सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

बृहद्देशी (मतंग मुनि - राग-पद्धति का विश्व में सर्वप्रथम प्रतिपादक ग्रन्थ)

The Brihaddeshi of Sri Matanga Muni

मतंग मुनि (सम्पादक: के. साम्बशिव शास्त्री) द्वारा

DevanagariSanskritpublished175 पृष्ठ

[Header] श्रुतिनिर्णयः । ५

“उच्चैस्तरो ध्वनी रूक्षो विज्ञेयो वातजो बुधैः ।
गम्भीरो घन(नी ? शी)लश्च ज्ञातव्यः पित्तजो ध्वनिः ॥
स्निग्धश्च सुकुमारश्च मधुरः कफजो ध्वनिः ।
त्रयाणां गुणसंयुक्तो विज्ञेयः सन्निपातजः ॥”
अपरे तु........न्धादयो नवधा श्रुतिं प्रतिपद्यन्ते ॥ २७ ॥
तथाहि—
द्विश्रुतिस्त्रिश्रुतिश्चैव चतुःश्रुतिक एव च ।
स्वरप्रयोगः कर्तव्यो वंशे छिद्रगतो बुधैः ॥ २८ ॥
भरतेनाप्युक्तं—
“द्विक(स्त्रि ? त्रि)कचतुष्कास्तु ज्ञेया वंशगताः स्वराः ।
इति तावन्मया प्रोक्ताः सर्ववंशश्रुतयो नव ॥”
तत्र केचिन्मीमांसामांसलितधियो धीरा द्वाविंशति-
श्रुती(यो ?)र्मन्यन्ते । केचन पुनः (षट्)षष्टिभेदभिन्नाः श्रु-
तय इति मन्यन्ते । अन्ये पुनरानन्त्यं वर्णयन्ति श्रुतीनाम् ।
यथाचाह कोहलः—
“द्वाविंशतिं केचिदुदाहरन्ति (श्रुतीः) श्रुतिज्ञानविचारदक्षाः ।
षट्षष्टिभिन्नाः खलु केचिदासामानन्त्यमेव प्रतिपादयन्ति ॥”
ननु श्रुतेः किं मानम् । उच्यते । पञ्चमस्य श्रुत्यु-
त्कर्षापकर्षाभ्यां मार्दवादायतत्वाद्वा यदन्तरं (तु ? तत्) प्रमा-
(णां ? णं) श्रु(ति ? ते)रिति । इदानीं द्वाविंशतिप्रकारतोया निद-
र्शनं यथा—द्वे वेणी तुल्यप्रमाणे तन्त्र्युपपादनं दण्डमूर्च्छना
समे कृत्वा षड्जग्रामाश्रिते कार्ये । तयोरन्यतरस्यां मध्यम-
१. 'त', २. 'स्या' ख. पाठः.

ग्रामिकीं श्रुतिं कृत्वा पञ्चमस्यापकर्षात् तामेव श्रुतिं पञ्चम-
वशात् षड्जग्रामिकीं कुर्यात् । एवं श्रुत्यपकृष्टा भवति, परं
विशेषलाभो नास्ति, उच्चनीचमात्रप्रतीतेः । पुनरपि तद्देवा-
पकर्षयेत् । यथा गान्धारनिषादौ कर्तरी पुनरन्यतरस्यां स्थि-
(त १ र)त्रीणायां धैवतर्षभौ कर्मतामापन्नौ (प्र)वेक्ष्य (तद्विश्रु-
त्येङ्क्योः सिकलात् ?) पुनरपि तद्देवापकृष्टायां चलवीणायां
धैवतर्षभौ इतरस्यां पञ्चमषड्जौ प्रवेक्ष्य तत् त्रिश्रुत्य(भि ? ग्य)-
धिकत्वात् पुनरपि तद्देवापकृष्टायां पञ्चममध्यमषड्जा इति ।
अस्यां मध्यमगान्धारनिषादा(न् ? :)प्रविशन्ति चतुःश्रुत्य(भि?
भ्य)धिकत्वात् । एवमनेन दर्शनेन द्वाविंशतिश्रुतयो भवन्ति ।
एवं मध्यमग्रामे द्रष्टव्यम् । प्रस्तारो यथा —

   च  ध्रु
   ल  वी
   वी णा
   णा
सरिगग, ममपपधधनि
सरिगगममपपधधनि
सरिगगममपपधधनि
सरिगगममपपधधनि

चलवीणायाः प्रथमापकर्षे श्रुतिलाभो नास्ति । द्वि-
तीये च(दण्डम ? तुः)श्रुतिलाभः । (चतुर्थे द्वादशश्रुतिलाभः ।
एवं द्वाविंशतिभेदभिन्नाः श्रुतयस्त्रिषु स्थानेषु प्रत्येका वा
द्वाविंशतिप्रकारतया श्रुतिलाभः । ?) तृतीये षट्श्रुतिलाभः ।
चतुर्थे द्वादशश्रुतिलाभः । एवं द्वाविंशतिभेदभिन्नाः श्रुतयो
१. 'भ्य. ख. पाठः.

