सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)

Bhojanakutuhala of Raghunatha Navahasta

रघुनाथ नवहस्त (सम्पादक: सूरनाड कुंजन पिल्लै) द्वारा

DevanagariSanskritpublished358 पृष्ठ

१० भोजनकुतूहले
तथां
स्निग्धोमा स्वादुतिक्तोष्णा कफपित्तकरी गुरुः ।
दृक्शुक्रहृत्कटुः पाके तद्बद्बीजं१ कुसुम्भजम् ॥
कुसुंभे ।
३इत्यतसीकुसुम्भगुणाः
अथ सर्षपाः ।
निघण्टौ —
आसुरी कटुतिक्तोष्णा वातप्लीहार्तिशूलनुत् ।
दाहपित्तप्रदा हन्ति कफपित्त४कृमिव्रणान् ॥
मोहरी ।
राजसर्षपकस्तिक्तः कटूष्णो वातशूलनुत् ।
पित्तदाहप्रदो गुल्मकण्डूकुष्ठव्रणापहः ॥
कृष्णशिरस ।
निघण्टौ —
सिद्धार्थः कटुतिक्तोष्णो वातरक्तग्रंहापहः ।
त्वग्दोषशमनो रुच्यो विषभूतग्रहापहः ॥
श्वेतसर्षप ।
इति सर्षपाः ।
१. T2. तदुद्बीजं Bh. तद्बीजं च ।
२. All mss. other than J1. omit this word.
३. Bh. इति जवसफडईगुणाः ।
४. •T2. गुल्मकृमि
५. P2. Gives also the Tamil equivalent Katuku.
६. P1. omits the word कृष्णशिरस; P2. कृष्णसर्षप.
७. Bh. ग्रहापहः ।

प्रथमपरिच्छेदः ।
अथ मसूराः ।
निघण्टौ —
मसूरो मधुरश्शीतः सङ्ग्राही कफपित्तजित् ।
वातामयकरश्चैव मूत्रकृच्छ्रहरो लघुः ॥
इति मसूराः ।¹
इति शिम्बीधान्यप्रकरणम् ॥
अथ तृणधान्यम् ।
वाग्भटः —
कङ्गुकोद्रवनीवारश्यामाकादि हिमं लघु ।
तृणधान्यं पवनकृल्लेखनं कफपित्तहृत् ॥
निघण्टौ —
स्त्रियां कङ्गुप्रियंगू द्वे कृष्णा रक्ता सिता तथा ।
पीता चतुर्विधा कङ्गुस्तासां पीता वरा स्मृता ॥
कङ्गुस्तु भग्नसन्धानवातकृद् बृंहणी गुरुः ।
रूक्षा श्लेष्महरातीव वाजिनां गुणकृद् भृशम् ॥
चीनाकः कङ्गुभेदोऽस्ति स ज्ञेयः कङ्गुवद् गुणैः ॥
³राळे ।
निघण्टौ —
श्यामाको मधुरः स्निग्धः कषायो लघुशीतलः ।
वातकृत्कफपित्तघ्नः सङ्ग्राही विषदोषनुत् ॥
⁴साँवे ।
१. P1. P2. Bh. मसूरगुणाः ।
२. Bh. त्रिधा कङ्गु ।
३. P2. Gives also the Tamil equivalent Tenai.
४. P2. Gives also the Tamil equivalent Sāmai.

२० केवरकुई ले
निघण्टौ
कोद्रवो मधुरस्तिक्तो व्रणानां पथ्यकारकः ।
कफपित्तहरो रूक्षो मोहकृच्छीतलो गुरुः॥
हारक ।
निघण्टौ --
वरको मधुरो रूक्षः कषायो वातपित्तकृत ।
वरयी ।
वारिजो गिल्लाच्छिन्नो बहुदलकणिशश्च गुच्छकणिशश्च
तिक्तो मधुरकषायः शीतः पित्तास्रनाशनो बल्यः ॥
नाचणे ।
निघण्टौ--
कुरी तु तृणधान्यं स्यान्मधुरं तद्गलप्रदम् ।
हरितं चाथ पक्वं वा वाजिनां पुष्टिदायकम् ॥
१, अन्तर्वेद्यां प्रसिद्धौ ।
इति तृणधान्यप्रकरणम् ॥
१. P₂. Gives also the tamil equivalent Kevaraku.
[1. The revisor adds the following in the margin
मलीनको रक्तमु ो नर्तको नर्तमुद्गकः ।
नीवारस्थण्डिलाम्ब्वद्रीवनव्रीहिर्मुनिप्रियः ॥
नर्तकश्चक्रसस्यं स्यान्निश्शुको भूधरः खरः ।
नर्तकः व्रीहिसबलो ह्यर्णवो दोषहल्लघुः ॥
नर्तकः पित्तहा शीतो वनव्रीहिफलप्रदः ॥
नीवार, वनव्रीहि नाचणे गणा..

