सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

Ashvavaidyaka of Jayadatta Suri with Commentary

जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा

DevanagariHindipublished522 पृष्ठ

१२ अध्यायः ।] द्रव्यविवरणम् । १२१
अपराजिता समुद्दिष्टा वेणुवंशश्च कीर्त्तितः ।
शंखिणी तिक्तला प्रोक्ता, सप्तला चर्मकारिका ॥ ३१ ॥
ऋषभः स्यादृषभको जीवकः कूर्चशीर्षकः ।
शीतपाकोच१ काकोली माषपर्णी महासहा ॥ ३२ ॥
मुद्गपर्णी क्षुद्रसहा, पयस्यादित्यपुष्पिका ।
क्षीरिका राजरक्षश्च२ तथा वै पार्थिवादिनी ॥ ३३ ॥
रोदनी कच्छुरा अनन्ता समुद्रान्ताचेत्यपि तत्पर्यायः । श्वेतभण्डा-
दिपञ्चकं (श्वेतापराजिता)। आस्फोता विष्णुक्रान्तापि तत्पर्यायः ॥
३१ । शंखिणी तिक्तला चोरपुष्पी । सप्तला चर्मकशाच नवमा-
लिकायां (चामरकषा) । एतत्पर्यायः, विमला सातला भूरिफेना
चेत्यपि ज्ञेयः ॥
३२ । ऋषभः स्वनामख्यातः । शृङ्गो वृषभो वृषश्च एतत्प-
र्यायः। जीवकः स्वनामख्यातः। एतत्पर्यायश्च मधुरकः शृङ्गो ह्रस्वाङ्गश्च ।
माषपर्णी (माषाणी) । एतत्पर्यायः—हयपुच्छी काम्बोजी चेति ॥
३३ । मुद्गपर्णी मुगानीति प्रसिद्धा । काकमुद्गा सहा चेत्यपि
एतत्पर्यायः। पयस्या पञ्चका । पयस्यादित्यपुष्पिका चेति लोहितार्के-
ऽपि वर्त्तते । (लालआकन्द) ।
१ । शीतापादी च । गः ।
२ । राजक्षवकः । ख० ।
16

१२२ अश्ववैद्यके [१२ अध्यायः ।
शालपर्ण्यंशुमती स्यात्तथा चापि स्थिरा ध्रुवा ।
पृश्निपर्णी पृथक्पर्णी कलशी धावनी गुहा ॥ ३४ ॥
वार्त्ताकी बृहती सिंही भाण्टाकी दुष्प्रधर्षणी ।
निदिग्धिका स्पृशा¹ व्याघ्री क्षुद्रिका कण्टकारिका ॥ ३५ ॥
राटं पिण्डीतकं गोलं श्वसनं मदनं फलम् ।
लामज्जको मृणालश्च सेव्यञ्चोशीर उच्यते ॥ ३६ ॥
पलङ्कषा च चिचांशुर्गुग्गुलुः कौशिकः पुरः ।
श्योणाको दीर्घवृन्तश्च कट्वङ्गश्चैव टुण्टुकः ॥ ३७ ॥
काकोदुम्बरिका फल्गुर्मलपूर्जघनेफला ।
हरिवालं सुगन्धञ्च ऐलेयं चैलवालुकम् ॥ ३८ ॥
३४ । शालपर्णी चतुष्का (शालपाणि) । विदारीगन्धापि शाल-
पर्णी वर्त्तते । पृश्निपर्णी पञ्चका (चाकुले) ॥
३५ । वार्त्ताकी पञ्चका (बृहती) । निदिग्धिकादिपञ्चकः कण्ट-
कारीपर्यायः ॥
३६ । राटादिर्मदनपर्यायः । मरुवकः करहाटः शल्यश्च मदन-
पर्यायः । लामज्जकसप्तकः (गन्धवेणा) । अभयं नलदं जलामोदं
लघुलयं अवदाहं इष्टकापथञ्चापि तत्पर्यायः ।
३७ । पलङ्कषा पञ्चका (गुग्गुल) । श्योणाकश्चतुष्कः (शोणा) ॥
३८ । काकोदुम्बरिका चतुष्का (फेगुड़ा) इति पार्व्वतीयभाषा ।
हरिवालादिरेलवालुकपर्य्यायः ॥
१ । दृष्टो । गः ।

