यां सावनाब्दो निरुच्यते।।
एवमाश्वयुजं चैव चैत्रं चैव बृहस्पतिः।
संवत्सरं नाशयते सप्तत्यब्दशतेऽधिके।।
एवं नष्टजातकेऽपि—
'लग्नत्रिकोणेषु गुरुस्त्रिभागैर्विकल्प्य वर्षाणि वयोऽनुमानात्' इत्यनेन गणितेन
यान्यतीतवर्षाण्यागतानि तानि द्व्यधिकया विंशत्या २२ गुणयित्वा पादोनैरैकोनविंशतिशतै-
१८७५र्विभज्य लब्धमनन्तरोक्तश्लोकानीतगुर्वतीतजन्मवर्षाणां विशोध्य शेषं स्फुटतरम-
तीतजन्मवर्षपिण्डं भवतीति। अत्र गुणकारभागहारयोराचार्येण द्विगुणतोपनिबद्धा। यत
आचार्यप्रणीतकालेऽतीतं षष्ट्यब्दादेर्वर्षद्वयं त्रयो मासाश्चतुर्दश दिनानि दिनशेषं खद्विदश
१०२०। अक्षागाष्टरूपाणि १८७५ छेदः। तत्परिणामाय छेदं तेन वर्षद्वयेन सङ्गुण्य
ततो मासत्रयं दिनीकृत्य सदिनं कृत्वा तेन छेदेन सङ्गुण्य शेषं युक्तं कृत्वा खर्त्वग्निभि-
३६०र्विभज्यावाप्तं शतपञ्चकं चतुश्चत्वारिंशदधिकं सार्द्धम् ५४४/१/२। तच्च वर्षघ्ने
छेदे संयोज्यते। तस्य च सविकलत्वात् सवर्णनाय द्वाभ्यां गुणना क्रियते। स्वाधःस्थं
रूपार्द्धं योज्यते। ततः सवर्णीकृतो भवति। एवं क्षेपस्य द्विगुणत्वाद् गुणकारभागहारा-
वप्याचार्येण द्विगुणावुपनिबद्धाविति। तदर्थं चतुश्चत्वारिंशद् गुणकारः। शून्यशरागरामा
३७५० भागहार इति।।१।।
बृ० भ० प्र०-११
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA