बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 1 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
६० बृहत्संहिता
यवेन पतिताः। एवमादिभिस्तस्याः फलानि शुभाशुभानि भवन्तीति॥२३॥
उक्तं च गर्गेण महर्षिणा तच्चाह—
कृत्स्नाङ्गोपाङ्गकुशलं होरागणितनैष्ठिकम्।
यो न पूजयते राजा स नाशमुपगच्छति ॥२४॥
सब प्रकार से कुशल, होराशास्त्र और गणित में प्रवीण ज्योतिषी की पूजा जो राजा
नहीं करता, वह नाश को प्राप्त होता है॥२४॥
कृत्स्नानि निरवशेषाणि यानि ज्योतिःशास्त्राङ्गानि तथोपाङ्गानि तत्रैव पठितानि पुरुष-
लक्षणस्त्रीलक्षणवस्त्रोपानच्छेदरत्नलक्षणदीपदन्तकाष्ठलक्षणादीनि। एतदुक्तं भवति—
ग्रहनक्षत्रराशीनाश्रित्य यदुक्तम्—'तान्यङ्गानि परिशिष्टान्यनुपाङ्गानि' इति। तथा च भगवान्
गर्गः—
अधिकृत्य ग्रहर्क्षादि जगतो येन निश्चयः।
तदङ्गमुत्तमं विन्द्यादुपाङ्गं शेषमुच्यते।। इति।
एतेषां कृत्स्नानां निरवशेषाणामङ्गानामुपाङ्गानां कुशलस्तज्ज्ञः। तथा च होरायां जातके
गणिते ग्रहगणिते च नैष्ठिकं निष्ठालग्नं षडङ्गं तत्पारगन्तारमित्यर्थः। एवंविधं दैवज्ञं
यो राजा नृपो न पूजयते नार्चयति स नाशं विनाशमुपगच्छति प्राप्नोति॥२४॥
अन्यद्दैववित्प्रशंसार्थमाह—
वनं समाश्रिता येऽपि निर्ममा निष्परिग्रहाः।
अपि ते परिपृच्छन्ति ज्योतिषां गतिकोविदम् ॥२५॥
वन में रहने वाले, ममत्वरहित और किसी से कुछ लेने की इच्छा न रखने वाले भी
ग्रह-नक्षत्र आदि को जानने वाले दैवज्ञों से पूछते हैं॥२५॥
येऽपि तपस्विनो वनमरण्यं समाश्रिता वसन्ति। निर्ममा निरहङ्काराः। निष्परिग्रहा
दारवर्जिताः। निर्गतः परिग्रहो येभ्यस्तेऽपि तथाभूता ज्योतिषां ग्रहनक्षत्राणां गतौ गमने
कोविदं तज्ज्ञं परिपृच्छन्ति शुभाशुभं ज्ञातुमिच्छन्ति च। अपिशब्दः सम्भावनायां यतस्तेषां
ज्योतिःशास्त्रेण न किञ्चित्प्रयोजनं तापसत्वात्॥२५॥
अन्यत्प्रशंसार्थमाह—
अप्रदीपा यथा रात्रिरनादित्यं यथा नभः।
तथाऽसांवत्सरो राजा भ्रमत्यन्ध इवाध्वनि ॥२६॥
दीपहीन रात्रि और सूर्यहीन आकाश की तरह ज्योतिषी से हीन राजा शोभित नहीं
होता हुआ अन्धे की तरह मार्ग में घूमता रहता है॥२६॥
यथा रात्रिर्निशाऽप्रदीपा प्रदीपरहिता न शोभामाप्नोति तमसावृतत्वात्। यथा नभ
आकाशमनादित्यं सूर्यरहितं सान्धकारं न शोभामाप्नोति। तथा तेन प्रकारेण सांवत्सरो दैवज्ञ-
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
सांवत्सरसूत्राध्यायः ६१
रहितो राजा न शोभते। न केवलं यावत्सर्वत्र च संशयत्वाद्व्र्मति यथान्धो नेत्रहीनोऽध्वनि
पथि परिभ्रमति॥२६॥
अन्यत्प्रशंसार्थमाह—
मुहूर्त्ततिथिनक्षत्रमृतवश्चायने तथा।
सर्वाण्येवाकुलानि स्युर्न स्यात् सांवत्सरो यदि ॥२७॥
यदि ज्यौतिषी न हो तो मुहूर्त, तिथि, नक्षत्र, ऋतु, अयन आदि समस्त विषय उलट-
पलट हो जायँ॥२७॥
मुहूर्त्ताः शिवादिकाः। तिथयः प्रतिपदादिकाः। नक्षत्रमश्विन्यादि। ऋतवः शिशिरादयः।
अयने उत्तरदक्षिणे। तथा तेनैव प्रकारेण एतानि सर्वाणि आकुलानि अज्ञातानि। स्युर्भवेयुः।
अथवाऽऽकुलानि नष्टागमानि स्युर्यदि सांवत्सरो दैवविन्न स्यान्न भवेत्॥२७॥
अन्यत्प्रशंसार्थमाह—
तस्माद्राज्ञाधिगन्तव्यो विद्वान् सांवत्सरोऽग्रणीः।
जयं यशः श्रियं भोगान् श्रेयश्च समभीप्सता ॥२८॥
अतः जय, यश, श्री, भोग और मङ्गल की इच्छा रखने वाले राजा को चाहिये कि
विद्वान्, श्रेष्ठ ज्यौतिषी के पास जाकर अपना भविष्य पूछे॥२८॥
तस्मात् पूर्वोक्ताद्धेतो राज्ञा नृपेणाधिगन्तव्योऽधिगमनीयः। विद्वान् पण्डितः। सांवत्सरो
दैववित्। अग्रणीः प्रधानः। कीदृशेन राज्ञा। जयं शत्रुविजयं यशः कीर्तिं श्रियं लक्ष्मीं
भोगान् उपभोगान् श्रेय आरोग्यं समभीप्सता आप्राप्तुमिच्छता॥२८॥
अन्यदप्याह—
नासांवत्सरिके देशे वस्तव्यं भूतिमिच्छता।
चक्षुर्भूतो हि यत्रैष पापं तत्र न विद्यते ॥२९॥
सब प्रकार से अपने कुशल की इच्छा रखने वाले मनुष्य को दैवज्ञहीन देश में निवास
नहीं करना चाहिये; क्योंकि जहाँ पर नेत्रस्वरूप दैवज्ञ निवास करते हैं, वहाँ पाप का
निवास नहीं होता॥२९॥
भूतिं समृद्धिमिच्छता प्रार्थयता नरेण पुंसा। असांवत्सरिके देशे दैवज्ञवर्जिते देशे
स्थाने न वस्तव्यं न निवसनीयम्। हि यस्माद्यत्र यस्मिन् देशे एष दैवविच्चक्षुर्भूतः प्रकाशकः
स्यात् तस्मिन् देशे पापमेनो न विद्यते न भवति, तत्पुण्यशरीरावृतत्वात्॥२९॥
अथ दैववित्प्रशंसार्थमाह—
न सांवत्सरपाठी च नरकेषूपपद्यते।
ब्रह्मलोकप्रतिष्ठां च लभते दैवचिन्तकः ॥३०॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
६२ बृहत्संहिता
ज्योतिष शास्त्र को पढ़ने और पढ़ाने वाला मनुष्य नरक में नहीं जाता एवं ज्योतिष
शास्त्र का चिन्तन करने वाला पुरुष ब्रह्मलोक में प्रतिष्ठा प्राप्त करता है।।३०।।
संवत्सरमधिकृत्य कृतं शास्त्रं सांवत्सरं तत्पठनशीलः सांवत्सरपाठी। दैवविद् नरकेषु
नोपपद्यते, नरकान् न प्राप्नोति। यतो दैवचिन्तकः कालविद् ब्रह्मलोके धातृभवने प्रतिष्ठां
स्थितिं लभते।।३०।।
अन्यत्रप्रशंसार्थमाह—
ग्रन्थतश्चार्थतश्चैतत्कृत्स्नं जानाति यो द्विजः।
अग्रभुक् स भवेच्छ्राद्धे पूजितः पङ्क्तिपावनः ।।३१।।
जो द्विज ज्योतिषशास्त्र-सम्बन्धी सम्पूर्ण शब्दार्थ को जानता है, वह श्राद्ध में सर्वप्रथम
भोजन कराने के लायक, पंक्ति को पवित्र करने वाला तथा आदरणीय होता है।।३१।।
एतज्ज्योतिःशास्त्रं ग्रन्थतः पाठेनार्थतो व्याख्यानात् कृत्स्नं निरवशेषं यो द्विजो ब्राह्मणो
जानाति वेत्ति स श्राद्धे पितृतर्पणे अग्रभुक् प्रथमभोजी भवति। स च पूजितोऽर्चितः। पङ्कि-
पावनः। यस्यां पङ्क्त्यामुपविशति तां पवित्रीं करोति।।३१।।
अन्यदप्याह—
म्लेच्छा हि यवनास्तेषु सम्यक् शास्त्रमिदं स्थितम्।
ऋषिवत्तेऽपि पूज्यन्ते किं पुनर्दैवविद्द्विजः ।।३२।।
जिन म्लेच्छ यवनों के पास यह शास्त्र रहता है, वे भी जब ऋषि की तरह पूजित होते
हैं, तब दैवज्ञ ब्राह्मण की क्या बात? अर्थात् उनकी पूजा तो निश्चित ही होती है।।३२।।
हि यस्मादर्थे यवनाः किल म्लेच्छजातयस्तेषु यवनेष्विदं ज्योतिःशास्त्रं सम्यक्