प्रथमपरिच्छेदः ।
[अथ धान्यसामान्यगुणप्रकरणम् ।]
वाग्भटः —
माषोऽत्र सर्वेष्ववरो यवकश्शूकजेषु च १।
अत्र शिम्बीधान्ये । सुषेणः —
धान्यं वापितमुत्तमं तदखिलं छिन्नोद्भवं मध्यमं
ज्ञेयं यद्यदवापितं तदधमं निस्सारदोषप्रदम् ।
दग्धायां भुवि चोप्यतेऽपि विपिने ये वापिताः शालयो
ये च छिन्नभवा भवन्ति खलु ते विण्मूत्रबन्धप्रदाः ॥
क्षारोदकसमुत्पन्नं धान्यं सर्वरुजावहम् ।
स्वादु शुभ्रोदके जातं धान्यं सर्वरुजापहम् ॥
सुस्निग्धमृत्तिकोद्भूतं धान्यमोजोबलप्रदम् ।
बलपुष्टिप्रभावघ्नं बालुकामृत्तिकोद्भवम् ॥
नवं धान्यमभिष्यन्दि लघु संवत्सरोषितम् ।
द्वयब्दोषितं लघुतरं त्रिवर्षमबलं भवेत् ॥
चणका यवगोधूमास्तिला माषा नवा हिताः ।
३नैवा इति शेषः ।
पुराणा विरसा रूक्षा अहिता दुर्जरा बलाः ।
१. J1. The revisor adds on this subject in the margin
of the previous folio : अत्र —
सर्वं धान्यं नवं निन्द्यं नवमुद्गो वरो हितः ।
संवत्सरोषितो व्रीहिर्लघुः पथ्यतमो मतः ॥
केचिदाचक्षते धान्यं पथ्यं श्रेष्ठं त्रिवाषिकम् ।
षण्मासानन्तरं पथ्यं शिम्बीधान्यं प्रचक्षते ॥
तत्र माषोऽवरः प्रोक्तः शूकजेषु यवो मतः ।
व्रीहिधान्येषु सर्वेषु शालिः श्रेष्ठतमो मतः ॥
शिम्बीधान्येषु सर्वेषु प्रवरो मुद्ग उच्यते ॥
२. T2. omits 'स्वादु...पहम्'
३. T1 Bh. J1 omit नवा इति शेषः ।

२२ भोजनकुतूहले
वाग्भटः—
नवं धान्यमभिष्यन्दि सैक्यं केदारजं च यत् ।
अभिष्यन्दीत्यन्वयः ।
लघु वर्षोषितं दग्धभूमिजं स्थलसम्भवम् ।
शीघ्रजन्म तथा सूप्यं निस्तुषं युक्तिभर्जितम् ॥ इति ॥
अथ भृष्टधान्यगुणाः ।
ये केचिद् व्रीहयो भृष्टास्ते लाजा इति संज्ञिताः
उपलक्षणमेतत् ।
येषां स्युस्तण्डुलास्तानि धान्यानि सतुषाणि तु ।
भृष्टानि स्फुटितान्याहुर्लाजा इति मनीषिणः ॥
इति अभिधानात् ।
लाजाः स्युश्छर्द्यतीसारमेहमेदःकफच्छिदः ।
कासपित्तोपशमना दीपना लघवो हिताः ॥
तथा—
लाजास्स्युर्मधुराश्शीता लघवो दीपनाश्च ते ।
स्वल्पमूत्रा अल्परूक्षा बल्याः पित्तकफच्छिदः ॥
छर्द्यतीसारदाहास्त्रमेहमेदस्तृषापहाः ॥
निघण्टौ—
लाजाश्च यवधानाश्च तर्पणाः पित्तनाशनाः ।
गोधूमयावनाळोत्थाः किञ्चिदुष्णाश्च दीपनाः ॥
इति लाजाः ।

प्रथमपरिच्छेदः ।
निघण्टौ-
यवास्तु निस्तुषा भृष्टाः स्मृता धाना इति स्त्रियाम् ।
धानास्तु दुर्जरा रूक्षास्तृट्प्रदा गुरवश्च ताः ॥
तथा मेदःकफच्छर्दिनाशिन्यस्सम्प्रकीर्तिताः ॥
इति धानाः ।
अथ सक्तवः ।
धान्यानि भ्राष्ट्रभृष्टानि यन्त्रपिष्टानि सक्तवः ।
तत्र-
यवजास्सक्तवश्शीता दीपना लघवस्सराः ।
कफपित्तहरा रूक्षा लेखनाश्च प्रकीर्तिताः ॥
ते पीता बलदा वृष्या बृंहणा भेदनास्तथा ।
तर्पणा मधुरा रुच्याः परिणामे बलावहाः ॥
कफपित्तशमक्षुत्तृड्व्रणनेत्रामयापहाः ।
प्रशस्ता घर्मदाहाध्वव्यायामार्तशरीरिणाम् ।
यवसक्तु ।
निस्तुषैश्चणकैर्भृष्टैस्तुर्यांशैश्च यवैः कृताः ।
सक्तवश्शर्करासर्पिर्युक्ताः ग्रीष्मेऽतिपूजिताः ॥
चणकयवसक्तु
सक्तवश्शालिसम्भूता वह्निदा लघवो हिमाः ।
मधुरा ग्राहिणो रुच्याः पथ्याश्च बलशुक्रदाः ॥
शालिसक्तु ।
अन्यांस्तत्तद्द्रव्यगुणान् लघून् किञ्चिद्विशेषतः ।
यावनाळादिसम्भूतान् विजानीयाद्विचक्षणः ॥
१. P1 'बलभूफदाः'

