सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

Ashvavaidyaka of Jayadatta Suri with Commentary

जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा

DevanagariHindipublished522 पृष्ठ

Digitized by Google

अश्ववैद्यकम् ।
श्रीमज्जयदत्तसूरिविरचितम् ।
श्रीलश्री-
वङ्गदेशीयासिआटिक-समाजानुज्ञया
गवर्नमेण्ट-संस्कृतविद्यालये
पुस्तकाध्यक्षेण
कविराज-श्रीउमेशचन्द्र-गुप्त कविरत्नेन
परिशोधितम् ।
स्थानविशेषेषु सप्रमाणं व्याख्यातञ्च ॥
कलिकाताराजधान्याम् ;
ब्याप्तिष्ट-मिशन्-यन्त्रे मुद्रितञ्च ।
संवत् १९४३-४४ ॥

This page appears to be blank, containing no visible text other than the digitization watermark at the bottom right:

Digitized by Google

[ २८६ ]
अथैकपञ्चाशत्तमोऽध्यायः ।
औनोतरोगलक्षणम् ।
गुरुभिर्भोजनैर्यासैरभिष्यन्दकरैस्तथा ।
अष्टस्याकर्म्मिणोऽश्वस्य हयोमनभिगच्छतः ॥ १ ॥
स्वस्थानात् प्रच्युतं शुक्रं मेहने प्रतिहन्यते ।
तेन शुक्राभिघातेन मूत्रकृच्छ्रं प्रजायते ॥ २ ॥
ततो रक्तप्रकोपेण शूलं भवति मेहने ।
प्रक्लिन्नं प्रवलं पक्वं कण्डूमत्पिडकान्वितम् ॥ ३ ॥
स्वस्थाने प्रविशेन्नैव मक्षिकाभिः समावृतम् ।
औनीताख्यं तमातङ्कं निर्द्दिशेत्तस्य वाजिनः ॥ ४ ॥
चिकित्सा ।
उपाण्डञ्चैव कोष्ठञ्च मात्रायान्तु विरेचयेत् ।
प्रच्छयेन्मूत्रकोपञ्च स्नानं वाज्येन सेवयेत् ॥ ५ ॥
१। एष अध्यायो ग-पुस्तके न धृतः। ख-पुस्तकानुसारेणाय-
मध्यायो गृहीतः। अष्टस्येति आकुञ्चनोत्क्षेपणप्रसारणगमनावक्षेपणे
विरेचनवस्तिनस्यानीति अष्ट कर्माणि। तदकर्मिण इत्यर्थः ।
२। प्रक्लिन्नादिकं मेहनविशेषणम् । स्वस्थानात् शुक्राधारात् ।
३। तत इति मूत्रकृच्छ्रात् स्वस्थाने नैव प्रविशेत् मेहनमिति
शेषः ।
५। प्रच्छयेत् शान्तयेदित्यर्थः ।
37

२६० अश्ववैद्यके [५१ अध्यायः ।
क्षारतैलं जलं कोष्णं पानार्थञ्च प्रदापयेत् ।
खदिरक्षीरिणां क्वाथः सुखोष्णो व्रणधावनः ॥ ६ ॥
तिलक्षारैः पयःस्विन्नैः ससर्पिष्कैः प्रलेपनम् ।
धूपनं कटुमध्वाज्यैररालापीलुदारुभिः ॥ ७ ॥
ससप्तपर्णसप्तक्या धवस्यारग्वधस्य च ।
कुटजस्य त्वचश्चैव चूर्णिता व्रणरोपणाः ॥ ८ ॥
लवङ्गानि हरिद्रे च सूर्य्यवल्ली सरोचना ।
अरुष्करोऽग्निकदरः त्रिफलानिकुटत्वचः ॥ ९ ॥
एभिस्तैलं सगोमूत्रं साधितं व्रणरोपणम् ।
भोजयेत्सिक्तमुद्गांश्च मधुतैलकणान्वितान् ॥ १० ॥
इति श्रीमहासामन्तजयदत्तविरचितेऽश्वशास्त्रे औ-
नीतरोगचिकित्सिते एकपञ्चाशत्तमोऽध्यायः ।
३ । अराला सर्जरसः । पीलुः खनामख्यातः फलविशेषः । धवो
( धाओया ) इति प्रसिद्धः ।
९ । सूर्य्यवल्ली अर्कपुष्पीवृक्षः । अरुष्करो भल्लातः । अग्निर्निंग्बूकः ।
कदरः श्वेतखदिरः । निकुठः अख्रोटः ।

