आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
२३६ आपस्तम्बधर्मसूत्रे [(प.६.)क.१४.
पुनर्भवश्च कानीनस्सहोधो गूढसम्भवः ।
दत्तः क्रीतस्स्वयंदत्तः कृत्रिमश्चाऽपविद्धकः ।
यत्र क्वचोत्पादितश्च पुत्राख्या दश पञ्च च ।
अनेनैव क्रमेणैषां पूर्वाभावे परः परः ।
पिण्डदोंऽशहरश्चेति प्रायेण स्मृतिषु स्थिताः ।
औरसो धर्मपत्नीजः । 'सवर्णापूर्वशास्त्रविहिताया'मिति पूर्व
मुक्तः । गौतमः(१)-'पितोत्सृजेत्पुत्रिकामनपत्योऽग्निं प्रजापतिं चेष्ट्वास्म-
दर्थमपत्यमिति संवाद्ये'ति ।
बृहस्पतिः-
'एक एवौरसः पित्र्ये धने स्वामी प्रकीर्तितः ।
तत्तुल्या पुत्रिका प्रोक्ता भर्तव्यास्त्वपरे स्मृताः ॥' इति ।
मनुः-
(२)पुत्रिकायां कृतायां तु यदि पुत्रोऽनुजायते ।
समस्तत्र विभागः स्यात् ज्येष्ठता नास्ति हि स्त्रियाः ॥ इति ।
याज्ञवल्क्यः-
(३)अपुत्रेण परक्षेत्रे नियोगोत्पादितः सुतः ।
उभयोरप्यसौ रिक्थी पिण्डदाता च धर्मतः ॥ इति ।
अयमेक एवोत्पादयितुर्बीजजः, क्षेत्रजस्तु क्षेत्रिणः ।
बृहस्पतिः-
'पुत्रोऽथ पुत्रिकापुत्रस्स्वर्गप्राप्तिकरावुभौ ।
रिक्थे पिण्डाम्बुदाने च समौ सम्परिकीर्तितौ ॥' इति ।
काश्यपः-
'सप्त पौनर्भवाः कन्या वर्जनीयाः कुलाधमाः ।
वाचा दत्ता मनोदत्ता कृतकौतुकमङ्गला ॥
उदकं स्पर्शिता या च या च पाणिगृहीतिका ।
अग्निं परिगता या च पुनर्भूप्रसवा च या ' ॥
कात्यायनः-
क्लीबं विहाय पतितं या पुनर्लभते पतिम् ।
तस्यां पौनर्भवो जातः व्यक्तमुत्पादकस्य सः ॥ इति ।
मनुः-
(४)पितृवेश्मनि कन्या तु यं पुत्रं जनयेद्रहः ।
१. गौ. ध २८. १८ २. म. स्मृ. ९. १३४.
३. या. स्मृ. २. १२७. ४. म. स्मृ. ९. १७२.