दर्शिताः । इदानीं षट्षष्टिभेदभिन्नाः श्रुतयः कथ्यन्ते । मन्द-
मध्यमतारेषु उरःकण्ठशिरस्सु त्रिषु स्थानेषु प्रत्ये(का ? कं) द्वा-
विंशतिप्रकारतया भिद्यमानेषु श्रुतयो हि षट्षष्टिभेदभिन्ना
भवन्तीति केचिन्मन्यन्ते । अधुना श्रुतीनामानन्त्यं दर्श-
यामः ।
आनन्त्यं तु श्रुतीनां तु दर्शयन्ति विपश्चितः ।
यथा ध्वनिविशेषाणामानन्त्यं गगनोदरे ॥ २९ ॥
उ(त्तारुग ? चण्ड)पवनोद्वेगजलराशिसमुद्भवाः ।
(कि)यन्तः प्रतिपद्यन्ते न तरङ्गपरम्पराः ॥ ३० ॥
इति श्रुतीनामानन्त्यं दर्शितम् ।
इदानीं श्रुतीनां तादात्म्यादिविकल्पः कथ्यते —
तादात्म्यं च विवर्तत्वं कार्यत्वं परिणामिता ।
अभिव्यञ्जकता चापि श्रुतीनां परिकथ्यते ॥ ३१ ॥
इदानीमेतदेव विवृणोति —
विशेषस्पर्शशून्यत्वाच्छ्रोत्रेन्द्रियग्राह्यता ।
स्वरश्रुत्योस्तु तादात्म्यं जातिव्यक्त्योरिवानयोः॥ ३२ ॥
न

८ बृहद्देश्यां
षड्जादयः स्वराः सप्त व्यज्यन्ते श्रुतिभिः सदा ।
अन्धकारस्थिता यद्वत् प्रदीपेन घटादयः ॥ ३६ ॥
इति तावन्मया प्रोक्तं श्रुतीनां च विकल्पनम् ।
इदानीं संप्रवक्ष्यामि विकल्पस्य च दूषणम् ॥ ३७ ॥
भेदः स्वरलक्षणानां (?) सामान्येनान्यवस्तुवत् सिद्धः ।
तद्धि विशेषैः शून्यं भवति नभःपुष्पसङ्काशम् ॥ ३८ ॥
नानाबुद्धिप्रसाध्यत्वात् स्वरश्रुत्योस्तु भिन्नता ।
आश्रयाश्रयिभेदाच्च तादात्म्यं नैव सिध्यति ॥ ३९ ॥
यदभाणि विवर्तत्वं श्रुतीनां तदसङ्गतम् ।
विवर्तत्वे स्वराणां हि भ्रान्तिज्ञानं प्रसज्यते ॥ ४० ॥
कार्यकारणभावस्तु स्वरश्रुत्योर्न सम्भवेत्
श्रुतीनामिह सद्भावे प्रमाणं नैव विद्यते ॥ ४१ ॥
अर्थापत्त्या (य ?) यदिवा व्याप्तिग्रहणपूर्वकप्रमाणबलात् (?) ।
सिद्धस्वरजनकानां गगनगुणानां स्वरो भेदः ॥ ४२ ॥
सत्यम् ।
कार्यकारणभेदोऽस्ति यद्यपि स्फुटमेव हि ।
तथापि कारणत्वं च श्रुतीनां नैव सम्भवेत् ॥ ४३ ॥
कार्येषु विद्य³मानेषु कारणस्योपलम्भनात् ।
घटादौ विद्यमाने (पु ? तु) मृत्पिण्डो नोपलभ्यते ॥ ४४ ॥
परिणामोऽभिव्यक्तिस्तु (ना ? न्या)य्यः पक्षः सतां मतः ।
इति तावन्मया प्रोक्तं तादात्म्यादिविकल्पनम् ॥ ४५ ॥
१. 'व' ख पाठ.. २. 'णे' क. पाठ . ३. 'भि' ख. पाठः.

श्रुतिनिर्णयः । ९

न(तु ? नु) श्रुतीनां द्वाविंशतिप्रकारता यत् त(दाप ?
दप्य)सङ्गतं, श्रुतीनां श्रुत्यवयवानां चानुलम्भात्। तदुक्तं—
कथं प्रतीतिश्च भवेदमुष्या
नादौ नभोव्याकुलितश्रुतित्वात्।
भवेदलक्ष्यावयवा श्रुतिस्तु

      • नैवावयवी प्रतीता(?) ॥ ४६ ॥
        तासां भवतीताः स्युः (क्य ? किय)त्यो मात्रकाः प्रती¹(?) ।
        यदि द्वाविंशतिस्तासां व्यापारः कः क्रमोत्क्रमात् ॥ ४७ ॥
        श्रुतीनां यदनन्त्यं च + निवार्यं प्रसज्यते(?) ।
        एकत्वं वा भवेत् तस्यां मात्रकाणामसंशयम् ॥ ४८ ॥
        मात्रका एव नो सन्ति कथं तासां विकल्पनम्।
        सति धर्मिणि धर्माणां (चाते ? सत्ते)त्याहुर्मनीषिणः॥४९॥
          • धर्माणः सन्तोऽप्याहुर्मनीषिणः ।
            सत्त्वासत्त्वे सदा गुणदोषाणां गुणी तु यदा(?) ॥ ५० ॥
            विनैव कारणं ता(ता ? स्ताः) स्वराणां कारणं यदि।
            भवेयुः श्रुतयस्तासामादिर्नैष्येत कारणम् ॥ ५१ ॥
            किञ्च प्रमाणगम्यत्वे समेऽपि यदि मात्रकाः।
            निह्नोतव्या(त ? स्त)दा रक्षा श्रुतीनामपि दुर्ल(भाः ? भा) ॥
            अत्रोच्यते—
            अर्थापत्त्यानुमानेन प्रत्यक्षज्ञानतोऽपि वा।
            गृह्यन्ते श्रुतयस्तावत् स्वराभिव्यक्तिहेतवः ॥ ५३ ॥