स्फुटतरमागमतः स्थितं यतः पूर्वाचार्येभ्यस्तैः प्राप्तम्। तथा च—
यद्दानवेन्द्राय मयाय सूर्यः शास्त्रं ददौ सम्प्रणताय पूर्वम्।
विष्णोर्वसिष्ठश्च महर्षिमुख्यो ज्ञानामृतं यत्परमाससाद।।
पराशरश्चाप्यधिगम्य सोमाद् गुह्यं सुराणां परमाद्भुतं यत्।
प्रकाशयाञ्चक्रुरनुक्रमेण महर्द्धिसन्तो यवनेषु तत्ते।। इति।
तेऽपि ऋषिवन्मुनिवत्पूज्यन्ते अभ्यर्च्यन्ते किं पुनर्यो द्विजो ब्राह्मणो दैवविद्दैवज्ञ इति।
अथाप्रष्टव्यानाह—
कुहकावेशपिहितैः कर्णोपश्रुतिहेतुभिः।
कृतादेशो न सर्वत्र प्रष्टव्यो न स दैववित् ।।३३।।
इन्द्रजाल विद्या से अपने शरीर को छिपाकर गुप्त रूप से प्रश्नकर्ता का अभिप्राय
समझकर बताने वाले और कर्णपिशाची-सिद्धि से प्रश्न आदि बताने वाले ज्योतिषी को
सब जगह नहीं पूछना चाहिये, क्योंकि वह दैवज्ञ नहीं होता है।।३३।।
CC-0. JK Sanskrit Academy, Jammu. Digitized by S3 Foundation USA
सांवत्सरसूत्राध्यायः ६३
कुहकेनेन्द्रजालेन प्रसेनादिकेन आवेशेन देवतादिदेहप्रवेशेन पिहितः प्रच्छन्नोऽदृश्य-
शरीरः। कुत्रचित्सुषिरे भित्त्यादिके अभ्यन्तरस्थितयाऽव्यक्तया वाचा सम्भाषते। एतैः कुहका-
वेशपिहितैः। तथा कर्णोपश्रुत्या कश्चिन्मन्त्रविशेषं जपतः कर्णे यथेष्टं कथयति लोके कर्ण-
पिशाचिकेति प्रसिद्धा। अथवा प्रष्टारो यत्रोपविष्टाः स्थितास्तन्मध्ये आत्मीयं शिशुं विसृज्य
तेषां कथां परस्परं क्रियमाणामार्कण्य पितुर्वक्ति। यथा यस्येदमभिज्ञानं तस्य भवता इदं
वक्तव्यमिति हेतुना तर्केणाशयं बुद्ध्वा।
केचित् कुहकावेशपिहितकर्णोपश्रुतिहेतुभिरिति पठन्ति तथापि न कश्चिद्दोषः। एवमादि-
भिर्यः कृतादेशः। आदेशः कृतो येन। सर्वत्र न क्वचित्प्रष्टव्यो यतः स दैवविज्ज्योतिः-
शास्त्रवेत्ता न भवति।।३३।।
अथाज्ञं प्रत्याह—
अविदित्वाैव यच्छास्त्रं दैवज्ञत्वं प्रपद्यते।
स पंक्तिदूषकः पापो ज्ञेयो नक्षत्रसूचकः ॥३४॥
जो मनुष्य ज्योतिष-शास्त्र को विना जाने अपने-आपको दैवज्ञ कहकर व्रत, उपवास
आदि बताता है; उस पङ्क्तिदूषक पापी को नक्षत्रसूचक जानना चाहिये।।३४।।
यः शास्त्रमविदित्वा अज्ञात्वैव दैवज्ञत्वं ज्यौतिषिकत्वं प्रपद्यते अङ्गीकरोति दैवज्ञत्व-
माख्यापयति। स पङ्क्तिदूषकः पंक्तिं दूषयति अपवित्रीं करोति। पापः पापात्मा। नक्षत्रसूचको
नक्षत्रपिशुनः। ज्ञेयो ज्ञातव्य इति।।३४।।
( १नक्षत्रसूचकोद्दिष्टमुपवासं करोति यः।
स व्रजत्यन्धतामिस्रं सार्धमृक्षविडम्बिना ॥
नक्षत्रसूचक द्वारा बताये गये व्रत, उपवास आदि को जो मनुष्य करता है, वह उस
ऋक्षविडम्बी (नक्षत्रसूचक) के साथ अन्धतामिस्र नामक नरक में जाता है।)
यद्येतेषां कदाचिदज्ञानां वचनं सत्यरूपं भवति तान् प्रत्याह—
नगरद्वारलोष्टस्य यद्वत्स्यादुपयाचितम्।
आदेशस्तद्वदज्ञानां यः सत्यः स विभाव्यते ॥३५॥
जिस तरह पुरद्वार में स्थित मृत्खण्ड के समीप की हुई याचना कभी-कभी पूरी हो
जाती है, उसी तरह मूर्खों का आदेश भी कभी-कभी सत्य हो जाता है; परमार्थतः कभी भी
सत्य नहीं होता।।३५।।
नगरद्वारे पुरद्वारे यो लोष्टो मृत्खण्डस्तस्योपयाचितं प्रार्थितं यद्वद्यथा सत्यं स्यात्। सत्य-
रूपं भवेत्। तथा कदाचित्काकतालन्यायेन तद्वदज्ञानां मूर्खाणां य आदेशो वार्त्ताकथनं सत्य-
मिव विभाव्यते प्रतिभाति।।३५।।
१. श्लोकोऽयं प्रक्षिप्त इव प्रतिभाति, भट्टोत्पलविवृतावव्याख्यातत्वात्।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
६४ बृहत्संहिता
अविदग्धसांवत्सरं प्रत्याह—
सम्पत्त्या योजितादेशस्तद्विच्छिन्नकथाप्रियः ।
मत्तः शास्त्रैकदेशेन त्याज्यस्तादृङ्महीक्षिता ॥३६॥
सम्पत्ति पाने के लोभ से जो आदेश करता है और ज्योतिष-शास्त्र से भिन्न कथा में
जिसका स्नेह है (ज्योतिष-शास्त्र को ठीक तरह से न जानने के कारण अन्य कथा में प्रेम
रखता है) ऐसे शास्त्र के एकदेश को जानने से मत्त ज्योतिषी का राजा द्वारा त्याग कर देना
चाहिये॥३६॥
यो दैववित्सम्पत्त्या योजितादेशः। सम्पत्त्या अर्थदानेन योजित आदेशो येन। यथा
पूर्वमेवं मया अमुकस्य कथितमेतत्स दैववदैश्वर्यं प्राप्स्यति। तदिति ज्योतिषशास्त्रमुच्यते।
तद्विच्छिन्ना ज्योतिषशास्त्रवर्जिता अन्या कथा प्रिया यस्य सः। यतस्तत्र तस्याज्ञानत्वम्।
शास्त्रैकदेशमेकं प्रकरणं ज्ञात्वा तेनैव मत्तः सदर्पस्तादृग्भूतो दैवविन्महीक्षिता राज्ञा त्याज्य-
स्त्यक्तव्यः॥३६॥
नैवंविधमात्मसात्कुर्यादित्याह—
यस्तु सम्यग्विजानाति होरागणितसंहिताः ।
अभ्यर्च्यः स नरेन्द्रेण स्वीकर्तव्यो जयैषिणा ॥३७॥
जय की इच्छा रखने वाले राजा को होरा, गणित, संहिता—इन तीनों स्कन्धों को अच्छी
तरह जानने वाले दैवज्ञों की पूजा करनी चाहिये और उनकी आज्ञा माननी चाहिये॥३७॥
यस्तु सम्यक् स्फुटतराः साङ्गमाश्च। होरागणितसंहिताः। त्रिस्कन्धं ज्योतिषशास्त्रं
विजानाति। स च नरेन्द्रेण राज्ञा जयैषिणा विजयमाकाङ्क्षता प्राप्तुमिच्छताऽभ्यर्च्यः सम्पूज्यः।
स्वीकर्त्तव्य आत्मसात्कार्य इति ॥३७॥
विदग्धसांवत्सरिको हितकृद्भवतीत्याह—
न तत्सहस्रं करिणां वाजिनां च चतुर्गुणम् ।
करोति देशकालज्ञो यथैको दैवचिन्तकः ॥३८॥
देश-काल को जानने वाला एक दैवज्ञ जो काम करता है, वह हजार हाथी और चार
हजार घोड़े भी नहीं कर सकते॥३८॥
राज्ञः करिणां हस्तिनां सहस्रं दशशतानि न तत्कार्यं कुर्वन्ति तथा वाजिनामश्वानां
चतुर्गुणं चत्वारि सहस्राणि न तत् कार्यं कुर्वन्ति यथा देशकालज्ञो दैवचिन्तकः सांवत्सरिक
एक एव कार्यं करोति। देशकाललक्षणं प्रागेव व्याख्यातम्। तथा च भगवान् पराशरः—
'यथा मन्त्रमुखोऽग्निरग्निमुखा देवास्तथा दैवज्ञमुखो राजा राजमुखाश्च प्रजाः। तस्मात्त-
द्विज्ञानाद्यत्नत्वाच्छ्रेयसो नरपतिरिहामुत्र च श्रेयोऽर्थी विजिगीषुरेनमधिगच्छेत्। कुलीनमन-
हंकृतमस्तब्धमशठमप्रमत्तमविषयमव्यङ्गमविहतप्रशस्तलक्षणं वेदवेदाङ्गेतिहासपुराणधर्म-
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
सांवत्सरसूत्राध्यायः ६५
