सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

Apastamba Dharmasutra with Hindi Commentary

महर्षि आपस्तम्ब / हरदत्त टीका द्वारा

DevanagariSanskritpublished399 पृष्ठ

४६ आपस्तम्बधर्मसूत्रे [(प्र.२.)क. ८.
तस्य शिष्यस्य गृहस्थभूतस्य यानि द्रव्याण्युपस्थापितानि तेषां
मध्ये एकेनापि द्रव्येण यथाऽऽत्मा संयुज्यते तथा न कथयेत् । आचार्यः
शिष्यगृह(१)मेत्य अहो दर्शनीयं भोजनपात्रमित्यादि(२) लिप्सा यथा
गम्यते तथा न कथयेदिति ॥ ६ ॥
स्नातस्तु काले यथाविध्यभिहृतमाहूतोऽभ्येतो वा
न प्रतिसंहरेदित्येके ॥ ७ ॥
(३)‘वेदमधीत्य स्नास्य’न्नित्यनेन विधिना स्नातः तस्मिन्काले यथाविध्यभि-
हृतमाबद्धं स्रगादि आचार्येणाहूतः स्वयमेव वा तत्समीपमभ्येतो न प्रतिसंहरेत्
न विमुञ्चेदित्येके मन्यते । स्वपक्षस्तु तदापि मुञ्चेदिति । ‘काले यथावि-
र्ध्याभहृत'मिति वचनादपरेद्युरारभ्य प्रतिसंहरेदेव ॥ ॥ ७ ॥
उच्चैस्तरां नाऽऽसीत ॥ ८ ॥
स्वार्थे तरप् । आचार्यासनादुच्चासने नाऽऽसीत ॥ ८ ॥
तथा बहुपादे ॥ ९ ॥
नीचेऽप्यासने बहुपादे नाऽऽसीत ॥ ९ ॥
सर्वतः प्रतिष्ठिते ॥ १० ॥
आसने आसीत । आचार्यं पीठादावुपवेश्य स्वयं वेत्रासनादा-
वासीत । तद्धि भूमौ सर्वतः प्रतिष्ठितम् ॥ १० ॥
शय्यासने चाऽऽचरिते नाविशेत् ॥ ११ ॥
आचार्येणाचरित उपभुक्ते शय्यासने नाऽऽविशेत् । शयने न शयीत
आसने नासीत । पित्रादिष्वपि गुरुषु समानमिदम् । तथा च मनुर-
विशेषेणाह-(४)शय्यासने चाध्युषिते श्रेयसा न समाचरेत् ।' इति ॥११॥
गतं समावृत्तस्य वैशेषिकम् । अथ ब्रह्मचर्यविधेरेव शेषः—
यानमुक्तोऽध्वन्यन्वारोहेत् ॥ १२ ॥
यानं शकटादि । आरोहेत्युक्तो गुरुणा पश्चादारोहेत् । अध्वनि मार्गे
१. प्रत्यागत इति ख. पु. २. ईप्सा इति. ख. पु. ३. आप. गृ. १२ १.
४. मनु. २. ११९ ‘शय्यासनेऽप्याचरिते' इति मेधातिथिसम्मतः पाठः । शय्या
चासनं चेति द्वन्द्वैकवद्भावः ।

ब्रह्मचारिधर्माः ] उज्ज्वलोपेते प्रथमः प्रश्नः । ४७
'छत्रं यानमिति वर्जये'दिति पूर्वोक्तस्य प्रतिषेधस्यापवादः। यानं च गुर्वा-
रूढमन्यद्वा ॥ १२ ॥
सभानिकषकटस्वस्तरांश्च ॥ १३ ॥
उक्तोऽध्वन्यन्वारोहेदित्येव । 'सभास्समाजांश्च' त्यस्यापवादार्थं
सभाग्रहणम् । निकषो नाम कृषीवलानामुपकरणं, कृष्टं क्षेत्रं येन समीक्रि-
यते, यच्च कस्मिंश्चिदारूढे(१) केनचिदाकृष्यते । तत्र गुरुणा आकृष्य-
माणेऽपि तेनोकसन्नारोहेत । न त्वनौचित्यभयान्नान्वारोहेदिति । कटो
वीरणनिर्मिता शय्या । तत्र गुरुणोक्तस्सन् सहाऽऽसीत । उत्सवादावेष
आचारः । स्वस्तरो नाम पलालशय्या । (२) नवस्वस्तरे संविशन्ती'ति
दर्शनात् । तत्रापि गुरुणोक्तस्सन् सहासनादि कुर्यात् ॥ १३ ॥
नानभिभाषितो गुरुमभिभाषेत प्रियादन्यत् ॥१४॥
गुरुणाऽनभिभाषितो गुरुं प्रति न किञ्चित् ब्रूयात् प्रियादन्यत् । प्रियं
तु ब्रूयात् यथा ते पुत्रो जात इति ॥ १४ ॥
व्युपतोदव्युपजापव्यभिहासोदामन्त्रणनामधेयग्रहण-
प्रेषणानीति गुरोर्वर्जयेत् ॥ १५ ॥
व्युपतोद. (३)अङ्गुल्यादिघट्टनं यदाभिमुख्यार्थं क्रियते । व्युपजापः
श्रोत्रयोर्मुहुर्मुहुर्जल्पनम् । वकारश्छान्दसोऽपपाठो वा । व्यभिहासः
आभिमुख्येन हसनम् । उदामन्त्रणमुच्चैस्सम्बोधनम्, यथा बधिरं प्रति ।
नामधेयग्रहणं दशम्यां पितृविहितस्य नाम्नो ग्रहणम्। न पूज्यनाम्नो भग-
वदादेः । प्रेषणमाज्ञापनम् । एतानि गुरुविषये न कर्तव्यानि । इतिकरणा-
देवंप्रकाराणामन्येषामपि प्रतिषेधः । यथाऽऽह मनुः—
(४) नोदाहरेत्तस्य नाम परोक्षमपि केवलम् ।
न चैवास्यानुकुर्वीत गतिभाषितचेष्टितम् ॥ इति ॥ १५ ॥
आपद्यर्थं ज्ञापयेत् ॥ १६ ॥
आपदि व्युपतोदादिभिरप्यर्थमभिप्रेतं ज्ञापयेत् । असति पुरुषान्तरे
(५)वचनेनापि बोधयेत्, न साक्षात्प्रेषयेत्, यथा-शूलतोदो मे भवति,
१. केनचिदाकृष्यमाणे क्षेत्रं समं भवति, इति. घ. पु.
२. आ.प. गृ. १९-९ ३ अङ्गुल्यादिना संघट्टनम् इति. घ. पु.
४. मनु. २-१९९ ५ वचनेनैव इति क. पु.