भोजनकुतूहले
सक्तवो लघवः क्षुत्तृट्श्रमनेत्रामयव्रणान् ।
घ्नन्ति सन्तर्पणाः पानात् सद्य एव बलप्रदाः ॥
नोदकान्तरितान्न द्विर्न निशायां न केवलान् ।
न भुक्त्वा न द्विजैश्छिन्नन् सक्तूनद्यान्न वा बहून् ॥
इति सक्तुप्रकरणम् ।'
शालयस्सतुषा आर्द्रा भृष्टा अस्फुटिताश्च ताः ।
कुट्टिताश्चिपिटास्सम्यक् ते स्मृताः पृथुका इति ॥
पृथुका गुरवो वातनाशनाः श्लेष्मला अपि ।
सक्षीरा बृंहणा वृष्या बल्या भिन्नमला हि ते ॥ पोहे ।
अर्धपक्वैश्शमीधान्यैस्तृणभृष्टैश्च होलकः ।
होलकोऽल्पानिलो मेदःकफदोषश्रमापहः ॥
भवेद्यो होलको यस्य स च तत्तद्गुणो भवेत् । उळा ।
मञ्जरी त्वर्धपक्वा या यवगोधूमयोर्भवेत् ॥
तृणानलेन संसृष्टा बुधैरुम्बीति सा स्मृता ।
उम्बी कफप्रदा बल्या लघ्वी पित्तानिलापहा ॥ वोंवी ।
अर्धस्विन्नास्तु गोधूमा अन्येऽपि चणकादयः ।
कुल्माषा इति कथ्यन्ते शब्दशास्त्रेषु पण्डितैः ॥
J₁. The revisor adds the following in the margin-
पाचितं शुक्लशिम्बीरपिष्टाभ्यां पित्तकोपनम्
कुर्याच्छिरोभ्रमं कार्श्यं प्रशस्तं देहिनां हितम् ॥
अंबीलपाण्याची ॥
Bh. धर्मस्विन्नास्तु.

An exact line-by-line transcription of the page into Markdown:

प्रथमपरिच्छेदः । २५
कुल्माषा गुरवो रूक्षा वातला भिन्नवर्चसः !
यवपिष्टमुष्णोदकसिक्तमीषत्स्विन्नम¹पूपीकृतं कुल्माष इति केचित् ⁝
घुगर्या
दग्धबी²जास्समधुरा दुर्जरा वीर्यपुष्टिदाः ।
तथा—
सुभृष्टश्चणको रुच्यो वातघ्नो रक्तदोषकृत् ।
वीर्येणोष्णो लघुश्चैव स्वेदशैत्यापहारकः ॥
³फुटाणे
स्विन्नास्तु दग्धबीजास्स्युर्मधुरा वीर्यपुष्टिदाः ।
त एव लवणोपेताः किञ्चिदल्पगुणा मताः ।
मिठाणे ।
तैलेऽथ वापि च घृते जरणादियुक्ते
तप्ते जलार्द्रचणकाः ⁴सुभृतास्सुयुक्त्या ।
वाताल्पदाः शिखिकरास्⁵सबला न रूक्षा
हृद्या भवन्ति सुखदा अपि बालकाना