शास्त्रोऽवदातं शुचिं शरण्यं सत्यवादिनमक्रोधिनमग्निदेवद्विजगुरुवृद्धाचार्यपूजाभिरतमनुगामिन-
माचार्यं शिष्य इवाभ्युपेत्य नावजानीयाद्रहसि चैनं पृच्छेद्यथास्य दैवं परे न विद्युः। नास्य
पृष्टानर्थानतिक्रमेदि'ति।
तथा च—
हिंसादम्भानृतस्तेयद्विष्टानिष्टविवर्जितम् ।
नरेन्द्रहितमक्रोधं श्रेष्ठं कालविदं विदुः॥
भूतभव्यभविष्यस्य कालस्य ज्ञानपारगम्।
अहीनाङ्गगुणोपेतं गुरुभक्तं प्रियंवदम्॥
यथाङ्गिरसमाचार्यमधिगम्य शतक्रतुः।
त्रैलोक्यराज्यं कृतवांस्तद्वत्कालविदं नृपः॥ इति॥३८॥
अथाधुना तिथिनक्षत्रश्रवणात् फलमाह—
दुःस्वप्नदुर्विचिन्तितदुष्प्रेक्षितदुष्कृतानि कर्माणि ।
क्षिप्रं प्रयान्ति नाशं शशिनः श्रुत्वा भसंवादम् ॥३९॥
चन्द्र के नक्षत्र संवाद सुनने से बुरे स्वप्न, बुरे चिन्तन, बुरे दर्शन, बुरे कर्म—इन
सबों का शीघ्र नाश होता है॥३९॥
दुःस्वप्नं दुष्टस्वप्नम्। दुर्विचिन्तितमनभिमतमध्यात्मात्। दुष्प्रेक्षितममङ्गलं यद्दृष्टम्।
दुष्कृतानि दुष्टानि च यानि कर्माणि कृतानि। एतानि सर्वाणि शशिनश्चन्द्रमसो भसंवादं भेन
नक्षत्रेण सह संवादं श्रुत्वा क्षिप्रमाश्वेव विनाशं क्षयं व्रजन्ति। तिथिनक्षत्रं श्रुत्वा सर्वपापानि
नश्यन्तीत्यर्थः। तथा चोक्तम्—
श्रुत्वा तिथिं भग्रहवासरं च प्राप्नोति धर्मार्थयशांसि सौख्यम्।
आरोग्यमायुर्विजयं सुतांश्च दुःस्वप्नघातं प्रियतां च लोके॥ इति॥३९॥
आप्तज्यौतिषिकं प्रत्याह—
न तथेच्छति भूपतेः पिता जननी वा स्वजनोऽथवा सुहृत् ।
स्वयशोऽभिविवृद्धये यथा हितमाप्तः सबलस्य दैववित् ॥४०॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां सांवत्सर-
सूत्रं नाम द्वितीयोऽध्यायः ॥२॥
अपनी कीर्ति बढ़ाने के लिये दैवज्ञ जिस तरह राजा का हित करता है, उस तरह
उसके माता-पिता, स्वजन और मित्र भी नहीं करते॥४०॥
इति 'विमला'हिन्दीटीकायां सांवत्सरसूत्रनामाध्यायो द्वितीयः ॥२॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
बृ० सं० पृ०-५
६६ बृहत्संहिता
भूपते राज्ञः। सबलस्य बलसहितस्य। स्वयशोऽभिविवृद्धये आत्मीयकीर्तिवृद्ध्यर्थम्।
आप्तः शास्त्रज्ञाततत्त्वार्थः। दैवविद्दैवज्ञो यथा हितमिच्छति श्रेय आकाङ्क्षते। तथा न पिता
जनक इच्छति न जननी माता न स्वजनो बन्धुजनो न सुहृन्मित्रं तथा हितमिच्छतीति।।४०।।
आवन्तरचित्ते सांवत्सरसूत्रमहोदधौ।
अर्थिनामुत्पलश्चक्रे स्वाप्तये विवृत्तिप्लवम्।। इति।।४०।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ
सांवत्सरसूत्रनामाध्यायो द्वितीयः ॥२॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
अथादित्यचाराध्यायः
अथादित्यचारो व्याख्यायते। तत्र तावत्परमतेनायनयोर्लक्षणमाह—
आश्लेषार्द्धाद्दक्षिणमुत्तरमयनं रवेर्धनिष्ठाद्यम्।
नूनं कदाचिदासीद्येनोक्तं पूर्वशास्त्रेषु ॥१॥
यह निश्चित है कि किसी समय आश्लेषा के आधे भाग से रवि का दक्षिणायन और
धनिष्ठा के आदि भाग से उत्तरायण की प्रवृत्ति थी; नहीं तो पूर्वशास्त्र में इसकी चर्चा नहीं
होती॥१॥
यदुक्तं पराशरतन्त्रे—‘श्रविष्ठाद्यात् पौष्णान्तं चरतः शिशिरः। वसन्तः पौष्णान्ता-
द्रोहिण्यन्तम्। सौम्याद्यात् सार्पाद्धं ग्रीष्मः। प्रावृट् सार्पार्द्धाद्धस्तान्तम्। चित्राद्यादिन्द्रार्द्धं
शरद्धेमन्तो ज्येष्ठाद्धैद्वैष्णवान्तमि’ति।
तत्र रवेरादित्यस्याश्लेषार्द्धात् सार्पन्त्यपादद्वयाद्दक्षिणमयनं तथा धनिष्ठाद्यं वासव-
प्रारम्भमुत्तरमयनं नूनं निश्चितं कदाचिदुत्पातवशादासीद्भूत्। येन पूर्वशास्त्रेषु पाराशरादिषूक्तं
कथितम्। नूनमनुमाने वा॥१॥
अधुना स्वमतमाह—
साम्प्रतमयनं सवितुः कर्कटकाद्यं मृगादितश्चान्यत् ।
उक्ताभावो विकृतिः प्रत्यक्षपरीक्षणैर्व्यक्तिः ॥२॥
इस समय कर्कादि से सूर्य के दक्षिणायन की और मकरादि से उत्तरायण की प्रवृत्ति
होती है। इस तरह कथित अर्थ के अभाव का नाम 'विकार' है। ये सब प्रत्यक्ष देखने से
स्पष्ट होते हैं॥२॥
साम्प्रतमिदानीं युक्तं वा। सवितुरादित्यस्य। कर्कटकाद्यं कुलीरप्रथममेकमयनं मृगादितो
मकरादितश्चान्यद् द्वितीयमुत्तरमयनम्। एवं कथितस्यार्थस्य यद्यभावोऽन्यथात्वं स्यात्तद्वि-
कृतिर्विकारः। तत्र च प्रत्यक्षपरीक्षणैर्द्दृश्यमानैर्व्यक्तिः स्पष्टता भवति। विकृतेरुपलम्भन-
मित्यर्थः॥२॥
तत्र च परीक्षणमाह—
दूरस्थचिह्नवेधादुदयेऽस्तमयेऽपि वा सहस्त्रांशोः ।
छायाप्रवेशनिर्गमचिह्नैर्वा मण्डले महति ॥३॥
सूर्य के उदय-अस्तकाल में दूरस्थ चिह्न के वेध से अयन-गति की परीक्षा करनी
चाहिये अर्थात् दूर स्थित वृक्ष आदि के सामने सूर्य के उदय-अस्त देखकर परीक्षा करनी
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
६८ वृहत्संहिता
चाहिये। फिर दूसरे दिन वहाँ ही स्थित होकर परीक्षा करे कि सूर्य वृक्ष से दक्षिण या उत्तर
तरफ जा रहा है। जिस तरफ सूर्य खिसकता हो उसी अयन में सूर्य को कहना चाहिये
अथवा महामण्डल में छायाप्रवेश और निर्गमचिह्न से अयन जानना चाहिये।
उदाहरण—जल से समान की हुई भूमि पर इष्ट त्रिज्या व्यासार्ध से एक वृत्त बनाकर
उसमें दिग्ज्ञान करके पूर्वापंरा रेखा अंकित करे और वृत्तमध्य में शङ्कु-स्थापन करे। जिस
दिन मेषादि में रवि स्थित होता है, उस दिन उदय-अस्तकाल में शङ्कु की छाया ठीक
पूर्वापर रेखा पर पड़ेगी। बाद में मिथुनान्त कालपर्यन्त शङ्कु की छाया धीरे-धीरे पूर्वापर
रेखा से दक्षिण तरफ पड़ेगी। कर्कादि से कन्यान्त कालपर्यन्त धीरे-धीरे शङ्कु की छाया
उत्तर तरफ जायगी। फिर तुलादि स्थित रवि में शङ्कु की छाया ठीक मेषादि में स्थित रवि
की तरह पूर्वापर रेखा पर पड़ेगी। बाद में धन्वन्त बिन्दुपर्यन्त धीरे-धीरे पूर्वापर रेखा से
शङ्कु की छाया उत्तर तरफ पड़ेगी। फिर वहाँ से लौटकर मकरादि से मीनान्त तक शङ्कु
की छाया धीरे-धीरे दक्षिण तरफ पड़ेगी। जिस समय दो दिन की वृत्तपरिधिस्थ छायाग्रबिन्दु
एक जगह पड़े, उस दिन अयन की निवृत्ति समझनी चाहिये।।३।।
दूरे तिष्ठतीति दूरस्थम्। दूरस्थं तच्चिह्नं दूरस्थचिह्नं तेन वेधो दूरस्थचिह्नवेधस्तस्माद्
