सामग्री पर जाएँ
सर्वकोश
बृहद्देशी (मतंग मुनि - राग-पद्धति का विश्व में सर्वप्रथम प्रतिपादक ग्रन्थ)

बृहद्देशी (मतंग मुनि - राग-पद्धति का विश्व में सर्वप्रथम प्रतिपादक ग्रन्थ)

The Brihaddeshi of Sri Matanga Muni

मतंग मुनि (सम्पादक: के. साम्बशिव शास्त्री) द्वारा

DevanagariSanskritpublished175 पृष्ठ

पृष्ठ 13, कुल 175 में से

संदर्भ में पढ़ें
पृष्ठ 13

[Header] श्रुतिनिर्णयः । ५

“उच्चैस्तरो ध्वनी रूक्षो विज्ञेयो वातजो बुधैः ।
गम्भीरो घन(नी ? शी)लश्च ज्ञातव्यः पित्तजो ध्वनिः ॥
स्निग्धश्च सुकुमारश्च मधुरः कफजो ध्वनिः ।
त्रयाणां गुणसंयुक्तो विज्ञेयः सन्निपातजः ॥”
अपरे तु........न्धादयो नवधा श्रुतिं प्रतिपद्यन्ते ॥ २७ ॥
तथाहि—
द्विश्रुतिस्त्रिश्रुतिश्चैव चतुःश्रुतिक एव च ।
स्वरप्रयोगः कर्तव्यो वंशे छिद्रगतो बुधैः ॥ २८ ॥
भरतेनाप्युक्तं—
“द्विक(स्त्रि ? त्रि)कचतुष्कास्तु ज्ञेया वंशगताः स्वराः ।
इति तावन्मया प्रोक्ताः सर्ववंशश्रुतयो नव ॥”
तत्र केचिन्मीमांसामांसलितधियो धीरा द्वाविंशति-
श्रुती(यो ?)र्मन्यन्ते । केचन पुनः (षट्)षष्टिभेदभिन्नाः श्रु-
तय इति मन्यन्ते । अन्ये पुनरानन्त्यं वर्णयन्ति श्रुतीनाम् ।
यथाचाह कोहलः—
“द्वाविंशतिं केचिदुदाहरन्ति (श्रुतीः) श्रुतिज्ञानविचारदक्षाः ।
षट्षष्टिभिन्नाः खलु केचिदासामानन्त्यमेव प्रतिपादयन्ति ॥”
ननु श्रुतेः किं मानम् । उच्यते । पञ्चमस्य श्रुत्यु-
त्कर्षापकर्षाभ्यां मार्दवादायतत्वाद्वा यदन्तरं (तु ? तत्) प्रमा-
(णां ? णं) श्रु(ति ? ते)रिति । इदानीं द्वाविंशतिप्रकारतोया निद-
र्शनं यथा—द्वे वेणी तुल्यप्रमाणे तन्त्र्युपपादनं दण्डमूर्च्छना
समे कृत्वा षड्जग्रामाश्रिते कार्ये । तयोरन्यतरस्यां मध्यम-
१. 'त', २. 'स्या' ख. पाठः.