[ २६१ ]
अथ द्विपञ्चाशत्तमोऽध्यायः।
अष्टविधोदरनामलक्षणानि।
अष्टभेदस्य वक्ष्यामि उदरस्य यथाक्रमम्।
चिह्नं चिकित्सितञ्चैव यथा शास्त्रे व्यवस्थितम् ॥ १ ॥
वातजं पित्तजञ्चैव कफजं सन्निपातजम् ।
प्लीहोदरं बद्धगुदं परिस्राव्युदकोदरम् ॥ २ ॥
आध्मातमुदरं यस्य वाजिनो वेदनान्वितम्।
वर्चसो रूक्षता चैव सशब्दश्चैव मारुतः ॥ ३ ॥
पुरीषेच कृते यस्य गुदं निर्याति सर्व्वदा।
क्षीणस्याल्पाशनस्यैव तस्य वातोदरं वदेत् ॥ ४ ॥
हारिद्रविण्महाकुक्षिः रूक्षः स्वेदी महाशनः।
उष्णानिःश्वाससंयुक्तो भवेत् पित्तोदरी हयः१ ॥ ५ ॥
उदरं वर्द्धते यस्य मन्दाग्नेः शोथसंयुतम्२ ।
अलसस्य३ कृशस्यैव विन्द्यात् श्लेष्मोदरं भिषक्॥ ६ ॥
वातपित्तकफानान्तु रूपं यस्य च दृश्यते।
सन्निपातसमुत्थानं तद् विन्द्यादुदरं महत्४ ॥ ७ ॥
वर्णान्यत्वं महत्वञ्च काठिन्यञ्च विशेषतः ।
२। परिस्राव्युदकोदरमिति परिस्राव्युदरं दकोदरञ्च ।
५। हारिद्रविट् पीतपुरिषः । महाकुक्षिरिति कुक्षेर्मण्डलमुक्तम् ।
१ । भवेत् पित्तोदराख्यः । गः । ३ । सालसस्य । खः ।
२ । शोधसंयुतम् । घः । ४ । ततः । गः ।

२६२ अश्ववैद्यके [५२ अध्यायः।
प्लीहोदरे विजानीयाद्देहे च कृशतां१ तथा ॥ ८॥
अल्पमल्पं पुरीषन्तु कृच्छ्रादातं२ प्रमुञ्चति ।
आध्यातकुक्षिर्यो वाजी तस्य बद्धगुदं वदेत् ॥ ९॥
आध्यातकोष्ठः३ कुरुते फेनिलं रक्तमेव च ।
परिस्रावोदरी मूत्रं दाहरुग्वर्जितं४ सदा ॥ १०॥
अत्यन्ताध्मानकञ्चैव जलपूर्णमिवोदरम् ।
कृशस्य यस्य५ वाहस्य भवेत्तस्योदकोदरम्६ ॥ ११॥
वातोदरचिकित्सा ।
पञ्चमूलकषायेण सहितां तैलसंयुताम्७ ।
यवागूं भोजयित्वा तु ततः स्नेहैनिरूहयेत् ॥ १२ ॥
पिप्पलीलवणक्षारपाठाचिञ्चाकहिङ्गुभिः ।
कल्कीकृतैः पचेत्तैलं मूत्रैर्गोमाहिषादिभिः८ ॥ १३ ॥
तस्मिन्नेव चिरचूर्णं स्नुहीदुग्धेन भावितम् ।
पलार्द्धमात्रया क्षिप्त्वा पचेत्तैलं विचक्षणः ॥ १४॥
बलं वीक्ष्य तुरङ्गस्य तैलपानं प्रदापयेत् ।
अतिपानप्रयोगेण मृत्योर्गोचरमृच्छति ॥ १५॥