द्वादश पुत्राः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २३७
तं कानीनं वदेन्नाम्ना वोढुः कन्यासमुद्भवः ॥' इति ।
नारदः--
(१)कानीनश्च सहोढश्च गूढायां यश्च जायते ।
तेषां वोढा पिता ज्ञेयस्ते च भागहराः पितुः ।' इति ॥
वसिष्ठः--
(२)'अप्रत्ता दुहिता यस्य पुत्रं विन्देत तुल्यतः ।
पौत्री मातामहस्तेन दद्यात्पिण्डं हरेद्धनम् ॥' इति ।
अनूढायामेव मृतायां मातरि मातामहस्य पुत्रः । अन्यथा वोढुः ।
मनुः--
(३)'या गर्भिणी संस्क्रियते ज्ञाताऽज्ञातापि वा सती ।
वोढुस्स गर्भो भवति सहोढ इति चोच्यते ।
(४)उत्पद्यते गृहे यस्य न च ज्ञायेत कस्यचित् ।
स गृहे गूढ उत्पन्नस्तस्य स्याद्यस्य तल्पजः ॥
दत्तः पूर्वमेवोक्तः । पैठीनसिः--'अथ दत्तक्रीतकृत्रिमपुत्रिकापुत्राः
परपरिग्रहेण द्व्यार्षेयेण जाताः ते असंगतकुलीना द्व्यामुष्यायणा भवन्तीति ।
मनुः--
(५)भ्रातॄणामेकजातानामेकश्चेत्पुत्रवान् भवेत् ।
सर्वे ते तेन पुत्रेण पुत्रिणो मनुरब्रवीत् ॥
(६)क्रीणीयाद्यस्त्वपत्यार्थं मातापित्रोर्यमन्तिकात् ।
स क्रीतकस्सुतस्तस्य सदृशोऽसदृशोऽपि वा ।
(७)मातापितृविहीनो यस्त्यक्तो वा स्यादकारणात् ।
आत्मानं स्पर्शयेद्यस्य स्वयं दत्तस्तु स स्मृतः ॥ इति ।
(८)सदृशं तु प्रकुर्यातां गुणदोषविवर्जितम् ।
पुत्रं पुत्रगुणैर्युक्तं स विज्ञेयस्तु कृत्रिमः ॥
(९)मातापितृभ्यामुत्सृष्टं तयोरन्यतरेण वा ।
यं पुत्रं प्रतिगृह्णीयादपविद्धः स उच्यते ॥ इति ।
सर्वे एते समानजातीयाः,
(१०)सजातीयेष्वयं प्रोक्तस्तनयेषु मया विधिः ॥
इति याज्ञवल्क्यवचनात् ।
१. ना. स्मृ १३. ४. २. व स्मृ १७. २५ ३. म. स्मृ. ९. १७३
४. म स्मृ ९. १७० ५. म. स्मृ ९ १८२. ६. म. स्मृ. ९. १७४.
७. म. स्मृ. ९. १७७ ८. म. स्मृ. ९. १६९ ९. म. स्मृ. ९. १७१.
१०. या. स्मृ. २. १३३.
२३८ आपस्तम्बधर्मसूत्रे [ (प. ६.) क. १४.
विष्णुः-'यत्र क्वचनोत्पादितस्तु द्वादशः, इति ।
याज्ञवल्क्यः-
(१)'पिण्डदोंऽशहरश्चैषां पूर्वाभावे परः परः ।' इति
मनुः-
(२)'श्रेयसः श्रेयसोऽभावे पापीयान् रिक्थमर्हति ।' इति ।
'क्रमादेते प्रवर्तन्ते मृते पितरि तद्धने ।
नारदः-
(३) ज्यायसो ज्यायसोऽभावे जघन्यस्तदवाप्नुयात् ॥' इति ।
देवलः-
'सर्वे ह्यनौरसस्यैते पुत्रा दायहराः स्मृताः ।
औरसे पुनरुत्पन्ने तेषु ज्यैष्ठ्यं न तिष्ठति ।
तेषां सवर्णा ये पुत्रास्ते तृतीयांशभागिनः ।
शेषास्तमुपजीवेयुर्ग्रासाच्छादनसम्भृताः ॥' इति ।
मनुः-
(४)'षष्ठं तु क्षेत्रजस्यांशं प्रदद्यात्पैतृकाद्धनात् ।
औरसो विभजन् दायं पित्र्यं पञ्चममेव वा ॥' इति ।
बृहस्पतिः-
'क्षेत्रजाद्यास्सुतास्त्वन्ये पञ्चषट्सप्तभागिनः' इति ।
हारीतः-
'विभजिष्यमाण एकविंशं कानीनाय दद्याद्विंशं पौनर्भवायैकोन-
विंशं द्वामुष्यायणायाऽष्टादशं क्षेत्रजाय सप्तदशं पुत्रिकापुत्रायेतरानौर-
साये'ति ।
वसिष्ठः-
(५)“पुत्रं प्रतिग्रहीष्य'न्निति प्रक्रम्य 'तस्मिंश्चेत्प्रतिगृहीते औरस
उत्पद्यते चतुर्थभागभाग्'ति ।
एवमतेषु शास्त्रेषु विद्यमानेषु यदाचार्येण पूर्वमुक्तं 'तेषां कर्मभि-
स्सम्बन्धो दायेनाऽव्यतिक्रमश्चोभयो'रिति तद्धर्मपत्नीजे पुत्रे सति क्षे-
त्रजादीनां समांशहरत्वप्रतिषेधपरं वेदितव्यम् ।
अथाविभाज्यम् ।
अत्र मनुः-
(६)'अनुपघ्नन् पितृद्रव्यं श्रमेण यदुपार्जयेत् ।
१. या. स्मृ. २. १३२. २. म स्मृ. ९. १६४. ३. ना. स्मृ. १३. ४९.