१२ अध्यायः ।] द्रव्यविवरणम् । १२३
वक्रं नतञ्च तगरं जिह्मं कालानुसारिवा ।
अभीरुर्बहुपुत्री च तथा मूला शतावरी ॥ ३६ ॥
दूर्व्वा सहस्रवीर्य्या स्याच्छतवीर्य्या तु सा मता ।
छत्रा मधुरिका प्रोक्ता मिषिर्माङ्गलिका च सा ॥४०॥
भरद्वाजी च कार्पासी शृङ्गी कर्कटशृङ्गिका ।
कुटनटञ्च धन्यञ्च प्लवञ्च परिपेलवम् ॥ ४१ ॥
गोकण्टको गोक्षुरकः खरदंष्ट्रा त्रिकण्टकः ।
विम्बी रक्तफला प्रोक्ता तथा रक्तोष्ठका मता ॥ ४२ ॥
३६ । वक्रादि पञ्चकं (ओउल्लिकोप्) तगरपादिक दूत्यपि
प्रसिद्धम्। अभीरुरित्यादिः शतमूलीपर्य्यायः–इन्दीवरो वरी प्यद्यप्रोक्ता
भीरुपत्नी नारायणी चेत्यपि तत्पर्य्यायः ।
४० । दूर्व्वादि त्रिकं (दूर्व्वा)। शतपर्व्वा भार्गवी अनन्ताचापि
दूर्व्वापर्य्याये वर्त्तते । छत्रादि चतुष्टयं मधुरिकापर्य्यायः (मौरी)।
शालेयः मिश्रेयः शीतशिवेऽपि ॥
४१ । भरद्वाजी द्वयी कार्पासे वर्त्तते । तुण्डिकेरी, समुद्रान्ता
वदरेति च तत्पर्य्यायः । भरद्वाजी वनकार्पासी । शृङ्ग्यादि द्वयं
कर्कटशृङ्ग्यां वर्त्तते । (काँकड़ाशृङ्गी) । कुटन्नटादि चतुष्टयं कैवर्त्त-
मुस्तायां वर्त्तते । दाशपुरं वालेयं गोपुरं गोनद्देञ्चापि तत्पर्य्यायः ॥
४२ । गोकण्टकादि चतुष्टयं गोक्षुरपर्य्यायवाचकम् । एत
दतिरिक्तोऽपि पर्य्यायशब्दः पलंकषा इक्षुगन्धा स्वादुकण्टकः वन-
शृङ्गाटश्चेति ॥

१२४ अश्ववैद्यके [१९ अध्यायः।
सैरीयकः सहचरी बाणा दासी कुरुण्टका।
कुस्तुम्बुरुश्च धन्याको गोलोमी भूतकेशिका¹ ॥ ४३ ॥
श्रेयसी चैव चण्डा च रास्ना च परिकीर्त्तिता।
अर्जुनः ककुभः पार्थः क्षीरवृक्षो धनञ्जयः ॥ ४४ ॥
— — — — प्रियको जीवको मतः।
ज्योतिष्मती हैमवती तेजोवत्यप्युदाहृता ॥ ४५ ॥
४३। सैरीयको (झाँटी)। सहचरी कुरुण्टकश्च (पीतझिण्टी)।
वाणा दासी च 'नीलझिण्टी'। कुरुवको रक्तझिण्टी। कुस्तुम्बुरु धंन्या-
कम्। वेषणा उया वितानञ्च तत्पर्यायः। गोलोमी क्षुद्रक्षुपविशेषः
(गोधुमा, पाथुरी) इति भाषा। श्वेतदूर्व्वायाञ्च। गोलोमो भूत-
केशश्च पद्यते।
४४। श्रेयसी चिका (रास्ना)। श्रेयसी गजपिप्पली पाठा च।
चण्डा, कपिकच्छुः शंखपुष्पी च। अर्जुनादिः पञ्चकोऽर्जुनवृक्षपर्यायः।
४५। ज्योतिष्मत्यादि द्वयं वचापर्यायवाचकम्। “तीक्ष्णोगन्धा
जटिला मङ्गल्या विजया वचा। षड्ग्रन्थोयाच रक्षोघ्नी सिता हैमवती
च सा। मेध्या षड्ग्रन्थिका श्वेता वचा स्याद्दीर्घपत्रिका”। इति
श्वेतवचा॥ “कुलिञ्जो गन्धमूलश्च तीक्ष्णगन्धश्च वर्वरः”। इति भैरवी
वचा।
१। मितकेशिका। खः।

१२ अध्यायः ।] द्रव्यविवरणम् । १२५
कुठेरकोऽर्जकश्चैव¹ पर्णासः परिकीर्त्तितः ।
ब्रह्मपुष्पः² फणिज्जस्तु, तर्कारी वैजयन्तिका ॥ ४६ ॥
त्रायमाणा सहचाणी³ कोलवल्ली च पिप्पली ।
नीलिनी चैव नीली स्यात् सोमराजी च वाकुची ॥४७॥
रोहीतकः प्लीहशत्रुः, वातपोपस्तु किंशुकः ।
सर्पदंष्ट्रा वृश्चिकाली आस्फोटा वनमालिका⁴ ॥ ४८ ॥
४६ । कुठेरकादि त्रिकं श्वेततुलसीपर्यायवाचकम् । तथा कटि-
ञ्जरः श्वेतपत्रश्च । फणिज्जङ्गको गन्धतुलसी । तर्कारी वैजयन्तिकेति
द्वयं जयन्तीवाचकम् ।
४७ । त्रायमाणादिद्विको वलालतापर्यायः । कोलवल्ली गज-
पिप्पली । “श्रेयसी कोलवल्ली च गजाह्वा हस्तिपिप्पली” । इति
मुक्तावली । नीलिनी नीलीचेति (नील) । तत्पर्यायः कला क्लीतकिका
ग्रामीणा मधुपर्णिका रञ्जनी श्रीफली तुत्था द्रोणी दोला चेति ।
४८ । रोहीतकः प्लीहशत्रुरिति (रोहड़ा) वाचकः । एतत्पर्यायो
वरतिक्तो रोहितश्च । वातपोषः किंशुकस्य पलाशोवर्त्तते । एतत्पर्यायो
वानप्रस्थः । वातपोषस्थाने वातपोत इति मुक्तावली । सर्पदंष्ट्रा
वृश्चिकाली (विछाटी) । एतत्पर्यायः ; महाकाली क्रोष्टुः धूमरपत्रिका
वृश्चिपत्री नागदन्तिका चेति । विक्रुन्त्रास्थाने वित्रन्तं पठ्यते कचित् ।
आस्फोटा द्विका । (हापरमाली) ।
१ । कटच्छसैव । गः ॥ ३ । सुहृद्राणी । गः ॥
२ । ब्रह्मपुष्प्यपराणिङ्गः । खः । ४ । वनमल्लिका । खः ।

