सामग्री पर जाएँ
सर्वकोश
अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

Ashvavaidyaka of Jayadatta Suri with Commentary

जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा

DevanagariHindipublished522 पृष्ठ

पृष्ठ 320, कुल 522 में से

संदर्भ में पढ़ें
पृष्ठ 320

२६० अश्ववैद्यके [५१ अध्यायः ।
क्षारतैलं जलं कोष्णं पानार्थञ्च प्रदापयेत् ।
खदिरक्षीरिणां क्वाथः सुखोष्णो व्रणधावनः ॥ ६ ॥
तिलक्षारैः पयःस्विन्नैः ससर्पिष्कैः प्रलेपनम् ।
धूपनं कटुमध्वाज्यैररालापीलुदारुभिः ॥ ७ ॥
ससप्तपर्णसप्तक्या धवस्यारग्वधस्य च ।
कुटजस्य त्वचश्चैव चूर्णिता व्रणरोपणाः ॥ ८ ॥
लवङ्गानि हरिद्रे च सूर्य्यवल्ली सरोचना ।
अरुष्करोऽग्निकदरः त्रिफलानिकुटत्वचः ॥ ९ ॥
एभिस्तैलं सगोमूत्रं साधितं व्रणरोपणम् ।
भोजयेत्सिक्तमुद्गांश्च मधुतैलकणान्वितान् ॥ १० ॥
इति श्रीमहासामन्तजयदत्तविरचितेऽश्वशास्त्रे औ-
नीतरोगचिकित्सिते एकपञ्चाशत्तमोऽध्यायः ।
३ । अराला सर्जरसः । पीलुः खनामख्यातः फलविशेषः । धवो
( धाओया ) इति प्रसिद्धः ।
९ । सूर्य्यवल्ली अर्कपुष्पीवृक्षः । अरुष्करो भल्लातः । अग्निर्निंग्बूकः ।
कदरः श्वेतखदिरः । निकुठः अख्रोटः ।