सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)

Bhojanakutuhala of Raghunatha Navahasta

रघुनाथ नवहस्त (सम्पादक: सूरनाड कुंजन पिल्लै) द्वारा

DevanagariSanskritpublished358 पृष्ठ

प्रथमपरिच्छेदः ।
चानुरूपस्त्वकर्मोषा च ज्ञेया वर्णा वशादयः
तत्र ।
कृष्णः शल्की श्वेतकुक्षिस्तु मत्स्यो '
यः श्रेष्ठोऽसौ रोहितो वृत्तवक्त्रः । २ .
कोष्णं बल्यं रोहितस्यापि मांसं
वातं हन्ति स्निग्धमृध्नाति वीर्यम् ।
रोहितमत्स्य ।
यः पीतवर्णोऽपिं च पिच्छिलाङ्गः पृष्ठे च रेखाबहुलः स शल्कः ।
स गर्गरो गर्गरनादवश्यो जडश्च शीतः कफवातदायी ॥
गामरु ।
पृष्ठे पक्षौ द्वौ गले पुच्छके चेत् सर्पाभः स्यात् पुष्करो वृत्ततुण्डः ।
ज्ञेयः शल्की मत्स्यको भीरुरुक्तः स्निग्धो वृष्यो दुर्जरो वातकारी ॥
अहीर ।
नातिस्थूलो वृत्तवक्त्रोऽपि चास्ये धत्ते दन्तान् श्मश्रुलो दीर्घकायः ।
त्रिःसन्ध्यायां रात्रिषेपे त्रिवर्णः प्रोक्तो बालः पथ्यबल्यः सुवृष्यः ॥
बालांबु ।
पृष्ठे कुक्षौ कण्टकी दीर्घतुण्डः सर्पाभो यः सोऽप्ययं बर्बराख्यः ।
वाताटोपं सोऽपि दत्तेऽन्त्रजाड्यं स्निग्धो बल्यो दुर्जरो वीर्यकारी ।
बाभीरु ।
श्वेतं सुकायं समदीर्घवृत्तं निश्शल्ककं छागलकं वदन्ति ।
द्विकण्टकोऽसौ खलु पृष्ठवंशे कण्ठ्यस्तुपथ्यो रुचिदश्च बल्यः ॥
सगल्लु ।
१. J₁. कर्णावशादयः, Bh. कर्णा च शादयः T2. gives also the
varient reading वर्णा वशाभिधः ।
२. T₂. वृत्तचक्रः
३. Bh. has an omission बातकारी...... to दुर्जरो, probably
due to the scribe.

यो रक्ताङ्गो नातिदीर्घो न चाल्पो
• नातिस्थूलो रक्तमत्स्यः स उक्तः
शीतो रुच्यः पुष्टिकृद् दीपनोऽसौ
नाशं दत्ते किञ्च दोषत्रयस्य ॥
तांबुडु ।
यः कृष्णो दीर्घकायः स्यात् स्थूलशल्की बलान्वितः ।
मत्स्यो माहिषनामासौ दीपनो बलवीर्यदः ॥
भैसाड ।
शुक्लाङ्गस्ताम्रपक्षो यः स्वल्पाङ्गश्च बिलाह्वयः ।
स रुच्यो मधुरो बल्यो गुणाढ्यो वीर्यपुष्टिदः ॥
वालिक ।
यः स्थूलाङ्गो महिषाकारको यस्तालुस्थाने क्षीरजाभां दधाति ।
शल्कं स्थूलं यश्च चारूपकोऽसौ दत्ते वीर्यं दीपनो वृष्यदायी ॥
पाउस ।
वितस्तिमानः श्वेताङ्गः सूक्ष्मशल्कः स दीपनः ।
अउमोसाह्वयो मत्स्यो बलवीर्याङ्गपुष्टिदः ॥
भाउमास ।
विवृत्ताङ्गोऽल्पकृष्णाङ्गः शल्की वर्णवसामिषः ।
दीपनः पाचनः पथ्यो वृष्योऽसौ बलपुष्टिदः ॥
कानवसा ।
इति द्वादशभेदानां गुणा रूपं च वर्णितम् ।
तथा—
निश्र्शल्का निन्दिता मत्स्याः सर्वे रुरुकुता हिताः ॥
१. Bh. ताम्बुदमासे ।
२. $T_1$, $T_2$. यस्य ।
३. Bh. ऽल्पवशाङ्गः ।