१२६ अश्ववैद्यके [१२ अध्यायः ।
चिबा गवाक्षी गोडुम्बी१ सुषवी कारवेल्लिका२ ।
मार्कवो भृङ्गराजः स्यात् सुनिषण्णं विल्लचकम् ॥ ४६ ॥
काका गृध्रनखी हिंस्रा सर्पगन्धा तु नाकुली ।
कटम्बरा३ प्रसारणी गोजिह्वा दर्व्विपत्रिका४ ॥ ५० ॥
महौषधं शृङ्गवेरं नागरं विश्वभेषजम् ।
मागधी चोपकुल्या च वैदेही पिप्पली कणा ॥ ५१ ॥
शितोपला शिता चापि शर्करा परिकीर्त्तिता ।
विशेषौ द्वौ तु खण्डस्य मत्स्यण्डी फाणितौ समौ ॥ ५२ ॥
४६ । चित्रादि त्रिकं। (गोमुक्) । “चित्रा गवाक्षी गोदुग्धा
गोडुम्बा नृपवल्लभा”। इति मुक्तावली । सुषवी द्विक। (करेलाउच्छे) ।
तोयवल्ली कटिल्लञ्च । मार्कवो द्विकः (भीमराज) । सुनिषण्णं द्विकं
(शुशूणि शाक) ।
५० । काकादि त्रयं कण्टकपाणीति प्रसिद्धम् । कटम्बरा चतुष्कं।
(गन्धभादुले) । सरणा राजबला भद्रबलेति च तत्पर्यायः ।
५१ । महौषधादि चतुष्कं शुण्ठीवाचकम् । (शुँट्) । मागध्यादि
चतुष्कं पिप्पलीवाचकम् । (पिपुल) ।
५२ । शितोपलादि त्रिकं शर्करावाचकम् । खण्डस्य द्वौ विशेषौ
मत्स्यण्डीफाणितौ च । मत्स्यण्डी (मिकुरि) । फाणितः (फेणी) ।
१ । गोदुग्धा । खः । ३ । कटंबरी ।
. २ । कारविल्लकः । गः । ४ । दीर्घपत्रिका ।

१२ अध्यायः ।] द्रव्यविवरणम् । १२७
गुटिका मिश्ररा मत्स्यो मत्स्यण्डी परिकीर्त्तितः$^१$ ।
फाणितस्तद्द्रवस्थापि विहितो मुनिपुङ्गवैः ॥५३॥
हरीतक्यभया पथ्या अमोघा चाव्यथा शिवा ।
धात्री चामलकी प्रोक्ता विभीतोऽक्षः कलिद्रुमः ॥५४॥
जन्तुकं रामठं हिङ्गु वेलनं परिपोषणम्$^२$ ।
जरणो जीरकोऽजाजी कारवी कृष्णजीरकः ॥५५॥
भद्रं श्रीचन्दनं श्वेतं कर्पूरं चन्द्रनामकम् ।
किराततिक्तं भूनिम्बं क्षौद्रं पुष्परसो मधु ॥५६॥

५३। गुटिकादि चतुष्कं मत्स्यण्डीपर्य्यायवाचकम् ।
५४। हरीतक्यादि षट्कं हरीतकीवाचकम् । वयःस्था पूतना
अमृता चेतकी श्रेयसी चेति तत्पर्य्यायः । धात्र्यादि द्विकं आमलक-
वाचकम्। तीर्या कर्षफलाश्च तत्पर्य्यायः । तथा विभीतकादि त्रिकम् ।
संवर्त्तः कल्पवृक्षश्च तत्पर्य्यायः ।
५५। जन्तुकादि पञ्चकं हिङ्गुपर्य्यायबोधकम् । जरणादि त्रयं जीरके
वर्त्तते ।
५६। भद्रं श्रीचन्दनञ्च श्वेतचन्दनबोधकम् । चन्द्रनामकमिति
चन्द्रपर्य्यायवाचकशब्दमात्रं कर्पूरवाचकम् । किराततिक्तादि द्विकं
(चिरेता)। क्षौद्रादि त्रयं मधुवाचकम्।

