भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)
Bhojanakutuhala of Raghunatha Navahasta
रघुनाथ नवहस्त (सम्पादक: सूरनाड कुंजन पिल्लै) द्वारा
पृष्ठ 48, कुल 358 में से
संदर्भ में पढ़ेंप्रथमपरिच्छेदः ।
पर्पटास्ते सदङ्गारभृष्टाः परंमरोचकाः ।
दीपनाः पाचंना रूक्षा गुरुवः किञ्चिदीरिताः°॥
मौद्गांश्च तद्गुणाः प्रोक्ता विशेषाल्लघवोऽथ ते ।
चणकस्य गुणैर्युक्ताः पर्पटाश्चणकोद्भवाः ॥
स्नेहभृष्टाश्च ते सर्वे भवेयुर्मध्यमा गुणैः ।
लघवः पर्पटा रुच्याः कफघ्नाश्चाग्निसम्भवाः ॥
पापड ।
अथ वटकाः ।
माषाणां पिष्टिकां युक्तां लवणाईकाहिङ्गुभिः ।
कृत्वा विदध्याद्वटकांस्तांस्तैले विपचेच्छनैः ॥
विशुष्का वटका बल्या बृंहणा वीर्यवर्धनाः ।
वातामयहरा रुच्या विशेषादर्दितापहाः ।
विबन्धभेदिनः श्लेष्मकारिणोऽत्यग्निपूजिताः ॥
कोरवडे १।
संचूर्ण्य निक्षिपेतक्रे भृष्टहिङ्गु च जीरकम् ।
लवणं तत्र वटकान् सकलानपि मज्जयेत् ॥
शुक्रलस्तक्रवटको बलकृद्रोचको गुरुः ।
विबन्धहृद्विदाही च श्लेष्मलः पवनापहः ॥
तक्रं पिष्टमरीचहिङ्गुमिलितं कुस्तुम्बरीसंयुतं
युक्त्यावर्तितमर्धशेषमपरे भाण्डे सुधूपावृते ।
त्यक्तांस्तत्र मनोहरांश्च वटकान् तेषां रुचिं मार्दवं .
स्वादुत्वं च सुसौरभं गुणगणं वेत्तीह विश्वेश्वरः ॥
तक्रवटकाः ।
१. P1, P2. शुष्ककोरवडे ।