प्रथमपरिच्छेदः ।
बलपुष्टिकरा वीर्यवपुःस्थैर्यविवर्धनाः ॥
अथ स्थानविशेषेण गुणाः ।
क्षाराम्बुमत्स्या गुरवो विदाहिनो
विष्टम्भदास्ते लवणार्णवादिजाः ।
ह्रदकुल्याजलनिर्झरतडागवापीजलेषु ये मत्स्याः ।
तेऽतिजडा नादेया यथोत्तरं लघुतरास्तु नादेयाः ॥
सुषेणः —
जडास्तटाकसम्भूताः स्निग्धाः स्वादुरसाः स्मृताः ॥
कौपा वृष्याः श्लेष्मलाः संप्रदिष्टाः गुल्मार्शोलानाहकुष्ठप्रदाः स्युः ।
तडागवनिर्झरजाश्च मेध्याश्चक्षुस्स्थिरायुष्यबलप्रदाश्च ।
महाह्रदेषु बलिनः स्वाल्पाम्भस्यबला मताः ।
सामुद्रो गुरुष्णरुक्षमधुरः स्याच्छ्लेष्मलो वातहा
स्यात्स्नेहाभिविवर्धनो नबलकरश्चाध्मानविष्टम्भकृत् ।
पित्तोद्रेककफात्ययेषु विहितो मत्स्योऽतिहृद्यस्सदा
विष्टम्भं जनयेच्च शीतपवनं व्यापादयत्यग्रतः ॥
तथा —
ऋतुप्रभौ निर्झरेषु प्रजाता मत्स्या हिता ग्रीष्मकाले तु चौण्ड्याः ।
तडागजाः प्रावृषि सर्व एव स्निग्धा बलिष्ठाश्च सृजन्ति दोषान् ॥
शरहृतौ निर्झरजाश्च कूपजाता हिमतौ शिशिरे च शस्ताः ॥
रसरक्तादिधातूनां गुरु स्यादुत्तरोत्तरम् ।
मैदं कटियङ्कन्मांसं वार्षणं चातिमात्रतः ॥
१. T1. न ग्राह्याः ।
२. T2. has the explanation नादेया न ग्राह्याः । वाहेया नद्युत्पन्नाः ।

भोजनकुतूहले
... स हतं सर्वं बलवीर्यविवर्धनम् ।
भृष्टमांसं विदाहि स्यादस्रवातादिदोषकृत् ।
पूर्वार्धं पुरुषस्य चेद् गुरुतरं पश्चार्धभागः स्त्रियाः
स्त्री गुर्वी किल गुर्विणी यदि तथा योषित् तुस्या लघुः
पक्षी चेत् पुरुषो लघुः स्फिकशिरःस्कन्धांसपृष्ठे क्रमा-
न्मांसं यच्च कटिस्थितं तदखिलं गुर्वेव सर्वात्मनाम् ॥
इति मांसप्रकरणम् ।
अथ जलप्रकरणम् ।
तत्र जलसामान्यगुणाः -
पानीयं मधुरं सितं रुचिकरं तृष्णाविशोषापहं
मोहभ्रान्तिनिवारणं च कुरुते भुक्तान्नपक्तिं सदा ।
निद्रालस्यनिवारणं विषहरं स्रोतस्सुमन्तर्पणं
पीतं धीबलवीर्यपुष्टिजननं चाणाङ्गपुष्टिप्रदम् ॥
१. Bh. adds before this :
मत्स्यगर्भः परं वृष्यः स्निग्धः श्लेष्मकरो गुरुः ।
बृंहणो बलदः स्निग्धस्तद्वन्मकरमादिशेत् ॥
मकरसुसर इति भाषायाम् ।
कणपो गूढपात् कूर्मः कमठो दृढपृष्ठकः ।
कच्छपो बलदस्तस्निग्धो वातजित् पुंस्त्वकारकः ॥
कासवाचे
मण्डूको बृंहणो वृष्यश्शीतलोऽसृग्गदापहः ॥
बेंडुकाचे
सर्पाणां स्नेहनं मांसं चक्षुष्यं बृंहणं गुरु ।
दूषीविषकिमिहरं मेधाग्निवलवर्धनम् ॥
सर्पमांस ॥
२. $T_2$, $P_1$, $P_2$. add तथा गुर्विणी before इति मांसप्रकरणम्
३. $J_1$ मधुरं हिमं च रुचिकं ॥ Bh, मधुरं हितं रुचिकरम् ॥

अपि च —
पानीयं श्रमनाशनं क्लमहरं मूर्च्छापिपासापहं
तन्द्राच्छर्दिविनाशनं बलकरं निद्राहरं तर्पणम्
हृद्यं गुप्तसरं ह्यजीर्णशमकं नित्यं हितं शीतलं
लघ्वच्छं रसकारणं निगदितं पीयूषवज्जीवनम् ॥
अथ पानीयभेदाः —
पानीयं मुनिभिः प्रोक्तं दिव्यं भौममिति द्विधा ।
तत्र --
दिव्यं चतुर्विधं प्रोक्तं धारजं करकाभवम् ।
तौषारं च तथा हैमं तेषु धारं गुणाधिकम् ॥
भौममम्भो निगदितं प्रथमं त्रिविधं बुधैः ।
जाङ्गलं परमानूपं ततः साधारणं क्रमात् ॥
तदपि नादेयादिभेदेन बहुविधं वक्ष्यते । धारजं यथा —
धाराभिः पतितं तोयं गृहीतं स्फीतवाससा ।
शिलायां वा सुधायां वा धौतायां पतितं च यत् ॥
सौवर्णे राजते ताम्रे स्फाटिके काचनिर्मिते ।
भाजने मृण्मये वापि स्थापितं धारमुच्यते ॥
धारं नीरं त्रिदोषघ्नमनिर्देश्यरसं लघु ।
सौम्यं रसायनं बल्यं तर्पणं हृादि जीवनम् ॥
पाचनं मतिकृन्मूर्च्छातन्द्रादाहश्रमक्लमान् ।
तृष्णां हरति तत्पथ्यं विशेषात् प्रावृषि स्मृतम् ॥
धारजमपि द्विविधम् । गाङ्गं सामुद्रं च । तत्र गाङ्गं यथा —
आकाशगङ्गासम्बन्धि जलमादाय दिग्गजाः ।
मेघैरन्तरिता दृष्टिं कुर्वन्तीति वचः सताम् ॥
गाङ्गमाश्वयुजे मासि प्रायो वर्षति वारिदः ।
१. Bh. omits अपि च ... ... ... तथा line 16 page 18
1081