१। चापि मत्स्यण्डी खण्डस्य परिकीर्त्तितः । गः ।
२। परिचोषणम् । खः ।

१९८ अश्ववैद्यके [१२ अध्यायः ।
प्रसन्ना मदिरा कल्या गौड़ी शुण्डी सुधा सुरा ।
अवन्ती सैव धान्याम्लः काञ्जिकञ्चारणालकः ॥५७॥
उदश्विन्मथितं चैव तक्रं घोलं प्रकीर्त्तितम् ।
दधिमण्डं स्मृतं मस्तु मनाग् जातन्तु मण्डकम् ॥५८॥
प्रपौण्डरीकं श्रीपुष्पं सैन्धवं लवणोत्तमम् ।
कापोतः सर्जिकाक्षारो यवक्षारो यवाग्रजः ॥५९॥
५७ । प्रसन्नाद्यष्टकं सुरावाचकम् । धान्याम्लादि त्रिकं काञ्जिक-
बोधकम् ।
५८ । उदश्वित् अर्द्धजलयुक्ते घोले वर्त्तते । तक्रं ह्युदश्विन्मथितं
पादाम्ब्वर्द्धाम्बु निर्जलमित्युक्तेः । तदुक्तं “किलाटं दधि दुग्धञ्च तक्रं पा-
दजलान्वितम् । तक्रं गोरमजं घोलं कालसेयं विलोडितम्”—इति
मुक्तावल्याम् ॥ दधिमण्डं मस्तु (मात्) । मण्डं दधिभवं मस्त्विति
कोषः । मण्डं (माड़) ॥
५९ । प्रपौण्डरीकं श्रीपुष्पञ्च (पुण्डरीयाकाष्ठ) । श्रीपुष्पं पुण्ड-
रीयाविशेषः । अस्य पर्याये मुक्तावली,—“प्रपौण्डरीकं पुण्ड्र्यं भूतघ्नी
श्रवणारुणा” । अन्या,—“प्रपौण्डरीकं चक्षुष्यं शीतं श्रीपुष्पमुण्डरि”
इति ॥ कपोतद्वयं सर्जिखारे (साचिचार) । “कापोतं सर्जिका
सर्जिः शूलघ्नी सुखवर्चवः”—इति मुक्तावली ॥ यवक्षारो यव-
सम्भूतः क्षारः । “पाक्यक्षारो यावशूको यवक्षारो यवाग्रजः”—इति
मुक्तावली ।

? No, it's दिwith a loop at the bottom! That isद्वि! Look at द्वि: दhas a tail, and under the belly ofदisव! With ि, the matra goes over द्व->द्वि! And anusvara on top -> द्विकं! Let's look at द्विकं`:
Yes! "मनःशिलाद्विकं (मन्काल)।"
Wait, is it separated: "मनःशिला द्विकं" or "मनःशिलादिकं"?
Wait, could it be "मनःशिलादिकं"?
"मनःशिला आदि कं"? No! "द्विकं" means "dvika" (dyad / pair)!
Because in the verse:
"मनःशिला तु वैगन्धि" -> two words: 1. मनःशिला, 2. वैगन्धि! That is a pair = द्विक!
Then "ईरिता नटमण्डनम्" -> Haritala synonyms: Haritala, Natamandana.
Then "सौवर्चलन्तु रुचकं" -> two words: 1. सौवर्चल, 2. रुचक = द्विक! (सौवर्चलद्विकं).
Then "गन्धाश्मा तु वलीयसी" -> two words: गन्धाश्मा, वलीयसी.
Then "हरेणुर्ब्राह्मणी कौन्ती" -> three

१३० अश्ववैद्यके [१२ अध्यायः ।
अपामार्गः शैखरिकः प्रत्यक्पुष्पी मयूरकः ।
पुनर्णवा तु वर्षाभूः शोतघ्नी प्रावृषायणी ॥ ६३ ॥
वृश्चिका श्वेतनामा स्याद् रक्तनामा कठिञ्जिका ।
इन्द्राणी इन्द्रसुरसा¹ निर्गुण्डी सिन्धुवारिका ॥ ६४॥
शुकशिम्बात्मगुप्ता च कपिकच्छुर्महर्षभी ।
इक्ष्वाकुः कटुतुम्बो स्यात्तिक्तालावून्नृपात्मजा ॥ ६५ ॥
वैकङ्कतो मधुवर्णी स्निग्धा तु स्वादुकण्टकः ।
वञ्जुलो निचुलः शीतो जलकासश्च वेतसः ॥ ६६ ॥
वारिजो निजुलश्चैव हिज्जलः परिकीर्त्तितः ।
चिञ्चा² तिन्तिलिका प्रोक्ता फेनिलश्चाप्यरिष्टकः ॥ ६७॥
६३ । अपामार्गादि चतुष्कं । (आपाङ) । पुनर्णवादि पञ्चकं ।
कठिञ्जिका रक्तपुनर्णवा । अत्र कठिञ्जर इति पाठोयुक्तः ॥
६४ । इन्द्राण्यादि चतुष्कं निर्गुण्ड्यां वर्त्तते (निशिन्दा) । इन्द्र-
सुरसोऽपि पाठः ।
६५ । शूकशिम्बादि त्रयम् । (आलकुशी) । इक्ष्वाकादि चतुष्कं ।
(तित्लाउ) ।
६६ । वैकङ्कतादि चतुष्कं । (वंदची) । वञ्जुलादि पञ्चकम् (वेत्) ॥
६७ । वारिजादि त्रयं (हिजल) ॥ चिञ्चादि द्वयं (तँतुल) ।
फेनिलादि द्वयम् । (रीटा) ॥
१ । इन्द्राण्यो इन्द्ररसा । गः। २ । विम्बा । ख० ।