२५ भोजनकुतूहले
क्वचित् संस्कारभेदेन गुणभेदो भवेदिह ।
भक्तं लघु पुराणस्य शालेस्तच्चिपिटो गुरुः ।
क्वचिद्योगप्रभावेन गुणान्तरमपीष्यते ।
कादळं गुरुसर्पिंश्च तद्युक्तं सुपचं भवेत् ॥
तत् कादळं फलम् । युक्तं सर्पिषेत्यर्थः । १•तत्र—
यवागूः षड्गुणजले सिद्धा स्याच्छिथिलोदनः।
यवागूर्ग्राहिणी बल्या तर्पणी वातनाशिनी ॥
विलेपी च घना सिक्तैः सिद्धा नीरे चतुर्गुणे ।
विलेपी तर्पणी वृष्या मधुरा पित्तनाशिनी ॥
द्रवाधिका स्वल्पसिक्था चतुर्दशगुणे जले ।
सिद्धा पेया बुधैर्ज्ञेया यूषः किञ्चिद्धनस्ततः॥
पेया लघुतरा ज्ञेया ग्राहिणी धातुपुष्टिदा ।
यूषो बल्यस्ततः कण्ठ्यो लघुः पाके कफावहः
इति यवाग्वादिलक्षणानि गुणाश्च ॥
अथ भक्तगुणाः ॥
सुधौतांस्तण्डुलांस्फीतान् तोये पञ्चगुणे पचेत् ।
तद्भक्तं प्रस्रुतं चोष्णं विशदं गुणवत्तरम् ।
भक्तं वह्निकरं पथ्यं तर्पणं रोचनं³ लघु ।
अधौतमस्रुतं शीतं गुर्वरुच्यं कफप्रदम् ॥
१ P₁. P₂. T₂. add पुराणस्य शालेः after गुरुः ।
२ T₁. Bh. omit तत्...त्यर्थः; J₁ omits तत् ..... कफावहः ॥
३. Bh. पाचनम्.

प्रथमपरिच्छेदः ।
उष्णोदनो भ्रममदात्ययरक्तपित्त-
मेहप्रदः क्रिमिहरः कसनार्त्तिनिघ्नः ।
आध्मानगुल्मपवनक्षयकासहिक्का-
श्वासापहश्च कफकृल्लघुदीपनश्च ॥
शीतोदनं शीतलमनिसप्रद-
श्वासप्रसेकानिलविद्विबन्धान् ।
कुर्यादसृक् पित्तहरं च मोह-
मूर्च्छाभ्रमच्छर्दिमदामयघ्नम् ॥
१केचित्तु --
जले चतुर्दशगुणे तण्डुलानां चतुष्पलम् ।
विपचेत्स्रावयेन्मण्डं स भक्तो मधुरो लघुः ॥ इति ॥
मांसस्य ।
रसोदनो ज्वरहरो बल्यो वातनिबर्हणः ।
रसोदनम् ।
घोलभक्तं हिमं स्वादु हृद्यं पाचनदीपनम् ।
आमशूलग्रहण्यर्थोहरं पुष्टि२रुचिप्रदम् ॥
मुद्गौदनम् ।
तण्डुला दाळिसंयुक्ता लवणाईकहिङ्गुभिः ।
युक्ताश्च सलिले सिद्धाः कृसराः कथिता बुधैः ॥
कृसरा शुक्रला बल्या गुरुपित्तकफप्रदा ।
दुर्जरा बहुविष्टम्भमलमूत्रकरी स्मृता ॥
खिचडी, मिश्रौदनम्³ ।
'मिश्रैश्शूकशिम्बीधान्यैरोदनो मिश्रको मतः।' इत्यभिधानात् ।
घृते हरिद्रासंयुक्तमाषाणां भर्जयेद्रुटीः ।
तण्डुलांश्चापि निर्धौतान् सहैव परिवर्तयेत् ॥
१. J₁ omits केचित्तु—जले ... मांसस्य ।
२. Bh. बलप्रदम्.
३. Bh. चित्रोदनम्; J₁ omits: मिश्रौदनम् ... इत्यभिधानात् ।

२८ भोजनकुतूहले

सिद्ध्योग्यं जलं तत्र निक्षिप्य कुशलः पचेत् ।
लवणार्द्रकहिङ्गूनि मात्रया तत्र निक्षिपेत् ॥
एषा सिद्धिं समायाता प्रोक्ता तापहरी बुधैः ।
भवेत्तापहरी बल्या वृष्या श्लेष्माणमाचरेत् ॥
बृंहणी तर्पणी रुच्या गुर्वी तत्तद्गुणा स्मृता ।
तापहारी । तापहारीत्युत्तरेषु प्रसिद्धा ।
क्रियासारे तु—
निवेद्यकरणे प्रोक्ता श्रेष्ठा आढकतण्डुलाः ।
तांश्च निर्णिज्य निष्पीड्य षोढाम्भः क्षालयेद्बुधः ॥
सार्धाढकप्रमाणं तु तण्डुलानां जलं स्मृतम् ।
शुद्धैश्शुष्कैर्दारुभिश्च सुदीप्तैः परिपाचितम् ॥
केवलान्नमिति प्रोक्तमिदमन्नं मुनीश्वरैः ॥
परमान्नं हरिद्रान्नं दध्यन्नं कृसरोदनम् ।
गुडोदनं च मुद्गान्नमित्यन्नं षड्विधं स्मृतम् ॥
तण्डुलात्त्रिगुणं दुग्धं दुग्धार्थं जीवनीयकम् ।
तदर्धं गुडचूर्णं तु परमान्नमिति स्मृतम् ॥
परमान्नम् ।
संस्कृतं मथितं गव्यं तण्डुलानां चतुर्गुणम् ।
ईषद्धरिद्रया युक्तं मरीचाजाजिसंयुतम् ।
एतदुक्तं हारिद्रान्नं सुपक्वं पाचितं तथा ॥
हरिद्रान्नम् ।
मधुराम्लेन गोदध्ना शुद्धान्नं तु विमिश्रितम् ।
तण्डुलद्विगुणेनैव मरीचक्षोदसंयुतम् ।
लवणार्द्रकसंयुक्तमेतद्दध्योदनं स्मृतम् ॥
दध्योदनम् ।
तण्डुलार्धं मुद्गभिन्नं वारिणा सह सम्पचेत् ।
युक्तं मरीचचूर्णेन तिलचूर्णं विनिक्षिपेत् ॥

