बृहद्देशी (मतंग मुनि - राग-पद्धति का विश्व में सर्वप्रथम प्रतिपादक ग्रन्थ)
The Brihaddeshi of Sri Matanga Muni
मतंग मुनि (सम्पादक: के. साम्बशिव शास्त्री) द्वारा
पृष्ठ 28, कुल 175 में से
संदर्भ में पढ़ें२० बृहद्देश्या
षड्जर्षभौ तथा ज्ञेयौ वीररौद्राद्भुतेषु च ।
गान्धारश्च निषादश्च कर्तव्यौ करुणे रसे ॥ ८४ ॥
धैवतश्चापि कर्तव्यो बीभत्से सभयानके ।
कण्ठादुत्तिष्ठते षड्ज ऋषभः शिरसः स्थितः ॥ ८५ ॥
नासायाश्चैव गान्धार उरसो मध्यमः स्वरः ।
उरसः शिरसः कण्ठादुत्थितः पञ्चमः स्वरः ॥ ८६ ॥
तालुदेशात् समुत्पन्नो धैवतस्तु यशस्विनि ! ।
निषादस्तु समुत्पन्नो विज्ञेयः सर्वसन्धितः ॥ ८७ ॥
एवं स्वरान् विजानीयादुत्पन्नान् गीतसागरे ।
महादेवमुखोद्भूतान् देशीमार्गे च संस्थितान् ॥ ८८ ॥
अथ किमुच्यते ग्रामशब्देन । ननु कति ग्रामा
भवन्ति ।
कस्मादुत्पद्यते ग्रामः किं वा तस्य प्रयोजनम् ।
अत्रोच्यते —
समूहवाचिनौ ग्रामौ स्वरश्रुत्यादिसंयुतौ ॥ ८९ ॥
यथा कुटुम्बिनः सर्वे एकीभूत्वा वसन्ति हि ।
सर्वलोकेषु स ग्रामो यत्र नित्यं व्यवस्थितः ॥ ९० ॥
षड्जमध्यमसंज्ञौ तु द्वौ ग्रामौ विश्रुतौ किल ।
गान्धारं नारदो ब्रूते स तु मर्त्यैर्न गीयते ॥ ९१ ॥
सामवेदात् स्वरा जाताः स्वरेभ्यो ग्रामसम्भवः ।
द्वावेतौ च इमौ ज्ञेयौ षड्जमध्यमलक्षितौ ॥ ९२ ॥
१. 'शे स' ख. पाठः.