१७८ भोजनकुतूहले
तत्परीक्षा च --
स्थापितं हेमने पात्रे राजते मृण्मयेऽपि वा
शाल्योदनं येन संसिक्तं भवेदक्लेदवर्णवत् ॥
तद्ग्राह्यं सर्वदोषघ्नं ज्ञेयं सामुद्रमन्यथा ।
तत्तु सक्षारलवणं गुरुदृष्टिबलापहम् ॥
विस्रं च दोषलं तीक्ष्णं सर्वकर्मसु गर्हितम् ।
सामुद्रं त्वाश्विने मासि गुणैर्गाङ्गवदादिशेत् ॥
यतोऽगस्त्यस्य दिव्येनैरुदयात्सकलं जलम् ।
निर्मलं निर्विषं स्वादु शुक्लं स्याददोषलम् ॥
उक्तं च —
फूत्कारविषवातेन नागानां व्योमचारिणाम् ।
वर्षासु सविषं तोयं दिव्यमप्याश्विनं विना ॥ इति ॥
अथानातर्वस्य गुणाः —
अनार्तवं प्रमुञ्चन्ति वारि वारिधरास्तु यत् ।
तत् त्रिदोषाय सर्वेषां देहिनां परिकीर्तितम् ॥
अन्यत्र तु —
शरत्पयोदनिर्मुक्तं महावैडूर्यसन्निभम् ।
सर्वदोषहरं स्वादु दिव्यमित्युच्यते जलम् ॥
प्रावृड्जलदनिर्मुक्तमव्यक्तस्वादुलक्षणम् ।
वारि स्फाटिकसङ्काशमान्तरिक्षमिति स्मृतम् ॥
इत्युक्तम् । कैरकाभवं यथा —
दिव्यं वार्यभिसंयोगात् संहताः खात्पतन्ति याः ।
पाषाणखण्डवच्चापः ताः कारकयोऽमृतोपमाः ॥
१ J1. शाल्यन्नम् ।
४, J1. मृध्यं च ।
.. J2. करकार्थ यथा — दिव्यं वार्येति ।

प्रथमपरिच्छेदः । १७९
करकाजं जलं रूक्षं विशदं गुरु च स्थिरम् ।
दारुणं शीतलं सान्द्रं पित्तहत् कफवातकृत् ॥
तौषारं यथा—
अपि नद्यः समुद्रान्तर्बहिरापश्च तद्भवाः ।
धूमावयवनिर्मुक्तास्तुषाराख्यास्तु ताः स्मृताः ।
अपथ्याः प्राणिनां प्रायो भूरुहाणां तु ता हिताः ।
तुषाराम्बु हिमं रूक्षं स्वाद्वातलमपिच्छलम् ॥
कफोत्थस्तम्भकण्ठार्तिमेदोमन्दादिरोगनुत् ।
हैमं यथा —
हिमवच्छिखरादिभ्यो द्रवीभूयाभिवर्षति ।
यत्तदेव हिमं हैमं जलमाहुर्मनीषिणः ॥
हिमाम्बु शीतं पिच्छलं गुरु वातविवर्धनम् ॥
अन्यत्र तु —
और्वानलधूमेरितमम्बु समुद्रस्य यद् घनीभूतम् ।
पवनानीतमुदीच्यां तद्धिममिति कथ्यते मुनिभिः ॥ इति ।
हिमं तु शीतलं रूक्षं दारुणं सूक्ष्ममित्यपि ।
न तद् दूषयते वातं न च पित्तं न वा कफम् ॥
इति दिव्यम् ।
अथ भौमम् । तत्र जाङ्गलं यथा —
अल्पोदकोऽल्पवृक्षश्च पित्तरक्तामयान्वितः ।
ज्ञातव्यो जाङ्गलो देशस्तत्रत्यं जाङ्गलं जलम् ॥
जाङ्गलं सलिलं रूक्षं लवणं लघु तत्कटु ।
वह्निकृत्कफकृत्पथ्यं विकारान् कुरुते बहून् ॥
आनूपं यथा —
बह्वम्बुर्बहुवृक्षश्च वातश्लेष्मामयान्वितः ।
देशोऽनूप इति ख्यात आनूपं तद्भवं जलम् ॥

