सामग्री पर जाएँ
सर्वकोश
भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)

भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)

Bhojanakutuhala of Raghunatha Navahasta

रघुनाथ नवहस्त (सम्पादक: सूरनाड कुंजन पिल्लै) द्वारा

DevanagariSanskritpublished358 पृष्ठ

पृष्ठ 41, कुल 358 में से

संदर्भ में पढ़ें
पृष्ठ 41

भोजनकुतूहले
॰अथ क्षीरी ।
शुद्धेऽर्धपक्वे दुग्धे तु घृताक्तांस्तण्डुलान् क्षिपेत् ।
ते सिद्धाः क्षीरिका ख्याता सा सिताज्ययुतोत्तमा ॥
क्षीरिका दुर्जरा बल्या धातुपुष्टिप्रदा गुरुः ।
विष्टम्भिनी हरेत्पित्तं रक्तपित्ताग्निमारुतान् ॥
अथ नारिकेरक्षीरी ।
नारिकेरं तनूकृत्य छिन्नं पयसि गोः क्षिपेत् ।
सितागव्याज्यसंयुक्तं तत्पचेन्मृदुवह्निना ॥
नारिकेरोद्भवा क्षीरी स्निग्धा शीतातिपुष्टिदा ।
गुर्वी सुमधुरा वृष्या रक्तपित्तानिलापहा ॥
समिता वर्तिकाः कृत्वा सुसूक्ष्मास्तन्तुसन्निभाः ।
शुष्काः क्षीरेण संसाध्या भोज्या घृतसमन्विताः ॥
सेविका तर्पणी बल्या गुर्वी पित्तानिलापहा ।
ग्राहिणी सन्धिकृद्रुच्या तां खादेन्नातिमात्रया ॥
इयं च चमसीक्षीरिः । 'चमसी पिष्टवर्तिके'ति हैमनः । सेवया
इदमन्योपलक्षकम् । अन्यासां समिताविकारक्षीरिणाम् ।
इति क्षीरीप्रकरणम् ॥
१. 'वोतो गुणवचनात्' (४-१-४४) इति ङीष्विकल्पः ।
२. P1. पीता रक्त ; P2. Bh. T1. पीता रक्त ।
३. J1. The revisor corrects this as गोपयसि क्षिपेत् ।
४. J1. omits 'इयं च ..... हैमनः' ।
५. J1. omits अन्यासां समिताविकारक्षीरिणाम् । इति क्षीरीप्रकरणम् ॥