१५। अतिपानादि श्लोकद्वयं ग -पुस्तके नास्ति ।
१ । तद्देहे कृशता तथा । ६ । विन्द्यादुदरकोदरम् । गः ।
२ । कृच्छ्रदारक्तं । गः । ७ । साधितां वा प्रदापयेत् । गः ।
३ । आध्यातकोष्ठैः । खः । ८ । तैलं । गः ।
४ । रुजादाहविवर्जितम् । गः । ६ । गोमूत्रैर्महिषान्वितैः । गः ।
५ । यत्तु । गः ।

न्ती वचा चैव कषायेण च साधितम् । -> wait, "चित्रहन्ती": च + ि + त + ्र + ह + न् + त + ी = चित्रहन्ती.
वातोदारे घृतं शस्तं पाने युक्त्या प्रयोजितम् ॥ १७ ॥
पित्तोदरचिकित्सा ।
पिप्पलीशृङ्गवेरञ्च दन्त्यारग्वधचिञ्चकम् ।
दध्ना मूत्रन्तस्तैलं पचेन्मृद्वग्निना बुधः ॥ १८ ॥
पित्तोदराभिभूतस्य पानमेतत् प्रदापयेत् ।
हिङ्गुयुक्तं तुरङ्गस्य यथाग्नि च यथाबलम् ॥ १९ ॥
श्लेष्मोदरचिकित्सा ।
वातोदरे समुद्दिष्टं श्लेष्मजे कारयेत् क्रियाम् ।
सन्निपातसमुत्थे तु कुर्य्यात् साधारणीं क्रियाम् ॥ २० ॥
पिण्डीकृतं त्रिकटुकं क्षारसैन्धवयोजितम् ।
दत्वानुपाययेन्मूत्रं माहिषं वाथ सौरभम् ॥ २१ ॥
प्रति प्रभाते कर्त्तव्यं तुरङ्गस्य यथाबलम् ।
प्

२६४ अश्ववैद्यके [५२ अध्यायः ।
हृदयस्याधरे भागे ऊर्द्धभागे च नाभितः ।
अधोवा नाभितः कुर्य्याच्छेदनं चतुरङ्गुले ॥ २५ ॥
शस्त्रेणोत्पलपत्रेण वामभागे विचक्षणः ।
एकमेवाङ्गुलं शस्त्रं कुक्षौ चापि प्रवेशयेत् ॥ २६ ॥
वेधमुखे ततस्तस्मिन् नालिकां वस्त्रवेष्टिताम् ।
प्रक्षिप्य गालयेद्वारि यावद्वै कोष्ठलाघवम् ॥ २७ ॥
स्वच्छतोयपरिस्रावे तदसाध्यं समादिशेत् ।
आलोहिते सरक्ते वा साध्यं विद्वान् समादिशेत् ॥ २८ ॥
आकृष्य नलिकां प्राज्ञः पट्टकेन तथा व्रणम् ।
घृतप्लुतेन बध्नीयाद्हत्वा कर्पटचीरकम् ॥ २९ ॥
मुक्ता चोत्थाप्य वाहन्तु वाग्भिः प्रसारयेद्भिषक् ।
कषायैः क्षीरवृक्षाणां व्रणञ्चाप्यवच्योतयेत्ततः ॥ ३० ॥
विद्धोदरस्य वाहस्य निर्वा .... .... .... ....।
उदकञ्चैव घासञ्च नो दद्याद्दिवसत्रयम् ॥ ३१ ॥
ततो दूर्व्वा प्रदातव्या उदकञ्चापि संस्कृतम् ।
कथितं क्षीरवृक्षाणां वल्कलैर्मधुयोजितम् ॥ ३२ ॥
ततो रूढव्रणं बुद्ध्वा सञ्जातबलमेव च ।
एतान् वै खादने दद्याद् युक्त्या चैव सुसंस्कृतान् ॥३३॥
इति श्रीमहासामन्तजयदत्तकृतेऽश्वशास्त्रे उदरचि-
कित्सिते दिपञ्चाशत्तमोऽध्यायः ।