दूरस्थचिह्नवेधात् सहस्रांशोरादित्यस्योदये उदयकालेऽप्ययनचलनमन्वेष्यं यतो मकरादावा-
दित्यः प्रतिदिनमुत्तरां दिशं याति तथा कर्कटादिस्थितः प्रतिदिनं दक्षिणां दिशं यानि तेन
दूरस्थितं वृक्षादिकमुदयेऽस्तमयेऽथवा सवितुश्चिह्नं कृत्वा द्वितीयेऽपि दिने तत्रैव स्थित्वा
पुनरपि विचारः कार्यः किमयनचलननिवृत्तिर्जाता न वेति। एवं दिनसप्तकं यावद्गणितागत-
संक्रान्तिकालाद्यावत्कन्यान्तम्। तुलादौ पुनः प्राच्यपररेखायां पतति ततो बलात् प्राक् पश्चा-
च्चान्वेष्य किं स्फुटगणितागतसङ्क्रान्तिकालतुल्या जाता किमादौ किं पश्चाद्वेति। तथा
महत्यतिबृहन्मण्डले उदयास्तमयसमीप इत्यर्थः। छायाप्रवेशनिर्गमनेन वा यानि चिह्नानि
उपलक्षणानि तैरपि। वाशब्दः प्रकाराय। एतदुक्तं भवति—समायावमनौ वृत्तमुत्पाद्य दिग्ङ्कितं
कृत्वा शङ्कं तन्मध्ये विन्यसेत्। तत्र विषुवदिने सूर्योदयास्तमयोः प्राच्यपररेखायां तस्य
शङ्कोश्छाया पतति ततो यथायथाऽर्को मिथुनान्तं यावद्याति तथातथाऽर्कोदयकाले छाया
दक्षिणेन याति प्राच्यपररेखायाः। अस्तमयेऽप्येवम्। ततः कर्कटादौ स्थितेऽर्के प्रतिदिनं छायो-
त्तेरेण याति यावत्कन्यान्तम्। तुलादौ पुनः प्राच्यपररेखायां पतति ततो धनुरन्तं यावत् प्रति-
दिनमुत्तरेण याति ततो मकरादौ पुनः प्रतिदिनं दक्षिणेन याति यावन्मीनान्तम्। एवं मत्वा
ततोऽयननिवृत्तावासन्नायां तस्मिन् मण्डले यस्मिन् प्रदेशे पूर्वाह्ने छाया प्रविशति तत्र चिह्नं
कार्यम्। यत्र चापराह्ने निर्गच्छति चिह्नं कार्यम्। पुनरपि द्वितीयदिने तथास्थितस्य शङ्को-
श्छायाप्रवेशनिर्गमचिह्ने कार्ये। एवमन्वेष्यं प्रतिदिनं दिनसप्तकं यावत्। प्रथमदिनचिह्न-
कृतद्वितीयदिनचिह्नयोर्यदि साम्यमुत्पन्नं तदा तस्मिन् दिनेऽयननिवृत्तिरेवं तस्यां ज्ञातायां
विचारयेत् किमयननिवृत्तिः करणागतसङ्क्रान्तिकालतुल्या किमादौ किं पश्चाद्वेति। एवं
प्राकृतायां वैकृतायां वायननिवृत्तावन्वेषणं कार्यमिति।।३।।
CC-0. JK Sanskrit Academy, Jammnu. Digitized by S3 Foundation USA
आदित्यचाराध्यायः ६९
इदानीं वैकृते फलमाह—
अप्राप्य मकरमर्को विनिवृत्तो हन्ति सापरां याम्याम् ।
कर्कटकमसम्प्राप्तो विनिवृत्तश्चोत्तरां सैन्द्रीम् ॥४॥
यदि मकर में नहीं प्रविष्ट होकर सूर्य दक्षिण तरफ लौट जाय तो पश्चिम और दक्षिण
दिशा में स्थित जनों का नाश करता है। यदि कर्क में प्रविष्ट नहीं होकर सूर्य उत्तर तरफ
लौट जाय तो पूर्व और उत्तर दिशा में स्थित जनों का नाश करता है॥४॥
अर्क आदित्यो मकरमप्राप्य मकरमगत्वा यदि विनिवृत्तो व्यावृत्तस्तदा सापरां याम्या-
मपरया पश्चिमया सह दक्षिणां दिशं हन्ति। तत्स्थान् जनान्नाशयतीत्यर्थः। तथा कर्कटकं
कुलीरमसम्प्राप्तोऽगतो यदि निवृत्तो भवति तदोत्तरामुदीचीं दिशं सैन्द्रीं सपूर्वां हन्ति। तत्स्थान्
जनान्नाशयतीत्यर्थः। तथा च गर्गः—
यदा निवर्ततेऽप्राप्तो धनिष्ठामुत्तरायणे।
आश्लेषां दक्षिणेऽप्राप्तस्तदा विन्द्यान्महद्भयम्॥ इति।
तथा च पराशरः—‘यद्यप्राप्तो वैष्णवमुद्गमार्गं प्रपद्यते। दक्षिणमाश्लेषां वा महा-
भयाय।’ इति॥४॥
अथाधिकतायां शुभमाह—
उत्तरमयनमतीत्य व्यावृतः क्षेमसस्यवृद्धिकरः ।
प्रकृतिस्थश्चाप्येवं विकृतगतिर्भयकृदुष्णांशुः ॥५॥
यदि सूर्य उत्तर अयन को अतिक्रमण करके (मकर में प्रविष्ट होकर) उत्तर तरफ
लौटे तो लोगों का कल्याण और धान्य की वृद्धि करता है। यहाँ पर उत्तरायण का ग्रहण
उपलक्षण है; किन्तु दक्षिणायन में भी इसी तरह का फल कहना चाहिये अर्थात् कर्क में
प्रविष्ट होकर सूर्य दक्षिण तरफ लौटे तो भी लोगों का कल्याण और सत्य की वृद्धि करता
है। प्रकृतिस्थित (गणितागत अयननिवृत्ति और पूर्वकथित वेधीय अयननिवृत्ति एक काल
में) होने पर ही पूर्वकथित फल ठीक घटता है तथा विकारयुक्त गति होने पर सूर्य लोगों
में भय उत्पन्न करता है॥५॥
उष्णांशुरादित्य उत्तरमयनमतीत्यातिक्रम्य मकरं प्राप्य पश्चाद्यदि व्यावृतो निवर्तितस्तदा
क्षेमसस्यवृद्धिकरो भवति। लब्धपालनं क्षेमं करोति, लोके सस्यानां च वृद्धिकरो भवति।
तस्य च दिनाधिक्यादुत्तरायणग्रहणमुपलक्षणार्थम्। दक्षिणमयनमप्येवं ज्ञेयम्। तथा प्रकृतिस्थः
स्वभावस्थश्चाप्येवं क्षेमसस्यवृद्धिकृद्भवति। एतदुक्तं भवति—स्फुटगणितेन यस्मिन् दिने-
ऽयननिवृत्तिर्ज्ञाता तस्मिन्नेव दिने यदि छायाप्रवेशनिर्गमचिह्नैर्महति मण्डले दृष्ट्या दृश्यते
तदा प्रकृतिस्थः। तथा च भगवान् वृद्धगर्गः—
अयने सुप्रभः स्निग्धः सेवते यदि भास्करः।
सुवृष्टिं च सुभिक्षं च योगक्षेमं च निर्दिशेत्॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
७० बृहत्संहिता
अनिवृत्ते समे वापि निवृत्तः शस्यते रविः।
हीने भयावहो लोके दुर्भिक्षमकरप्रदः॥
विकृतगतिर्भयकृदिति। विकृता सविकारा गतिर्यस्यासौ विकृतगतिः। तथाभूतो
भयकृल्लोके भयं भीतिं करोति। अयननिवृत्तौ दृष्टायां पुनर्यदि प्रतीपगतित्वमर्कस्य दृश्यते
तदा विकृतगतिर्ज्ञातव्या।
पराशरतन्त्रेऽर्कस्य पञ्चधा गतिरुक्ता। तथा च—
पञ्चविधां गतिमुदयास्तमयोरन्तरे भजत्यूर्ध्वाम्।
तिर्यङ्मण्डलमधो नक्षत्रानुयायिनीमपि च॥
तिर्यग्गच्छति काष्ठायामूर्ध्वं गच्छति चोदये।
प्रातराशामनुक्रम्य मध्यं गच्छति भास्करः॥
मध्याह्ने तापयंल्लोकान्मण्डलं कुरुते गतिम्।
भ्रष्टस्त्वपि च मध्याह्नादधो गच्छति भास्करः॥
अस्तं गच्छन्नपि रविनक्षत्रमनुगच्छति।
एषापि यदि सविकारा दृश्यते तथापि भयकृत्॥ इति॥५॥
त्वष्टा नाम ग्रहस्तेनाच्छादनादर्कस्य यदशुभफलं तदाह—
सतमस्कं पर्व विना त्वष्टा नामार्कमण्डलं कुरुते।
स निहन्ति सप्त भूपान् जनांश्च शस्त्राग्निदुर्भिक्षैः॥६॥
पर्व से भिन्न काल में त्वष्टा नाम का ग्रह सूर्यमण्डल को अन्धकारयुक्त करता हो तो
सात (१५वें अध्याय में नक्षत्र-कूर्म के विभाग से नव देशों के नव राजाओं में से सात)
राजाओं का नाश करता है और शस्त्र, अग्नि, दुर्भिक्ष—इनसे लोगों का नाश करता है॥६॥
त्वष्टा नाम ग्रहोऽर्कमण्डलं सूर्यबिम्बं पर्व विनाऽपर्वण्येव सतमस्कं तमसान्धकारेण