४८ आपस्तम्बधर्मसूत्रे [ (प्र.१) क. ८.
स चाऽग्निना शाम्यति, न चात्र कश्चित्सन्निहितः, किं करोमि मन्दभाग्य
इति ॥ १६ ॥
उत्तरे सूत्रे समावृत्तविषये—
सहवसन्सायं प्रातरनाहूतो गुरुं दर्शनार्थी गच्छेत् ॥१७॥
सह एकस्मिन् ग्रामे वसन् साय प्रातरनाहूतोऽपि गुरुं दर्शनार्थी नान्यप्रयोजनो
गच्छेत् ॥ १७ ॥
विप्रोष्य च तदहरेव पश्येत् ॥ १८ ॥
यदा ग्रामान्तरं गतः प्रत्यागच्छति तदा तदहरेवाऽऽचार्यं पश्येत् ॥१८॥
आचार्यप्राचार्यसन्निपाते प्राचार्यायोपसंगृह्योपसञ्जि-
घृक्षेदाचार्यम् ॥ १९ ॥
आचार्यस्याऽऽचार्यः प्राचार्य प्रपितामहवत् । यदा आचार्यस्य प्राचा-
र्यस्य च कार्यवशात् सन्निपातो मेलनं भवति, तदा प्राचार्याय द्वितीयार्थे
चतुर्थी । प्राचार्य पूर्वमुपसंगृह्य पश्चात्स्वाचार्यमुपसङ्ग्रहीतुमिच्छेत् । न
केवलं मनसा किन्तु यथाऽऽचार्यो जानाति मामयमुपसञ्जिघृक्षतीति
तथा चेष्टेत । अन्यथा अदृष्टार्थमुपदिष्टं स्यात् ॥ १९ ॥
प्रतिषेधेदितरः ॥ २० ॥
इतर आचार्यः प्रतिषेधेत् 'वत्स मा मोपसङ्ग्रही'रिति ॥ २० ॥
लुप्यते पूजा चाऽस्य सकाशे ॥ २१ ॥
अस्य प्राचार्यस्य सकाशे सन्निधौ आचार्यस्य पूजा लुप्यते न कार्या । न
केवलमुपसङ्ग्रहणमेव । उत्तरसूत्रं समावृत्तविषयम् ॥ २१ ॥
मुहुंश्चाऽऽचार्यकुलं दर्शनार्थी गच्छेद्यथाशक्त्यधिहस्त्यमा-
दायाऽपि दन्तप्रक्षालनानीति ॥ २२ ॥
मुहुंश्चेत्यनुस्वारदीर्घौ छान्दसौ । वीप्सालोपश्चात्र द्रष्टव्यः । मुहुर्मुहु
रिति विवक्षितम् । ग्रामान्तरे वसन्नपि मुहुर्मुहुराचार्यकुलं दर्शनार्थमागच्छे-
त् । यथाशक्ति गोरसापूपादि अधिहस्त्य हस्ते भवमादाय स्वयमेव गृहीत्वे-
त्यर्थः । अपिशब्दोऽभावे विधिं द्योतयति—गोरसाद्यभावे दन्तकाष्ठान्य-
पीति । इतिशब्दः अन्तेवासिधर्माणां समाप्तिद्योतनार्थः ॥ २२ ॥

ब्रह्मचारिधर्माः ] उज्ज्वलोपेते प्रथमः प्रश्नः । ४९
(१)मातरं पितरमाचार्यमग्नींश्च गृहाणि च रिक्त-
पाणिर्नोपगच्छेद्राजानं चेन्न श्रुतामिति ॥ २३ ॥
तस्मिन्गुरोर्वृत्तिः ॥ २४ ॥
तस्मिन्नन्तेवासिनि गुरोर्वृत्तिः । वृत्तेः प्रकारो वक्ष्यते ॥ २३ ॥ २४ ॥
पुत्रमिवैनमनुकाङ्क्षन् सर्वधर्मेष्वनपच्छादयमानः
सुयुक्तो विद्यां ग्राहयेत् ॥ २५ ॥
एनं शिष्यं पुत्रमिव(२) अस्याऽभ्युदयः स्यादिति अनुकाङ्क्षन् सर्वेषु धर्मेषु
किञ्चिदप्यनपच्छादयमानः अगूहन् सुयुक्तः सुष्ठ्ववहितः तत्परो भूत्वा विद्यां
ग्राहयेत् ॥ २५ ॥
न चैनमध्ययनविघ्नेनात्मार्थेषूपरुन्ध्यादनापत्सु ॥२६॥
न चैनं शिष्यमध्ययनविघ्नेनाऽऽत्मप्रयोजनेष्वनापत्सूपरुन्ध्यात् । (३)उपरो-
धः अस्वन्त्रीकरणम् । 'अनापत्स्व' तिवचनादापद्यध्ययनविघातेना-
ऽप्युपरोधे न दोषः ॥ २६ ॥
अन्तेवास्यनन्तेवासी भवति विनिहितात्मा
गुरावनैपुणमापद्यमानः ॥ २७ ॥
'आपद्यमान' इत्यन्तर्भावितण्यर्थः । योऽन्तेवासी विनिहितात्मा द्वयोरा-
चार्ययोः(४)विविधं निहितात्मा गुरावनैपुणमापादयति-नाऽनेनाऽयं प्रदेशः
सम्यगुक्त इति, सोऽन्तेवासी न भवति । स त्याज्य इत्यर्थः(५) ।
अपर आह-योऽन्तेवासी वाङ्मनःकर्मभिरनैपुणमापद्यमानो गुरौ वि-
सदृशं निहितात्मा भवति अनुरूपं न शुश्रूषते सोऽन्तेवासी न भवतीति॥२७॥
आचार्योऽप्यनाचार्यो भवति श्रुतात्परिहरमाणः॥२८॥
आचार्योऽप्यनाचार्यो भवतीति, त्याज्य इत्यर्थः । किं कुर्वन् ? श्रुतात्परिहरमा-
णः तेन तेन व्याजेन विद्याप्रदानमकुर्वन् ॥ २८ ॥
१. इदं सूत्रं क. पुस्तक एव दृश्यते । नान्यत्र । २. अ+यासादिषु इति ङ. पु.
३. उपरोधः स्वतन्त्रीकरणम्. इति. ड. पु. ४. विधिवत् इति. ख. पु. ।
५. “अत्र मनुः-धर्मार्थौ यत्र न स्यातां शुश्रूषा वापि तद्विधा । तत्र विद्या न वप्तव्या
शुभं बीजमिवोषरे इति-”इत्यधिकः पाठो दृश्यते ख. पुस्तके
आप०ध० ७

५० आपस्तम्बधर्मसूत्रे [ (प.२.) क.८.
अपराधेषु चैनं सततमुपालभेत ॥ २९ ॥
अपराधेषु कृतेष्वेनं शिष्यं सततमुपालभेत-इदमयुक्तं त्वया कृतमिति ॥२९॥
अभित्रास उपवास उदकोपस्पर्शनमदर्शनमिति
दण्डा यथामात्रमानिवृत्तेः ॥ ३० ॥
अभित्रासो (१)भयोत्पादनम् । उपवासो भोजनलोपः। उदकोपस्पर्शनं शीतोदकेन
स्नापनम्। अदर्शनं यथाऽऽत्मानं न पश्यति तथा करणम्। गृहप्रवेशनिषेधः।
सर्वत्र ण्यन्तात् प्रत्ययः । इत्येते दण्डाः शिष्यस्य यथामात्रं यावत्यपराध
मात्रा तदनुरूपं व्यस्ताः समस्ताश्च । आनिवृत्ते- यावदसौ न ततोऽपराधा-
न्निवर्तते तावदेते दण्डाः ॥ ३० ॥
निवृत्तं चरितब्रह्मचर्यमन्येभ्यो धर्मेभ्योऽनन्तरो
भवेत्यतिसृजेत् ॥ ३१ ॥
एवं चरितब्रह्मचर्यं निवृत्तं गुरुकुलात् कृतसमावर्तनमित्यर्थः । एवंभूत-
मन्येभ्यो धर्मेभ्यो यमसावाश्रमं प्रतिपित्सते तत्र तेभ्योऽनन्तरो भव यथा त्व-
मन्तरितो न भवसि तथा भवेत्युक्त्वाऽतिसृजेत् । तं तमाश्रमं प्रतिपत्तुमु-
त्सृजेत् ॥ ३१ ॥
इत्यापस्तम्बसूत्रवृत्तावुज्ज्वलायामष्टमी कण्डिका ॥
इति चापस्तम्बधर्मसूत्रवृत्तौ हरदत्तविरचितायामुज्ज्वलायां
प्रथमप्रश्ने द्वितीयः पटलः ॥ २ ॥
१ रज्जुवेष्वादिना भयोत्पादनम् इति, ख. पु.