आनूपं वार्यभिष्यन्दि स्वादु स्निग्धं घनं गुरु ।
वह्निहृत्कफकिल्बिन्ध·विकारान् कुरुते बहून् ॥
साधारणं यथा -
मिश्रचिह्नस्तु यो देशः स हि साधारणः स्मृतः ।
तस्मिन् देशे यदुदकं तत्तु साधारणं स्मृतम् ॥
साधारणं तु मधुरं दीपनं शीतलं लघु ।
तर्पणं रोचनं तृष्णादाहदोषत्रयप्रणुत् ॥
अन्यत्र तु --
जाङ्गलं सलिलं स्वादु त्रिदोषघ्नं रुचिप्रदम् ।
पथ्यं चायुर्बलं वीर्यपुष्टिदं कान्तिकृत्परम् ॥
आनूपं सलिलं स्वादु स्निग्धं पित्तहरं गुरु ।
तनोति पामाकण्डूतिकफवातज्वरामयान् ।
साधारणजलं रुच्यं दीपनं पाचनं लघु ।
श्रमतृष्णापहं वातकफमेहमपुष्टिदम्
इति ।
तथा -
जातं ताम्रमृदस्तनदेव सलिलं वातादिदोषप्रदं
देशाज्जातभयंकरं च दुर्जरतरं दोषावहं धूसरम् ।
वातघ्नं तु शिलाशिरोत्थममलं पथ्यं लघु स्वादु च
श्रेष्ठं स्यादमृतं त्रिदोषशमनं सेव्यं सदा तत्पयः ॥
अथ नादेयम् -
नद्या नदस्य वा नीरं नादेयमिति कीर्तितम् ।
तत्र भागीरथ्या यथा -
शीतं स्वादु स्वच्छमत्यन्तरुच्यं पथ्यं पाक्यं पावनं पापह।
ष्ण़ामोहध्वंसनं दीपनं च प्रज्ञां दत्ते वारि भागीरथीयम्

प्रथमपरिच्छेदः । १८१
तथा —
स्वादु पाकरस शांतं त्रिदोषशमनं लघु ।
पवित्रमतिपथ्यं चं गाङ्गं वारि मनोहरम् ।
यमुनाया यथा —
पित्तदाहशमनं श्रमापहं स्वादु वातजननं च पावनम् ।
वह्निदीपनकरं च रोचनं यामुनं जलमिदं बलप्रदम् ॥
नर्मदायां यथा —
सलिलं लघु शीतलं सुपथ्यं कुरुते पित्तकफप्रकोपनं च ।
सकलामयमर्दनं च रुच्यं मधुरं मेकलकन्यकासमुत्थम् ॥
सरस्वत्या यथा —
सरस्वतीजलं स्वादु पूतं सर्वरुजापहम् ।
रुच्यं दीपनकृत्पथ्यं देहकान्तिकरं लघु ॥
चन्द्रभागामधुमत्योर्यथा —
चान्द्रभागसलिलं सुशीतलं दाहपित्तशमनं च वातदम् ।
चान्द्रभागगुणसाम्यदं जलं यच्च माधुमतमग्निदीपनम् ॥
चन्द्रभागा मधुमती च काश्मीरे प्रसिद्धे ।
शतद्रुविपाशासिन्धूनां यथा —
शतद्रुर्विपाशा च सिन्धुस्त्रयाणां सुशीतं लघु स्वादु सर्वामयघ्नम् ।
जलं निर्मलं दीपनं पाचनं च प्रदत्ते बलं बुद्धिमेधायुषां च ॥
१. J1 ·omits तथा ... यमुनाया यथा । Bb. omits तथा...मनोहरम् b
२. T1. T2. give a variant reading also पित्तदाहवमितृष्णश्रमा-
पहम् ।
३. J1. omits the introduction to the verse. Bb. चन्द्रभागा-
मधुमती काश्मीरे एव । तद्गुणाः and omits चन्द्रभागमधुमती च काश्मीरे प्रसिद्धे
occuring after the next verse.
४. J1. T1. omit the introduction to the verse

१८२ भोजनकुतूहल
शोणभद्रस्य यथा — .
शोणस्यापि जलं परं रुचिकरं सन्तापशोषापहं
पथ्यं वह्निकरं तथा च बलदं क्षीणाङ्गपुष्टिप्रदम्
तापीवेत्रवत्योर्यथा —
तापीवेत्रवतीजलं सुमधुरं कान्तिप्रदं पुष्टिदं
वृष्यं दीपनपाचनं बलकरं पाने प्रशस्तं नृणाम्।
पयोष्ण्या यथा —
पयोष्णीसलिलं रुच्यं पवित्रं पापनाशनम्।
सर्वामयहरं सौख्यबलकान्तिप्रदं लघु ॥
वितस्तायाः —
वितस्तासलिलं स्वादु त्रिदोषशमनं लघु।
प्रज्ञापुष्टिप्रदं पथ्यं तापजाड्यहरं परम् ॥
वितस्ता काश्मीरे ॥ सरय्वा यथा —
सरयूसलिलं स्वादु बलपुष्टिप्रदायकम्।
गोमत्या यथा —
गोमतीसलिलं स्वादु वश्यं पित्तकरं गुरु।
गोमती पश्चिमे प्रसिद्धा। गोदावर्या यथा —
पित्तातिरक्तातिसमीरहारि पथ्यं परं दीपनपापहृद्धि।
कुष्ठादिनानामयदोषहारि गोदावरीवारि तृषापहारि
तथा —
कण्डूकुष्ठप्रशमनं वह्निदीपनं परम्।
पाचनं वातपित्तघ्नं वारि गोदावरीभवम् ॥
१. J₁. नदीत्रयस्य गुणाः introducing this and the text
Bh. omits this and the verse following.
२, ३, ४, ५, ६. J₁, omits the introduction.
७. J₁; Bh. omit this and the verse