१. 'ति' ख. पाठः.
८

१० बृहद्देश्यां
एतदेव स्पष्टीकरणार्थं प्रस्तारेण दर्शयामि । तत्र
केचिद् दण्डप्रस्तारेण दर्शयन्ति द्वाविंशतयः(?) श्रुतयो रेखा-
णामिति । अन्ये तु वीणाप्रस्तार्यमाहुः । वयं पुनर्मण्डलप्रस्तारं
ब्रूमः । तथाहि—तिर्यगूर्ध्वं च पञ्च षड् रेखा इत्येकादश ।
उभयतो द्वाविंशतिः । एवं ग्रामद्वयेऽप्युपयोगिन्यः श्रुतय
इति दर्शिताः । तयथा —
त्रिश्रुतिरिति क्रम्यादौ(?) देयः षड्जश्चतुःश्रुतिः ।
तदूर्ध्वं द्वे श्रु(तित्वा?ती त्यक्त्वा) तृतीय ऋषभो मत(म्?:)॥
ततश्चैकां श्रुतिं त्यक्त्वा गान्धारो द्विश्रुतिः स्मृतः ।
तदनु त्रिश्रुतीस्त्यक्त्वा कर्तव्यो मध्यमस्वरः ॥ ५५ ॥
तदूर्ध्वं पञ्चमः कार्यः परित्यज्य श्रुतित्रयम् ।
श्रुतिद्वयं परित्यज्य कर्तव्यो धैवतस्ततः ॥ ५६ ॥
एकां श्रुतिं परित्यज्य निषादस्तदनन्तरम् ।
षड्जग्रामसमुद्भूत उक्तोऽसौ श्रुतिमण्डलः ॥ ५७ ॥
तद्यथा षड्जग्रामे श्रुतिमण्डलम् —

[श्रुतिमण्डल-चित्रम् / Diagram of Shruti-mandala]

  • ग (शीर्षे / top)
  • रि, म (ऊर्ध्वभागे / upper cells)
  • प, ध (दक्षिणभागे / right-hand cells)
  • ग (अधोभागे वामतः / bottom-left)
  • नि (अधोभागे दक्षिणतः / bottom-right)

१. 'त्र' ख. पाठः.

स्वरनिर्णयः । ११
इदानीं सम्प्रवक्ष्यामि मध्यमश्रुतिमण्डलम् ।
(क्रे ? ज्ञे)यस्तिस्रो ह्यतिक्रम्य मध्य(मा ? मो)ऽयं चतुःश्रुतिः ॥
श्रुतिद्वयमतिक्रम्य तृतीयः पञ्चमो भवेत् ।
ततस्तिस्रो ह्यतिक्रम्य चतुर्थो धैवतो भवेत् ॥ ५९ ॥
ज्ञेय(:स्य ? स्त्वे )कामतिक्रम्य निषादस्तु द्वितीयकः ।
श्रुतित्रयमतिक्रम्य ततः षड्जश्चतुर्थकः ॥ ६० ॥
ऋषभस्तु द्वयं त्यक्त्वा तृतीयः परतो भवेत् ।
श्रुतिमेकामतिक्रम्य गान्धारः स्याद् द्वितीयकः ॥ ६१ ॥
मध्यमग्रामे श्रुतिमण्डलम् —
ध नि
म
ग
म ग रि
भरतस्तु पुनर्ऋषभादिश्रुतिमण्डलं दर्शयति । किमत्र
कारणम् । उच्यते । ग्रामद्वयेऽप्यन्तर्मूर्च्छनाप्रतिपादनार्थम् ।
यद्वा ग्रामद्वयेऽपि षड्जमध्यमौ ग्रामण्यौ भवतः । अन्यस्त्र-
ग(स्ते ? स्त)दग्रेसरा इति ।
इति तावन्मया प्रोक्ताः श्रुतयो ग्रामसंश्रिताः ।
इति श्रुतिकरणम् ।
इदानीं सम्प्रवक्ष्यामि स्वराणां च विनिश्चयम् ॥ ६२ ॥