अनध्यायाः ] उज्ज्वलोपेते प्रथमः प्रश्नः । ५१
एवमध्येतुरध्यापयितुश्च धर्मा उक्ताः। अथ देशकालकृता अध्ययन-
धर्मा उच्यन्ते—
श्रावण्यां पौर्णमास्यामध्यायमुपाकृत्य मासं
प्रदोषे नाधीयीत ॥ १ ॥
मेषादिस्थे सवितरि यो यो दर्शः प्रवर्त्तते ।
चान्द्रमासास्तत्तन्नाम्नैत्राद्या द्वादश स्मृताः ।
तेषु या या पौर्णमासी सा सा चैत्रादिका स्मृता ।
काञ्चित्केन योगेन नक्षत्रस्येति निर्णयः ॥
तदेवं सिंहस्थे सवितरि याऽमावास्या तदन्ते चान्द्रमसे मासे या
मध्यवर्तिनी पौर्णमासी सा श्रावणी । श्रवणयोगस्तु भवतु वा मा
वा । तस्यां श्रावण्यां पौर्णमास्यामध्यायमुपाकृत्य गृहोक्तेन विधिनोपाकर्म कृ-
त्वा स्वाध्यायमधीयीत । अधीयानश्च मासमेकं प्रदोषे प्रथमे रात्रिभागे ना
धीयीत ग्रहणाध्ययनं धारणाध्ययनं च न कुर्यात् । प्रदोषग्रहणाद्रात्रा
वप्यूर्ध्वं न दोषः ॥ १ ॥
तैष्यां पौर्णमास्यां रोहिण्यां वा विरमेत् ॥ २ ॥
तिष्यः पुष्यः; तेन युक्ता पौर्णमासी तैषी श्रावणीवत्। तस्यां विरमेत् ।
उत्सर्जनं कुर्यात् । तस्यापि प्रयोगो(१)गृह्य एवोक्तः । रोहिण्यां वा, (२)तै-
षमासि तिष्यात्पूर्वा या रोहिणी तस्यां वा विरमेत् । अनयोः पक्षयोः
पञ्च मासानधीयीत ॥ २ ॥
अर्धपञ्चमांश्चतुरो मासानित्येके ॥ ३ ॥
अर्धेः पञ्चमो येषां ते अर्धपञ्चमाः । अर्धाधिकांश्चतुरो मासान् अधीयीते
त्यपेक्ष्यत (३) इत्येके मन्यन्ते । अस्मिन्पक्षे प्रोष्ठपद्यामुपाकरणं शास्त्रान्त-
रदर्शनात् । उत्सर्जनस्य वा प्रतिकर्षः । उत्सर्जने च कृते श्रावण्याः
प्राक् शुक्लपक्षेषु धारणाध्ययनं वेदस्य, कृष्णपक्षेषु व्याकरणायङ्गाध्य-
यनम् । पुनः श्रावण्यामुपाकृत्यागृहीतभागस्य ग्रहणाध्ययनमिति । प्र-
पञ्चितमेतद्(४)गृह्ये ॥ ३ ॥
१. आपस्तम्बगृह्यसूत्रान्तर्गतोपाकर्मोत्सर्जनपटलव्याख्यानेऽनाकुलायामित्यर्थः । (आप.
गृ. सू. पृ. १५४) एतद्वचनबलादेव हरदत्तेनोपाकर्मोत्सर्जनारूयः पटल. आपस्तम्बगृह्या
न्तर्गतो व्याख्यात इत्यवगम्यते इति न्यूरूयायाम गृह्यटिप्पण्याम् ।
२. 'तिष्ये मासि भंवा या रोहिणी' इति ड. पु.
३. अत्र मनुः ४. ९५. द्रष्टव्यः । ४ आप. गृ. ७. १. पृ. ११०.

५२ आपस्तम्बधर्मसूत्रे [ (प.३.) क.९
निगमेष्वध्ययनं वर्जयेत् ॥ ४ ॥
निगमाश्चत्वराः । ग्रामनिर्गमनामार्गा वा ; नियमेन गम्यते तेष्विति ।
तेषु सर्वप्रकारमध्ययनं वर्जयेत् ॥ ४ ॥
आनडुहेन वा शकृत्पिण्डेनोपलिप्तेऽधीयीत ॥ ५ ॥
अनडुत्सम्बन्धिना वा शकृत्पिण्डेनोपलिप्य निगमेष्वप्यधीयीत॥५॥
श्मशाने सर्वतः शम्याप्रासात् ॥ ६ ॥
श्मशाने चाध्ययनं वर्जयेत् । सर्वतः सर्वासु दिक्षु । शम्या क्षिप्ता याव
ति देशे पतति ततोऽर्वागिति पञ्चमीनिर्देशाद्गम्यते ॥ ६ ॥
ग्रामेणाऽध्यवसिते क्षेत्रेण वा नाऽनध्यायः ॥ ७ ॥
यदा श्मशानं ग्रामतया क्षेत्रतया वा अध्यवसितं स्वीकृतं भवति
तदा अध्येतव्यमेव ॥ ७ ॥
ज्ञायमाने तु तस्मिन्नेव देशे नाऽधीयीत ॥ ८ ॥
यदा तु तदध्यवसितमपि श्मशानं ज्ञायते-अयं स प्रदेश इति, तदा
तावत्येव प्रदेशे नाऽधीयीत । न शम्याप्रासात् ॥ ८ ॥
(१) श्मशानवच्छूद्रपतितौ ॥ ९ ॥
शूद्रपतितसकाशेऽपि शम्याप्रासान्नाऽध्येयम् ॥ ९ ॥
समानागार इत्येके ॥ १० ॥
एके मन्यन्ते समानागारे शूद्रपतितौ वर्ज्यौ, न शम्याप्रासादिति ॥१०॥
शूद्रायां तु प्रेक्षणप्रतिप्रेक्षणयोरेवाऽनध्यायः ॥ ११ ॥
शूद्रायां तु यदा परस्परं प्रेक्षणं भवति तदैवाऽनध्यायः । न समानागारे,
नापि शम्याप्रासादिति ॥ ११ ॥
तथाऽन्यस्यां स्त्रियां वर्णव्यतिक्रान्तायां मैथुने ॥१२॥
शूद्राव्यतिरिक्ताऽपि या स्त्री मैथुने वर्णव्यतिक्रान्ता नीचगामिनी तस्या
मपि प्रेक्षणप्रतिप्रेक्षणयोरनध्यायः ॥ १२ ॥
ब्रह्माध्येष्यमाणो मलवद्वाससेच्छन् सम्भा-
१ याज्ञवल्क्योऽत्र १. १४८. द्रष्टव्यः ।