...या यथा—
˙कार्ष्ण्यं जाड्यकरं स्वादु पूतं पित्तास्रकोपनम् ।
वेण्या यथा—
कृष्णवेण्या जलं स्वच्छं रुच्यं दीपनपाचनम् ।
हाराभीमरथीघटप्रहाराणां —
मलपाहा भीमरथी च घट्गा कार्ष्ण्येन सामान्यगु ... .... ।
मलपाहाघटगयोस्तथापि पथ्यं लघु स्वादु सुकान्तिदायि ॥
द्राया यथा —
तुङ्गभद्राजलं स्निग्धं निर्मलं स्वादुदं गुरु ।
कण्डूपित्तास्रदं प्रायः सात्म्ये शैत्यकरं परम् ॥
र्या यथा —
कावेरीसलिलं स्वादु श्रमघ्नं लघु दीपनम् ।
दद्रुकुष्ठादिदोषघ्नं मेधाबुद्धिरुचिप्रदम् ॥
इति नदीविशेषगुणाः ।
नदीनामच्छमन्यासां देशदोषादिभेदतः ।
तत्तद्गुणान्वितं वारि ज्ञातव्यं कृतबुद्धिभिः ॥
पूर्वदेशोद्भवा नद्यः सर्वा वातकफप्रदाः ।
पश्चिमाः पित्तलाः सर्वाः कफवातविनाशनाः ॥
इति संक्षेपतः प्रोक्ता नद्यः क्षुद्रास्तु सम्प्रति ।
डा --
पश्चिमोदधिगाः शीघ्रवहा याश्चामलोदकाः ।
पथ्यास्समस्तास्ता नद्यो विपरीतास्ततोऽन्यथा ॥
उपलास्फालनाक्षेपविच्छेदैः खेदितोदकाः ।
हिमवन्मलयोद्भूताः पथ्यास्ता एव च स्थिराः ॥
१ ; २ ; ३ ; ४ ; ५. J1. omits the introduction to the verses.
६. Bh. omits from this to नद्यः प्रावृषिजास्तु etc. in l. 7.
५.

म्भस्सारसं स्मृतम् ॥->तदम्भस्सारसं स्मृतम् ॥`

All lines checked and clear. Formatting directly as clean markdown.[Header] ११० भोजनकुतूहल

क्रिमिश्लीपदहृत्कण्ठशिरोरोगान् प्रकुर्वते ।
प्राच्यावन्त्युपरान्तस्था दुर्नामानि महेन्द्रजाः ॥
उदरश्लीपदातङ्कान् सह्यविन्ध्योद्भवाः पुनः ।
कुष्ठपाण्डुशिरोरोगान् दोषघ्न्यः पारियात्रजाः ॥
बलपौरुषकारिण्यः सागराम्भस्त्रिदोषकृत् ॥

तथा—
नद्यः प्रावृषिजास्तु पीनसकफश्वासातिकासप्रदाः
पथ्या वातकफापहाः शरदिजा हेमन्तजा वृद्धिदाः ।
सन्तापं शमयन्ति शं विदधते शैत्यं वासन्तजा-
स्तृष्णादाहवमिभ्रमातिशमना ग्रीष्मे पयसां गुणाः ॥

अथौद्भिदं —
विदार्य भूमिं निम्नां यन्महत्या धारया स्रवेत् ।
तत् तु भौमौद्

सारसं सलिलं बल्यं तृष्णाघ्नं मधुरं लघु ।
रोचनं तुवरं रूक्षं बद्धमूत्रमलं सितम् ॥
अथ ताटाकम्—
प्रशस्तभूमिभागस्थो बहुसंवत्सरोषितः ।
जलाशयोस्तटाकः स्यात् ताटाकं तज्जलं स्मृतम् ॥
ताटाकमुदकं स्वादु कषायं कटुपाकि च ।
वातलं बद्धविण्मूत्रमसृक्पित्तकफापहम् ॥
अथ वाप्यम् —
पाषाणैरिष्टिकाभिर्वा बद्धा कूपाद् बृहत्तरा ।
ससोपाना भवेद् वापी तज्जलं वाप्यमुच्यते ॥
वाप्यं वारि यदि क्षारं पित्तकृत् कफवातहृत् ॥
तदेव मिष्टं कफदं वातपित्तहरं भवेत् ॥
अथ कौपम् —
भूमौ खातोऽल्पविस्तारो गम्भीरो मण्डलाकृतिः ।
बद्धोऽबद्धः स कूपः स्यात् तदम्भः कौपमुच्यते ॥
कौपं पयो यदि स्वादु त्रिदोषघ्नं हितं लघु ।
तत् क्षारं कफवातघ्नं दीपनं कफकृत्परम् ॥
अथ चौड्यम् —
शिलाकीर्णं स्वयं श्वभ्रं नीलाञ्जनसमोदकम् ।
लतावितानसञ्छन्नं चौड्यमित्यभिधीयते ॥
तत्रत्यमुदकं चौड्यं मुनिभिस्समुदाहृतम् ।
चौड्यं वह्निकरं नीरं रूक्षं कफकरं लघु ॥
मधुरं पित्तनुद् रुच्यं पाचनं विशदं स्मृतम् ।
अथ पाल्वलम् —
पाल्वलं वार्यभिष्यन्दि गुरु स्वादु त्रिदोषकृत् ।
१. J₁ कफहृत् ।
1081

