सामग्री पर जाएँ
सर्वकोश
आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

Apastamba Dharmasutra with Hindi Commentary

महर्षि आपस्तम्ब / हरदत्त टीका द्वारा

DevanagariSanskritpublished399 पृष्ठ

पृष्ठ 68, कुल 399 में से

संदर्भ में पढ़ें
पृष्ठ 68

अनध्यायाः ] उज्ज्वलोपेते प्रथमः प्रश्नः । ५७
(१)'विभाषे' ति विकल्पः । अन्ये तु शावं दुःखमनुभवतां सर्वेषां परिवा-
पनमिच्छन्ति ।
अपर आह—अनुभाविन उदकार्हाः । तेषां मरणे परिवापन-
मिति ॥ ६ ॥
न समावृत्ता वपेरन्नन्यत्र विहारादित्येके ॥ ७ ॥
विहारो यागदीक्षा । ततोऽन्यत्र न समावृत्ता वपेरन्नित्येके मन्यते ।
स्वमतं तु वपेरन्नेवेति ॥ ७ ॥
तत्र वपनस्याऽमङ्गलत्वं गुणविधिना परिहारं च वक्तुं ब्राह्मणमु-
दाहरति—
अथापि ब्राह्मणम्—रिक्तो वा एषोऽनपिहितो य-
न्मुण्डस्तस्यैतदपिधानं यच्छिखेति ॥ ८ ॥
रिक्तः अन्तःशून्यो घटादिः । सोऽनपिहितः पिधानरहितो यादृशः
तादृश एषः यन्मुण्डो नाम । तस्य रिक्तस्यापिधानमेतत् यच्छिखा नाम । अनेन
चैतद्दर्शित-निषेधशास्त्रं सह शिखया वपनप्रतिषेधपरमिति ॥ ८ ॥
कथं तर्हि सत्रेषु शिखाया वपनम् ? (२)वचनसामर्थ्यादित्याह—
सत्रेषु तु वचनाद्वपनं शिखायाः ॥ ९ ॥
स्पष्टम् ॥ ९ ॥
आचार्ये त्रीनहोरात्रानित्येके ॥ १० ॥
आचार्ये संस्थिते त्रीनहोरात्रानध्ययनं वर्जयेदित्येके मन्यते । स्वपक्षस्तु
द्वादशाहः पूर्वमुक्तः ॥ १० ॥
श्रोत्रियसंसंस्थाया(३)मपरिसंवत्सरायामेकाम् ॥ ११ ॥
श्रोत्रियं (४)वक्ष्यति । तस्य संस्थायामपरिपूूर्णसंवत्सराया श्रुतायामेकां रात्रि-
मेकमहोरात्रमध्ययनं वर्जयेत् । अत्र संस्थाश्रवणाद्गुर्वादिश्वपि सैव
१ पा. सू. ८. ४. ३. उपसर्गस्थान्निमित्तात्परस्य, णिजन्ताद्विहितो यः कृतप्रत्ययः
तद्भूतस्यानकारस्य णत्वं विकल्पेन स्यात् इति सूत्रार्थ.। २. ५६. पृष्ठे ५. टिप्पणी द्रष्टव्या ।
३. उपरि संवत्सरायां इति क. पुस्तकेऽपपाठः । ४. आप. ध. २. ६. ४. सूत्रे ।
आप० ध० ८