संयुक्तं कुरुते स तु दृष्टः सप्त भूपान्नक्षत्रकूर्मोक्तानां नवानां नृपाणां मध्यात् सप्तसङ्ख्यान्
भूपान् नृपान् निहन्ति घातयति। तथा शस्त्राग्निदुर्भिक्षैः शस्त्रेण सङ्ग्रामेणाग्निना हुतवहेन
दुर्भिक्षेण च जनांल्लोकान् निहन्ति। तथा च भगवान् पराशरः—
अपर्वणि शशाङ्कार्कौ त्वष्टा नाम महाग्रहः।
आवृणोति तमः श्यामः सर्वलोकविपत्तये॥ इति॥६॥
अथ तामसकीलकानामर्कमण्डलगतानां फलमाह—
तामसकीलकसंज्ञा राहुसुताः केतवस्त्रयस्त्रिंशत्।
वर्णस्थानाकारैस्तान् दृष्ट्वाऽर्के फलं ब्रूयात्॥७॥
राहु के पुत्र तैंतीस संख्यक केतु हैं। ये तामस, कीलक आदि नाम से प्रसिद्ध हैं।
इनको सूर्य (ग्रहणकालिक सूर्य) में देखकर वर्ण, स्थान और आकृति से फल कहना
चाहिये॥७॥
आदित्यचाराध्यायः ७१
राहुसुताः स्वर्भानुपुत्रास्त्रयस्त्रिंशत्केतवस्तामसकीलकसञ्ज्ञास्तामसकीलक इति तेषां
नाम। तान् तामसकीलकानर्केऽर्कमण्डले वर्णस्थानाकारैः, वर्णाः श्वेतादयः, स्थानं प्रवेशो
बिम्बैकभागः, आकार आकृतिर्ध्वाङ्क्षादिसदृशी, एतैर्वर्णस्थानाकारैर्दृष्ट्वा अवलोक्य लोके
जनपदे शुभाऽशुभफलं ब्रूयाद् वदेत्॥७॥
अथ तेषां शुभाऽशुभलक्षणमाह—
ते चार्कमण्डलगताः पापफलाश्चन्द्रमण्डले सौम्याः ।
ध्वाङ्क्षकबन्धप्रहरणरूपाः पापाः शशाङ्केऽपि ॥८॥
ये तामस-कीलकसंज्ञक राहुपुत्र सूर्यमण्डल में अशुभ और चन्द्रमण्डल में प्रविष्ट
होने पर शुभ फल देते हैं। पर ध्वांक्ष (काक), कबन्ध (छिन्नमस्तक पुरुष) या प्रहरण
(खड्गादि) के समान उनकी आकृति दिखाई दे तो चन्द्रमण्डल में प्रविष्ट होने पर भी वे
पाप फल देते हैं॥८॥
ते तामसकीलकाश्चार्कमण्डले सूर्यबिम्बे गताः प्राप्ताः पापफला दुष्टफलप्रदा भवन्ति।
चन्द्रमण्डले शशिबिम्बे गताः सौम्याः शुभफलप्रदा भवन्ति। ध्वाङ्क्षः काकः। कबन्ध-
श्छिन्नशिराः पुरुषः। प्रहरणं खड्गादि। ध्वाङ्क्षकबन्धप्रहरणरूपास्तदाकृतयः। शशाङ्केऽपि
चन्द्रमण्डलेऽपि दृष्टाः पापाः पापफला भवन्ति। अनिष्टदानेतान् वर्जयित्वा अन्यरूपाश्चन्द्र-
मण्डले शुभदाः। अपिशब्दः सम्भावनायाम्। चन्द्रमण्डले येऽशुभास्ते सूर्यमण्डलेऽतीवा-
ऽशुभदा इति॥८॥
अथ तेषामुदयनिमित्तान्याह—
तेषामुदये रूपाण्यम्भः कलुषं रजोवृतं व्योम ।
नगतरुशिखरामर्दी सशर्करो मारुतश्चण्डः ॥९॥
ऋतुविपरीतास्तरवो दीप्ता मृगपक्षिणो दिशां दाहाः।
निर्घातमहीकम्पादयो भवन्त्यत्र चोत्पाताः॥१०॥
इन तामस-कीलक आदि के उदय होने से पहले विकारयुक्त जल, धूलि से व्याप्त
आकाशमण्डल, पर्वत, वृक्ष, शिखर—इन सबों का नाश करने वाला मिट्टी के कणों से
युक्त भयङ्कर वायु, ऋतु के विपरीत वृक्षों में फल-फूल, सूर्य की गर्मी से पशु-पक्षी आदि
जानवरों में व्याकुलता, दिशाओं में जलन, निर्घात (पवनः पवनाभिहतो गगनादवनौ यदा
समापतति भवति तदा निर्घात इति), भूकम्प—ये उत्पात होते हैं॥९-१०॥
तेषामिति। तेषां तामसकीलकानामुदये दर्शने रूपाण्येतानि लक्षणानि दृश्यन्ते।
तद्यथाऽम्भः पानीयं निमित्तं विना कलुषमप्रसन्नम्। व्योम आकाशं रजोवृतं रजसा व्याप्तम्।
तथा मारुतो वातश्चण्डः परुषो वाति वहति। कीदृशः। नगतरुशिखरामर्दी। नगानां पर्वतानां
तरूणां वृक्षाणां शिखराण्यग्राणि। आसमन्तात् मर्दयति लोडयति। सशर्करः शर्कराभि-
र्मृत्कणिकाभिः सहितः।
७२ बृहत्संहिता
तथा तरवो वृक्षा ऋतुविपरीताः। तेषां ऋतौ स्वकालकुसुमफलानामभावः। अनृतौ
कुसुमफलान्युत्पद्यन्ते। तथा मृगा अरण्यपशवः। पक्षिणः खगाश्च। दीप्ताः सूर्याभिमुख-
दीप्तस्थाः परुषरवाश्च भवन्ति। दिशां दाहा दिग्दाहाश्चासकृद्दृश्यन्ते। अत्रासिंस्तामस-
कीलकोदये निर्घातः। निर्घातलक्षणं वक्ष्यति—
पवनः पवनाभिहता गगनादवनौ यदा समापतति।
भवति तदा निर्घातः.....................................................।। इति।
महीकम्पो भूकम्पः। आदिग्रहणाद्रजोनीहारोल्कापातगन्धर्वनगराणि गृह्यन्ते। एते उत्पाता
भवन्ति॥९-१०॥
अथ तेषामुत्पातानां निष्फलमाह—
न पृथक् फलानि तेषां शिखिकीलकराहुदर्शनानि यदि।
तदुदयकारणमेषां केत्वादीनां फलं ब्रूयात् ॥११॥
यदि केतु, तामस, कीलक, राहु—इनका उत्पात होने के बाद सात दिन के अन्दर
दर्शन हो जाय तो पूर्ववर्णित उत्पात का कोई अलग फल नहीं होता। ये उत्पात इन केतु
आदि के उदय के कारण होते हैं अर्थात् पूर्व में इन उत्पातों का दर्शन हो जाने से केतु आदि
का दर्शन निश्चित होता है। यदि किसी समय किसी कारण से उत्पातों का दर्शन होने पर भी
तामस, कीलक आदि का दर्शन न हो तो इन उत्पातों के अनुसार ही फल कहना चाहिये।
तेषामम्भःकलुषादीनामुत्पातानां पृथक् फलानि न भवन्ति। यदि शिखिनः केतोः।
कीलकानां तामसकीलकानाम्। राहोः स्वर्भानोश्च दर्शनानि भवन्ति। अर्कचन्द्रयोरन्यतरस्य
ग्रहणं भवतीत्यर्थः। एतेषां सप्ताहान्तरदर्शने उत्पाता निष्फला ज्ञेयाः। तदुदयकारणमिति।
यतस्तामसकीलकानामुदयकारणमुदयनिमित्तानि सम्भवन्ति। अत एतेषां केत्वादीनां फलमेव
ब्रूयाद् वदेत्। केतुतामसकीलकराहूणामित्यर्थः। एतदुक्तं भवति—अम्भःकलुषादिभिरु-
त्पातैर्दृष्टैर्निश्चितं केत्वादीनामुदयो वक्तव्यः। अथ कदाचित्केत्वादीनां दर्शनं न भवति तदा
अम्भःकलुषादीनामेव फलं वदेत्॥११॥
अथ तामसकीलकानां दर्शनवशात् फलमाह—
यस्मिन् यस्मिन् देशे दर्शनमायान्ति सूर्यबिम्बस्थाः।
तस्मिंस्तस्मिन् व्यसनं महीपतीनां परिज्ञेयम् ॥१२॥
क्षुत्म्लानशरीरा मुनयोऽप्युत्सृष्टधर्मसच्चरिताः।
निर्मांसबालहस्ताः कृच्छ्रेणायान्ति परदेशम् ॥१३॥
तस्करविलुप्तवित्ताः प्रदीर्घनिःश्वासमुकुलिताक्षिपुटाः।
सन्तः सन्नशरीराः शोकोद्भववाष्परुद्धदृशः ॥१४॥
क्षामा जुगुप्समानाः स्वनृपतिपरचक्रपीडिता मनुजाः।
स्वनृपतिचरितं कर्म न पुरा कृतं प्रब्रुवन्त्यन्ये ॥१५॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
आदित्यचाराध्यायः ७३
गर्भेष्वपि निष्पन्ना वारिमुचो न प्रभूतवारिमुचः ।
सरितो यान्ति तनुत्वं क्वचित्क्वचिज्जायते सस्यम् ॥१६॥
जिन-जिन देशों में सूर्यबिम्बस्थित तामस-कीलक आदि का दर्शन हो, उन-उन
देशों में राजाओं को दुःख होता है। क्षुधा से पीड़ित मुनि लोग भी स्वधर्म एवं उत्तम
