भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)
Bhojanakutuhala of Raghunatha Navahasta
रघुनाथ नवहस्त (सम्पादक: सूरनाड कुंजन पिल्लै) द्वारा
पृष्ठ 43, कुल 358 में से
संदर्भ में पढ़ेंभोजनकुतूहले
चणस्य यूषं मधुरं कषायं
कफापहं वातविकारहन्तृ ।
श्वासोर्ध्वकासामयपीनसानां
करोति नाशं बलदीपनं च ॥
असितचणकयूषं दाहनाशं विधत्ते
प्रबलमहिललब्धं सर्वमेहप्रणाशम् ।
दहनमरिचयोगाद्वातरोगापहारि
विर्दळमतिविपक्वं सर्वदोषं जहाति ॥
²प्रबलेति प्रबलयुवतिलब्धानेकमेहप्रणाशमिति वक्तुरभिप्रायः । दहनं
हिंगु ।
कुलित्थयूषोऽनिलहृच्छर्कराश्मरिनाशनः ।
दीपनः पित्तकफकृद्धातुसाम्यकरो लघुः ॥
ज्वरातिसारतृद्दाहव्रणकण्ड्वक्षिरोगजित् ॥
तथा—
³वातानुलोमी कौलत्थो गुल्मतूनीप्रतूनिजित् ।
मासूरयूषगुणानाह सुषेणः—
प्रभूतवातं कुरुतेऽतिरूक्षः कफापहः पित्तहरो ⁴नराणाम् ।
रुचिप्रदः ⁵शूलकरो विशेषादाध्मानुबन्धी कथितः कषायः ॥
⁶मासूर इति शेषः ।
१. P₁. विदलमपि ।
२. T₁. Bh. J₁. omit प्रबलेति . . . . . हिंगु ।
३. P₁. P₂. T₁. Bh. read this line before the line
प्रभूतवातं . . . ... ... नराणाम्
४. J₁. नितान्तम् ।
५. J₁. शूलकरो नराणामाध्मानुबन्धी ।
६. J₁. omits मासूर इति शेषः ।