आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 57, कुल 399 में से
संदर्भ में पढ़ें४६ आपस्तम्बधर्मसूत्रे [(प्र.२.)क. ८.
तस्य शिष्यस्य गृहस्थभूतस्य यानि द्रव्याण्युपस्थापितानि तेषां
मध्ये एकेनापि द्रव्येण यथाऽऽत्मा संयुज्यते तथा न कथयेत् । आचार्यः
शिष्यगृह(१)मेत्य अहो दर्शनीयं भोजनपात्रमित्यादि(२) लिप्सा यथा
गम्यते तथा न कथयेदिति ॥ ६ ॥
स्नातस्तु काले यथाविध्यभिहृतमाहूतोऽभ्येतो वा
न प्रतिसंहरेदित्येके ॥ ७ ॥
(३)‘वेदमधीत्य स्नास्य’न्नित्यनेन विधिना स्नातः तस्मिन्काले यथाविध्यभि-
हृतमाबद्धं स्रगादि आचार्येणाहूतः स्वयमेव वा तत्समीपमभ्येतो न प्रतिसंहरेत्
न विमुञ्चेदित्येके मन्यते । स्वपक्षस्तु तदापि मुञ्चेदिति । ‘काले यथावि-
र्ध्याभहृत'मिति वचनादपरेद्युरारभ्य प्रतिसंहरेदेव ॥ ॥ ७ ॥
उच्चैस्तरां नाऽऽसीत ॥ ८ ॥
स्वार्थे तरप् । आचार्यासनादुच्चासने नाऽऽसीत ॥ ८ ॥
तथा बहुपादे ॥ ९ ॥
नीचेऽप्यासने बहुपादे नाऽऽसीत ॥ ९ ॥
सर्वतः प्रतिष्ठिते ॥ १० ॥
आसने आसीत । आचार्यं पीठादावुपवेश्य स्वयं वेत्रासनादा-
वासीत । तद्धि भूमौ सर्वतः प्रतिष्ठितम् ॥ १० ॥
शय्यासने चाऽऽचरिते नाविशेत् ॥ ११ ॥
आचार्येणाचरित उपभुक्ते शय्यासने नाऽऽविशेत् । शयने न शयीत
आसने नासीत । पित्रादिष्वपि गुरुषु समानमिदम् । तथा च मनुर-
विशेषेणाह-(४)शय्यासने चाध्युषिते श्रेयसा न समाचरेत् ।' इति ॥११॥
गतं समावृत्तस्य वैशेषिकम् । अथ ब्रह्मचर्यविधेरेव शेषः—
यानमुक्तोऽध्वन्यन्वारोहेत् ॥ १२ ॥
यानं शकटादि । आरोहेत्युक्तो गुरुणा पश्चादारोहेत् । अध्वनि मार्गे
१. प्रत्यागत इति ख. पु. २. ईप्सा इति. ख. पु. ३. आप. गृ. १२ १.
४. मनु. २. ११९ ‘शय्यासनेऽप्याचरिते' इति मेधातिथिसम्मतः पाठः । शय्या
चासनं चेति द्वन्द्वैकवद्भावः ।