४ म. स्मृ ९. १३४. ५. व. ध. १५. ६. ९. ६. म. स्मृ. ९. २०८.
दायविभागः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २३९
स्वयमर्हति लब्धं तन्नाऽकामो दातुमर्हती'ति ।
कात्यायनः—
‘नाऽविद्यानां तु वैद्येन देयं विद्याधनात् क्वचित् ।
समं विद्याधनानां तु देयं वैद्येन तद्धनम् ॥
परभक्तप्रदानेन प्राप्तविद्यो यदाऽन्यतः ।
तया प्राप्तं तु विधिना विद्याप्राप्तं तदुच्यते ॥’ इति ।
व्यासः—
‘पितामहपितृभ्यां च दत्तं मात्रा च यद्भवेत् ।
तस्य तन्नाऽपहर्तव्यं(१) शौर्यभार्यं तथैव च ॥’ इति ।
याज्ञवल्क्यः—
(२)“क्रमादभ्यागतं द्रव्यं हृतमप्युद्धरेत यः ।
दायादेभ्यो न तद्दद्याद्विद्यया लब्धमेव च ॥
पत्यौ जीवति यःस्त्रीभिरलङ्कारो धृतो भवेत् ।
न तं भजेरन् दायादा भजमानाः पतन्ति ते ॥’
व्यासः—
‘साधारणं समाश्रित्य यत्किञ्चिद्वाहनायुधम् ।
शौर्यादिनाप्नोति धनं भ्रातरस्तत्र भागिनः ॥
तस्य भागद्वयं देयं शेषास्तु समभागिनः ॥’
इति पुत्रदायविभागः । तदभावे तु मृतस्य य. प्रत्यासन्नः सपिण्डः,
स किम् ? ‘दायं हरेते’ति ( १४. ५. ) वक्ष्यमाणेन सम्बन्धः ।
(३)‘लेपभाजश्चतुर्थाद्याः पित्राद्याः पिण्डभागिनः ।
सप्तमः पिण्डदातैषां सापिण्ड्यं साप्तपौरुषम् ॥’
इति सपिण्डलक्षणम् । तेषु यो य. प्रत्यासन्नस्स स गृह्णीयादिति।
भार्या तु रिक्थग्राहिणस्सपिण्डाद्या रक्षेयुः, न तु दायग्रहणमित्याचार्य-
स्य पक्षः। श्रूयते हि-(४)‘तस्मात् स्त्रियो निरिन्द्रिया अदायादीः' इति।
मनुरपि--
(५)'अनिन्द्रिया अदायादाः स्त्रियो नित्यमिति श्रुति'रिति ।
अत्र सपिण्डाद्यभावे बृहस्पतिः--
'अन्यत्र ब्राह्मणात्किं तु राजा धर्मपरायणः ।
१. शौर्यं विद्याधनं तथा इति. घ. पु. शौर्य भार्याधनं तथा इति. ड. पु.
२. या. स्मृ. २-१९९. ३ मत्स्यपु. अ. १८ श्लो. २९. ४. तै.सं. ६. ५. ८.