[ २९५ ]
अथ द्विपञ्चाशत्तमोऽध्यायः ।
अर्शोलक्षणम् ।
कृशो रूक्षश्च मन्दाशी वलहीनशिराम्बितः१ ।
अर्शसा क्रियते वाजी गुदमार्गगतेन च ॥ १ ॥
जम्बू२बदरखर्जूरफलरूपञ्च तद्भवेत्३ ।
गुदाभ्यन्तरजं मांस४मेकद्विबहुसंख्यकम् ॥ २ ॥
तच्चिकित्सा ।
क्रियां तस्य प्रवक्ष्यामि यथाशास्त्रं समासतः ।
येन शाम्यति५ वाहानां भृशमर्शी विवर्द्धितम् ॥ ३ ॥
यन्त्रं षडङ्गुलं विद्वान् छिद्रं६ पञ्चाङ्गुलं भिषक् ।
अथोऽर्द्धाङ्गुलविस्तीर्णं७ दैर्घ्येणाप्यङ्गुलत्रयम् ॥ ४ ॥
उभयोः पाश्र्वयोस्तस्य कुर्य्याच्छिद्रद्वयं बुधः ।
अर्शस्तेन तु वाहस्य दिच्छिद्रेण विलोकयेत्८ ॥ ५ ॥
२ । अर्शःसु मांसाङ्कुरा जम्बूफलाद्याकारा द्वित्र्यादिबहुसंख्यकाः
गुदाभ्यन्तरे जायते इत्यर्थः ।
१ । शिरोद्भवः । खः । ६ । शिरः । गः ।
२ । जम्बूफलच्च । खः । ७ । चतुरङ्गुलविस्तीर्णं । गः ।
३ । यद्भवेत् । खः । ८ । कुर्य्यात् शङ्खादिभिःक्षतम् । गः ।
४ । मूलम् । गः । ९ । अवलोकयेत् । गः ।
५ । शाम्येत । गः ।

२६६ अश्ववैद्यके [५३ अध्यायः ।
एकच्छिद्रेण वै कर्म्म¹ कुर्य्याच्छेदादि²पूर्व्वकम् ।
पातितस्य सुबद्धस्य तुरगस्य³ विचक्षणः ॥ ६ ॥
घृताभ्यक्ते गुदे क्षिप्त्वा युक्त्या यन्त्रं द्विछिद्रकम् ।
ततः सम्यक् समासेन अर्शस्तद्बुद्धिमान् भिषक् ॥ ७ ॥
यन्त्रं द्विछिद्रमाकृष्य प्रक्षिपेदेकरन्ध्रकम् ।
यन्त्रं छिद्रान्तरस्थन्तु अर्शः कृत्वा विचक्षणः ॥ ८ ॥
छित्त्वा तीक्ष्णेन शस्त्रेण दहेल्लौहशलाकया ।
सम्यग्दग्धं भिषग्बुद्ध्वा मधुयुक्तेन सर्पिषा ॥ ९ ॥
लेपयेद्व्रणदेशन्तु यन्त्रञ्चैवापकर्षयेत् ।
मुक्त्वा वाहं समुत्थाप्य वाजिं वातेषु चारयेत्⁴ ॥ १० ॥
अतिशीतं जलं मूर्ध्नि चिके चापि प्रदापयेत् ।
तस्यां रात्रौ प्रदातव्यो घासो वाहस्य यत्नतः ॥ ११ ॥
त्रिफलाक्वाथसंयुक्तं प्रातर्दद्याच्च गुग्गुलुम् ।
शृतशीतं जलं पाने घासे⁵ दूर्व्वा च शस्यते ॥ १२ ॥
६ । पातितस्य सुबद्धस्येति निपात्य सुयन्त्रितस्येत्यर्थः ।
१० । वाजिमितीकारान्तवाजिञ्शब्दोऽप्रसिद्धः ।
१ । एकच्छिद्रे ततःकर्म्म । गः । ४ । वाजिं प्रश्वास्य वाहयेत् । खः ।
२ । भेदादि । गः । ५ । ग्रासे । गः ।
३ । प्रतीतस्य । गः ।