१२ अध्यायः ।] द्रव्यविवरणम् । १२१
काश्मरी सर्व्वतोभद्रा श्रीपर्णी भद्रपर्णिका१ ।
श्लेलुः श्लेष्मान्तकः शीत उद्दालो बहुवारकः ॥ ६८ ॥
विल्वकाश्मर्य्यश्योणाकपाटलागणिकारिकाः२ ।
पञ्चमूलं स्मृतं श्रेष्ठं शास्त्रमार्गानुसारिभिः ॥ ६९ ॥
गोक्षुरो बृहती चैव शालपर्णी निदिग्धिका ।
पञ्चमूलं भवेत् सूक्ष्मं पृश्निपर्णी समायुतम् ॥ ७० ॥
पञ्चमूलोभयञ्चैव दशमूलमिति स्मृतम् ।
सन्निपातभवे रोगे हितमेतत् प्रकीर्त्तितम् ॥ ७१ ॥
मरिचस्य च३ शुण्ठ्याश्च पिप्पलीनां तथैव च ।
एतच्चिकटुकं प्रोक्तं व्योषाख्यं त्र्यूषणं तथा ॥ ७२ ॥
त्वगेलापचसंयोगे त्रिसुगन्धि त्रिजातकम् ।
नागकेसरसंयुक्तं चातुर्जातकमुच्यते ॥ ७३ ॥
लवणैः कटुचूर्णैश्च घृष्यते यद्व्रणं बुधैः ।
प्रतिसारं४ ततः प्रोक्तं वाजिशास्त्रविशारदैः ॥ ७४ ॥
६८ । काश्मर्य्यादि चतुष्कं (गामार) । एतत्पर्य्यायः,—“भद्रा
गाम्भारी गोपभद्रिका कुमुदा कट्फला कृष्णवृन्तिका च”—इति ॥
श्लेल्वादि पञ्चकम् । (चाल्ता) ॥
१ । भद्रकर्णिका । ख० । ३ । मरिचं नागरञ्चैव । ग० ।
२ । गण्डकारिका । ग० । ४ । प्रतिसारणं तत्रोक्तं । ख० ।

१९२ अश्ववैद्यके [१२ अध्यायः ।
अनुवासनसंज्ञौ तु निरूहास्थापने स्मृतौ ।
वस्तिसंज्ञा समुद्दिष्टा एषामेव तपोधनैः ॥ ७५ ॥
घ्राणमार्गेण यच्चूर्णं प्रेर्य्यते मुखवायुना ।
प्रधमनं तद्विख्यातं धावनं क्षालनं स्मृतम् ॥ ७६ ॥
काष्ठहारिकगोपालमालाकारवनेचरान् ।
दृष्ट्वा नामानि जानीयात् भेषजानां विचक्षणः ॥ ७७॥
इति श्रीमहासामन्तजयदत्तकृतेऽश्वशास्त्रे निघण्टौ
द्वादशोऽध्यायः ॥ १२ ॥
७५। अनुवासनसंज्ञावित्यत्र अनुवासनसंज्ञे स्मृते इति पाठः
साधीयान् ॥
७७। दृष्ट्वास्थाने पृष्ट्वेति साधुः ॥