अनध्यायाः ] उज्ज्वलोपेते प्रथमः प्रश्नः । ५३

षितुं ब्राह्मणेन सम्भाष्य तया सम्भाषेत ।
सम्भाष्य तु ब्राह्मणेनैव सम्भाष्याऽधीयीत ।
एवं तस्याः प्रजानिःश्रेयसम् ॥१३॥
यो वेदमध्येष्यमाणो मलवद्वाससा रजस्वलया सह सम्भाषितुमि-
च्छति स पूर्वं ब्राह्मणेन सम्भाष्य पश्चात्तया सम्भाषेत । सम्भाष्य च
पुनरपि ब्राह्मणेनैव सम्भाष्याऽधीयीत । किमेवं सति भवति ? एवं
तस्या मलवद्वासस आगामिनी या प्रजा तस्या निःश्रेयसमभ्युदयो
भवति । प्रजारूपं वा निःश्रेयसं तस्या भवति । 'प्रजानिःश्रेयस'मिति-
वचनात् विधवाद्विभिः सह सम्भाषणे नैतत्कर्तव्यम् ॥ १३ ॥
(१) अन्तश्शवम् ॥ १४ ॥
अन्तश्शवो यत्र ग्रामे तत्र नाध्येयम् । एतेना 'न्तश्चाण्डाल'मिति
व्याख्यातम् ॥ १४ ॥
अन्तश्चाण्डालम् ॥ १५ ॥
चण्डाल एव दाण्डालः । उभयत्र प्रथमा सप्तम्यर्थे । अव्ययीभावो
वा विभक्त्यर्थे द्रष्टव्यः ॥ १५ ॥
(२)अभिनिस्सृतानां तु सीम्न्यनध्यायः ॥ १६ ॥
यदा शवाः सीम्नि अभिनिस्सृता भवन्ति तदा तत्राऽनध्यायः ॥ १६ ॥
सन्दर्शने चाऽरण्ये ॥ १७ ॥
अरण्ये च यावति प्रदेशे शवश्चण्डालो वा सन्दृश्यते तावत्यन-
ध्यायः ॥ १७ ॥
तदहरागतेषु च ग्रामं बाह्येषु ॥ १८ ॥
बाह्याः उग्रनिषादादयः परिपन्थिनः तेषु च ग्राममागतेषु तदहरनध्या-
यः, तस्मिन्नहनि नाऽध्येतव्यम् ॥ १८ ॥
अपि सत्सु ॥ १९ ॥
ये विद्याचरित्रादिभिर्महान्तः सन्तः तेष्वपि ग्राममागतेषु तदहर-
नध्यायः ॥ १९ ॥

१. मनु. ४. १०८ द्रष्टव्यः । २ अभिनिर्हताना इति. ख. पु.

५४ आपस्तम्बधर्मसूत्रे [ (प.३.) क. ९.
सन्धावनुस्तनिने रात्रिम् ॥ २० ॥
सन्धिः सन्ध्या तस्मिन् सन्धौ । अनुस्तनिते मेघगर्जिते सति रात्रिं
(१)सर्वां रात्रिं नाऽधीयीत । वर्षतांत्विदम् । अन्यस्मिन्नधिकं वक्ष्यति ॥२०॥
स्वप्नपर्यन्तं विद्युति ॥ २१ ॥
अन्त्यो दीर्घ उपान्त्यो ह्रस्वः । विपर्यासश्छान्दसोऽपपाठो वा ।
सन्धौ विद्युति सत्यां स्वप्नपर्यन्तां रात्रिमनध्यायः न सर्वाम् । स्वप्नपर्यन्ता
रात्रिः प्रहरावशिष्टा ॥ २१ ॥
एवं सायं सन्ध्यायामुक्तं, प्रातस्सन्ध्यायामाह-
उपव्युषं यावता वा कृष्णां रोहिणीमिति शम्या-
प्रासाद्विजानीयादेतस्मिन्काले विद्योतमाने
सप्रदोषमहरनध्यायः ॥ २२ ॥
उपव्युषं उषस्समीपे तत्र विद्योतमाने विद्युति सत्यामपरेद्युस्सप्रदो-
षमहरनध्यायः । प्रदोषादूर्ध्वं रात्रावध्ययनम् । यावता वा कालेन शम्याप्रा-
सादर्वागवस्थितां गां कृष्णामिति वा रोहिणीमिति वा विजानीयात् । एत-
स्मिन्काले उपव्युषं विद्योतमान इत्यन्वयः । रोहिणी गौरवर्णा । इतिशब्द-
प्रयोगे द्वितीया प्रयुज्यते । तत्राऽन्वयप्रकारश्चिन्त्यः ॥ २२ ॥
दृढेऽपररात्रे स्तनयित्नुना ॥ २३ ॥
रात्रेस्तृतीयो भागः सर्वोऽपररात्रः । तस्य त्रेधा विभक्तस्याद्योऽशो
महारात्रः । अन्त्यो दृढः । तस्मिन् दृढेऽपररात्रे स्तनयित्नुना निमित्तेन सप्र-
दोषमहरनध्यायः ॥ २३ ॥
ऊर्ध्वमर्धरात्रादित्येके ॥ २४ ॥
अर्धरात्रादूर्ध्वमनन्तरोक्को विधिरित्येके मन्यन्ते । स्वपक्षस्तु दृढ
एवेति ॥ २४ ॥
गवां चाऽवरोधे ॥ २५ ॥
दस्युप्रभृतिभिरवरुद्धासु गोषु तावन्तं कालमनध्यायः । अवरोधो
ग्रामाद्विर्गमनिरोधः ॥ २५ ॥
बध्यानां च यावता हन्यन्ते ॥ २६ ॥

१. अस्य सूत्रत्वेन परिगणनं कृतं क पु.

अनध्यायाः ] उज्ज्वलोपेते प्रथमः प्रश्नः । ५५
वर्धाहाणांचो रादीनामवरोधे यावता कालेन हन्यन्ते तावन्तं
कालमनध्यायः ॥ २६ ॥
पृष्ठारूढः पशूनां नाऽधीयीत ॥ २७ ॥
हस्त्यश्वादीनां पशूनां पृष्ठारूढः तन्नाऽऽसीनस्सन्नाऽधीयीत ॥२७॥
अहोरात्रावमावास्यासु ॥ २८ ॥
अमावास्यासु द्वावहोरात्रौ नाऽधीयीत । तासु च पूर्वेद्युश्चतुर्दशीषु च ।
तथा । च मनुः(१)—'अमावास्याचतुर्दश्योः पौर्णमास्यष्टकासु च ।'
इति ॥ २८ ॥
इत्यापस्तम्बसूत्रवृत्तावुज्ज्वलायां नवमी कण्डिका ॥
चातुर्मासीषु च ॥ १ ॥
चतुर्षु मासेषु भवाश्चातुर्मास्य । संज्ञैषा तिसृणां पौर्णमासीनां यासु चातु-
र्मास्यानि क्रियन्ते। काः पुनस्ताः? फाल्गुन्याषाढीकार्तिक्यः। चातुर्मास्यो
यज्ञः। 'तत्र भव'इति वर्तमाने 'संज्ञायामाणि' ष्यण्प्रत्ययः । तासु चातुर्मा-
सीषु पूर्ववद्द्वावहोरात्रावनध्यायः । गौतमस्तु स्वशब्देनाह(२) 'कार्तिकी
फाल्गुन्याषाढी पौर्णमासी' ति । (३)पौर्णमास्यनन्तरप्रतिपत्सु च
शाखान्तरवशादनध्यायः । यथा होशनाः—'पर्वणीतिहासवर्जितानां
विद्यानामनध्याय' इति । 'प्रतिपत्सु न चिन्तये' दिति च । एवं चतुर्द-
शीमात्रस्य वर्जने शाखान्तरं(४) मूलं मृग्यम् । तत्र याज्ञवल्क्यः—
(५)'पञ्चदश्यां चतुर्दश्यामष्टम्यां राहुसूतके ।' इति ॥ १ ॥
वैरमणे गुरुष्वष्टाक्य औपाकरण इति त्र्यहाः ॥ २ ॥
विरमणमुत्सर्जनं तदेव वैरमणम् । तस्मिन् वैरमणे । प्रथमान्तपाठे
सप्तम्यर्थे प्रथमा । गुरुषु श्वशुरादिषु । संस्थितेष्विति प्रकरणाद्गम्यते ।
१. मनु. स्मृ ४. ११३.
२. गौ. ध. १६. ३२. ३. पौर्णमास्यन्तरे प्रतिपत्सु च इति. ख. पु.
४. मूलम्' इति. नास्ति क. पुस्तके । मृग्यमिति नास्ति ख. पुस्तके
५. या स्मृ १. १४६. ऋतुसन्धिषु भुक्त्वा च श्राद्धिक प्रतिगृह्य च इत्याधिकः
पाठः ख. पुस्तके ।

