आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 59, कुल 399 में से
संदर्भ में पढ़ें४८ आपस्तम्बधर्मसूत्रे [ (प्र.१) क. ८.
स चाऽग्निना शाम्यति, न चात्र कश्चित्सन्निहितः, किं करोमि मन्दभाग्य
इति ॥ १६ ॥
उत्तरे सूत्रे समावृत्तविषये—
सहवसन्सायं प्रातरनाहूतो गुरुं दर्शनार्थी गच्छेत् ॥१७॥
सह एकस्मिन् ग्रामे वसन् साय प्रातरनाहूतोऽपि गुरुं दर्शनार्थी नान्यप्रयोजनो
गच्छेत् ॥ १७ ॥
विप्रोष्य च तदहरेव पश्येत् ॥ १८ ॥
यदा ग्रामान्तरं गतः प्रत्यागच्छति तदा तदहरेवाऽऽचार्यं पश्येत् ॥१८॥
आचार्यप्राचार्यसन्निपाते प्राचार्यायोपसंगृह्योपसञ्जि-
घृक्षेदाचार्यम् ॥ १९ ॥
आचार्यस्याऽऽचार्यः प्राचार्य प्रपितामहवत् । यदा आचार्यस्य प्राचा-
र्यस्य च कार्यवशात् सन्निपातो मेलनं भवति, तदा प्राचार्याय द्वितीयार्थे
चतुर्थी । प्राचार्य पूर्वमुपसंगृह्य पश्चात्स्वाचार्यमुपसङ्ग्रहीतुमिच्छेत् । न
केवलं मनसा किन्तु यथाऽऽचार्यो जानाति मामयमुपसञ्जिघृक्षतीति
तथा चेष्टेत । अन्यथा अदृष्टार्थमुपदिष्टं स्यात् ॥ १९ ॥
प्रतिषेधेदितरः ॥ २० ॥
इतर आचार्यः प्रतिषेधेत् 'वत्स मा मोपसङ्ग्रही'रिति ॥ २० ॥
लुप्यते पूजा चाऽस्य सकाशे ॥ २१ ॥
अस्य प्राचार्यस्य सकाशे सन्निधौ आचार्यस्य पूजा लुप्यते न कार्या । न
केवलमुपसङ्ग्रहणमेव । उत्तरसूत्रं समावृत्तविषयम् ॥ २१ ॥
मुहुंश्चाऽऽचार्यकुलं दर्शनार्थी गच्छेद्यथाशक्त्यधिहस्त्यमा-
दायाऽपि दन्तप्रक्षालनानीति ॥ २२ ॥
मुहुंश्चेत्यनुस्वारदीर्घौ छान्दसौ । वीप्सालोपश्चात्र द्रष्टव्यः । मुहुर्मुहु
रिति विवक्षितम् । ग्रामान्तरे वसन्नपि मुहुर्मुहुराचार्यकुलं दर्शनार्थमागच्छे-
त् । यथाशक्ति गोरसापूपादि अधिहस्त्य हस्ते भवमादाय स्वयमेव गृहीत्वे-
त्यर्थः । अपिशब्दोऽभावे विधिं द्योतयति—गोरसाद्यभावे दन्तकाष्ठान्य-
पीति । इतिशब्दः अन्तेवासिधर्माणां समाप्तिद्योतनार्थः ॥ २२ ॥