५. म. स्मृ ९. १८. निरिन्द्रिया ह्यमन्त्राश्च स्त्रियोऽनृतमिति श्रुतिः, इति मुद्रित-
पुस्तकपाठः । बोधायनसूत्रे तु प्रायस्संवदति ( ३. २. ४७. ) पाठः ।
२४० आपस्तम्बधर्मसूत्रे [ (प.६.)क.१४
तत्स्त्रीणां जीवनं दद्यादेष दायविधिस्स्मृतः ॥
अन्नार्थं तण्डुलप्रस्थमपराह्ने तु सेन्धनम् ।
वसनं त्रिपणक्रीतं देयमेकं त्रिमासतः ॥
एतावदेव साध्वीनां चोदितं विधवाधनम् ।
वसनस्याऽशनस्यैव तथैव रजकस्य च ॥
धनं व्यपोह्य तच्छिष्टं दायादानां प्रकल्पयेत् ।
(१)धूमावसानिकं ग्राह्यं सभायां स्नानतः पुरा ।
वसनाशनवासांसि विगणय्य धवे मृते ॥' इति ।
व्यासः--
'द्विसाहस्रः परो दायः स्त्रियै देयो धनस्य तु ।
यच्च भर्त्रा धनं दत्तं सा यथाकाममाप्नुयात् ॥' इति ।
पणानां द्वे सहस्रे परिमाणमस्य द्विसाहस्रः । एष परो दायः
स्त्रिया नाधिक इति । एतत् प्रभूते धने, ज्ञातयश्च न रक्षेयुरिति शङ्का-
याम् । एवं (२)'पत्नी दुहितरश्चे'त्यादीनि यानि पत्न्या दायप्राप्तिपराणि
तान्येवमेव द्रष्टव्यानि । गौतमस्तु पुत्राभावे पत्न्यास्सपिण्डादिभिस्स-
मांशमाह-(३)'पिण्डगोत्रर्षिसम्बन्धा रिक्थं भजेरन् । स्त्री चाऽनपत्यस्ये'
ति । अस्यार्थः-अनपत्यस्य रिक्थं पिण्डसम्बन्धात्सपिण्डाः प्रत्यास-
त्तिक्रमेण भजेरन् । तदभावे गोत्रसम्बन्धास्सगोत्राः । तदभावे ऋषिस-
म्बन्धास्समानप्रवराः स्त्री च पत्नी च । ( अत्र स्त्रियाः पृथङ्निर्देशात्
च शब्दाच्च यदा सपिण्डा भजेरन् तदा स्त्री सह तैरेकमंशं गृह्णीयात् ।
ततश्च 'पितुरूर्ध्वं विभजतां माताप्यंश समं हरे'दिति सपिण्डादिभि-
स्सहग्रहणमुक्तमिति । वयमप्येतमेव पक्षं रोचयामहे ) । अत्र पितरि
भ्रातरि सोदर्ये च जीवति सोदर्यो भ्राता गृह्णीयादित्येके मन्यन्ते ।
तथा च शङ्खः--
'अपुत्रस्य स्वर्यातस्य द्रव्यं भ्रातृगामि, तदभावे मातापितरौ लभे-
यातां, पत्नी वा ज्येष्ठे'ति ।
देवलः--
'ततो दायमपुत्रस्य विभजेरन् सहोदराः ।
कुल्या दुहितरो वापि म्रियमाणः पिताऽपि च ॥
सवर्णा भ्रातरो माता भार्या चेति यथाक्रमम् ॥' इति ।
१. धूमावसानिकं श्राम्यं सन्ध्यायां स्नानतत्परा । इति ढ भूमावसनिकं इति. घ. पु.
२. या. स्मृ. २. १३८. ३. गौ. ध. २८. २१, २२.