प्रथमपरिच्छेदः ।
इदं क्रुसरनामान्नमित्याख्यातं मुनीश्वरैः ॥
कृस्रान्नम् ।
पूर्वोक्तपायसे युञ्ज्यात् दुग्धार्धं गुडखण्डकम् ।
तदर्धमाज्यं मोचायाः फलमेतद् गुडोदनम् ॥
गुडान्नम् ।
पूर्वोक्तपायसवत्तण्डुलत्रिगुणदुग्धदुग्धाधजलयोगे दुग्धार्धगुडं योज-
यित्वा पचेत् । इतरथा गुडोदनमिति संज्ञानुपपत्तेः ।
तण्डुलस्य त्रिभागैकमूद्गखण्डेन मिश्रितम् ।
पक्वं यदेतन्मुद्गान्नमाख्यातं च चतुर्मुखम् ॥
विना शुद्धान्नमन्येषां प्रदद्याल्लवणं बुधः ।
गुणानेषां यथायोगं विजानीयाद्विचक्षणः ॥
हृदयदीपः--
भूतोदनो दधिनिशासक्तुलाजतिलान्वितः ।
भूतापसरणे योग्यमेतत्प्राहुर्विचक्षणाः ॥
भूतोदनम् ।
इत्योदनप्रकरणम् ।
१. J_1. After this the revisor adds in the margin the
following verses :
क्षीरान्नमस़कृत्पुष्टिं शुक्लं कुर्याच्च पित्तनुत् ।
किञ्चिच्छ्लेष्मकरं हृद्यमरुचौ च समीरणे ॥
हृल्लासे च प्रशस्तं स्यात्तत्तद्बालकवृद्धयोः ॥
दध्यन्नं कफपित्तकोपननं बल्यं परं बृंहणं
मक्षे(?)न्नं गुरु जाठरस्य दहनस्यादापयेन्मन्दताम् ।
पथ्यं नैव भवेद्द्व्रणातुरनृणां स्याद्रक्तजिद्विध्वंसनं
ग्राही रूक्षं (?) विनिहन्ति मारुतततौ रोचिष्णु जाड्यप्रदम् ॥
अन्नं तक्रपरिप्लुतं प्रतिदिनं शस्तं मनःप्रीणनं
मेधाबुद्धिविवर्धनं विनिहरेन्मोहानशेषानापि ।
शोषघ्नं करपाण्डुशोफशमनं कायाग्निसन्दीपनं
कुष्ठाशग्रहणीगदप्रशमनं च्छायाप्रदं पुष्टिदम् ॥
घृतान्वितान्नं वितनोति पुष्टिं कायाग्निसन्दीपनपाचनं च ।
पथ्यं सदा पित्तविकारि जन्तोः पुष्टिप्रदं कोऽन्यनयो(?)र्हितं च

भोजनकुतूहले
॰अथ क्षीरी ।
शुद्धेऽर्धपक्वे दुग्धे तु घृताक्तांस्तण्डुलान् क्षिपेत् ।
ते सिद्धाः क्षीरिका ख्याता सा सिताज्ययुतोत्तमा ॥
क्षीरिका दुर्जरा बल्या धातुपुष्टिप्रदा गुरुः ।
विष्टम्भिनी हरेत्पित्तं रक्तपित्ताग्निमारुतान् ॥
अथ नारिकेरक्षीरी ।
नारिकेरं तनूकृत्य छिन्नं पयसि गोः क्षिपेत् ।
सितागव्याज्यसंयुक्तं तत्पचेन्मृदुवह्निना ॥
नारिकेरोद्भवा क्षीरी स्निग्धा शीतातिपुष्टिदा ।
गुर्वी सुमधुरा वृष्या रक्तपित्तानिलापहा ॥
समिता वर्तिकाः कृत्वा सुसूक्ष्मास्तन्तुसन्निभाः ।
शुष्काः क्षीरेण संसाध्या भोज्या घृतसमन्विताः ॥
सेविका तर्पणी बल्या गुर्वी पित्तानिलापहा ।
ग्राहिणी सन्धिकृद्रुच्या तां खादेन्नातिमात्रया ॥
इयं च चमसीक्षीरिः । 'चमसी पिष्टवर्तिके'ति हैमनः । सेवया
इदमन्योपलक्षकम् । अन्यासां समिताविकारक्षीरिणाम् ।
इति क्षीरीप्रकरणम् ॥
१. 'वोतो गुणवचनात्' (४-१-४४) इति ङीष्विकल्पः ।
२. P1. पीता रक्त ; P2. Bh. T1. पीता रक्त ।
३. J1. The revisor corrects this as गोपयसि क्षिपेत् ।
४. J1. omits 'इयं च ..... हैमनः' ।
५. J1. omits अन्यासां समिताविकारक्षीरिणाम् । इति क्षीरीप्रकरणम् ॥