५६ आपस्तम्बधर्मसूत्रे [ (प्र.१) क. १०.
अष्टकैवाऽष्टाक्यं स्वार्थिकः ष्यञ् । आदौ प्राप्ता वृद्धिर्मध्ये कृता । उपाकर-
णमेवोपाकरणम् । एतेषु निमित्तेषु त्र्यहा अध्ययनरहिताः । तत्र गुरुषु
मरणदिनमारभ्य त्र्यहाः । इतरेषु पूर्वेद्युरपरेद्युस्तस्मिंश्च दिने नाधीयीत ।
अत्र गौतमः—(१) 'तिस्रोऽष्टकास्त्रिरात्रमन्त्यामेकेऽभितो वार्षिक' मिति ।
उपाकरणादूर्ध्वं प्रागुत्सर्जनात् यदध्ययनं तद्वार्षिकम् । तदभितस्तस्या-
दावन्ते च यत्कर्म क्रियते तत्रापि त्रिरात्रमित्यर्थः । औशनसे च व्यक्त
मुक्तम्(२)'उपाकर्मणि चोत्सर्गे द्व्यहमनध्याय' इति । मानवे च
व्यक्तम्(३)'उपाकर्मणि चोत्सर्गे त्रिरात्र क्षपणं स्मृतम् ।' इति ॥ २ ॥
तथा सम्बन्धेषु ज्ञातिषु ॥ ३ ॥
ये सन्निकृष्टा ज्ञातयः भ्रातृतत्पुत्रपितृव्यादयः । तेष्वपि मृतेषु तथा
त्र्यहमनध्यायः । ब्रह्मचारिणोऽविधिरयम् । आशौचवतां तु यावदाशौ-
चमनध्यायः शास्त्रान्तरसिद्धः—
‘उभयत्र दशाऽहानि कुलस्यान्नं न भुज्यते ।
दानं प्रतिग्रहो यज्ञः स्वाध्यायश्च निवर्तते ॥’ इति ।
उभयत्र जनने मरणे च ॥ ३ ॥
मातरि पितर्याचार्य इति द्वादशाहाः ॥ ४ ॥
मात्रादिषु मृतेषु द्वादशाहमनध्यायः । अयं विधिर्गृहस्थानामपि ।
केचिदाशौचमपि तावन्तं कालमिच्छन्ति । नेति वयम्, अनध्यायप्र-
करणात् ॥ ४ ॥
तेषु चोदकोपस्पर्शनं तावन्तं कालम् ॥ ५ ॥
मात्रादिष्वधिकं तावन्त कालमहरहस्स्नानमपि कार्यम , न केवलमन-
ध्यायः ॥ ५ ॥
अनुभाविनां च परिवापनम् ॥ ६ ॥
अनु पश्चात् भूता जाता अनुभाविनः मृतापेक्षयाऽवरवयसः । तेषां परि-
वापनमपि भवति केशानाम् । (५) 'कृत्यच' इति प्राप्तस्य णत्वस्य (६)'णे-
१. गौ १६. ३८-४०.
२. नेद वचनमिदानीमुपलभ्यमानायां पद्यात्मिकामौशनसस्मृतौ दृश्यते ।
३ मनु. ४. ११९. ४ मनु ५ ३०
५. “शिखामनु प्रवपन्त ऋद्धयै” इति वचनम् ? तस्य बलीयस्त्वादित्याह”इति ख. पु.
६. पा. सू ८. ४. २२. उपसर्गस्थान्निमित्त. ( रेफषकाराभ्यां ) परस्याऽव उत्तर-
स्य कृत्यप्रत्ययगतस्य नकारस्य णत्वं स्यादिति सूत्रार्थः ॥

अनध्यायाः ] उज्ज्वलोपेते प्रथमः प्रश्नः । ५७
(१)'विभाषे' ति विकल्पः । अन्ये तु शावं दुःखमनुभवतां सर्वेषां परिवा-
पनमिच्छन्ति ।
अपर आह—अनुभाविन उदकार्हाः । तेषां मरणे परिवापन-
मिति ॥ ६ ॥
न समावृत्ता वपेरन्नन्यत्र विहारादित्येके ॥ ७ ॥
विहारो यागदीक्षा । ततोऽन्यत्र न समावृत्ता वपेरन्नित्येके मन्यते ।
स्वमतं तु वपेरन्नेवेति ॥ ७ ॥
तत्र वपनस्याऽमङ्गलत्वं गुणविधिना परिहारं च वक्तुं ब्राह्मणमु-
दाहरति—
अथापि ब्राह्मणम्—रिक्तो वा एषोऽनपिहितो य-
न्मुण्डस्तस्यैतदपिधानं यच्छिखेति ॥ ८ ॥
रिक्तः अन्तःशून्यो घटादिः । सोऽनपिहितः पिधानरहितो यादृशः
तादृश एषः यन्मुण्डो नाम । तस्य रिक्तस्यापिधानमेतत् यच्छिखा नाम । अनेन
चैतद्दर्शित-निषेधशास्त्रं सह शिखया वपनप्रतिषेधपरमिति ॥ ८ ॥
कथं तर्हि सत्रेषु शिखाया वपनम् ? (२)वचनसामर्थ्यादित्याह—
सत्रेषु तु वचनाद्वपनं शिखायाः ॥ ९ ॥
स्पष्टम् ॥ ९ ॥
आचार्ये त्रीनहोरात्रानित्येके ॥ १० ॥
आचार्ये संस्थिते त्रीनहोरात्रानध्ययनं वर्जयेदित्येके मन्यते । स्वपक्षस्तु
द्वादशाहः पूर्वमुक्तः ॥ १० ॥
श्रोत्रियसंसंस्थाया(३)मपरिसंवत्सरायामेकाम् ॥ ११ ॥
श्रोत्रियं (४)वक्ष्यति । तस्य संस्थायामपरिपूूर्णसंवत्सराया श्रुतायामेकां रात्रि-
मेकमहोरात्रमध्ययनं वर्जयेत् । अत्र संस्थाश्रवणाद्गुर्वादिश्वपि सैव
१ पा. सू. ८. ४. ३. उपसर्गस्थान्निमित्तात्परस्य, णिजन्ताद्विहितो यः कृतप्रत्ययः
तद्भूतस्यानकारस्य णत्वं विकल्पेन स्यात् इति सूत्रार्थ.। २. ५६. पृष्ठे ५. टिप्पणी द्रष्टव्या ।
३. उपरि संवत्सरायां इति क. पुस्तकेऽपपाठः । ४. आप. ध. २. ६. ४. सूत्रे ।
आप० ध० ८