५४ अध्यायः।] उत्कर्णरोगविवरणम्। २६७
सप्त¹ पञ्च प्रदातव्यः त्रिफलाक्वाथयोजितः ।
ततो जातबलं बुद्ध्वा² तुरगं भिषजांवरः ॥ १३ ॥
यथेष्टाहारचेष्टन्तु कारयेत् क्रमशः³ पुनः ।
वातजं श्लेष्मजं बुद्ध्वा साधयेदग्निना भिषक् ॥
पित्तजं सम्यगालोक्य⁴ दहेत् क्षारेण बुद्धिमान् ॥ १४ ॥
इति श्रीमहासामन्तजयदत्तकृतेऽश्वशास्त्रे अर्शश्चि-
कित्सिते त्रिपञ्चाशत्तमोऽध्यायः ।
────────
अथ चतुःपञ्चाशत्तमोऽध्यायः ।
───
उत्कर्णलक्षणचिकित्सितम् ।
कर्णौ स्तब्धौ तथा पुच्छं स्तब्धं गात्रमकिञ्चन ।
वातात्मकेन वाहस्य भवेदुत्कर्णकेन हि ॥ १ ॥
वसया⁵ घृततैलेन तस्याभ्यङ्गः प्रशस्यते ।
प्रसारण्यादिभिस्तैलैः कुर्याच्चैवानुवासनम् ॥ २ ॥
─────────────────────────
१३ । सप्त पञ्चेति सप्ताहं तथा पञ्चाहं द्वादशाहमित्यर्थः ।
१४ । वातजे श्लेष्मजे वा अग्निदाहः पित्तजे क्षारदाहः प्रयोज्य
इत्यर्थः । क्रमणमिति पाठे पादचारणमर्थः ।
─────────────────────────
१ । सप्ताहकं । खः । ४ । वातजं ज्ञात्वा । गः ।
२ । बुद्धा । गः । ५ । पयसा । गः ।
३ । क्रमशं बुधः । गः ।
38

२६८ अश्ववैद्यके [५४ अध्यायः ।]
अतसीभिः शणै१र्माषैस्तिलधान्यैर्यवैस्तथा ।
वस्त्रबद्धपुटः२ स्वेदः शस्तः काञ्जिकसाधितैः ॥ ३ ॥
जंघा भासस्य३ सर्पस्य जाङ्गलैः साधितो४ रसः ।
तस्मै पाने हितो दृष्टः शाल्यन्नेन च भोजनम् ॥ ४ ॥
शौकरैर्माहिषैच्छागैरसैर्वा तदभावतः ।
पञ्चमूलकषायेण सिद्धस्तैलेन भावितः५ ॥ ५ ॥
गुडतैलयुता वापि सुरा पाने प्रशस्यते ।
शुनः छित्वा शिरो रक्तं गृहीत्वा दापयेत् ततः६ ॥ ६ ॥
छागमार्जारमेषाणां७ रक्तं सद्यः८ स्रुतं भिषक् ।
दापयेत् पञ्चमूलस्य कषायेण समन्वितम् ॥ ७ ॥
३ । अतसी ( मशिना ) ।
५ । अयं पाठो ग-पुस्तके नास्ति । रसैरित्यत्र रस इति पाठः साधुः ।
६ । गुडतैलयोर्यथाक्रमं पलाष्टकं प्रस्थार्द्धं च देयम् ।
७ । अयं पाठो ग-पुस्तके नास्ति ।
१ । सर्व्वैर्माषैः । खः ।
२ । वस्त्रबद्धपुटस्वेदस्तत्काञ्जिकसाधितः । गः ।
३ । चर्म्म नागस्य । गः ।
४ । शास्त्रकोविदः । खः ।
५ । मूर्च्छितः । गः ।
६ । पुनः छित्वा ततो रक्तं गृहीत्वा दापयेत्तदा । गः ।
७ । मेषमार्जारच्छागानां । गः ।
८ । रक्तं दद्यात् हृतं । गः ।

