भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)
Bhojanakutuhala of Raghunatha Navahasta
रघुनाथ नवहस्त (सम्पादक: सूरनाड कुंजन पिल्लै) द्वारा
पृष्ठ 40, कुल 358 में से
संदर्भ में पढ़ेंप्रथमपरिच्छेदः ।
इदं क्रुसरनामान्नमित्याख्यातं मुनीश्वरैः ॥
कृस्रान्नम् ।
पूर्वोक्तपायसे युञ्ज्यात् दुग्धार्धं गुडखण्डकम् ।
तदर्धमाज्यं मोचायाः फलमेतद् गुडोदनम् ॥
गुडान्नम् ।
पूर्वोक्तपायसवत्तण्डुलत्रिगुणदुग्धदुग्धाधजलयोगे दुग्धार्धगुडं योज-
यित्वा पचेत् । इतरथा गुडोदनमिति संज्ञानुपपत्तेः ।
तण्डुलस्य त्रिभागैकमूद्गखण्डेन मिश्रितम् ।
पक्वं यदेतन्मुद्गान्नमाख्यातं च चतुर्मुखम् ॥
विना शुद्धान्नमन्येषां प्रदद्याल्लवणं बुधः ।
गुणानेषां यथायोगं विजानीयाद्विचक्षणः ॥
हृदयदीपः--
भूतोदनो दधिनिशासक्तुलाजतिलान्वितः ।
भूतापसरणे योग्यमेतत्प्राहुर्विचक्षणाः ॥
भूतोदनम् ।
इत्योदनप्रकरणम् ।
१. J_1. After this the revisor adds in the margin the
following verses :
क्षीरान्नमस़कृत्पुष्टिं शुक्लं कुर्याच्च पित्तनुत् ।
किञ्चिच्छ्लेष्मकरं हृद्यमरुचौ च समीरणे ॥
हृल्लासे च प्रशस्तं स्यात्तत्तद्बालकवृद्धयोः ॥
दध्यन्नं कफपित्तकोपननं बल्यं परं बृंहणं
मक्षे(?)न्नं गुरु जाठरस्य दहनस्यादापयेन्मन्दताम् ।
पथ्यं नैव भवेद्द्व्रणातुरनृणां स्याद्रक्तजिद्विध्वंसनं
ग्राही रूक्षं (?) विनिहन्ति मारुतततौ रोचिष्णु जाड्यप्रदम् ॥
अन्नं तक्रपरिप्लुतं प्रतिदिनं शस्तं मनःप्रीणनं
मेधाबुद्धिविवर्धनं विनिहरेन्मोहानशेषानापि ।
शोषघ्नं करपाण्डुशोफशमनं कायाग्निसन्दीपनं
कुष्ठाशग्रहणीगदप्रशमनं च्छायाप्रदं पुष्टिदम् ॥
घृतान्वितान्नं वितनोति पुष्टिं कायाग्निसन्दीपनपाचनं च ।
पथ्यं सदा पित्तविकारि जन्तोः पुष्टिप्रदं कोऽन्यनयो(?)र्हितं च