५८ आपस्तम्बधर्मसूत्रे [ (प. ३.) क. १०.
निमित्तमनध्यायस्य ॥ ११ ॥
सब्रह्मचारिणीत्येके ॥ १२ ॥
एके तु सब्रह्मचारिणो मरण एवाऽनन्तरोक्तमनध्यायमिच्छन्ति, न तु श्रो-
त्रियसामान्यमरणे ॥ १२ ॥
श्रोत्रियाभ्यागमेऽधिजिगांसमानोऽधीयानो
वाऽनुज्ञाप्याधीयीत ॥ १३ ॥
श्रोत्रियेऽभ्यागते अध्येतुकामोऽधीयानश्च तमनुज्ञाप्याधीयीत ॥ १३ ॥
अध्यापयेद्वा ॥ १४ ॥
अध्यापयितुकामोऽध्यापयन्वेति प्रकरणाद्गम्यते । सोऽपि तमनु-
ज्ञाप्याध्यापयेदिति ॥ १४ ॥
गुरुसन्निधौ “चाधीहि भो” इत्युक्त्वाऽधीयीत ॥ १५ ॥
धारणाध्ययनं पारायणाध्ययनं वा कुर्वन् गुरौ सन्निहिते सति
'अधीहि भो' इत्युक्त्वाऽधीयीत ॥ १५ ॥ *
अध्यापयेद्वा ॥ १६ ॥
अध्यापयन्नपि तत्सन्निधावेवमेवोक्त्वाऽध्यापयेत् ॥ १६ ॥ *
उभयत उपसंग्रहणमधिजिगांसमानस्याधीत्य च ॥ १७॥
उभयतः अध्ययनस्याऽऽदावन्ते च उपसंग्रहणं कर्तव्यं यथाक्रम(१)मध्ये-
तुकामस्याऽऽदावधीत्यान्ते ॥ १७ ॥ *
अधीयानेषु वा यत्राऽन्यो व्यवेयादेतमेव
शब्दमुत्सृज्याऽधीयीत ॥ १८ ॥
बहुवचनमतन्त्रम् । अधीयानेषु च यत्राऽन्यो व्यवेयादन्तरा गच्छेत्,
तत्रा 'प्यधीहि भो' इत्येतमेव शब्दमुत्सृज्य उच्चार्याऽधीयीत । प्रत्ये-
कमुपदेशादेकवचनम् । अधीयीरन् ॥ १८ ॥
श्वगर्दभनादास्सलावृक्येकसृकोलूकशब्दास्सर्वे
वादितशब्दा रोदनगीतसामशब्दाश्च ॥१९॥
शुनां गर्दभानां च बहूनां नादः । बहुवचननिर्देशात् । सलावृकी
१. अध्येतुकामस्येत्यादि ड पुस्तक एवास्ति । * मनौ. २ ७३ श्लोको द्रष्टव्यः ।

अनध्यायाः ] उज्ज्वलोपेते प्रथमः प्रश्नः । ५९
वृकजाताववान्तरभेदः । क्रोष्ट्रीत्यन्ये । लिङ्गस्याविवक्षितत्वात्पुंसोऽपि
ग्रहणम् । (१)'इन्द्रो यतीन् सालावृकेभ्य' इत्यादौ दर्शनात् । सर्वत्राङ्गि-
स्वरो दीर्घः । स एवायं विकृतः प्रयुक्तः । एकसृकः एकचरः सृगालः ।
उलूको दिवाभीतः । एतेषां च शब्दाः । वादितानि वादित्राणि वीणावेणु-
मृदङ्गादीनि । तेषां च सर्वे शब्दाः । रोदनशब्दादयश्च । एते श्रूयमाणा
(२)अनध्यायस्य हेतवः ॥ १९ ॥
शाखान्तरे च साम्नामनध्यायः ॥ २० ॥
वेदान्तरसकाशे(३)साम्नामनध्ययनम् । गीतिषु सामाख्या, तयो-
र्गाङ्गेद्वचन इत्यन्ये ॥ २० ॥
सर्वेषु च शब्दकर्मसु यत्र संसृज्येरन् ॥ २१ ॥
आक्रोश(४)परिवादादिषु सर्वेषु शब्दकर्मसु अनध्यायः । यत्राध्ययनश-
ब्देन ते संसृज्येरन् ॥ २१ ॥
छर्दयित्वा स्वप्नान्तम् ॥ २२ ॥
छर्दनं वमनम् । तत्कृत्वा स्वप्नान्तं यावन्नाऽधीयीत ॥ २२ ॥
सर्पिर्वा प्राश्य ॥ २३ ॥
अथ वा सर्पिः प्राश्याधीयीत ॥ २३ ॥
पूतिगन्धः ॥ २४ ॥
दुर्गन्ध उपलभ्यमानोऽनध्यायहेतुः ॥ २४ ॥
शुक्तञ्चाऽऽत्मसंयुक्तम् ॥ २५ ॥
यत्पक्वं कालपाकेनाऽम्लं जातं तच्छुक्तम् । तद्यावदात्मसंयुक्तं स्वोदर-
स्थमजीर्णं, यावत्तदनुगुण उद्गारस्तावदनध्यायहेतुः ॥ २५ ॥
प्रदोषे च भुक्त्वा नाधीयीत ॥ २६ ॥
तेनाऽधीत्यैव भुञ्जीत ॥ २६ ॥
प्रोदकयोश्च पाण्योः ॥ २७ ॥
भुक्त्वेत्येव । भुक्त्वा यावत्प्रोदकौ पाणी आर्द्रौ तावन्नाऽधीयीत ।
केचित् भुक्त्वेति नानुवर्तयन्ति ॥ २७ ॥
१. तै. सं. ६. २. ७. २ या. स्मृतौ १. १४८-१५१. श्लोका द्रष्टव्याः ।
३. साम नाऽध्येयम् । इति. ख. पु. ४. परिहासादिषु. इति. क. पु.

६० आपस्तम्बधर्मसूत्रे [ (प्र.३.)क.११.
प्रेतसंक्लृप्तं चान्नं भुक्त्वा सप्रदोषमहरनध्यायः ॥ २८ ॥
यो मृतोऽसपिण्डीकृतस्स प्रेतः । तदुद्देशेन दत्तमन्नं भुक्त्वा सप्र-
दोषमहर्नाऽधीयीत । प्रदोषार्ध्वं न दोषः । अत्र मनुः-
(१)यावदेकानुद्दिष्टस्य गन्धो लेपश्च तिष्ठति ।
विप्रस्य विदुषो देहे तावद्ब्रह्म न कीर्तयेत् ॥' इति ॥ २८ ॥
आ च विपाकात् ॥ २९ ॥
यदि तावता कालेन तदन्नं पक्वं जीर्णं न भवति, तत आविपाकात्
तस्य नाऽधीयीत ॥ २९ ॥
अश्राद्धेन तु पर्यवदध्यात् ॥ ३० ॥
जीर्णे अजीर्णे च तस्मिन् अश्राद्धेनाऽन्नेन पर्यवदध्यात् तस्योपर्यश्राद्धमन्नं
भुञ्जीतेत्युक्तं भवति । केचित् अत्र 'अश्राद्धेने' ति वचनात् पूर्वत्रापि
प्रेतान्नमिति श्राद्धमात्र विवक्षितं मन्यन्ते ॥ ३० ॥
॥ इत्यापस्तम्बधर्मसूत्रे तद्वृत्तावुज्ज्वलाया च दशमी कण्डिका ॥
काण्डोपाकरणे चाऽऽमातृकस्य ॥ १ ॥
काण्डोपाकरणं काण्डव्रतादेशनम् । तस्मिन्नहनि अमातृकस्यान्नं भुक्त्वा
सप्रदोषमहरनध्यायः। अपर आह-भुक्तेवेति नाऽनुवर्तते । यथाचोत्तरत्र
भुक्त्वाग्रहणम् । काण्डोपाकरणे अमातृकस्य माणवकस्य सप्रदोषम-
हरनध्यायः । एतेनोत्तर व्याख्यातम् ॥ १ ॥
काण्डसमापने चाऽपितृकस्य ॥२॥
काण्डसमापनं व्रतविसर्गः ॥ २ ॥
मनुष्यप्रकृतीनां च देवानां यज्ञे भुक्त्वेत्येके ॥ ३ ॥
ये मनुष्या भूत्वा प्रकृष्टेन तपसा देवास्सम्पन्नास्ते मनुष्यप्रकृतयो
(२)नन्दिकुबेरादयः । तेषां यज्ञः तत्प्रीत्यर्थं ब्राह्मणभोजनम्, तत्र भुक्त्वा
१. मनु. स्मृ ४. १११. २. 'नन्दीश्वरशरकुमारादयः' इति पाठान्तरम् ।