पञ्चमूलकषायेण कृत्वा मांसरसं बुधः ।
यवागूं साधयेत्तेन तिलमिश्रैश्च तण्डुलैः ॥ ८ ॥
वसया¹ तिलतैलेन सर्पिषा चापि संस्कृतम् ।
भोजने तां भिषग्दद्यादुत्कर्णकनिवारणीम् ॥ ९ ॥
ग्रासार्थं दापयेद्दूर्व्वां पाने चोष्णजलं पिवेत्² ।
चिष्टताद्यैस्तथा तैलैः कर्णयोस्तस्य पूरणम् ॥ १० ॥
उत्कर्णको यदाश्वस्य क्रियया नोपशाम्यति ।
वह्निं प्रदापयेत् कुक्षौ³ ललाटे कर्णयोस्तथा ॥ ११ ॥
ग्रासद्वेषी सदाध्मातः⁴ कृच्छ्रमूत्रपुरीषकृत् ।
लालाब्राण⁵युतः श्वासी उत्कर्णी नैव जीवति⁶ ॥ १२ ॥
स्वेदस्निग्धो निवातञ्च स्थानं प्रावरणानि च ।
पयांसि भोजने स्वादु कट्वम्ललवणानि च ।
बृंहणं सर्व्वथा वैद्यः कुर्यादुत्कर्णपीडिते ॥ १३ ॥
इति श्रीमहासामन्तजयदत्तकृतेऽश्वशास्त्रे उत्कर्ण-
चिकित्सिते चतुःपञ्चाशत्तमोऽध्यायः ।


१० । कर्णपूरणे तैलस्य कुडवो मात्रा ।


१ । पयसा । गः । ४ । समाध्मातः । गः ।
२ । यथा । गः । ५ । ललाटव्रणः । गः ।
३ । पुच्छे । गः । ६ । सिध्यति । गः ।

[ १०० ]
अथ पञ्चपञ्चाशत्तमोऽध्यायः ।
वातव्याधौ
मन्यास्तम्भादिलक्षणानि ।
नमत्युन्नमति१ ग्रीवा स्तब्धा च यस्य वाजिनः ।
मन्यास्तम्भं विजानीयाद्रोगं तस्य सुदारुणम् ॥ १ ॥
एवं विधायां ग्रीवायां स्फुरणं यस्य विद्यते२ ।
मन्याचालीति३ तं विद्यान्मन्दाहारं तुरङ्गमम् ॥ २ ॥
संगृहीतौ हनू यस्य४ निश्चलौ यस्य वाजिनः ।
लाला स्रवति५ चात्यन्तं विद्यात्तस्य हनुग्रहम् ॥ ३ ॥
स्तम्भं६ पृष्ठोन्नतञ्चैव रन्ध्रौ क्षिप्तस्य यस्य च ।
तस्य पृष्ठग्रहं रोगमूर्द्धग्रीवस्य निर्दिशेत् ॥ ४ ॥
एकः प्रलम्बते कर्णः शरीरार्द्धञ्च शुष्यति ।
शूनो७ भवति चास्यञ्च रोगे चैकाङ्गसंज्ञके ॥ ५ ॥
२ । एवं विधायां स्तब्धायामित्यर्थः । स्फुरणं कम्पनम् ।
१ । नचानुन्नमति ग्रीवा तथा यस्य हि वाजिनः । गः ।
२ । दृश्यते । खः ।
३ । मन्यावनीति । गः ।
४ । हनुर्यस्य निश्चलो वापि वाजिनः । खः ।
५ । लालास्रावीति चात्यर्थं । गः ।
६ । तद्भामावश्च गलश्च रन्ध्रं । गः ।
७ । शूनं भवतु । गः ।