१२ बृहद्देशी
तत्रादौ स्वरशब्दस्य व्युत्पत्तिरिह कथ्यते ।
‘राजृ दीप्तावि’ति धातोः स्वशब्दपूर्वकस्य च ॥ ६३ ॥
स्वयं यो राजते यस्मात् तस्मादेष स्वरः स्मृतः ।
(तद् ? न)नु स्वर इति किम् । उच्यते । रागजन-
(रो ? को) ध्वनिः स्वर इति । तथाचाह कोहलः —
“आत्मેચ્છया महितलाद् वायुरुद्यन्निधार्यते ।
नाडीभित्तौ तथाकाशे ध्वनिरक्तः स्वरः स्मृतः ॥”
ननु स्वर एव स्या(न्ने ? दे)कोऽनेको वा व्यापको-
ऽव्यापको वा नित्योऽनित्यो वा (स्यात् ?) । अत्रोच्यते —
एकोऽनेको व्यापको नित्यश्चेति । तत्र निष्कलरूपेणैकः स्वरः
षड्जादिरूपेणानेकः स्वरः । तथाचाह कोहलः —
“जातिभाषादिसंयोगादनन्तः कीर्तितः स्वरः ।
नादैर्युक्तस्तालमिति (क्र ? कृ)तौ योज्यो रसेष्वपि ॥”
इति । नित्योऽविनाशी । व्यापकः सर्वगतः । तथाचाह
कोहलः —
“ऊर्ध्वनाडीप्रयत्नेन सर्वभित्तिनिघट्टनात् ।
मूर्च्छितो ध्वनिरा मूर्ध्नः स्वरोऽसौ व्यापकः परः ॥”
ननु षड्जादीनां कथं स्वरत्वं व्यञ्जनत्वात् । यदि व्यञ्ज-
नानां स्वरत्वमभिधीयते, तदानीं कादीनामेवास्तु स्वरत्वम् ।
अत्रोच्यते । असाधारणत्वात् षड्जादीनामेव स्वरत्वं न कादी-
नामिति । ननु षड्जादीनामसाधारणत्वं कथम् । आप्तोप-
देशात् षड्जादीनामसाधारणत्वम् । तथाचाह कोहलः,
महेश्वरः —

स्वरनिर्णयः । १३

“षड्जं *वदति मयूर ऋषभं चातको वदेत् ।
अजा वदन्ति गान्धारं क्रौञ्चो वदति मध्यमम् ॥
पुष्पसाधारणे काले कोकिलः पञ्चमं वदेत् ।
प्रावृट्काले तु सम्प्राप्ते धैवतं दर्दुरो वदेत् ॥
सर्व(ता ? दा) च तथा देवि ! निषादं वदते गजः ।१”
यद्वा (दू ? ऊ)र्ध्वध्वनिगामित्वेन षड्जादीनामेव साधा-
रणत्वम् इति अथवा षड्जादयः स्वरा न भवन्ति, आकारा-
दय एव स्वराः । षड्जादयस्तु तेषामाकारादीनामुच्चारणार्थम्
इति । ननु चतुर्दशानां स्वराणां मध्ये आकारादीनां कथं
ग्रहणम् । सत्यमुक्तम् । एतेषामसाधारणत्वेन ग्रहणं कृतम् ।
असाधारणत्वं चैतेषामूर्ध्वध्वनिगामित्वेन । यद्वा षड्जादीनां
व्यञ्जनानां स्वरत्वमुक्तम् । न(नु ? तु) सङ्केतमात्रमेतदुक्तं
भवति । आचार्याणां परिभाषेत्यर्थः ।
इदानीमवसरप्राप्तं चा(तु ?)तुर्विध्यं स्वराणां दर्श-
यामि । तद्यथा — वदनाद् वादी स्वामिवत् । संवदनात्
संवादी अमात्यवत् । अनुवदनादनुवादी परिजनवत् । विव-
दनाद् विवादी शत्रुवत् । ननु वदनादिकं प्राणिधर्मः कथ-
मचेतनानां स्वराणां सम्भवति । सत्यमुक्तम् । वदनं हि
नामात्र प्रतिपादकत्वं विवक्षितं, न वचनमिति । किं तत् प्रति-
पादयति । रागस्य रागत्वं जनयति । त्रि(ते ? के)च वादिनः
स्वराः सप्तैव । स च वाद्यंशवत् (दा ? दश)विधो बोद्धव्यः ।
१. ‘मन्द्रशं’ ख. पाठः.

  • इह सर्वत्र वदतिस्थाने नदतिपाठो दृश्यते समानतन्त्रे ।

१४ बृहद्देशी
वादिमण्डलं यथा — सरिगमपधनी । ५संवा॒दिनस्तु पुनः सम-
श्रुतिकत्वे सति त्रयोदश नवान्तरत्वेनावबोद्धव्याः । किं तत्
संवादि(नी ?)त्वं नाम । यद् वादिस्वरेण रागस्य रागत्वं जनि-
तं तन्निर्वाहकत्वं नाम संवा॒दित्वम् । संवादिमण्डलं (मण्डलं ?)
यथा —

┌──────┐                 १
│ग  नि │                 नि
│ध  रि प│ ───────────────┬─────────────────
│स  म  │                 │             ग ध
└──────┘                 │
                 ────────┴───────
                         ३   ४
                     १ ग २ ग ३ ग ४ ध रि
म ध , रिम ध रिनि गस माप साप रिनि ग