अनध्यायाः ] उज्ज्वलोपेते प्रथमः प्रश्नः । ६१
सप्रदोषमहरनध्याय इत्येके मन्यन्ते । मनुष्यमुखेन देवेष्विज्यमाने-
ष्वित्यन्ये ॥ ३ ॥
पर्युषितैस्तण्डुलैराममांसेन च नाऽनध्यायः ॥ ४ ॥
‘प्रेतसंकॢप्तं चाऽन्न’(१०. २८) मित्यस्यापवादः । पर्युषिता रात्र्यन्तरिताः
ह्यः प्रतिगृहीताः, तेषु तण्डुलेष्वद्य पक्त्वा भुज्यमानेषु नानध्यायः । तथा
आममांसेन तदहर्भक्षितेनापि नानध्यायः । पर्युषितेनेत्येके । ‘पर्युषितै’
रिति वचनात्तदहर्भक्षितैः सप्रदोषमहरनध्यायः ॥ ४ ॥
तथौषधिवनस्पतिमूलफलैः ॥ ५ ॥
ओषधिग्रहणेन वीरुधोऽपि गृह्यन्ते । वनस्पतिग्रहणेन वृक्षमात्रम् । तेषां
मूलै. सूरनकन्दादिभिः फलैश्चाऽम्रादिभिः पक्वैरपक्वैश्च तदहर्भक्षितैरपि
नाऽनध्यायः ॥ ५ ॥
यत्काण्डमुपाकुर्वीत यस्य चानुवाक्यं कुर्वीत
न तत्तदहरधीयीत ॥ ६ ॥
यस्मिन्नहनि यत्काण्डमुपाकृतं न तत्तदहरधीयीत । तथा श्रावण्यां पौर्णमा-
स्यामुपाकृत्य प्रशस्तेऽहरन्तरे यस्य काण्डस्यानुवाक्यमध्येतुमा-
रम्भं कुर्वीत न तत्तदहरधीयीत । अहरित्यहोरात्रोपलक्षणम् ॥ ६ ॥
उपाकरणसमापनयोश्च पारायणस्य तां विद्याम् ॥ ७ ॥
अनेकवेदाध्यायी यद्येकस्य वेदस्य पारायणं कुरुते तदा तस्य पारा-
यणस्य (१)ये उपाकरणोत्सर्जने, तयोः कृतयोस्तां विद्यां तदहर्नाऽधीयीत ।
एतदेव ज्ञापकं पारायणस्याऽप्युपाकरणोत्सर्जने भवत इति । ‘तां विद्या-
मि’ ति वचनाद्विद्यान्तराध्ययने न दोषः ॥ ७ ॥
वायुर्घोषवान् भूमौ तृणसंवाहो वर्षति वा यत्र
धाराः प्रवहेत् ॥ ८ ॥
घोषवान् कर्णश्रवः । भूमाववस्थितानि तृणानि संवाहयति उत्क्षिप्य
गमयतीति तृणसंवाहः । वर्षति वा (२)मेघे धाराः प्रवहेत् विक्षिपेत् । यत्र देशे
एवंविधो वायुस्तत्र तावन्तं कालं नाऽधीयीत । अत्र मनुः-
(३)“कर्णश्रवेऽनिले रात्रौ दिवा पांसुसमूहने” ॥ इति ॥ ८ ॥
१. उपाकरणोत्सर्जनयोः कृतयोः, इति ड. पु. २. देवे, इति क. पु.
३. म. स्मृ. २. १०२

६२ आपस्तम्बधर्मसूत्रे [ (प.३.)क. ११.
उत्तरे द्वे सूत्रे निगदसिद्धे-
(१)ग्रामारण्ययोश्च सन्धौ महापथे च विप्रोष्य
च समध्ययनं तदहः ॥ ९ ॥
यदा(२) सहाऽधीयानाः कारणवशाद्विप्रवसेयुः । केचिच्चाचार्येण
वा सङ्गतास्तदा समध्ययनं सहाऽधीयमानं प्रदेश तदहर्नाधीयीत । विप्रो-
षितानां यदहः पुनर्मैलनं तदहर्नाधीयीतेत्यन्ये ॥ ९ ॥
स्वैरिकर्मसु च ॥१०॥
नाधीयीतेत्येव ॥ १० ॥
अत्रोदाहरणम्-
यथाहस्तप्रक्षालनोत्सादनानुलेखणानीति ॥ ११ ॥
णत्वमाकास्मिकम्, अपपाठो वा ॥ ११ ॥
तावन्तं कालं नाऽधीयीताऽध्यापयेद्वा ॥ १२ ॥
तेषु स्वैरिकर्मसु तावन्त कालमध्ययनमध्यापनञ्च वर्जयेत् ॥ १२ ॥
सन्ध्योः ॥ १३ ॥
सज्योतिषोऽज्योतिषोऽदर्शनात् उभे सन्ध्ये । तयोस्तावन्तं कालं
नाधीयीताध्यापयेद्वा । एवमुत्तरत्राप्यनुवृत्तिः ॥ १३ ॥
उत्तरे द्वे सूत्रे निगदसिद्धे-
तथा वृक्षमारूढोऽप्सु चावगाढो नक्तं चापावृते॥१४॥
विवृतद्वारमपावृतम् । तत्र नक्तं नाधीयीत ॥ १४ ॥
दिवा च पिहिते ॥ १५ ॥
संवृतद्वार पिहितम् । तत्र दिवा नाधीयीत ॥ १५ ॥
अविहितमनुवाकाध्ययनमाषाढवासान्तिकयोः ॥१६॥
वासन्तिको वसन्तोत्सवः । स च चैत्रमासि शुक्लत्रयोदश्यां भवति ।
आषाढशब्देनापि तस्मिन्मासे क्रियमाणस्तादृशः कश्चिदिन्द्रोत्सवादि-
र्विवक्षितः । तयोस्तदहरनुवाकाध्ययनमविहितम् । अनुवाकग्रहणान्न्यू-
ने न दोषः ।
१. इद ११ शं च सूत्रं त्रिधा विच्छिन्न ड. पु.
२. सहाधीयमानेषु केचित् इति. ख. पु.

अनध्यायाः ] उज्ज्वलोपेते प्रथमः प्रश्नः । ६३
अपर आह—अनुवाकग्रहणान्मन्त्रब्राह्मणयोरेव प्रतिषेधः, नाङ्गाना-
मिति ॥ १६ ॥
नित्यप्रश्नस्य चाऽविधिना ॥ १७ ॥
नित्यं प्रश्नाध्ययनं यत्न स नित्यप्रश्नो ब्रह्मयज्ञः । तस्य चाविधिना व-
क्ष्यमाणेन प्रकारेण विनाऽनुवाकाध्ययनमविहितम् । यद्यपि नित्यं ब्रह्म-
यज्ञाध्ययनं तथापि केनचिदप्यङ्गेन विना न कर्तव्यम् । तेन विस्मृत्य
प्रातराशे कृते प्रायश्चित्तमेव न ब्रह्मयज्ञः । मनुः—
'स्नातकव्रतलोपे च प्रायश्चित्तमभोजनम्' । इति ॥ १७ ॥
तस्य विधिः ॥ १८ ॥
तस्य नित्यप्रश्नस्य विधिर्वक्ष्यते ॥ १८ ॥
अकृतप्रातराश उदकान्तं गत्वा प्रयतः शुचौ देशे
ऽधीयीत यथाध्यायमुत्सृजन्वाचा ॥ १९ ॥
अकृतदिवाभोजन उदकसमीपं गत्वा प्रयतः स्नानमार्जनादिशुद्धः
शुचौ देशे प्राच्यामुदीच्यां वा दिश्यच्छदिर्दर्शोऽधीयीत । यथाध्यायं यथा पा-
ठमनुषङ्गरहितमुत्सृजन् आदित आरभ्य प्रथमादिष्वहस्सु(१) अधीयीत
द्वितीयादिषूत्सृज्य ततः परमधीयीत । वाचा उच्चैरित्यर्थः ॥ १९ ॥
मनसा चाऽनध्याये ॥ २० ॥
अनध्याये च मनसाऽधीयीत नित्यस्वाध्यायम् ॥ २० ॥
विद्युति चाऽभ्रग्रायां स्तनयित्नावप्रायत्ये प्रेतान्ने
नीहारे च मानसं परिचक्षते ॥ २१ ॥
विद्युति अभ्रग्रायामविरतायाम् । स्तनयित्नौ चाऽभ्यग्रे । अप्रायत्ये आ-
त्मनोऽशुचिभावे । प्रेतान्ने च भुक्ते । नीहारे च नीहारो हिमानी तस्मिंश्च
वर्तमाने । मानसमनन्तरोक्तमध्ययनं परिचक्षते वर्जयन्ति ॥ २१ ॥
श्राद्धभोजन एवैके ॥ २२ ॥
एके त्वाचार्याः श्राद्धभोजन एव मानसं परिचक्षते, न विद्युदादिषु॥२२॥
विद्युत्स्तनयित्नुवृष्टिश्चापतौ(२) यत्र सन्निपते-
युस्त्र्यहमन्ध्यायः ॥ २३ ॥


१. अधीतं यत् तत् इति ड. पु. २. "यत्र" इति नास्ति क. पु.