[ १३३ ]
अथ त्रयोदशोऽध्यायः।
ऋतुविभागविवरणम्।
स्वस्थवृत्तं प्रवक्ष्यामि तुरगाणां समासतः ।
शालिहोत्रादिभिः प्रोक्तं यथा सम्यक् प्रकीर्त्तितम् ॥१॥
श्रावणश्च तथा भाद्रो द्वौ मासौ ऋतुवर्षकौ ।
आश्विनः कार्त्तिकश्चैव शरत्कालः प्रकीर्त्तितः ॥ २ ॥
मार्गपौषौ तु हेमन्तः शिशिरो माघफाल्गुनौ ।
वसन्तश्चैत्रवैशाखौ ग्रीष्मो ज्येष्ठः शुचिस्तथा ॥ ३ ॥
शालानिर्म्माणविवरणम्।
प्रागुदक्प्रणते देशे स्थाणुकण्टकवर्जिते ।
चिताचैत्यविहीने च शालां कुर्व्वीत पण्डितः¹ ॥ ४ ॥
१। स्वस्थवृत्तमिति अरोगिनि यद् वृत्तम् ॥
२। सुश्रुतमते तु नैवं ऋतुविभागः,—तद्यथा,—“भाद्रपदा-
श्वयुजौ वर्षा। कार्त्तिकमार्गशीर्षौ शरत्। पौषमाघौ हेमन्तः। फाल्गु-
नचैत्रौ वसन्तः। वैशाखज्येष्ठौ ग्रीष्मः। आषाढ़श्रावणौ प्रावृट्” इति ॥
४। प्रागुदक्प्रणते पूर्व्वोत्तरप्रवणे। स्थाणुः शङ्कुः। स्थाणु र्वा ना
शङ्कुरित्यमरः। चैत्यमायतनं। चैत्यमायतनमित्यमरः। शाला वाजि-
शाला ॥
१। कुर्व्वन्ति पण्डिताः। ग०।

१२४ अश्ववैद्यके [१३ अध्यायः ।
शुष्का^१ शाला च कर्त्तव्या इष्टकाष्ठेन संस्थिता ।
शिरसि स्थापयेद्देवं रैवन्तं पूजयेत् सदा ॥ ५ ॥
कार्य्या^२ त्रिहस्तविस्तीर्णा लाक्षायाः^३ पिण्डिका शुभा ।
शालाप्रमाणदीर्घा च तस्यां^४ वासं प्रदापयेत् ॥ ६ ॥
द्वौ हस्तावुच्छ्रयेणास्या मानञ्चैव^५ प्रकीर्त्तितम् ।
तर्जङ्कुं काष्ठदण्डांश्च प्रान्तेऽस्याः स्थापयेद्बहिः ॥ ७ ॥
अग्निकार्य्यं ततः कृत्वा द्विजान् संभोज्य चादरात् ।
कृत्वा पुण्याहवादित्रं ततो वाहान् निवेशयेत्^६ ॥ ८ ॥
सम्मुखान् स्थापयेत्तांस्तु^७ पुष्पगन्धादिपूजितान् ।
रज्जुद्वयनिबद्धांश्च पश्चात्पाशेन संयुतान् ॥ ९ ॥
५ । इष्टकाष्ठेन संस्थिता इष्टकेन काष्ठेन वा कुट्टमितेत्यर्थः;
लाक्षायाः पिण्ड

८ अध्यायः।] वर्षापोषणविवरणम्। १६५
लोहञ्च निम्बपत्राणि गुग्गुलुं सर्षपान् घृतम् ।
चैलबद्धं वचां हिङ्गुं बध्नीयाद्वाजिलाङ्गुले ॥ १० ॥
समीपे वानरः कार्य्यः वाजिनां नित्यतो बहिः ।
सवत्सो वृषभश्चैव शुक्लो यद्यपि कुक्कुरः ॥ ११ ॥
शालापार्श्वे कुटीं कृत्वा स्थापयेत् सर्व्वभेषजम् ।
घृततैलानि पक्वानि पुटकां नालिकां तथा ॥ १२ ॥
आलोकं कारयेत्प्राज्ञः प्रदीपैः सर्व्वरात्रिकैः ।
जाग्रतः पुरुषास्तत्र तिष्ठेयुः शस्त्रपाणयः ॥ १३ ॥
वालुकापूरितं कार्य्यं संस्कृतं चत्वरं तथा ।
लुठनाय च वाहानां भवेच्च क्रमणाय च ॥ १४ ॥
वर्षापोषणविवरणम् ।
शालाप्रविष्टमात्रस्य नैव कार्य्यः क्रियाक्रमः ।
दशाहं द्वादशाहं वा पथ्या तैलेन संयुता ॥ १५ ॥
ततो निम्बः प्रदातव्यो वर्षादौ पलपञ्चकः ।
सप्ताहमुत्तमाश्वाय शुण्ठीदीप्यकसैन्धवैः ॥ १६ ॥
यवसाः सप्रदीपाः सुरक्षिताः ॥ कृकवाकुकपयो धार्याश्चाश्वाग्गृहे
मृगाः”—इति ॥
१५। शालाप्रविष्टेत्यारभ्य पोषयेद्भिषक् इत्यन्ता सार्द्धद्वादशश्लोकाः
ग-पुस्तके न सन्ति ॥
१६ । वर्षादौ वर्षाप्रारम्भे उत्तमायाश्वाय दशाहं द्वादशाहं वा
तैलेन कटुतैलेन संयुता पथ्या देयेति शेषः । पथ्यायास्तु पञ्चपञ्चकं