चरित्रों से हीन होकर दुर्बल बालक को हाथ में लेकर दूसरे देश में जाते हैं। सज्जनों के
धन को चोर अपहरण कर लेते हैं। अतः वे सज्जन दीर्घनिश्वास छोड़ने से संकुचित नेत्र
वाले, खिन्न शरीर वाले और शोक से उत्पन्न अश्रुप्रवाह से बन्द नेत्र वाले होते हैं। अपना
राजा और परराष्ट्र से पीड़ित दुर्बल मनुष्य निन्दा करते हुये पूर्वकृत अपने राजा के कर्तव्य
को दूसरे से कहते हैं। गर्भयुक्त होने पर भी मेघ अधिक जल नहीं देते, नदियाँ कृश
( अल्प जल वाली ) हो जाती हैं और धान की उत्पत्ति बहुत कम होती है।।१२-१६।।
यस्मिन् यस्मिन् देश इति । ते तामसकीलकाः सूर्यबिम्बस्था आदित्यमण्डलगताः ।
यस्मिन् यस्मिन् यत्र यत्र देशे दर्शनमायान्त्युपगच्छन्ति तस्मिंस्तत्र तत्र देशे महीपतीनां
भूमिपानां व्यसनं दुःखं परिज्ञेयं ज्ञातव्यम्।
क्षुत्प्रम्लानशरीरा इति । अपिशब्दः सम्भावनायां वर्तते। मुनयोऽपि ऋषयोऽपि
जितक्षुधः, क्षुत्प्रम्लानशरीराः, क्षुद्बुभुक्षा तया प्रकर्षेणातिशयेन म्लानानि शरीराणि देहा
येषां ते तथाभूताः, तथोत्सृष्टं त्यक्तं धर्मसच्चरितं शोभनचारित्रं च यैस्ते तथोक्ताः। तथा
निर्मांसा मांसरहिताः। दुर्बला ये बालाः शिशवोऽन्नाभावात्ते हस्तेषु करेषु येषां ते तथाभूताः।
कृच्छ्रेण क्लेशेन परदेशमन्यदेशं यान्ति प्राप्नुवन्ति।
तथा सन्तः साधवो जनास्तस्करविलुप्तवित्ताः, तस्करैश्चौरैर्विलुप्तं छिन्नं वित्तं धनं
येषाम्। तथा प्रदीर्घैरत्यायामवद्भिर्निःश्वासैः श्वसनैर्मुकुलिताः सङ्कुचिता अक्षिपुटा नेत्राच्छादनानि
येषाम्। तथा सन्नशरीराः, सन्नान्यवसादं गतानि शरीराणि देहा येषाम्। तथा शोकेन दुःखेन
यदुद्भवं बाष्पमश्रु तेन रुद्धे वृते दृशौ चक्षुषी येषां ते तथोक्ताः।
क्षामाः कृशाः जुगुप्समाना निन्दन्तो मनुजा मानवाः। यतः स्वनृपतिपरचक्रपीडिताः।
स्वनृपतिना आत्मीयेन राज्ञा परचक्रेण चान्यराष्ट्रेण पीडिता उपतप्ताः, अतो जुगुप्समानाः।
अन्येऽपरे एवं ब्रुवन्ति कथयन्ति च कथयेति च यथा यत्कर्मास्माभिरद्यानुभूयते तत्पुरा
पूर्वं स्वचरितमात्मनार्जितं न नृपतिचरितं राज्ञा वर्जितमिति।
गर्भेष्वपीति । वारिमुचो मेघा गर्भेष्वपि निष्पन्ना गर्भलक्षणयुक्ता अपि वृष्टिप्राप्त-
समये न प्रभूतं न बहु वारि पयो मुञ्चन्ति त्यजन्ति। तथा सरितो नद्यस्तनुत्वं स्वल्पतोयत्वं
यान्ति गच्छन्ति जलाभावात्। सस्यधान्यादिकं क्वचित्क्वचित्कुत्रचिज्जायते उत्पद्यते न
सर्वत्रेति।।१२-१६।।
अथ तेषामाकृतिवशेन फलमाह—
दण्डे नरेन्द्रमृत्युर्व्याधिभयं स्यात् कबन्धसंस्थाने ।
ध्वाङ्क्षे च तस्करभयं दुर्भिक्षं कीलकेऽर्कस्थे ॥१७॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
७४ बृहत्संहिता
सूर्य के मण्डल में दण्ड की तरह केतु दिखाई दे तो राजा की मृत्यु, छिन्नमस्तक पुरुष
की तरह दिखाई दे तो व्याधि का भय, काक की तरह दिखाई दे तो चोर का भय और कील
की तरह दिखाई दे तो दुर्भिक्ष होता है।।१७।।
अर्कस्थे सूर्यमण्डलसंस्थिते। दण्डे दण्डाकारे चिह्ने। नरेन्द्रस्य राज्ञो मृत्युर्मरणं स्यात्।
कबन्धश्छिन्नशिराः पुरुषः। कबन्धसंस्थाने कबन्धाकारे चिह्नेऽर्कस्थे। व्याधिभयं रोगभयम्।
स्याद् भवेत्। ध्वाङ्क्षः काकस्तस्मिन्नर्कस्थे तस्करभयं चौरकृतं भयं वदेत्। कीलके कील-
काकारेऽर्कस्थे दुर्भिक्षमसुभिक्षं भवेत्।।१७।।
अन्यदप्याह—
राजोपकरणरूपैश्छत्रध्वजचामरादिभिर्विद्धः।
राजान्यत्वकृदर्कः स्फुलिङ्गधूमादिभिर्जनहा ।।१८।।
यदि सूर्यमण्डल राजा के उपकरणरूप छत्र, ध्वजा, चामर आदि से वेधित हो तो
राजा का परिवर्तन होता है और अग्निकण, धूम आदि से वेधित हो तो लोगों का नाश
करता है।।१८।।
राजा नृपस्तस्योपकरणानि हस्त्यश्वादयस्तद्रूपैस्तदाकारैरर्कः सूर्यो यदि विद्धो भवति।
तथा छत्रध्वजचामरादिभिः। छत्रमातपत्रम्। ध्वजं पताका। चामरं बालव्यजनम्। आदिग्रहणाद्
भृङ्गारकुम्भाकारैर्यद्यर्को विद्धो भवति तदा राजाऽन्यत्वकृत्, राज्ञोऽन्यत्वं करोति, अन्यो राजा
भवतीत्यर्थः। अथ स्फुलिङ्गैरग्निकणैर्धूमेन। आदिग्रहणाज्वालादिभिर्युक्तो भवति तदा
जनहा, जनान् हन्ति घातयतीत्यर्थः ।।१८।।
अन्यदप्याह—
एको दुर्भिक्षकरो द्व्याद्याः स्युर्नरपतेर्विनाशाय।
सितरक्तपीतकृष्णैस्तैर्विद्धोऽर्कोऽनुवर्णघ्नः ।।१९।।
यदि पूर्वोक्त सूर्यमण्डल के वेध करने वालों में से एक से सूर्य वेधित हो तो दुर्भिक्ष,
दो आदि से वेधित हो तो राजा का नाश और सफेद, लाल, पीला, काला—इन वर्णों से
वेधित हो तो क्रम से वर्णों का नाश करता है। जैसे—सफेद वर्ण से वेधित होने पर
ब्राह्मणों का, लाल वर्ण से वेधित होने पर क्षत्रियों का, पीले वर्ण से वेधित होने पर वैश्यों
का और काले वर्ण से वेधित होने पर शूद्रों का नाश करता है।।१९।।
एको वेधोऽर्कस्थो दुर्भिक्षमसुभिक्षं करोति। द्वावाद्यौ येषां ते द्व्याद्याः। द्वौ त्रयश्चत्वारो
वा वेधा नरपते राज्ञो विनाशायाभावाय स्युर्भवेयुः। अर्क आदित्यस्तैश्चिह्नैस्सितरक्तपीतकृष्णै-
र्विद्धोऽनुवर्णघ्नो भवति। अनु क्रमेण। वर्णान् द्विजादीन् हन्ति। तद्यथा—सितैः श्वेतवर्णै-
श्चिह्नैर्विद्धो ब्राह्मणान् हन्ति घातयति, रक्तवर्णैः क्षत्रियान्, पीतवर्णैर्वैश्यान्, कृष्णवर्णैः
शूद्रानिति।।१९।।
CC-0. JK Sanskrit Academy, Jammu. Digitized by S3 Foundation USA
आदित्यचाराध्यायः ७५
विशेषफलमाह—
दृश्यन्ते च यतस्ते रविबिम्बस्योत्थिता महोत्पाताः ।
आगच्छति लोकानां तेनैव भयं प्रदेशेन ॥२०॥
ये पूर्वकथित ध्वांक्ष आदि महा उत्पात सूर्यमण्डल में जिस तरफ दिखाई देते हैं, उस
दिशा में स्थित देशों के लोगों को भय होता है। जैसे—यदि उत्पात सूर्यबिम्ब में पूर्व तरफ
हो तो पूर्वीय देश में, दक्षिण की तरफ हो तो दक्षिणीय देश में, पश्चिम की तरफ हो तो
पश्चिमीय देश में और उत्तर की तरफ हो तो उत्तरीय देश में स्थित लोगों को भय होता है॥२०॥
ते महोत्पाता ध्वाङ्क्षप्रभृतयो रविबिम्बस्यार्कमण्डलस्योत्थिता उत्पन्ना यतो यस्यां
दिशि दृश्यन्ते, पूर्वस्यां दक्षिणस्यां पश्चिमायामुत्तरस्यां वा दिशि विदिक्षु वा तेनैव प्रदेशेन
