आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 60, कुल 399 में से
संदर्भ में पढ़ेंब्रह्मचारिधर्माः ] उज्ज्वलोपेते प्रथमः प्रश्नः । ४९
(१)मातरं पितरमाचार्यमग्नींश्च गृहाणि च रिक्त-
पाणिर्नोपगच्छेद्राजानं चेन्न श्रुतामिति ॥ २३ ॥
तस्मिन्गुरोर्वृत्तिः ॥ २४ ॥
तस्मिन्नन्तेवासिनि गुरोर्वृत्तिः । वृत्तेः प्रकारो वक्ष्यते ॥ २३ ॥ २४ ॥
पुत्रमिवैनमनुकाङ्क्षन् सर्वधर्मेष्वनपच्छादयमानः
सुयुक्तो विद्यां ग्राहयेत् ॥ २५ ॥
एनं शिष्यं पुत्रमिव(२) अस्याऽभ्युदयः स्यादिति अनुकाङ्क्षन् सर्वेषु धर्मेषु
किञ्चिदप्यनपच्छादयमानः अगूहन् सुयुक्तः सुष्ठ्ववहितः तत्परो भूत्वा विद्यां
ग्राहयेत् ॥ २५ ॥
न चैनमध्ययनविघ्नेनात्मार्थेषूपरुन्ध्यादनापत्सु ॥२६॥
न चैनं शिष्यमध्ययनविघ्नेनाऽऽत्मप्रयोजनेष्वनापत्सूपरुन्ध्यात् । (३)उपरो-
धः अस्वन्त्रीकरणम् । 'अनापत्स्व' तिवचनादापद्यध्ययनविघातेना-
ऽप्युपरोधे न दोषः ॥ २६ ॥
अन्तेवास्यनन्तेवासी भवति विनिहितात्मा
गुरावनैपुणमापद्यमानः ॥ २७ ॥
'आपद्यमान' इत्यन्तर्भावितण्यर्थः । योऽन्तेवासी विनिहितात्मा द्वयोरा-
चार्ययोः(४)विविधं निहितात्मा गुरावनैपुणमापादयति-नाऽनेनाऽयं प्रदेशः
सम्यगुक्त इति, सोऽन्तेवासी न भवति । स त्याज्य इत्यर्थः(५) ।
अपर आह-योऽन्तेवासी वाङ्मनःकर्मभिरनैपुणमापद्यमानो गुरौ वि-
सदृशं निहितात्मा भवति अनुरूपं न शुश्रूषते सोऽन्तेवासी न भवतीति॥२७॥
आचार्योऽप्यनाचार्यो भवति श्रुतात्परिहरमाणः॥२८॥
आचार्योऽप्यनाचार्यो भवतीति, त्याज्य इत्यर्थः । किं कुर्वन् ? श्रुतात्परिहरमा-
णः तेन तेन व्याजेन विद्याप्रदानमकुर्वन् ॥ २८ ॥
१. इदं सूत्रं क. पुस्तक एव दृश्यते । नान्यत्र । २. अ+यासादिषु इति ङ. पु.
३. उपरोधः स्वतन्त्रीकरणम्. इति. ड. पु. ४. विधिवत् इति. ख. पु. ।
५. “अत्र मनुः-धर्मार्थौ यत्र न स्यातां शुश्रूषा वापि तद्विधा । तत्र विद्या न वप्तव्या
शुभं बीजमिवोषरे इति-”इत्यधिकः पाठो दृश्यते ख. पुस्तके
आप०ध० ७