बृहद्देशी (मतंग मुनि - राग-पद्धति का विश्व में सर्वप्रथम प्रतिपादक ग्रन्थ)
The Brihaddeshi of Sri Matanga Muni
मतंग मुनि (सम्पादक: के. साम्बशिव शास्त्री) द्वारा
पृष्ठ 15, कुल 175 में से
संदर्भ में पढ़ेंदर्शिताः । इदानीं षट्षष्टिभेदभिन्नाः श्रुतयः कथ्यन्ते । मन्द-
मध्यमतारेषु उरःकण्ठशिरस्सु त्रिषु स्थानेषु प्रत्ये(का ? कं) द्वा-
विंशतिप्रकारतया भिद्यमानेषु श्रुतयो हि षट्षष्टिभेदभिन्ना
भवन्तीति केचिन्मन्यन्ते । अधुना श्रुतीनामानन्त्यं दर्श-
यामः ।
आनन्त्यं तु श्रुतीनां तु दर्शयन्ति विपश्चितः ।
यथा ध्वनिविशेषाणामानन्त्यं गगनोदरे ॥ २९ ॥
उ(त्तारुग ? चण्ड)पवनोद्वेगजलराशिसमुद्भवाः ।
(कि)यन्तः प्रतिपद्यन्ते न तरङ्गपरम्पराः ॥ ३० ॥
इति श्रुतीनामानन्त्यं दर्शितम् ।
इदानीं श्रुतीनां तादात्म्यादिविकल्पः कथ्यते —
तादात्म्यं च विवर्तत्वं कार्यत्वं परिणामिता ।
अभिव्यञ्जकता चापि श्रुतीनां परिकथ्यते ॥ ३१ ॥
इदानीमेतदेव विवृणोति —
विशेषस्पर्शशून्यत्वाच्छ्रोत्रेन्द्रियग्राह्यता ।
स्वरश्रुत्योस्तु तादात्म्यं जातिव्यक्त्योरिवानयोः॥ ३२ ॥
न