लोकानां जनानां भयमागच्छति आयाति॥२०॥
अथार्करश्मिवशेन शुभाशुभफलमाह—
ऊर्ध्वकरो दिवसकरस्ताम्रः सेनापतिं विनाशयति ।
पीतो नरेन्द्रपुत्रं श्वेतस्तु पुरोहितं हन्ति ॥२१॥
चित्रोऽथवापि धूम्रो रविरश्मिर्व्याकुलं करोत्यूर्ध्वम् ।
तस्करशस्त्रनिपातैर्यदि सलिलं नाशु पातयति ॥२२॥
सूर्य के ऊपरी भाग की किरणें ताम्र वर्ण की हों तो सेनापति का, पीले वर्ण की हों तो
राजा के पुत्र का और श्वेत वर्ण की हों तो पुरोहित का नाश होता है। साथ चित्र या धूम्र वर्ण
की हों तो चोरों या शस्त्रप्रहारों से लोग व्याकुल होते हैं। यदि उक्त उत्पात देखने के बाद
जल्दी वृष्टि न हो तो पूर्वोक्त फल होता है। यदि वृष्टि हो जाय तो पूर्वोक्त फल न होकर
लोगों का कल्याण होता है॥२१-२२॥
दिवसकर आदित्यः । ऊर्ध्वकर ऊर्ध्वरश्मिर्यदा दृश्यते। अधोभागे तस्य रश्मयो न
दृश्यन्त इत्यर्थः । स च ताम्रस्ताम्रवर्णश्च तदा सेनापतिं चमूनाथम्, विनाशयति घातयति ।
ऊर्ध्वकरः पीतवर्णश्च नरेन्द्रपुत्रं नृपसुतम्, हन्ति मारयति। ऊर्ध्वकरः श्वेतवर्णश्च पुरोहितं
मारयति।
चित्रोऽथवेति । खेरादित्यस्य सम्बन्धी रश्मिः करः । ऊर्ध्वं स्थितः स च चित्रो नाना-
वर्णोऽथवापि तु धूम्रवर्णस्तस्करशस्त्रनिपातैः, तस्कराश्चौराः, शस्त्रमायुधम्, तैस्तस्करशस्त्र-
निपातैश्चौरसङ्ग्रामोपमर्दनैर्व्याकुलं सोद्यमं देशं करोति, यद्याशु शीघ्रं सलिलं जलं न
पातयति न वर्षति तदैवम्। अथ सलिलपातं करोति तदा शिवमिति॥२१-२२॥
अथ भगवतो भास्करस्य ऋतुवर्णलक्षणमाह—
ताम्रः कपिलो वार्कः शिशिरे हरिकुङ्कुमच्छविश्च मधौ ।
आपाण्डुकनकवर्णा ग्रीष्मे वर्षासु शुक्लश्च ॥२३॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
७६ बृहत्संहिता
शरदि कमलोदराभो हेमन्ते रुधिरसन्निभः शस्तः।
प्रावृट्काले स्निग्धः सर्वर्तुनिभोऽपि शुभदायी ॥२४॥
यदि सूर्यमण्डल शिशिर ऋतु में ताम्र या पीला, वसन्त ऋतु में हरा या कुङ्कुम के
समान, ग्रीष्म ऋतु में पाण्डु ( कुछ-कुछ सफेद ) या सुवर्ण के समान, वर्षाकाल में
सफेद, शरद ऋतु में कमल के गर्भ के समान और हेमन्त में रुधिर के समान हो तो शुभ
होता है। यदि वर्षाकाल में स्वच्छ या अन्य सब ऋतुओं के समान वर्ण का हो तो भी शुभ
फल देने वाला होता है॥२३-२४॥
ताम्रः कपिलो वार्क इति। शस्त इति सर्वत्र सम्बध्यते। शिशिरे माघफाल्गुनयोरर्क
आदित्यस्ताम्रवर्णः कपिलो वा कपिलवर्णः शस्तः शुभफल इत्यर्थः। मधौ वसन्ते चैत्रवैशाख-
योर्हरिकुङ्कुमच्छविर्हरितकान्तिः शुकाभः। कुङ्कुमवर्णश्च पीतलोहितवर्णः शस्त एव। ग्रीष्मे
ज्येष्ठाऽऽषाढयोः पाण्डुः पाण्डुरवर्ण ईषच्छुक्लः। कनकवर्णः सुवर्णकान्तिश्च शस्त एव। वर्षासु
वर्षाकाले श्रावणभाद्रयोः। शुक्लः श्वेतवर्णः शस्तः। चशब्दादापाण्डुकनकवर्णश्च शस्त एव।
शरदि शरत्काले। आश्वयुजकार्तिकयोः। कमलोदराभः कमलं पद्मं तस्योदरमभ्यन्तरं
तत्सदृशी भा कान्तिर्यस्य स तथाभूतः शस्तः। हेमन्ते मार्गपौषयोः। रुधिरवर्णो रक्तवर्णः
शस्तः। प्रावृट्काले वर्षासमये स्निग्धो विमलस्तथा सर्वर्तुनिभः सर्वेषां शिशिरादीनामृतूनां
ये वर्णा उक्तास्तेषां निभः सदृशस्तद्वर्णोऽपि शुभदायी शुभप्रदो भवति। तथा च समास-
संहितायाम्—
ताम्रघृतकनकमुक्ताकमलासुक्सन्निभः शुभः सविता।
शिशिरादिषु षट्सु ऋतुषु प्रावृषि सर्वर्तुसन्निभः स्निग्धः।।
तथा च वृद्धगर्गः—
शिशिरे ताम्रसङ्काशः कपिलो वापि भास्करः।
वसन्ते कुङ्कुमप्रख्यो हरितो वापि शस्यते।।
ग्रीष्मे कनकवैदूर्यं सर्वरूपो जलागमे।
शस्तः शरदि पद्माभो हेमन्ते लोहितप्रभः।।
एतत्स्वरूपं सवितुर्विपरीतमतोऽन्यथा।
तथा च पराशरः—
'शिशिरे ताम्रः कपिलो वा। वसन्ते कुङ्कुमाभो हरितो वा। ग्रीष्मे कनकवैदूर्यप्रभः।
प्रावृषि सर्ववर्णः। शरदि पद्माभो हेमन्ते रक्तवर्णो रश्मिः सर्वर्तुषु श्वेतः पाण्डुवर्णश्च
शस्यते विपरीतो विपरीतकारी'ति॥२३-२४॥
अन्यदप्याह—
रूक्षः श्वेतो विप्रान् रक्ताभः क्षत्रियान् विनाशयति ।
पीतो वैश्यान् कृष्णास्ततोऽपरान् शुभकरः स्निग्धः ॥२५॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
आदित्यचाराध्यायः ७७
यदि सूर्यमण्डल रूखा या सफेद हो तो ब्राह्मणों का, लाल वर्ण का हो तो क्षत्रियों
का, पीत वर्ण का हो तो वैश्यों का और कृष्ण वर्ण का हो तो शूद्रों का नाश करता है। यदि
पूर्वोक्त वर्ण स्निग्ध हो तो ब्राह्मण आदि वर्णों का शुभ करने वाला होता है।।२५।।
रूक्ष इति सर्वत्र सम्बध्यते। श्वेतः शुक्लवर्णो रूक्षः स्नेहरहितो विप्रान् ब्राह्मणान्।
विनाशयति हन्ति। रक्ताभो लोहितकान्ती रूक्षश्च क्षत्रियान् विनाशयति। पीतः पीतवर्णो
रूक्षो वैश्यान्नाशयति। कृष्णः कृष्णवर्णो रूक्षश्च ततोऽपरान् तदित्यनेन वैश्याः परामृश्यन्ते
तेभ्योऽपरानन्यान् शूद्रान् हन्तीति।
शुभकरः स्निग्ध इति। यथोक्तवर्णो यदि स्निग्धो भवति तदा तेषामेव शुभकरो
भवति। तथा श्वेतः स्निग्धो ब्राह्मणानां शुभकरो भवति, रक्ताभः स्निग्धः क्षत्रियाणाम्, पीतः
स्निग्धो वैश्यानाम्, कृष्णः स्निग्धश्च शूद्राणामिति।।२५।।
अथार्कस्य ऋतुष्वशुभवर्णानाह—
ग्रीष्मे रक्तो भयकृद्वर्षास्वसितः करोत्यनावृष्टिम् ।
हेमन्ते पीतोऽर्कः करोति न चिरेण रोगभयम् ॥२६॥
ग्रीष्म ऋतु में रक्त वर्ण का रविमण्डल भय उत्पन्न करने वाला होता है।, वर्षा ऋतु
में काला रविमण्डल अनावृष्टि करता है और हेमन्त ऋतु में पीत वर्ण का रविमण्डल शीघ्र
रोगभय करता है।।२६।।
अर्क आदित्यो रक्तो लोहितवर्णो ग्रीष्मे दृष्टो भयकृद् भयं करोति। वर्षासु वर्षाकाले।
असितवर्णः कृष्णवर्णोऽनावृष्टिं वृष्ट्यभावं करोति। हेमन्ते पीतः पीतवर्णो न चिरेण शीघ्र-
मेव रोगभयं गदभीतिं करोति। शेषर्त्तुषु न विशेषः पूर्वोक्तमेव शुभाशुभमिति।।२६।।
अन्यदप्याह—
सुरचापपाटिततनुर्नृपतिविरोधप्रदः सहस्त्रांशुः ।
प्रावृट्काले सद्यः करोति विमलद्युतिर्वृष्टिम् ॥२७॥
यदि इन्द्रधनुष से सूर्यमण्डल खण्डित होता हो तो राजाओं में विरोध उत्पन्न करता है।