१८९ भोजनकुतूहलम्
अथ विकिरम् —
नद्यादिनिकटे भूमिर्या भवेद्वालुकामयी ।
उद्धन्यते ततो यत्तु तज्जलं विकिरं विदुः ॥
विकिरं शीतलं स्वच्छं निर्दोषं लघु च स्मृतम् ।
तुवरं स्वादु पित्तघ्नं क्षारं तत् पित्तलं मनाक् ॥
अथ कैदारम् —
केदारं क्षेत्रमुद्दिष्टं कैदारं तज्जलं स्मृतम् ।
कैदारं वार्यभिष्यन्दि मधुरं गुरु दोषकृत् ॥
अथ हादम् —
हादं तु वह्निजननं मधुरं कफवातहारि पथ्यं च ।
नादेयं नवमृण्मयेषु निहितं सन्तप्तमर्कांशुभि-
र्यामिन्यां च निविष्टमिन्दुकिरणैर्मन्दानिलान्दोलितम्
एलाद्यैः परिवासितं श्रमहरं पित्तोष्णदाहे विषे
मूर्च्छारक्तमदात्ययेषु च हितं शंसन्ति हंसोदकम् ॥
इति हंसोदकम् ॥
कौपं प्रस्रवणं वसन्तसमये ग्रीष्मे तु चौंड्यं भवेत्
काले प्रावृषि नाभसं च सगुणं स्यादौद्भिदं वा पयः
नीहारे सरसीतटागविषयं सर्वं शरत्सङ्गमे
सेव्यं सूर्यसितांशुरश्मिपवनव्याधूतदोषं पयः ॥
वृद्धसुश्रुतः —
पौषे वारि सरोजातां माघे तत्तु तटाकजम् ।
फाल्गुने कूपसम्भूतं चैत्रे चौंड्यं हितं मतम् ॥
वैशाखे नैर्झरं नीरं ज्येष्ठे शस्तं तथौद्भिदम् ।
आषाढे शस्यते कौपं श्रावणे दिव्यमेव च ॥
भाद्रे च कूपसम्भूतमाश्विने चौंड्यमेव च ।
कार्तिके मार्गशीर्षे च जलमात्रं प्रशस्यते ॥
१. T₁. J₁. Bh omit this verse.
२, J₁; Bh, भाद्रे कौपं पयश्शस्तम् ।

प्रथमपरिच्छेदः । १८७
भौमानाम्भसां प्रायो ग्रहणं प्रातरिष्यते ।
शीतत्वं निर्मलत्वं च यतस्तेषां महान् गुणः ॥
अथ नारिकेळोदकगुणाः ।
नारिकेरोदकं स्निग्धं स्वादु वृष्यं हिमं लघु ।
तृष्णापित्तानिलहरं दीपनं वस्तिशोधनम् ॥
भ्रमघ्नं बृंहणं बल्यं सूतिकानां हितं परम् ।
इति सामान्यनारिकेरवारिगुणाः।
अथ पुराणस्य —
नारिकेरस्य यत्तोयं पुराणं पित्तवर्धनम् ।
नवस्य —
तस्यैव तरुणं तोयं पित्तघ्नं क्रिमिनाशनम् ॥
बालस्य —
बालस्य नारिकेरस्य कटु पाके हिमं जलम् ।
ईषत्कषायमधुरं पक्वस्योष्णं सरं गुरु ॥
स्निग्धादयो गुणास्त्वन्ये समाः स्युर्बालपक्वयोः ।
अन्यत्र —
नारिकेरसलिलं लघु बाल्ये शीतलं च मधुरं दरपाके ।
पित्तपीनसतृषास्रविदाहभ्रान्तिशोषशमनं सुखदायि ॥
पक्वमेतदपि किञ्चिदिहोक्तं पित्तकारि रुचिदं मधुरं च ।
दीपनं बलकरं गुरु वृष्यं वीर्यवर्धनमिदं तु वदन्ति ॥
१. T2. P1. P2 हितं मतम्
२. J1. तथा । Bh. नवीनस्य । अन्यत्रापि—

१८६ भोजनकुतूहलं
अथास्य सेवनकालः ।
नारिकेराम्बु भुक्तेः प्राग् गुल्माग्निसदनादिहृत्
अतः परं न पेयं स्यात् सेन्दु तच्छीतलं हितम् ॥
क्षयोपवासाध्वगमातिभाष्य-
व्यवायवातातपपीडितानाम् ।
व्यायामिनां वातकफोत्तराणां
यन्नारिकेरोदकं प्रशस्तम् ॥
सेन्दु सकर्पूरम् ।
इति नारिकेरोदकम् ।
शतपत्राम्बु सहसा रक्तपित्तप्रहापहम् ।
मूर्च्छावित्रासशमनं दाहतृष्णानिवारणम् ॥
गुलाबोदकम् ।
१. J1. भुक्त्वा प्राक्
२. Bh. यन्नारिकेरोदकमेव शस्तम् ।
J1. T1, Bh. omit सेन्दु सकर्पूरम् ।
३. Bh. adds : अथ गुलाबोदकप्रकरणम् ।
तत्करणं च —
कुडवं शतपर्णानां विवृतं तच्च निक्षिपेत् ।
जलं सप्तपलं पात्रे रौप्यं वर्ग सुसंस्कृतः ॥
ताम्रजे वाथ तस्योर्ध्वं दोलायन्त्रं निवेशयेत् ।
रौप्यपात्रं तदूर्ध्वे तु पश्चाद्रौप्यशरावयोः ॥
आच्छाद्य तन्मुखं रुद्ध्वा समन्तात् पाचयेच्छनैः ।
मृद्वग्निना मुहूर्तं तु पश्चादुद्धृत्य तज्जलम् ॥
रौप्यपात्रस्थितं विज्ञायेय पुष्परसो वरः ।
सुशीतलस्सुगन्धश्च ग्रीष्मे वर्षालये तथा ॥
राज्ञा दाहप्रशान्त्यर्थं सिञ्चेदम्भो भिषग्वरः
रसकृद्दाहशान्त्यर्थं गुलाबापरमाभिधः (?)