५५ अध्यायः।] वातव्याधिविवरणम् । ३०१
संश्वासी चैव यः पूर्व्वं पुनः स्वस्थो भृशं भवेत् ।
प्रस्विन्नाङ्गस्य तस्याशु मृगरोगं समादिशेत् ॥ ६ ॥
मृगरोगी यदा वाजी जृम्भावान् जायते मुहुः ।
मृगजृम्भं तदा तस्य व्याधिं समुपलक्षयेत् ॥ ७ ॥
गत्वा यः पूर्व्वकायेन पुनः पश्चाच्च¹ गच्छति ।
स्तब्धाङ्गो वेदनार्त्तश्च तस्याक्षेपकमादिशेत्² ॥ ८ ॥
वक्रः पश्चिमकायेन मण्डलैर्यो विचेष्टते³ ।
मन्दग्रासश्च दीनश्च भ्रमिताक्षो रजोहतः⁴ ॥ ९ ॥
पश्चात्कायेन यो वाजी भूमिं गत्वा निषीदति ।
खेदञ्चाग्रिमकायेन स्वस्थश्च परिवर्त्तते⁵ ॥ १० ॥
कृच्छादुत्थापितश्चापि पुनर्यो याति⁶ मेदिनीम् ।
कपोतकनिषादीति स ज्ञेयः कृच्छ्रजीवनः ॥ ११ ॥
[L

१०२ अश्ववैद्यके [५५ अध्यायः।
हनुद्वयस्य¹ विक्षेपाद्घोणाभेदाच्च बुद्धिमान् ।
नासापुटविकाराच्च अर्हितं रोगमादिशेत् ॥ १२ ॥
एषां चिकित्सा।
एते वातात्मका रोगा मन्यास्तम्भादयः स्मृताः ।
उत्कर्णक्रियाः² सर्व्वा वाहनानां तेषु कारयेत् ॥ १३ ॥
उत्कर्णकचिकित्सा च पानमेतद् विशिष्यते ।
कपोतकनिषादस्य तद्विद्याद्दृक्ष्यमाक्षिकम्³ ॥ १४ ॥
हरितान्⁴ यवभूकांश्च पिष्ट्वालम्बुषया सह ।
आलोड्य तिलतैलेन ततः पानं प्रदापयेत् ॥ १५ ॥
इति श्रीमहासामन्तजयदत्तकृतेऽश्वशास्त्रे वातव्याधि
चिकित्सिते पंचपञ्चाशत्तमोऽध्यायः ।
१२ । अयं सार्द्धश्लोको ग-पुस्तके नास्ति । बलवर्द्धनं कर्म
बृंहणम् ।
१ । हनुद्वयं संप्रभिन्नं यस्य नासा च भिद्यते । नासापुटविकारैश्च
अर्हितः परिकीर्त्तितः । खः ।
२ । उत्कर्णकां क्रियां सर्व्वां दाहितामेषु । खः ।
३ । दद्यात्तदृक्ष्यमाक्षिकम् । गः ।
४ । हरितं यवभूकाञ्च काशञ्चैव विशेषतः ।

[ १०३ ]
अथ षट्पञ्चाशत्तमोऽध्यायः।
उन्मादनिदानलक्षणम्।
यद्युन्मादः१ समुद्दिष्टः श्लेष्मपित्तसमुद्भवः ।
तथापि२ न विना वातमुन्मादो जायते ध्रुवम् ॥ १ ॥
प्रकोपकारणैः प्रोक्तैः३ कुपिते मातरिश्वनि ।
उन्मादो जायतेऽश्वस्य तस्य रूपञ्च वक्ष्यते ॥ २ ॥
यातुमिच्छति यः स्थित्वा रज्जुं दन्तैश्च खादति ।
खादत्यकस्माद् यवसं पुनश्चैव न खादति ॥ ३ ॥
कदाचिद्बुध्यते संज्ञां कदाचिच्च न बुध्यते ।
स्वभावान्यत्वसंयुक्तं तद्बुद्ध्वा कारयेत् क्रियाम् ॥ ४ ॥
हिङ्गुयुक्तं पुराणस्य सर्पिषः पानमुत्तमम् ।
उन्मादिनस्तुरङ्गस्य घृताभ्यङ्गस्तु सर्व्वदा ॥ ५ ॥
उत्कर्णकादिरोगेषु सान्निकर्म्भाणि यानि तु ।
भोजनाभ्यङ्गपानानि निरुहास्थापनानि४ च ॥ ६ ॥
तानि५ चास्य प्रयोज्यानि बद्ध्वा चैव दृढं हयम् ।
अबद्धेषु क्रियां कर्तुं नैवोन्मादिषु शक्यते६ ॥ ७ ॥