६४ आपस्तम्बधर्मसूत्रे [ (प्र.३) क. ११.
अपर्तौ यस्मिन् देशे यो वर्षाकालः ततोऽन्यस्तत्रापर्तुः । तत्र यदि
विद्युदादयस्सन्निपतेयुः समुदितास्स्युः तदा त्र्यहमनध्यायः ॥ २३ ॥
यावद्भूमिर्व्युदकेत्येके ॥ २४ ॥
यावता कालेन भूमिः विगतोदका भवति तावन्तं कालमनध्याय इत्येके
मन्यन्ते ॥ २४ ॥
एकेन द्वाभ्यां वैतेषामाकालम् ॥ २५ ॥
एतेषां विद्युदादीनां मध्ये एकेन द्वाभ्यां वा योगे आकालमनध्यायः । अ-
परेद्युरा तस्य कालस्य प्राप्तेरित्यर्थः ॥ २५ ॥
सूर्याचन्द्रमसोर्ग्रहणे भूमिचलेऽपस्वान उल्का-
यामग्न्युत्पाते च सर्वास विद्यानां
सार्वकालिकमाकालम् ॥२६॥
‘सूर्याचन्द्रमसो’ रिति वचनं बृहस्पत्यादिनिवृत्त्यर्थम् । भूमिचले भू-
कम्पे । अपस्वाने निर्घाते । उल्कायामुल्कापाते । अग्न्युत्पाते(१) ग्रामादिदा
हे । एतेषु निमित्तेषु(२) सर्वेषु सर्वास विद्यानाम्—
(३)अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः ।
पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दश ॥ इत्युक्तानाम् । सार्वकालि
कमृतौ चापर्तौ चाऽऽकालमनध्यायः । अत्र ‘सर्वासामि’ति वचनादन्यत्र
वेदानामेव प्रतिषेधः । अङ्गानामपीत्यन्ये ॥ २६ ॥
अभ्रं चापर्तौ सूर्याचन्द्रमसोः परिवेश इन्द्रधनुः
प्रतिसूर्य्मत्स्यश्च वाते पूतिगन्धे नीहारे
च सर्वेष्वेतेषु तावत्कालम् ॥२७॥
अपर्तावभ्रं दृश्यमानं यावत् दृश्यते तावत्कालमनध्यायः । एवं परिवे-
षादिष्वपि योज्यम् । बृहस्पत्यादिपरिवेषे न दोषः । इन्द्रधनुः
प्रसिद्धम् । सूर्यसमीपे तदाकृतिः प्रतिसूर्यः । मत्स्यः पुच्छवन्न-
१. गृहादिदाहे इति ग. पु २. सर्वेषु इति नास्ति. ख. ग. पु
३. विष्णु पु. अङ्गानि शिक्षाव्याकरणच्छन्दोनिरुक्तज्यौतिषश्रौतसूत्राणि, चत्वारो
वेदाः, ऋगादयः प्रसिद्धाः, मीमांसा पूर्वमीमांसा, उत्तरमीमांसा च, न्यायविस्तरः गौतम-
प्रणीतमान्वीक्षक्य़ाख्यं न्यायशास्त्रम्, वैशेषिकशास्त्रं च, पुराणं मत्स्यादिपुराणानि, मन्वा-
दिप्रणीतानि धर्मशास्त्राणि च विद्यापदवाच्यानीत्यर्थः ।

अनध्यायाः ] उज्ज्वलोपेते प्रथमः प्रश्नः । ६५
त्राम् । समाहारद्वन्द्वे छान्दसो लिङ्गव्यत्ययः । सर्वेष्वेतेषु वाता-
दिषु च त्रिषु तावत्कालमनध्यायः । वाते घोषवति । पूतिगन्धे दुर्गन्धे ।
नीहारे हिमान्याम् । वातादिग्रहणं पूर्वोक्तानां श्वगर्दभादीनामुपलक्षणा-
र्थम् । पुनरिह वचनं तावत्कालमिति विधातुम् । अत्रैव श्वगर्दभादिग्रहणे
कर्तव्ये पूर्वत्र पाठस्य चिन्त्यं प्रयोजनम् ॥ २७ ॥
मुहूर्तं विरते वाते ॥ २८ ॥
वाते घोषवति विरतेऽपि मुहूर्तमात्रमनध्यायः । द्वे नाडिके मुहूर्तम् ॥२८॥
सलावृक्यामेकसृक इति स्वप्नपर्यन्तम् ॥ २९ ॥
(१)‘तावत्काल’मित्यस्याऽपवादोऽयम् । सलावृक्येकसृकशब्दौ
व्याख्यातौ ॥ २९ ॥
नक्तं चारण्येऽनग्नावहिरण्ये वा ॥ ३० ॥
रात्रावग्निवर्जिते हिरण्यवर्जिते वाऽरण्ये नाधीयीत ॥ ३० ॥
अननूक्तं चाऽपर्त्तौ छन्दसो नाधीयीत ॥ ३१ ॥
उत्सर्जनादूर्ध्वमुपाकरणादर्वागपर्तुः । तत्र छन्दसोऽननूक्तमंशमपूर्वं
नाऽधीयीत । ग्रहणाध्ययनमपर्त्तौ न कर्तव्यम् । यद्यपि(२)तैष्यां पौर्ण-
मास्यां रोहिण्यां वा विरमे’ दित्युक्तम्, तथापि कियन्तं कालं तद्विर-
रमणम् ? कस्माच्चाऽध्ययनम् ? इत्यपेक्षायामिदमुच्यते-एतावन्तं कालं
ग्रहणाध्ययनं न कर्त्तव्यमिति । धारणाध्ययने न दोषः । तथा ‘छन्दस’
इति वचनादङ्गानां ग्रहणाध्ययने न दोषः ॥ ३१ ॥
प्रदोषे च ॥ ३२ ॥
प्रदोषे चाऽननूक्तमृतामपि नाधीयीत । (३)‘मासं प्रदोषे नाधीयीते’
त्येतत्तु धारणाध्ययनस्यापि प्रतिषेधार्थम् । अपर आह—यस्यां रात्रौ
द्वादशी त्रयोदशी च मिश्रीभवतः, तस्यां प्रदोषे नाधीयीतानूकमननू-
क्तं च, ऋतावपर्त्तौ च । एष आचार इति ॥ ३२ ॥
सार्वकालिकमाम्नातम् ॥ ३३ ॥
आम्नातंमधीतं तत्सार्वकालिकमपर्त्तौ प्रदोषे च सर्वस्मिन्कालेऽध्येतव्यम् ३३
यथोक्तमन्यदतः परिषत्सु ॥ ३४ ॥
१. आप. ध. १. ११. २७. २. आप. ध. १.९.२. ३. आप. ध. १. ९. १.
आप० ध० ९