प्रथमपरिच्छेदः ३१ .
अथ सूपः ।
दाळी तु सलिले सिद्धा लवणार्द्रकहिङ्गुभिः ।
संयुक्ता सूपनाम्नी स्यांत् कथ्यन्ते तद्गुणा'अथ ।
सूपो विष्टम्भको रूक्षः शीतस्तु स विशेषतः ।
निस्तुषो भृष्टसिद्धस्स- लाघवं सुतरां व्रजेत् ॥
वाग्भटः-
प्रभूताभ्यन्तरमलो माषसूपः परं मतः ।
पारिजाते-
विशिष्टो मुद्गकुल्माषो गुरू रुच्यो विबन्धकृत् ।
वातलः श्लेष्मपित्तघ्नः प्रमेहगलरोगजित् ॥
निस्तुषो मुद्गकुल्माषो मधुरश्शीतलस्सरः ।
वातगुल्मप्लीहवह्निसादारुचिहरः परम् ।
विशेषादाढकीसूपः स्वादुर्विष्टम्भकृद्गुरुः ॥
पित्तज्वरार्तिशमनं लघु मुद्गयूपं
सन्तापहारि तदरोचकनाशनं च ।
रक्तप्रसादनमिदं यदि सैन्धवेन
युक्तं तदा पिबति सर्वरुजापहारि ॥
वाग्भटः-
मौद्गस्तु पथ्यस्संशुद्धः व्रणकण्ठाक्षिरोगिणाम् ।
'वरयं चाढकिसूपमुक्तमि'ति च ।
Bh. has before the next verse इति सूपाः ॥ अथ सारप्रकरणम् ।
सारं भोजनसारं सारं सारङ्गलोचनाधरतः ।
पिब खलु वारं वारं नो चेन्मुधा भवति संसारम् ॥
अथाम्लिकासाम् ।
आम्लिकायाः फलं पक्वं प्रस्थे नीरे विनिक्षिपेत् ।
वातघ्नं कफदाहास्र पित्तदोषविनाशनम् ॥
P₁. रुच्यस्संशुद्ध.

भोजनकुतूहले
चणस्य यूषं मधुरं कषायं
कफापहं वातविकारहन्तृ ।
श्वासोर्ध्वकासामयपीनसानां
करोति नाशं बलदीपनं च ॥
असितचणकयूषं दाहनाशं विधत्ते
प्रबलमहिललब्धं सर्वमेहप्रणाशम् ।
दहनमरिचयोगाद्वातरोगापहारि
विर्दळमतिविपक्वं सर्वदोषं जहाति ॥
²प्रबलेति प्रबलयुवतिलब्धानेकमेहप्रणाशमिति वक्तुरभिप्रायः । दहनं
हिंगु ।
कुलित्थयूषोऽनिलहृच्छर्कराश्मरिनाशनः ।
दीपनः पित्तकफकृद्धातुसाम्यकरो लघुः ॥
ज्वरातिसारतृद्दाहव्रणकण्ड्वक्षिरोगजित् ॥
तथा—
³वातानुलोमी कौलत्थो गुल्मतूनीप्रतूनिजित् ।
मासूरयूषगुणानाह सुषेणः—
प्रभूतवातं कुरुतेऽतिरूक्षः कफापहः पित्तहरो ⁴नराणाम् ।
रुचिप्रदः ⁵शूलकरो विशेषादाध्मानुबन्धी कथितः कषायः ॥
⁶मासूर इति शेषः ।
१. P₁. विदलमपि ।
२. T₁. Bh. J₁. omit प्रबलेति . . . . . हिंगु ।
३. P₁. P₂. T₁. Bh. read this line before the line
प्रभूतवातं . . . ... ... नराणाम्
४. J₁. नितान्तम् ।
५. J₁. शूलकरो नराणामाध्मानुबन्धी ।
६. J₁. omits मासूर इति शेषः ।