इति संवादिमण्डलम् । संवादिप्रयोगो यथा — यस्मिन्
गीते योऽंशत्वेन परिकल्पितः षड्जस्तस्य स्थाने मध्यमः
क्रियमाणो रागहा न भवेत् । यस्मिन् स्थाने मूर्च्छनावशान्म-
ध्यमः प्रयुक्तः अस्मिन् स्थाने क्रियमाणः षड्जो जातिरागहा
न भवेत् । षड्जपञ्चमयोः स्थाने पञ्चमषड्जौ प्रयुज्यमानौ
जातिरागहानिकरौ न भवतः । एवम् ऋषभधैवतयोः स्थाने
धैवतर्षभौ प्रयुज्यमानौ जातिरागविनाशकरौ न भवतः । एवं
गान्धारनिषादयोः स्थाने निषादगान्धारौ । (ककु ? ऋष)भस्य
धैवतांशत्वेन (रेवगुप्त ? धैवत)स्य ऋषभांशत्वेन तदुभयराग-
जनन्याश्चर्षभजातेरृषभांशपरिग्रहात् परस्परसम्बद्धौ च प्रयु-
ज्यमानौ जातिरागविनाशकरौ न भवतः । अनुवादित्वं च पुन-


१. 'स', २. '३', ३. 'नी', ४ 'री' ख. पाठ .
५. 'भी' क. पाठ

स्वरनिर्णय । १५
रेकश्रुत्यन्तरहीनत्वेन स्यात् । ननु कि(न्त्यन ? न्तद्)नुवादि-
त्वम् । यत् संवादिना रागस्य रागत्वं संपादितं तत्प्रतिपा-
(दि ? दकं) नामानुवादित्वम् । यथा —
[अनुवादिमण्डलम् — कोष्ठकेषु: प रि, ग ध, नि]
अनुवादिप्रयोगो यथा — षड्जस्थाने ऋषभः ऋषभस्थाने
षड्जः प्रयुज्यमानः स्वरूपं भजन् जातिरागहा न भवति ।
पञ्चमस्य स्थाने धैवतः प्रयुज्यमानो धैवतस्य स्थाने पञ्चमः
प्रयुज्यमानो रागहा न भवेत् । षड्जस्थाने धैवतः प्रयुज्य-
मानो धैवतैस्थाने षड्जः प्रयुज्यमानो जातिरागविनाशकरो
न भवति । पञ्चमस्थाने ऋषभः प्रयुज्यमानः ऋषभस्थाने
पञ्चमः प्रयुज्यमानो जातिरागहा न भवेत् । इदानीं गान्धार-
निषादयोरेकश्रुत्यन्तरहीनत्वेनानुवादित्वे प्राप्ते द्व्यन्तरत्वाद्
विवादित्वमुक्तम् । किं तद् विवादित्वं नाम । वाद्यादिभिः
स्वरैर्यद् रागस्य वादित्वं संवादित्वमनुवादित्वं प्राप्तं, तद्विनाश-
कत्वं नाम विवादित्वम् । विवादिमण्डलं यथा —
१. 'श्रुतिही' क. पाठ. २. 'मस्था', ३ 'तस्य स्या'
ख पाठ

१६ बृहद्देशी
ग ग


ग ग


नि नि


ध प
विवादिप्रयोगो यथा — ऋषभस्थाने गान्धारः प्रयुज्यमानो
गान्धारस्थाने पञ्चम ऋषभः प्रयुज्यमानो जातिरागहानिकरो
भवेत्। धैवतस्थाने निषादः प्रयुज्यमानो (जा)तिरागहानिकरो
भवेत्। इति षड्जग्रामे ।
इदानीं मध्यमग्रामे वादित्वं संवादित्वमनुवादित्वं च
प्रदर्श्यते । तत्र वादिनो मध्यमादिस्वराः । सप्तनवकत्रयोद-
शान्ताः संवादिनाः । एकश्रुत्यन्तरहीनादनुवादिनः । द्वयन्तरौ
तु स्वरौ विवादिनौ । मध्यमग्रामे वादिमण्डल — म प ध
नि स रि ग । संवादिमण्डलं यथा —
स ___________________________________________
स ___ ___ ___
स

  • { ___ ___
    नि प
    {
    त नि
    द्वि नि नि

स्वरनिर्णयः ! १७
मध्यमग्रामे अनुवादिमण्डलं यथा —
नि स
ध
रि प
रि म रा ग रि
मध्यमग्रामे विवादिमण्डलं यथा —
नि
ध ध
म ग रि
इदानीं सप्तविधस्वरयोगस्य नामानि कथ्यन्ते ।
आर्चिकं, गाडिकं, सामिकं, स्वरान्तरम्, औडवं, षाडवं,
सम्पूर्णं चेति । तथाचाह नारदः —
“आर्चिको गाडिकश्चैव सामिकश्च स्वरान्तरः ।
औडवं षाडवश्चैव सम्पूर्णश्चेति सप्तमः ॥
एकस्वरप्रयोगो (भि ? हि) आर्चिकः सोऽभिधीयते ।
गाडिको द्विस्वरो ज्ञेयस्त्रिस्वरश्चैव सामिकः ॥
चतुःस्वरप्रयोगो हि कथितस्तु स्वरान्तरः ॥”
१., २. 'षि' म. पाठः.