प्रथमपरिच्छेदः ।
अथ वर्ज्यजलानि -
अग्रााद्यमुदकं सर्वमेभिर्दोषैस्समन्वितम् ।
गोहस्त्यश्वादि विण्मूत्रशैवमृषकदूषितम् ॥
कीटसंपीडसंसृष्टं नष्टं च क्षुद्रजन्तुभिः ।
विषवृक्षजटाश्लिष्टं चिरकालव्यवस्थितम् ।
आस्तीर्णं जीर्णपर्णाद्यैस्तृणकाष्ठैश्च वाहितम् ।
तैलाभं फेनिलं स्निग्धं पुराणोदकमिश्रितम् ॥
सूर्येन्दुपवनादृष्टमभिवृष्टं घनं गुरु ।
तत् कुर्यात् स्नानपानाभ्यां तृष्णाध्मानोदरज्वरान् ॥
अर्शोभगन्दरग्रन्थिशोफपाण्डुहलीमकान् ।
कासाग्निसादामिष्यन्दकण्डूगण्डादिकान् गदान् ॥
जटाम्लानि ।
इति वर्ज्यजलानि ॥
पुष्यद्वस्तुरभिशीतकषायगोल्यो
दाहभ्रमातिवमिमोहमुखामयघ्नः ।
तृष्णार्तितिक्तकफदोषहरस्सरश्च
सन्तर्पण चिरमरोचकहारकश्च ॥
उषःपानगुणाः सुषेणे द्रष्टव्याः ।
सवितुरुदयकाले प्रसृतिसक्तिकस्य पिबेदहौ ।
रोगजरापरिमुक्तो जीवेद्वत्सरशतं साग्रम् ॥
अस्य जलपानस्योपक्रमकालः रात्रेधर्तुर्यप्रहरप्रवेशः । तथाच भोजः -
'पिबति पर्युषितं बलमन्वहं तिमिरिणीचरमे प्रहरे यदि ।'
इति । एतज्जपानकालमर्यादा सूर्योदयातिसन्निहितप्राक्कालः । तथा तन्त्रान्तरे
before शतपत्राम्बु ... ... etc. and it omits शतपत्राम्बु
पीतमन्ते निशायाः । 1 15 p. 190
१. $J_1$. दुष्टं च ।
२. $J_1$, $T_1$, चिरकालं व्यवस्थितम् ।
३. $J_1$, $T_1$, क्लमाग्निसाद ।

१९०. भोजनकुतूहले
अथ प्रतिप्रसवः ।
अदुष्टसलिलाभावे वाप्यं यत् स्यात् सुयुक्तितः ।
अंभो प्रतपनं यद्वा सूर्यरश्मिप्रतापनम् ॥
प्रशस्यतेऽतितप्तायःपिण्डनिर्वापणं तथा ।
क्षुद्रजन्तुभिरुद्दृष्टस्य घनवस्त्रेण शोधनम् ॥
पुष्पैरनिष्टगन्धस्य पाटलाद्यैश्च वासनम् ।
लवङ्गोशीरकर्पूरकोष्ठकस्तूरिचन्दनैः ॥
चूर्णितैर्वासितं वारि सुगन्धं सर्वदोषजित् ।
अथ चन्द्रकान्तवारि —
चन्द्रकान्तोद्भवं वारि पित्तघ्नं विमलं लघु ।
अथोषःपानगुणाः —
कासश्वासातिसारज्वरविटपकटीकुष्ठकोष्ठप्रमेहाः
मूत्राघातोदरार्शःक्षययुगलशिरःकर्णगलाक्षिरोगाः ।
ये चान्ये वातपित्तश्रमजकफभवा व्याधयः सन्ति केचित्
तांस्तानभ्यासयोगादपहरति पयः पीतमन्ते निशायाः ॥
तथा—
अम्भसः प्रसृतान्यष्टौ रवावनुदिते पिबेत् ।
वातपित्तकफाञ्जित्वा जीवेद्वर्षशतं दृढः ॥
अपि च—
विगतघनन्निशान्ते प्रातरुत्थाय नित्यं
पिबति खलु नरो यो घ्राणरन्ध्रेण वारि ।
स भवति मतिपूर्णश्चक्षुषा तार्क्ष्यतुल्यो
वलिपलितविहीनः सर्वरोगैर्विमुक्तः ॥
१. J₁. तेषामभ्यास ।
२. J₁. The revisor adds प्रसृतियुगलमात्रम् । प्रसृतिमानं पञ्चह्वयं
तद्द्विगुणं प्रसृतिद्वयम् । एवं मापः in the margin.
३. J₁. तथा; Bh. omits अपि च ।
४. Bh. निशीथे ।
५. J₁. तार्क्ष्यदृशो ।

