अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)
Ashvavaidyaka of Jayadatta Suri with Commentary
जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा
पृष्ठ 324, कुल 522 में से
संदर्भ में पढ़ें२६४ अश्ववैद्यके [५२ अध्यायः ।
हृदयस्याधरे भागे ऊर्द्धभागे च नाभितः ।
अधोवा नाभितः कुर्य्याच्छेदनं चतुरङ्गुले ॥ २५ ॥
शस्त्रेणोत्पलपत्रेण वामभागे विचक्षणः ।
एकमेवाङ्गुलं शस्त्रं कुक्षौ चापि प्रवेशयेत् ॥ २६ ॥
वेधमुखे ततस्तस्मिन् नालिकां वस्त्रवेष्टिताम् ।
प्रक्षिप्य गालयेद्वारि यावद्वै कोष्ठलाघवम् ॥ २७ ॥
स्वच्छतोयपरिस्रावे तदसाध्यं समादिशेत् ।
आलोहिते सरक्ते वा साध्यं विद्वान् समादिशेत् ॥ २८ ॥
आकृष्य नलिकां प्राज्ञः पट्टकेन तथा व्रणम् ।
घृतप्लुतेन बध्नीयाद्हत्वा कर्पटचीरकम् ॥ २९ ॥
मुक्ता चोत्थाप्य वाहन्तु वाग्भिः प्रसारयेद्भिषक् ।
कषायैः क्षीरवृक्षाणां व्रणञ्चाप्यवच्योतयेत्ततः ॥ ३० ॥
विद्धोदरस्य वाहस्य निर्वा .... .... .... ....।
उदकञ्चैव घासञ्च नो दद्याद्दिवसत्रयम् ॥ ३१ ॥
ततो दूर्व्वा प्रदातव्या उदकञ्चापि संस्कृतम् ।
कथितं क्षीरवृक्षाणां वल्कलैर्मधुयोजितम् ॥ ३२ ॥
ततो रूढव्रणं बुद्ध्वा सञ्जातबलमेव च ।
एतान् वै खादने दद्याद् युक्त्या चैव सुसंस्कृतान् ॥३३॥
इति श्रीमहासामन्तजयदत्तकृतेऽश्वशास्त्रे उदरचि-
कित्सिते दिपञ्चाशत्तमोऽध्यायः ।