१९६ अश्ववैद्यके [१३ अध्यायः ।
स्वस्थं बुद्ध्वा ततो वाहं दद्याद् गोमूत्रसंयुतम् ।
हरीतकोपलं....कटुतैलेन मूर्च्छितम् ॥ १७ ॥
आदौ पञ्च प्रदातव्या हरीतको विजानता ।
पञ्च पञ्च च वृद्धायां यावत् पूर्णं शतं भवेत् ॥ १८ ॥
उत्तमाश्वे शतं प्रोक्तमशीतिर्मध्यमे तथा ।
अधमे विहिता षष्टिरश्वज्ञानपरायणैः ॥ १९ ॥
मासे भाद्रपदे विद्वान् समानीय हरीतकीम् ।
दशांहं केवलं तस्मै घासं दद्यात् समाहितः ॥ २० ॥
गृहीत्वा प्रस्थार्द्धेन तैलेन सह देयम् । योगोऽयं रुधिरोद्गमसंग्र-
मनः । नकुलस्तु, —अनेन योगेन सह गोमूत्रं ददाति । दशाह
द्वादशाहस्थले एकविंशतिदिवसानाह । तदुक्तम्,—“दद्याद्गोमूत्र-
संयुक्तं सतैलाञ्च हरितकीम् । दिनं त्रिसप्तकं यावत् पलपञ्च-
प्रमाणतः ॥ ततः शुद्धिमवाप्नोति निःशेषाद्रुधिरोद्गमात्”—इति ।
ततःपरं एष निम्बयोगो देयः । शुण्ठीदीप्यकमैन्थ्यैः शृङ्गवेर-
जीरकनिम्बत्वचः समभागेन कल्कीकृत्य सप्ताहं देयाः॥
१७ । स्वस्थवृत्ते हरितकीविधानमाह स्वस्थमिति । स्वस्थे अश्वे
कटुतैलेन सार्षपतैलेन मूर्च्छितं पक्वमित्यर्थः । पञ्च हरितकी गोमूत्रेण
पिष्ट्वा दद्यात् ॥
२० । ततो द्वादशाहं केवलं घासं दद्यात् । “ततोनववृणाहारं
संप्राप्य सुमनोहरं । परां पुष्टिमवाप्नोति नीरोगश्च प्रजायते”—
इति नकुलः ॥

१२ अध्यायः।] वर्षापोषणविवरणम्। १६७
कल्पोक्तेन विधानेन यथामात्रं यथाबलम् ।
रसानं गुग्गुलुञ्चापि प्रदद्याद्वाजिनां ततः ॥ २१ ॥
प्रथमे प्रहरे चैव वर्षाकाले न चारयेत् ।
द्वितीये च तृतीये च चारयेन्नतु पश्चिमे ॥ २२ ॥
प्रभाते निस्तुषा देया यवा मध्यदिने तथा ।
सन्ध्याकाले भिषक् प्राज्ञः पुनश्चैवावचारयेत् ॥ २३ ॥
२१ । कल्पोक्तेन विधानेनेति रसोनादिकल्पोक्तव्यवस्थया । सा
चेयम् । प्रथमे दिने रसोनरसं मातुलुङ्गरसञ्च समभागं मिश्रित्वा
पलद्वयं। तत एकैकवृद्ध्या विंशतिपलपर्य्यन्तमुत्तमाश्वाय दद्यात् । मध्य-
माय चतुर्दश अधमाय च पलाष्टकमिति । यथाबलमिति उत्तममध्य-
माधमबलत्वं विविच्येत्यर्थः । एवं गुग्गुलोरपि पलपञ्चकं पलचतुष्टयं
पलत्रयञ्च यथासङ्ख्यमुत्तममध्यमाधमेभ्य एकदिने पानाय भोजनाय
वा देयम् ॥ तथा वर्षासु पानार्थं नवोदकं वृष्ट्यम्बुसेकञ्च विशेषेण
निषिद्धः । तत्र दोषमाह, — “वृष्ट्यम्भोभिस्तु सिक्ताङ्गस्तेजसा त्यज्यते
हयः । अशुद्धोदकजान् रोगान् प्राप्नोति शतशः परान् ॥ नवोदकप्र-
धानेन बलहीनश्च जायते” इति नकुलः ॥
२२ । वर्षायामश्ववाहननिषेधोऽपि नकुलेन कृतः । “न प्रायो
वाहयेदश्वं प्रावृट्काले कथञ्चन । य इच्छेद्वाजिनस्तस्य वाहनं दश-
मासिकम्” — इति ॥
18

ारजः ।" or "गोजिह्वारुजः"? No, "गोजिह्वारजः ।".

Line 18:
२६। शरदाद्याश्विने इति शरदादिराश्विनो मासस्तस्मिन् ।
Wait, let's look at "शरदादिराश्विनो":
श - र - दा - दि - रा - श्वि - नो = शरदादिराश्विनो.
Then: मा - स - स् - त - स्मि - न् = मासस्तस्मिन्. (Yes, not माघ, it's मासस्तस्मिन्!)