१८ बृहद्देशी
औडवः *पञ्चमेन धूतो यस्मात् तेनासौ धैवतो मतः।
ललाटे धैवत इत्यर्थः(?)।
निषीदन्ति स्वराः सर्वे निषादस्तेन कथ्यते॥ ६४॥
चतुःश्रुतिस्वरा विप्रास्त्रिश्रुती क्षत्रियौ मतौ।
वैश्यौ द्विश्रुतिकौ ज्ञेयौ शूद्रौ चान्तरकौ स्वरौ॥ ६५॥
वर्गाष्टकं तु सम्प्राप्य अकाराद्यिशान्तकम्।
वर्णमात्रसमायुक्तमुद्धरेत् स्वरसप्तकम्॥ ६६॥
अष्टमस्य तृतीयं तु हरिवीजममन्वितम्।
आद्यं स्वरं स्वरज्ञस्तु उद्धरेत तु प्रयत्नतः॥ ६७॥
सप्तमस्य द्वितीयं तु कामबीजसमन्वितम्।
द्वितीयं तु स्वरं विद्धि ब्रह्मस्थानसमुद्भवम्॥ ६८॥
द्वितीयस्यापि वर्गस्य तृतीयं विष्णुसंयुतम्।
उद्धरेच्च स्वरं नित्यं स्वरभेद्मनोहरम्॥ ६९॥
षष्ठस्यापि हि वर्गस्य अन्ति(मश्चा?मं चा)दिसंयुतम्।
अविनष्टं विजानीयान्मध्यमं स्वरस(त्त?त्त)मम्॥ ७०॥
तथादिप्रथमोपेतं स्व(र?रं) संविद्धि शोभनम्।
व्योमसङ्ख्यासमायुक्तमोष्ठस्थानसमुद्भवम्॥ ७१॥
पञ्चमस्यापि वर्गस्य चतुर्थं चा(ति?दि)संयुतम्।
कोदण्डद्वयसम्भूतमुद्धरेत् स्वरमुत्तमम्॥ ७२॥
अकारान्तान्ममभिन्नं पञ्चमान्तं समुद्धरेत्।
ब्रह्मस्थानसमुद्भूतं सुतारध्वनिसंयुतम्॥ ७३॥

  • इतः परम् औडवादिनिरूपणपरः कियांश्चिद् ग्रन्थपातः सम्भाव्यते।

स्वरनिर्णयः । १९
आगमस्थं स्वरोद्धारमि( ?)ति तावत् प्रदर्शितम् ।
अधुना सम्प्रवक्ष्यामि कुलवर्णादिनिर्णयम् ॥ ७४ ॥
देवकुलसमुत्पन्नाः षड्जगान्धारमध्यमाः ।
पितृवंशसमुत्पन्नः स्वरोऽसौ पञ्चमः किल ॥ ७५ ॥
ऋषिवंशसमुत्पन्नौ स्वरा(दि ? वृ)षभधैवतौ ।
असुराणां कुले जातो नि(पसा ? पा)दः स(नि)संज्ञितः ॥
शूद्रजातिसमुत्पन्नौ तत् काकल्यन्तरौ स्वरौ(?) ।
पद्मपत्रप्रभः षड्ज ऋषभः शुकवर्णकः ॥ ७७ ॥
कनकाभस्तु गान्धारो मध्यमः कुन्दसन्निभः ।
पञ्चमस्तु भवेत् कृष्णः पीतवर्णस्तु धैवतः ॥ ७८ ॥
निषादः सर्ववर्णोऽयं विज्ञेयैः स्वरवर्णकः ।
षड्जस्य दैवतं ब्रह्मा ऋषभो वह्निदैवतः ॥ ७९ ॥
गान्धारो भारतीदेवो मध्यमो (भि ? हर)दैवतः ।
पञ्चमः शतयज्ञस्तु धैवतो गणनायकः ॥ ८० ॥
निषादो भानुदेवस्तु इत्येते स्वरदेवताः ।
अभिगीतः स्वरः षड्ज ऋषभो ब्रह्मणोदितः ॥ ८१ ॥
सोमेन गीतो गान्धारो विष्णुना मध्यमः स्वरः ।
पञ्चमस्तु स्वरो गीतो नारदेन महात्मना ॥ ८२ ॥
धैवतश्च निषादश्च गीतौ तुम्बुरुणा स्वरौ ।
हास्यशृङ्गारयोः का(र्ये ? र्या) स्वरौ मध्यमपञ्चमौ ॥ ८३ ॥
१. 'रं' ख. पाठः. २. 'या' क. पाठः.