यदि वर्षाकाल में निर्मल कान्तियुक्त हो तो सद्यः ( उसी दिन ) वृष्टि करता है।।२७।।
सुरचापेति । सहस्रांशुरादित्यः। सुरचापमिन्द्रधनुस्तत्तुल्येन चिह्नेन पाटिता विदारिता
तनुर्मूर्तिर्यस्य तथाभूतो नृपते राज्ञो विरोधप्रदो भवत्यशुभ इत्यर्थः। प्रावृट्काले वर्षासमये
विमलद्युतिर्निर्मलकान्तिः सद्यस्तस्मिन्नेवाहनि वृष्टिं करोति वर्षतीत्यर्थः।।२७।।
वर्षाकाले वृष्टिं करोति सद्यः शिरीषपुष्पाभः ।
शिखिपत्रनिभः सलिलं न करोति द्वादशाब्दानि ॥२८॥
यदि वर्षाकाल में शिरीष-पुष्प की कान्ति के समान कान्ति वाला सूर्य-मण्डल हो तो
उसी दिन वृष्टि करता है। यदि मयूरपंख की तरह कान्ति वाला दिखलाई दे तो बारह वर्ष
पर्यन्त वृष्टि नहीं होती ।।२८।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
७८ बृहत्संहिता
वर्षकाले प्रावृट्समये शिरीषपुष्पाभः शिरीषपुष्पकान्तिसदृशो नीलपीत इत्यर्थः।
सद्यो वृष्टिं करोति। शिखी मयूरस्तस्य पत्रं पक्षस्तन्निभस्तत्तुल्यो मयूरचन्द्रिकाकारो द्वादश-
वर्षाणि सलिलं जलं न करोति न वर्षतीत्यर्थः। तथा च वृद्धगर्गः—
मयूरचन्द्रिकाभो वा यदा दृश्येत भास्करः।
पूर्णे तु द्वादशे वर्षे तदा देवः प्रवर्षति।। इति।।२८।।
अन्यदप्याह—
श्यामेऽर्के कीटभयं भस्मनिभे भयमुशन्ति परचक्रात् ।
यस्यर्क्षे सच्छिद्रस्तस्य विनाशः क्षितीशस्य ॥२९॥
यदि सूर्यविम्ब श्याम वर्ण का दिखलाई दे तो कीड़े का भय और भस्म की कान्ति की
तरह दिखलाई दे तो परराष्ट्र से भय होता है। जिस राजा के जन्मनक्षत्र में सूर्यमण्डल में
छिद्र दिखाई दे, उस राजा का नाश होता है॥२९॥
अर्के सूर्ये श्यामवर्णे कीटभयं कृमिभीतिः सस्यानां भवति। भस्मनिभे भस्मवर्णे पाण्डौ
रूक्षे परचक्रादन्यनृपाद्भयं भीतिमुशन्ति कथयन्ति। अर्क आदित्यो यस्मिन्नृक्षे नक्षत्रे स्थितः
सच्छिद्रो दृश्यते तन्नक्षत्रं यस्य क्षितीशस्य राज्ञः कूर्मविभागेन भवति तस्य विनाशो
मृत्युर्भवति॥२९॥
अन्यदप्याह—
शशरुधिरनिभे भानौ नभस्तलस्थे भवन्ति सङ्ग्रामाः ।
शशिसदृशे नृपतिबधः क्षिप्रं चान्यो नृपो भवति ॥३०॥
यदि आकाश में खरहे के रुधिर के समान रक्त वर्ण का सूर्यमण्डल दिखलाई दे तो
युद्ध होता है। यदि चन्द्र के समान वर्ण का सूर्यमण्डल दिखलाई दे तो वर्तमान राजा का
नाश होकर उसके स्थान पर दूसरा राजा होता है॥३०॥
शशः प्राणिविशेषः। भानावादित्ये शशरुधिरनिभे शशलोहितवर्णे अतिरक्त इत्यर्थः।
नभस्तलस्थे मध्याह्ने मध्यस्थिते सङ्ग्रामा युद्धानि भवन्ति। नभस्तलग्रहणमुदयास्तमयकाल-
परिहारार्थम्। तत्र किल स्वभावादतिलोहितो रविर्भवति। तथा च गर्गः—
शशलोहितवर्णाभो यदा भवति भास्करः।
तदा भवन्ति सङ्ग्रामा घोरा रुधिरकर्दमाः।। इति।
शशिसदृशे चन्द्रनिभे विरश्मौ शीतले च नृपते राज्ञो बधो मरणं भवति। क्षिप्रं चाश्वे-
वान्योऽपरो नृपो राजा भवति॥३०॥
अन्यदप्याह—
क्षुन्मारकृद्धटनिभः खण्डो जनहा विदीधितिर्भयदः ।
तोरणरूपः पुरहा छत्रनिभो देशनाशाय ॥३१॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
आदित्यचाराध्यायः ७९
जिस देश में घड़े की आकृति के समान सूर्यमण्डल दिखलाई दे, उस देश में
क्षुधा से पीड़ित होकर मनुष्य प्राण-विसर्जन करते हैं। यदि खण्डाकार दिखलाई दे तो
लोगों का नाश करता है। यदि तेज से हीन दिखलाई दे तो भय देने वाला होता है। यदि
फाटक की तरह दिखलाई दे तो पुरों का नाश करता है और छत्र के समान दिखलाई दे
तो देश का नाश करता है।
घटनिभो घटाकारोऽर्कः। क्षुन्मारकृत्। क्षुद्दुर्भिक्षं मारं मरकं च करोति। खण्ड एक-
देशाद्धीनो जनहा। जनान् हन्ति घातयति। विदीधितिर्विगतरश्मिर्भयदो भीतिं ददाति। तोरण-
रूपस्तोरणाकारः पुरहा। पुरं नगरं हन्ति। छत्रनिभ आतपत्राकारो देशस्य जनपदस्य नाशाय
विघाताय भवति॥ ३१॥
अन्यदप्याह—
ध्वजचापनिभे युद्धानि भास्करे वेपने च रूक्षे च।
कृष्णा रेखा सवितरि यदि हन्ति ततो नृपं सचिवः ॥३२॥
यदि सूर्यमण्डल ध्वजा या चाप की तरह काँपता हुआ रूखा दिखाई दे तो युद्ध होता
है। यदि सूर्यमण्डल में काली रेखा दिखाई दे तो मन्त्री के द्वारा राजा का वध होता है॥३२॥
ध्वजः प्रसिद्धो बहुपटरचितः पताकारूपः। चापं धनुः। भास्करे सूर्ये। ध्वजचापनिभे
तदाकृतौ। युद्धानि सङ्ग्रामा भवन्ति। वेपने कम्पमाने रूक्षे वाऽस्निग्धे युद्धान्येव भवन्ति।
सवितर्यादित्ये कृष्णवर्णरेखा यदि मध्ये दृश्यते तदा नृपं राजानं सचिवो मन्त्री हन्ति घात-
यति। केचित्पठन्ति नृपं सचिवम्। नृपं सचिवं च हन्ति। तथा च पराशरः—
‘विवर्णो भूमिवर्णो वा महाभयाय। श्यामो जनमरणाय। सुवर्णरजतपद्मनिभो विमलः
स्निग्धो जनहिताय। धूम्राभो वृष्टिनिग्रहाय। ऊर्ध्वदण्डो जटिलः शस्त्रकोपव्याधिमृत्युकरः।
महान् परिमण्डलः कुक्षिमान् विशालो घृतमण्डलनिभः क्षेमारोग्यकरः। संक्षिप्तः क्षयाय।
वज्राकारो दुर्भिक्षाय। सर्वतश्छिद्रो द्विधा वा दृश्यमानो मृत्युदेशं विनाशं वाऽऽचष्टे। शिरीष-
पुष्पसङ्काशो वार्षुके निष्प्रभो जनमारकरः। घटसंस्थः क्षुत्कृत्। ताम्रो रुधिराभो वा शस्त्र-
कोपकरः। खण्डच्छिद्रो भूपालविनाशाय च। पुण्ड्राकारः उलूकसंस्थानः उन्मादापस्मारकरः।
विरश्मिर्व्याधिभयकृत्। छत्राकारो देशविपर्ययकरः। शकटाकारश्च कबन्धाकृतिर्महासङ्ग्राम-
कृत्। तोरणसंस्थानः पुरनाशाय। अवर्णः प्रजानाशाय। प्रतिरूपः स्त्रीभयकारी। परुषो वेपनः
सस्यनाशनः। शरासनाकृतिर्ध्वजाभो वा सद्य आहवाय। विजयाकृतिर्गर्भविनाशी। परुषाकारो
रुधिरप्रभोऽनेकनृपतिहस्तोत्पाटनकरः। कृष्णवर्णो जगतः क्षयाय। अपर्वण्युपरक्तः सर्वलोक-
विनाशाय। व्यामिश्रवर्णो यावत्तद्दृश्यते तावत्परस्परं नृपविनाशाय। कृष्णरुधिरपीतवर्णो
जगत्क्षयकारी। वैदूर्यकृष्णबभ्रुवर्णः पशुवर्णोत्सादनकरः। मयूरचन्द्रिकाभो द्वादशवार्षिकी-
मनावृष्टिं धत्ते। एवमन्योन्यव्यामिश्रवर्णो युगान्तकारी भवती'ति॥३२॥
अन्यदप्याह—
दिनकरमुदयास्तसंस्थितमुल्काशनिविद्युतो यदा हन्युः।
नरपतिमरणं विन्द्यात्तदाऽन्यराजप्रतिष्ठा च॥३३॥
CC-0. JK Sanskrit Academy, Jammnu. Digitized by S3 Foundation USA