Line 19:
शरदादौ वाहननिषेधो नकुलेनापि कृतः,—“वाहनञ्च प्रयत्नेन
Wait:
शरदादौ
वाहननिषेधो
नकुलेनापि
कृतः,—“वाहनञ्च (or कृतः, — “वाहनञ्च)
प्रयत्नेन

Line 20:
सुसूक्ष्ममपि वर्जयेत्”—इति । अस्मिन् काले भोजनार्थं यवघा-
Wait:
सुसूक्ष्ममपि
वर्जयेत्”—इति । (or वर्जयेत्” — इति ।)
अस्मिन्
काले
भोजनार्थं
यवघा-

Line 21:
सयोर्व्यवस्था । नकुलस्तु नीलमकुष्ठघासव्यवस्थां कृतवान् न य

१३ अध्यायः।] शरत्पोषणविवरणम् । १९८
ताड़ागं शस्यते तोयं पाने चैवावगाहने ।
सन्तप्तस्य तु कर्त्तव्यं क्षीरवस्तिकमो बुधैः ॥ २७ ॥
निस्तुषा जलकुम्भस्था यवास्तस्मै हिताः स्मृताः ।
औदकाश्च यवाः प्रोक्ता रक्तपित्तप्रशामकाः ॥ २८ ॥
काश्मर्याश्च फलं मुस्तं वदरं कटुरोहिणी ।
ऊशीरं शर्कराञ्चैव प्रियङ्गुमधुके तथा ॥ २९ ॥
पटोलं त्रायमाणाञ्च एकादश भवेन्मधु ।
एकादशाङ्गमृत्युक्तं सीधुना संप्रदापयेत् ॥ ३० ॥
अत्यन्तश्वासतप्तानां प्रतिपानन्तु वाजिनाम् ।
चन्दनोशीरकल्कैश्च सान्द्रं वा लेपनं हितम् ॥ ३१ ॥
सुशीतञ्च प्रवातञ्च स्थानं तेषां प्रकीर्तितम् ।
व्यजनन्तालवृन्तैश्च विस्तीर्णेऽम्भसि मज्जनम् ॥ ३२ ॥
तदुक्तं “यवसं सुमनोहरं,—नीलवर्णमकुष्ठश्च घृतं यासेन संयुतम्”—
इति । मकुष्ठो वनमुद्गः ।
२७ । जलपानव्यवस्था तुक्तैव । पानाय सारसं तोयमिति ।
अत्र क्षीरवस्तौ आढकमितं दुग्धं देयं परिभाषानियमात् ।
२९ । एतत्काश्मरीफलादिकं मध्वन्तमेकादशाङ्गं सीधुना संप्र-
दापयेत् । अस्य परिमाणं प्रत्येकं पलं सुरायाश्च प्रस्थो ग्राह्यः ॥
३१ । चन्दनं रक्तचन्दनम् ।
१ । पलं । गः ।

१४० अश्ववैद्यके [१३ अध्यायः ।
देयं शरदि चाश्वाय भोजनं क्षीरशालिभिः ।
मांसयूषैरनम्लैर्वा किञ्चित्-सैन्धवसंयुतैः ॥ ३३ ॥
शुक्लपक्षे द्वितीयायां शालां संवेष्ट्य रक्षयेत् ।
आदित्यरश्मितो वाहान् कटैर्वस्त्रादिभिस्तथा ॥ ३४ ॥
अस्तं गते दिनकरे कटादीन्यपकर्षयेत् ।
प्रवातार्थं पुनर्द्दद्याद् यावत् सन्ध्या न जायते ॥ ३५ ॥
धूपो१ निम्बदलैः कार्य्यो घृतगुग्गुलुसंयुतैः ।
शालाप्रवेशविहितान् रक्षकांश्चैव दापयेत्२ ॥ ३६ ॥
३३ । अत्र क्षीरशालिपरिमाणं प्रत्येकं सप्त अष्टौ वा पलानि
देयानि । “ततः शरदमासाद्य बहुखण्डसमन्वितम् । शस्तं क्षीरोदनं
सप्तपञ्चाहपरिसंख्यया” । तथा स एव रात्रौ केवलं दुग्धं मधुरञ्च
ददाति । “दुग्धं वा केवलं रात्रौ कथितं संप्रशस्यते । तथान्यदपि
यत्किञ्चिन्मधुरं संप्रजायते” इति नः । मांसयूषस्य पलद्वयं ।
३४ । “आश्विने शुक्लपक्षे या द्वतीया स्वातियोगिनी । ऐशान्याञ्च
पुनश्चैव गृह्णीयात् स्थानमुत्तमम् । नीराजनं ततः कुर्य्यात् सम्प्राप्ते
दिवसेऽष्टमे। नीराजनस्य कालास्तु पूर्व्वमुक्ताश्च ते मया”॥ इति नकुलः।
कटैः दृणनड़ादिनिर्म्मितासनैः (चेटा मादुर दड्मा) इति प्रसिद्धैः ।
३६ । निम्बदलघृतगुग्गुलूनां प्रत्येकं कर्षत्रयं ग्राह्यम् । परि-
भाषायां तावत् परिमाणस्य विधानात् ।
१ । धूमः । खः । २ । रक्षांश्चैव प्रदापयेत् । खः ।