२० बृहद्देश्या
षड्जर्षभौ तथा ज्ञेयौ वीररौद्राद्भुतेषु च ।
गान्धारश्च निषादश्च कर्तव्यौ करुणे रसे ॥ ८४ ॥
धैवतश्चापि कर्तव्यो बीभत्से सभयानके ।
कण्ठादुत्तिष्ठते षड्ज ऋषभः शिरसः स्थितः ॥ ८५ ॥
नासायाश्चैव गान्धार उरसो मध्यमः स्वरः ।
उरसः शिरसः कण्ठादुत्थितः पञ्चमः स्वरः ॥ ८६ ॥
तालुदेशात् समुत्पन्नो धैवतस्तु यशस्विनि ! ।
निषादस्तु समुत्पन्नो विज्ञेयः सर्वसन्धितः ॥ ८७ ॥
एवं स्वरान् विजानीयादुत्पन्नान् गीतसागरे ।
महादेवमुखोद्भूतान् देशीमार्गे च संस्थितान् ॥ ८८ ॥
अथ किमुच्यते ग्रामशब्देन । ननु कति ग्रामा
भवन्ति ।
कस्मादुत्पद्यते ग्रामः किं वा तस्य प्रयोजनम् ।
अत्रोच्यते —
समूहवाचिनौ ग्रामौ स्वरश्रुत्यादिसंयुतौ ॥ ८९ ॥
यथा कुटुम्बिनः सर्वे एकीभूत्वा वसन्ति हि ।
सर्वलोकेषु स ग्रामो यत्र नित्यं व्यवस्थितः ॥ ९० ॥
षड्जमध्यमसंज्ञौ तु द्वौ ग्रामौ विश्रुतौ किल ।
गान्धारं नारदो ब्रूते स तु मर्त्यैर्न गीयते ॥ ९१ ॥
सामवेदात् स्वरा जाताः स्वरेभ्यो ग्रामसम्भवः ।
द्वावेतौ च इमौ ज्ञेयौ षड्जमध्यमलक्षितौ ॥ ९२ ॥
१. 'शे स' ख. पाठः.

स्वरनिर्णयः । २१
प्रयोजनं च यथा —स्वरश्रुतिमूर्च्छनातानजातिरागा-
णां व्यवस्थापनत्वं नाम प्रयोजनम् । ननु कथं षड्जमध्यम-
स्वराभ्यां ग्रामव्यपदेशः । उच्यते । असाधारणत्वेन ताभ्यां
ग्रामव्यपदेशः । असाधारणत्वं च देवकुलसमुत्पन्नत्वेन ।
तथाचाह नारदः —
“देवकुलसमुत्पन्नाः षड्जगान्धारमध्यमाः ।
एतेषां देवता ज्ञेया ब्रह्मविष्णुमहेश्वराः ॥
उभयोर्ग्रामयोर्मध्ये मुख्यत्वं कस्य गम्यते ।
षड्जबाहि च मुख्यत्वं गम्यते वचनान्मुनेः ॥”
एतदुक्तं भवति —
द्वौ ग्रामौ विश्रुतौ लोके षड्जमध्यमसंज्ञितौ ।
ननु कथं द्वावेव ग्रामौ । उच्यते । इह हि द्विस्वर-
प्रयोगमूलप्रयोगवशाद् द्वौ ग्रामावुपन्यस्तौ ।
जातिभिः श्रुतिभिश्चैव स्वरा ग्रामत्वमागताः ॥ ९३ ॥
तत्र जातिभिः शुद्धाभिः श्रुतिमिश्च नातिकाभिः(?) । तस्मात्
शुद्धासु जातिषु विकृतासु च ये स्वराः सन्ति तेषां स्वराणां
श्रुतिवैकल्यात् किं स्यादुत्कर्षापकर्षाभ्यां संकीर्णत्वेन च स्वरा
ग्रामत्वमागताः । तत्र शुद्धाभिः षड्भिः षड्जो विकृताभिर्म-
ध्यम इति द्वाभ्यां च संकीर्णा जाताः । ताभ्यो रागसंभवेति(?)
ग्रामान्यत्वाज्जातिरागान्यत्वम् ।
इदानीमिव स्वराः प्राप्ता *(?) मूर्छनाः कथ्यन्ते । ननु
मूर्छनाशब्दस्य व्युत्पत्ति कीदृशी । लक्षणं च कीदृशं

२२ बृहद्देश्यां
तस्य । उच्यते । मूर्छना— (ना ?)व्युत्पत्तिः— ‘मूर्छा मोह-
समुच्छ्राययोः',
मूर्छते (?) येन रागो हि मूर्छनेत्यभिसंज्ञिता ।
आरोहणावरोहणक्रमेण स्वरसप्तकम् ॥ ९४ ॥
मूर्छनाशब्दवाच्यं हि विज्ञेयं तद्विचक्षणैः ।
सा च मूर्छना द्विविधा सप्तस्वरमूर्छना द्वादशस्वर-
मूर्छना चेति । तत्र सप्तस्वरमूर्छना चतुर्विधा पूर्णा षाडवा
औडुविता साधारणा चेति । तत्र सप्तभिः स्वरैर्या गीयते
सा पूर्णा । षड्भिः स्वरैर्या गीयते सा षाडवौ । पञ्चभिः
स्वरैर्या गीयते सा औडुविता । काकल्यैरन्तरस्वरैर्या गीयते
सा साधारणा ।
इदानीं मूर्छनामण्डलमुच्यते । तत्र परिपाट्याहित-
त्वेन प्रवृ(त्तास्ता ? च्त्वा)त् सप्तस्वराणां मूर्छनानां प्रतिग्राम-
मेकोनपञ्चाशत् स्वराः कोष्ठाश्च भवन्ति । तद्यथा—
एकोना खण्डु(?) पञ्चाशत् कर्तव्याः स्वरसंयुताः ॥ ९५ ॥
तिर्यगूर्ध्वं च रेखाभिरष्टभिश्चैव कोष्टकाः ।
तत्र स नि ध प म ग रीत्याद्याः सप्त षड्जग्रामे ।
मगरिसनिधपाद्याः सप्त मध्यमग्रामे । (ति?) तिर्यगूर्ध्वगा अपि
स्वरास्तिर्यक् कार्याः । तद्यथा—निधपमगरिसा इति षड्ज-
१. 'वा', २. 'ञ्चि' ख. पाठः.