प्रथमपरिच्छेदः ।
अगस्तिसारःसुस्वादुस्तिक्तो वायुकृत्कफप्रणुत्
पाण्डुशोफारुचिप्लीहगुल्मशूलगदापहः ॥
अगस्तिसारः
विद्याषूपे रसे सूपे शाके चैवोत्तरोत्तरम् ।
गौरवं तनुसान्द्राम्लस्वादिष्वेवं पृथक् पृथक् ॥
इति सूपप्रकरणम्
अथ भक्ष्याणि ।
तत्र --
गोधूमा धवला धूताः२ कुट्टिताश्शोषितास्ततः ।
प्रोत्क्षिप्य यन्त्रनिष्पिष्टाश्चालितास्समितास्स्मृताः३॥
मैदा ।
वारिणा कोमलां कृत्वा समितां साधु मर्दयेत् ।
हस्तलालनया तस्या लोप्त्रीं सम्यक् प्रसारयेत् ॥
लोप्त्री, उंडा इति भाषया ।
अधोमुखघटस्यैतां विस्तृतां प्रक्षिपेद्बहिः ।
मृदुना वह्निना साध्यो सिद्धो मण्डक उच्यते ॥
दुग्धेन साज्यखण्डेन मण्डकं भक्षयेन्नरः ।
अथवा सिद्धमांसेन सतक्रवटकेन वा ॥
१. J1. पृथक् तथा ।
२. T2. धौताः ।
३. T2. adds 'गोधूमचूर्णे समिता यवक्षोदे तु चिकसः' इति हैमनः ।
'चूर्णं गोधूमजं समित' इति हृदयदीपः । P1. P2. add the latter quot-
ation only.
1081

३२ भोजनकुतूहले
˙मण्डको बृंहणो वृष्यो बल्यो रुचिकरो भृशम् ।
˙पाकेऽपि मधुरो ग्राही लघुर्दोषत्रयापहः ॥
माण्डे ।
कुर्यात्समितयातीव तन्वीं पर्पटिकां ततः ।
स्वेदयेत्तप्तके तां तु पोळिकां जगदुर्बुधाः ॥
तंसकं, तवा इति भाषया ।
तां खादेल्लप्सिकायुक्तां तस्या मण्डकवद् गुणाः ।
पोळी ।
लप्सिका च —
समितां सर्पिषा भृष्टां शर्करां पयसि क्षिपेत् ।
तस्मिन् घनीकृते न्यस्येल्लवङ्गमरिचादिकम् ॥
सिद्धैषा लप्सिका ख्याता गुणानस्या वदाम्यहम् ।
लप्सिका बृंहणी वृष्या बल्या पित्तानिलापहा ॥
स्निग्धा श्लेष्मकरी गुर्वी रोचनी तर्पणी परा ॥
इति ।
लापसी ।

  1. P1. P2. T2. Bh add after this:—
    प्रकारान्तरमाह —
    आष्ट्रं नूतनमानीया२रुष्करैर्गोशकृद्युतैः ।
    कुट्टितैर्लेपयेत्सम्यगातपे तत्त शोषयेत् ॥
    तापयित्वाथ तद्वह्नौ तैलेन सह साक्षया ।
    विलिम्पेद् आष्ट्रमेवं स्यात् तत्कार्यक्षममीदृशम् ॥
    प्रक्षाल्य तण्डुलान् सम्यक् चूर्णीकुर्यादुलूखले ।
    शोधयेदथ वस्त्रेण शुद्धेन च दृढेन च ॥
    जलेन योजिते तस्मिन् द्रवीभूते नवं दृढम् ।
    वस्त्रं निमज्जयेत्तेन ताडयेत्तप्तखर्परम् ॥
    किञ्चित्कालेन लग्नं तत् पिष्टं मण्डकतां व्रजेत् ॥
    अनेन प्रकारेण सर्वधान्यानां मण्डका भवन्ति । गुणाः प्रकृतिवद् ज्ञेयाः ।
    २. F1. P2. मानीया क्षरैपैः ।

प्रथमपरिच्छेदः ।
शुष्कगोधूमचूर्णेन किञ्चित्पुष्टां च पोलिकाम् ।
तसके स्वेदयेत्कृत्वा भूयोऽङ्गारैरपि पाचयेत् ॥
सिद्धैषां रोटिका प्रोक्ता गुणानस्याः प्रचक्ष्महे ।
रोटिका बलकृद्रुच्या बृंहणी धातुवर्धिनी ॥
वातघ्नी कफकृद् गुर्वी दीप्ताग्नीनां प्रशस्यते ॥
रोटी, उस्वर
शुद्धगोधूमचूर्णं तु साम्बु गाढं विमर्दयेत् ।
विधाय वटकाकारं निर्धूमेऽग्नौ शनैः पचेत् ॥
अङ्गारकर्कटी ह्येषा बृंहणी शुक्रला लघुः ।
दीपनी कफकृद् बल्या पीनसश्वासकासजित् ॥
लिटी ।
अङ्गारपोळिकाश्शस्ताः विधूमाङ्गारपाचिताः ।
लघ्व्यो बलकरा वृष्या दोषघ्ना वह्निदीपनाः ॥
तावद्गर्जति वर्गोऽत्र भक्ष्याणां श्लाघ्यतेऽपि च ।
उष्णोष्णसर्पिषा भुक्ता यावन्नाङ्गारपोळिका ॥
अङ्गारपोळी
यवजा रोटिका रुच्या मधुरा विशदा लघुः ।
मलशुकानिलकरी बल्या हन्ति कफामयान् ॥
पीनसश्वासकासांश्च मेदोमेहगळामयान् ॥
जवांचीरोटी ।
चूर्णं यच्छुष्कमाषाणां वमसी साभिधीयते ।
वमसीरचिता रोटी कथ्यते बलभद्रिका ॥
रूक्षोष्णा वातला बल्या दीप्ताग्नीनां प्रयोजिता ॥
माषरोटी ।
१. T₂. P₁. P₂. स्वेदयेद्धत्या ।
२; P₁. P₂. तापघ्नी ।
३. J₁. प्रपूजिता ।