१। यदि नाम। खः।
२। तथापित्तं विना वात उन्मादो वायुतो ध्रुवम्। गः।
३। सुप्ते। गः।
४। तानि सम्यक् प्रयोजयेत्। गः।
५। निपात्य भूमौ तुरगं बद्धा चैव दृढ़ं वधः। खः।
६। कारयेत्। गः।

१०४ अश्ववैद्यके [५६ अध्यायः।
निम्बपत्रवचाकुष्ठलाक्षालवण१हिङ्गुभिः ।
गोलोमखुरशृङ्गैश्च पीतसिद्धार्थकैरथवैः२ ॥ ८ ॥
उलूककाकपक्षैश्च भूतकेशैश्च पाण्डुभिः३।
सर्पनिर्मोकसंयुक्तैः कुर्य्याच्चूर्णं विचक्षणः ॥ ९ ॥
अर्ककाष्ठाग्निनाधूमं तेन चूर्णेन दापयेत् ।
घृतयुक्तेन वाहनामुन्मादव्याधिशान्तये ॥ १० ॥
गोकुरङ्कगोधानां४ शिखिनः शशकस्य च ।
पित्तानि दापयेत् प्राज्ञो यथालाभानि वा पुनः ॥ ११ ॥
रसोनहिङ्गुतगरान् कुष्ठसर्षपसैन्धवान् ५।
मनःशिलाञ्च संयुक्तां पित्तैः सार्द्धं प्रदापयेत् ॥ १२ ॥
महिषच्छागमूत्रेण६ वर्त्तिं कृत्वा ततः पुनः ।
उन्मादितेषु७ सर्व्वेषु तया कुर्य्यात्तथाञ्जनम् ॥ १३ ॥
तया छायां विनिष्कास्य जायते सुखमुत्तमम् ॥


८ । रजोहतः रजोभिर्धूमैर्हत इव ।
१३-१४ । मन्यास्तम्भादिषु सर्व्वेषु वातव्याधिषु उत्कर्णक-


१ । रसेन । गः ।
२ । तथा । गः ।
३ । उलूकस्य च पक्षैश्च भूतकेशिपयाण्डुभिः । गः ।
४ । गोकुरङ्गाम्बूकानां गोधानां । गः । पित्तमादाय सर्व्वेषां । गः ।
५ । सैन्धवसर्षपान् । गः ।
६ । भिषक् छागस्य मूत्रेण ।
७ । उन्मादितं तक्षं कृत्वा वर्त्त्या छायाविमुक्तया । खः ।

५७ अध्यायः।] ग्रहदोषविवरणम्। ३०५
अश्वगन्धावचाकुष्ठरोचनामधुसर्षपैः ।
रक्षार्थं पुटिका कार्य्या कण्ठे कर्पटवेष्टिता ॥ १४ ॥
गोमूत्रघृतदुग्धैश्च दध्ना च गोमयेन च ।
पञ्चगव्यं पचेत् सर्पिस्तस्य पानार्थमुत्तमम् ॥ १५ ॥
इति श्रीमहासामन्तजयदत्तकृतेऽश्वशास्त्रे उन्माद-
चिकित्सिते षट्पञ्चाशत्तमोऽध्यायः ।
अथ सप्तपञ्चाशत्तमोऽध्यायः ।
ग्रहनामलक्षणानि ।
दृश्यन्ते यानि लिङ्गानि ग्रहदोषेण वाजिनाम् ।
तानि सम्यक् प्रवक्ष्यामि ग्रहनामानि यानि तु१ ॥ १ ॥
लोहिताक्षो विरूपाक्षो हरिर्वलिस्तथैव च ।
स काशी चैव विख्यातः संकाशी च परः स्मृतः ॥ २ ॥
चिकित्सैव कार्य्या केवलं कपोतकणिषीदे हरितादिपानविशेषः प्रयोज्य
इत्यर्थः ।
१ । अयं ग्रहग्रहचिकित्साध्यायो गपुस्तके खण्डितोऽस्ति ।
१ । ग्रहाणां यानि यानि च । खः ।
39