प्रथमपरिच्छेदः । २९१
व्यङ्गवलीपलितघ्नं पीनसवैस्वर्यहारि तिमिरघ्नम्
रजनीक्षयेऽम्बु पीतं रसायनं दृष्टिजननं च ॥
पिबेद्घटसहस्राणि यावन्नास्तमितो रविः ।
अस्तं गते दिनानाथे बिन्दुरेको घटायते ॥
अजीर्णे चौषधं वारि जीर्णे वारि बलप्रदम् ।
भोजने चामृतं वारि रात्रौ वारि विषोपमम् ॥
विण्मूत्राण्डनीलिकाविषहतं तप्तं घनं फेनिलं
दन्तग्राह्यमनुत्तमं सलवणैः शैवालकैः संवृतम् ।
जन्तुव्रातविमिश्रितं गुरुतरं पर्णोरुपङ्काविलं
चन्द्रार्कांशुतिरोहितं च न पिबेन्नीरं जडं दोषलम् ॥
पार्श्वशूले प्रतिश्याये वातदोषे नवज्वरे ।
हिक्काध्मानादिदोषेषु शीताम्बु परिवर्जयेत् ॥
धातुक्षये रक्तविकारदोषे
वान्त्यां प्रमेहे विषविङ्ग्रहेषु ।
जीर्णज्वरे शौण्डिकसन्निपाते
जलं प्रशस्तं शृतशीतलं तत् ॥
१. Bh. adds निशीथोऽत्र निशान्धकारः ।
पातव्यं नासया नीरं प्रसृतित्रयमात्रया ॥
before व्यङ्गवली and etc.
२. Bh. adds स्नेहैः पीते क्षुदावाध्माने स्तिमितोदरे १ ।
हिक्कायां कफवातोत्थे व्याधौ तद्वारि वारयेत् ॥
and omits पिबेत् ... ... ... इति जलप्रकरणम् on l. 16 p. 195.
१. J_1. The revisor adds in the margin —
आमं जलं जीर्यति याममात्रात्तदर्थमात्राच्छृतशीतवारि ।
तदर्थमात्रादितरेतराम्बु त्रिधेति चोक्तो जलजीर्णकालः ॥
दीपनं पाचनं कट्वं लघूष्णं बस्तिशोधनम् ।
हिक्काध्मानानिलश्लेष्मसद्यःशुद्धौ नवज्वरे ॥
कासामपीनसश्वासपार्श्वरुक्षु न शस्यते ।
उष्णोदकगुणाः ।

तप्तं पाथः पादभागेन हीनं पथ्यं प्रोक्तं वातवातामयघ्नम्
अर्द्धांशोनं नाशयेश्रातपित्तं पादप्रायं तप्तु दोषत्रयघ्नम् ॥
तथा -
हेमन्ते पादहीनं च पादार्धोनं च शारदे ।
प्रावृड्वसन्तशिशिरग्रीष्मेष्वर्धावशेषितम् ॥
तप्तं दिवा जाड्यमुपैति नक्तं नक्तं न तप्तं यदि वापि वारि
दिवा च नक्तं च नृभिस्तदम्बु युक्तं जलं तन्मनसो प्रहीतुम्
अपनयति पवनदोषं दळयति कफमाशु नाशयत्यरुचिम् ।
पाचवति चाममनलं पुष्णाति निशीथपीतमुष्णाम्भः ॥
पानीयं न तु पानीयं पानीयेऽन्यप्रदेशजे ।
अजीर्णे इति शेषः ।
तथा -
अत्यम्बुपानान्न विपच्यतेऽन्नमनम्बुपानाच्च स एव दोषः ।
तस्मात्तरो वह्निविवर्धनाय पुनः पुनद्वारि पिवेद्भूरि ॥
शीताम्बुपूरितमुखं प्रतिवासरं यः
कालत्रयेऽपि नयनद्वितयं जलेन ।
आसिञ्चति ध्रुवमसौ न कदाचिदक्षि-
रोगव्यथाविधुरतां भजते मनुष्यः ॥
तप्तायःपिण्डसंयुक्तं लोष्टनिर्वापितं जलम् ।
सर्वदोषहरं पथ्यं सदा नेरुज्यकारकम् ॥
पानीयं प्राणिनां प्राणा विश्वमेतद्धि तन्मयम् ।
अतोऽत्यन्तनिषेधेऽपि न क्वचिद् वारि वार्यते ॥
तृषितो मोहमायाति मोहात्प्राणान् विमुञ्चति ।
तस्मात् स्वल्पं च दातव्यं न क्वचिद्वारि वार्यते ॥
क्षुधा संशुष्कहृत्कण्ठः प्रथमं कवलान् बहून् ।
यो भुङ्क्ते प्रपिबेदम्बु शीतलं मात्रया युतम् ॥
१. $J_1.$ omits तस्मात् ... ... ... न मुञ्चति ॥