३६ भोजनकुतूहले
माषाणां दालयस्तोयस्थापितास्त्यक्त कञ्चुकाः ।
आतपे शोषिता यन्त्रपिष्टांस्ता धूमसीस्स्मृताः ॥
धूमसीरचिता सैव प्रोक्ता झर्झरिका बुधैः ।
झर्झरी कफपित्तघ्नी किञ्चिद्वातकरी स्मृता ॥
झर्झरी, डांगर ।
चाणक्या रोटिका रूक्षा श्लेष्मपित्तास्रणुद्गुरुः ।
विष्टम्भिनी न चक्षुष्या तद्गुणा तिलशष्कुली ॥
चणकरोटी ।
दाळी संस्थापिता तोये ततोऽपहृतकञ्चुका ।
शिलायां साधु सम्पिटा पिष्टिका कथिता बुधैः ॥
माषपिष्टिकया पूर्णगर्भो गोधूमचूर्णतः ।
रचिता रोटिका सैव प्रोक्ता वेढणिका बुधैः ॥
तथा—
गोधूमचूर्णघनवेष्टितमाषमुद्ग-
पिष्टं सुपक्वमिति वेढणिकां वदन्ति ।
तां भक्षयेदतिबलं लभते मनुष्य-
स्तैलेन वाथ सुघृतेन सुगन्धिना वा ॥
भवेद्वेढाणिका बल्या वृष्या रुच्यानिलापहा ।
उष्णा सन्तर्पणी गुर्वी बृंहणी शुक्रला परम् ॥
भिन्नमूत्रमला स्तन्यमेदःपित्तकफप्रदा ।
गुदकीलादितश्वासपक्तिशूलानि नाशयेत् ॥
बेढणी ।
घृतेन तलिता सैव वडोरीति प्रकथ्यते ।
वडोरी तद्गुणा किञ्चिल्लघ्वी च रुचिकृत्परा ॥
वेडारी ।
धूमसीरचिता हिङ्गुहरिद्रालवणैर्युताः ।
जीरकस्तर्षिकाभ्यां च तनुकृत्य च वेल्लिताः ॥

प्रथमपरिच्छेदः ।
पर्पटास्ते सदङ्गारभृष्टाः परंमरोचकाः ।
दीपनाः पाचंना रूक्षा गुरुवः किञ्चिदीरिताः°॥
मौद्गांश्च तद्गुणाः प्रोक्ता विशेषाल्लघवोऽथ ते ।
चणकस्य गुणैर्युक्ताः पर्पटाश्चणकोद्भवाः ॥
स्नेहभृष्टाश्च ते सर्वे भवेयुर्मध्यमा गुणैः ।
लघवः पर्पटा रुच्याः कफघ्नाश्चाग्निसम्भवाः ॥
पापड ।
अथ वटकाः ।
माषाणां पिष्टिकां युक्तां लवणाईकाहिङ्गुभिः ।
कृत्वा विदध्याद्वटकांस्तांस्तैले विपचेच्छनैः ॥
विशुष्का वटका बल्या बृंहणा वीर्यवर्धनाः ।
वातामयहरा रुच्या विशेषादर्दितापहाः ।
विबन्धभेदिनः श्लेष्मकारिणोऽत्यग्निपूजिताः ॥
कोरवडे १।
संचूर्ण्य निक्षिपेतक्रे भृष्टहिङ्गु च जीरकम् ।
लवणं तत्र वटकान् सकलानपि मज्जयेत् ॥
शुक्रलस्तक्रवटको बलकृद्रोचको गुरुः ।
विबन्धहृद्विदाही च श्लेष्मलः पवनापहः ॥
तक्रं पिष्टमरीचहिङ्गुमिलितं कुस्तुम्बरीसंयुतं
युक्त्यावर्तितमर्धशेषमपरे भाण्डे सुधूपावृते ।
त्यक्तांस्तत्र मनोहरांश्च वटकान् तेषां रुचिं मार्दवं .
स्वादुत्वं च सुसौरभं गुणगणं वेत्तीह विश्वेश्वरः ॥
तक्रवटकाः ।
१. P1, P2. शुष्ककोरवडे ।