आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 69, कुल 399 में से
संदर्भ में पढ़ें५८ आपस्तम्बधर्मसूत्रे [ (प. ३.) क. १०.
निमित्तमनध्यायस्य ॥ ११ ॥
सब्रह्मचारिणीत्येके ॥ १२ ॥
एके तु सब्रह्मचारिणो मरण एवाऽनन्तरोक्तमनध्यायमिच्छन्ति, न तु श्रो-
त्रियसामान्यमरणे ॥ १२ ॥
श्रोत्रियाभ्यागमेऽधिजिगांसमानोऽधीयानो
वाऽनुज्ञाप्याधीयीत ॥ १३ ॥
श्रोत्रियेऽभ्यागते अध्येतुकामोऽधीयानश्च तमनुज्ञाप्याधीयीत ॥ १३ ॥
अध्यापयेद्वा ॥ १४ ॥
अध्यापयितुकामोऽध्यापयन्वेति प्रकरणाद्गम्यते । सोऽपि तमनु-
ज्ञाप्याध्यापयेदिति ॥ १४ ॥
गुरुसन्निधौ “चाधीहि भो” इत्युक्त्वाऽधीयीत ॥ १५ ॥
धारणाध्ययनं पारायणाध्ययनं वा कुर्वन् गुरौ सन्निहिते सति
'अधीहि भो' इत्युक्त्वाऽधीयीत ॥ १५ ॥ *
अध्यापयेद्वा ॥ १६ ॥
अध्यापयन्नपि तत्सन्निधावेवमेवोक्त्वाऽध्यापयेत् ॥ १६ ॥ *
उभयत उपसंग्रहणमधिजिगांसमानस्याधीत्य च ॥ १७॥
उभयतः अध्ययनस्याऽऽदावन्ते च उपसंग्रहणं कर्तव्यं यथाक्रम(१)मध्ये-
तुकामस्याऽऽदावधीत्यान्ते ॥ १७ ॥ *
अधीयानेषु वा यत्राऽन्यो व्यवेयादेतमेव
शब्दमुत्सृज्याऽधीयीत ॥ १८ ॥
बहुवचनमतन्त्रम् । अधीयानेषु च यत्राऽन्यो व्यवेयादन्तरा गच्छेत्,
तत्रा 'प्यधीहि भो' इत्येतमेव शब्दमुत्सृज्य उच्चार्याऽधीयीत । प्रत्ये-
कमुपदेशादेकवचनम् । अधीयीरन् ॥ १८ ॥
श्वगर्दभनादास्सलावृक्येकसृकोलूकशब्दास्सर्वे
वादितशब्दा रोदनगीतसामशब्दाश्च ॥१९॥
शुनां गर्दभानां च बहूनां नादः । बहुवचननिर्देशात् । सलावृकी
१. अध्येतुकामस्येत्यादि ड पुस्तक एवास्ति । * मनौ. २ ७३ श्लोको द्रष्टव्यः ।