  • 'इदानीमवसरप्राप्ता' इति पाठः स्यात् ।

[स्वरनिर्णयः।] [२३]

ग्रामे। गरिसनिधपमा ऊर्ध्वा मध्यमग्रामे १। एवं तावदुभयग्रा-
मिक्यश्चतुर्दश मूर्च्छनाः सम्पूर्णाः—सरिगमपधनि। निसरि-
गमपध। धनिसरिगमप। पधनिसरिगम। मपधनिसरिग।
गमपधनिसरि। रिगमपधनिस इति षड्जग्रामे। मपधनि-
सरिग। गमपधनिसरि। रिगमपधनिस। सरिगमपधनि। निस-
रिगमपध। धनिसरिगमप। पधनिसरिगम। इति मध्यम-
ग्रामे। मूर्च्छनामण्डलम् —

| नि | ध | प | म | ग | रि | स |
| ध | प | म | ग | रि | स | नि |
| प | म | ग | रि | स | नि | ध | इति षड्जग्रामे
| म | ग | रि | स | नि | ध | प | मूर्च्छनामण्डलम्।
| ग | रि | स | नि | ध | प | म |
| रि | स | नि | ध | प | म | ग |
| स | नि | ध | प | म | ग | रि |

| ग | रि | स | नि | ध | प | म |
| रि | स | नि | ध | प | म | ग |
| स | नि | ध | प | म | ग | रि | इति मध्यमग्रामे
| नि | ध | प | म | ग | रि | स | मूर्च्छनामण्डलम्।
| ध | प | म | ग | रि | स | नि |
| प | म | ग | रि | स | नि | ध |
| म | ग | रि | स | नि | ध | प |

एवं तावदुभयग्रामिक्यश्चतुर्दशमूर्च्छनाः सम्पूर्णाः
कथिताः। इदानीं तासां नामानि कथ्यन्ते—
१. 'मे। नियगूर्ध्वा अपि स्युः। एवं' क. पाठः.

२४ बृहद्देशी
षड्जे चोत्तरमन्दा स्यान्निषादे रजनी स्मृता ॥ ९६ ॥
धैवते चोत्तरा ज्ञेया शुद्धषड्जा च पञ्चमे ।
मध्यमे मत्सरी ज्ञेया गान्धारे चाश्वक्रान्तिका ॥ ९७ ॥
ऋषभेण च विज्ञेयाः सप्तमी च भिरुद्गता च (?) ।
षड्जग्रामाश्रिता तोयं (?) विज्ञेयाः सप्त मूर्छनाः ॥ ९८ ॥
अतःपरं प्रवक्ष्यामि मध्यमग्राममूर्छनाः ।
मध्यमेन च सौवीरी गान्धारे हरिणाह्वया ॥ ९९ ॥
मूर्छना शुद्धमध्य * (?) षड्जे स्यान्निषादे चैव मार्जिका ।
पौरवी धैव(तो ? ते) ज्ञे(यो ? या) हृष्यका पञ्चमे तथा ॥
इति तावन्मया प्रोक्ता मध्यमग्राममूर्छनाः ।
स्यात् कलोपनता चैव ऋषभेणैव + + + ॥ १०१ ॥
षट्स्वरैः षाडवा ज्ञेया औडुवा पञ्चभिः स्वरैः ।
षाडवौष्टी च ता(नां ? सां) च (?) व्युत्पत्तिश्च निगद्यते ॥
षट्स्वरा अवन्ति रक्षन्ति ये ते (?) ।
इदानीं सम्प्रवक्ष्यामि षाडवौडवमूर्छनाः ।
उडवो नक्षत्राणि गच्छन्ति यस्मिन्नाकाशे तदाकाश-
मौडवम् । तेन पञ्चसंख्या लक्ष्यते ।
पञ्चमं हि महाभूतं तत्स्था संख्या च विद्यते ॥ १०३ ॥
यस्य तदौडुवितं षाडवस्वराः तेषां प्रयोगः षाडवः । तार-
कादितच् प्रत्ययः ।
षाडवं षट्स्वरं ज्ञेयं लक्षणं सप्तधा मतम् ।
(इत्ये?ए)कोनपञ्चाशत्सं(ख्या?ख्यं) तज्ज्ञेयं गीतवेदिभिः॥

  • इह पूर्वप्रदर्शितमध्यमग्राममूर्छनामण्डलानुसारेण गान्धारनामनिर्दे-
    ज्ञानन्तरम् ऋषभानामादर्शनाद् आदर्शे तद्वाचकस्य ग्रन्थस्य लोप. सम्भाव्यते ।