सामग्री पर जाएँ
सर्वकोश
आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

Apastamba Dharmasutra with Hindi Commentary

महर्षि आपस्तम्ब / हरदत्त टीका द्वारा

DevanagariSanskritpublished399 पृष्ठ

पृष्ठ 62, कुल 399 में से

संदर्भ में पढ़ें
पृष्ठ 62

अनध्यायाः ] उज्ज्वलोपेते प्रथमः प्रश्नः । ५१
एवमध्येतुरध्यापयितुश्च धर्मा उक्ताः। अथ देशकालकृता अध्ययन-
धर्मा उच्यन्ते—
श्रावण्यां पौर्णमास्यामध्यायमुपाकृत्य मासं
प्रदोषे नाधीयीत ॥ १ ॥
मेषादिस्थे सवितरि यो यो दर्शः प्रवर्त्तते ।
चान्द्रमासास्तत्तन्नाम्नैत्राद्या द्वादश स्मृताः ।
तेषु या या पौर्णमासी सा सा चैत्रादिका स्मृता ।
काञ्चित्केन योगेन नक्षत्रस्येति निर्णयः ॥
तदेवं सिंहस्थे सवितरि याऽमावास्या तदन्ते चान्द्रमसे मासे या
मध्यवर्तिनी पौर्णमासी सा श्रावणी । श्रवणयोगस्तु भवतु वा मा
वा । तस्यां श्रावण्यां पौर्णमास्यामध्यायमुपाकृत्य गृहोक्तेन विधिनोपाकर्म कृ-
त्वा स्वाध्यायमधीयीत । अधीयानश्च मासमेकं प्रदोषे प्रथमे रात्रिभागे ना
धीयीत ग्रहणाध्ययनं धारणाध्ययनं च न कुर्यात् । प्रदोषग्रहणाद्रात्रा
वप्यूर्ध्वं न दोषः ॥ १ ॥
तैष्यां पौर्णमास्यां रोहिण्यां वा विरमेत् ॥ २ ॥
तिष्यः पुष्यः; तेन युक्ता पौर्णमासी तैषी श्रावणीवत्। तस्यां विरमेत् ।
उत्सर्जनं कुर्यात् । तस्यापि प्रयोगो(१)गृह्य एवोक्तः । रोहिण्यां वा, (२)तै-
षमासि तिष्यात्पूर्वा या रोहिणी तस्यां वा विरमेत् । अनयोः पक्षयोः
पञ्च मासानधीयीत ॥ २ ॥
अर्धपञ्चमांश्चतुरो मासानित्येके ॥ ३ ॥
अर्धेः पञ्चमो येषां ते अर्धपञ्चमाः । अर्धाधिकांश्चतुरो मासान् अधीयीते
त्यपेक्ष्यत (३) इत्येके मन्यन्ते । अस्मिन्पक्षे प्रोष्ठपद्यामुपाकरणं शास्त्रान्त-
रदर्शनात् । उत्सर्जनस्य वा प्रतिकर्षः । उत्सर्जने च कृते श्रावण्याः
प्राक् शुक्लपक्षेषु धारणाध्ययनं वेदस्य, कृष्णपक्षेषु व्याकरणायङ्गाध्य-
यनम् । पुनः श्रावण्यामुपाकृत्यागृहीतभागस्य ग्रहणाध्ययनमिति । प्र-
पञ्चितमेतद्(४)गृह्ये ॥ ३ ॥
१. आपस्तम्बगृह्यसूत्रान्तर्गतोपाकर्मोत्सर्जनपटलव्याख्यानेऽनाकुलायामित्यर्थः । (आप.
गृ. सू. पृ. १५४) एतद्वचनबलादेव हरदत्तेनोपाकर्मोत्सर्जनारूयः पटल. आपस्तम्बगृह्या
न्तर्गतो व्याख्यात इत्यवगम्यते इति न्यूरूयायाम गृह्यटिप्पण्याम् ।
२. 'तिष्ये मासि भंवा या रोहिणी' इति ड. पु.
३. अत्र मनुः ४. ९५. द्रष्टव्यः । ४ आप. गृ. ७. १. पृ. ११०.