( ) कुण्डलान्तर्गतो भागः च पुस्तकेऽधिकपाठतया परिगणितः ।
दायभागः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २४१
याज्ञवल्क्यः—
(१)संसृष्टिनस्तु संसृष्टी सोदर्यस्य तु सोदरः ।
दद्याच्चाऽपहरेच्चांशं जातस्य च मृतस्य च ॥
अन्योदर्यस्तु संसृष्टी नाऽन्योदर्यधनं हरेत् ।
असंसृष्ट्यपि चाऽऽदद्यात्सोदर्यो नान्यमातृजः ॥' इति ।
अत्र सोदर्य इति विशेषवचनात् 'पत्नी दुहितरश्चे'त्यत्र भ्रातृग्रहणं
भिन्नोदरविषयमिति । प्रत्यासत्त्यतिशयात्(२) पितैवेत्याचार्यस्य पक्षः।
तदभावे सोदर्यः, तदभावे तत्पुत्रः, तदभावे भिन्नोदराः, तदभावे पितृव्य
इत्यादि द्रष्टव्यम् । मात्रादयोऽपि स्त्रियो जीवनमात्रं लभेरन्निति ॥ २ ॥
तदभाव आचार्य आचार्याभावेऽन्तेवासी हृत्वा
तदर्थेषु धर्मकृत्येषु वोपयोजयेत् ॥ ३ ॥
सपिण्डाभावे आचार्यो दायं हरेत् । तस्याऽप्यभावे अन्तेवासी हरेत ।
हृत्वा तदर्थेषु धर्मकृत्येषु तडाकखननादिषूपयोजयेत् । वाशब्दात् स्वयं वा
उपयुञ्जीत ॥ ३ ॥
दुहिता वा ॥ ४ ॥
दुहिता वा दायं हरेत् । पुत्राभाव इत्येके। अनन्तरोक्ते विषय इत्यन्ये ॥४॥
सर्वाभावे राजा दायं हरेत् ॥ ५ ॥
सर्वग्रहणात् बन्धूनां सगोत्राणां चाऽप्यभावे ॥ ५ ॥
ज्येष्ठो दायाद इत्येके ॥ ६ ॥
एके मन्यन्ते ज्येष्ठ एव पुत्रो दायहरः । इतरे तु तमुपजीवेयुः ।
सोऽपि तान् पितेव परिपालयेदिति । तथा च गौतमः(३) 'सर्वं वा
पूर्वजस्येतरान् बिभृयात्पितृव'दिति ॥ ६ ॥
देशविशेषे सुवर्णं कृष्णा गावः कृष्णं भौमं ज्येष्ठस्य ॥७॥
क्वचिद्देशे सुवर्णादि ज्येष्ठस्य भाग इत्याहुः । भूमौ जात भौमं धान्यं कृष्णं
माषादि कृष्णायसमित्यन्ये ॥ ७ ॥
रथः पितुः परिभाण्डं च गृहे ॥ ८ ॥
१ या. स्मृ. २. १३८, १३९. २. पितैवेति वयम् इति च. पु. ३. गौ. ध.२८.३.
आप० ध० ३१
२४२ आपस्तम्बधर्मसूत्रे [(प्र.६)क.१४.
रथः पितुरंशः (१) गृहे च यत् परिभाण्डमुपकरणं पीठादि तदपि ॥ ८ ॥
अलङ्कारो भार्यायाः ज्ञातिधनं चेत्येके ॥ ९ ॥
भार्यायास्तु धृतोऽलङ्कारोऽंशः, ज्ञातिभ्यः पित्रादिभ्यश्च यल्लब्धं धनं तच्चे-
त्येवमेके मन्यते ॥ ९ ॥ *
तच्छास्त्रैर्विप्रतिषिद्धम् ॥ १० ॥
ज्येष्ठो दायद इति यदुक्तं तच्छास्त्रैर्विरुद्धम् ॥ १० ॥
येन विरुद्धं तद्दर्शयति—
(२)“मनुः पुत्रेभ्यो दायं व्यभज”दित्यविशेषेण श्रूयते ॥११॥
पुत्रेभ्य इति बहुवचननिर्देशादविशेषेण श्रवणम् ॥ ११ ॥
अत्र चोद्यम्—
अथापि(३) “तस्माज्ज्येष्ठं पुत्रं धनेन निरवसाययन्ती”
त्येकवच्छ्रूयते ॥ १२ ॥
अथापि ननु चेत्यर्थः । ज्येष्ठं पुत्रं धनेन निरवसाययन्ति पृथक्कुर्वन्तीत्येकव-
दपि श्रूयते । यथा एक एव ज्येष्ठो दायादः तदनुरूपमपि श्रूयते इति ॥१२॥
परिहरति—
अथापि नित्यानुवादमविधिमाहुर्न्यायविदो यथा
तस्मादजावयः पशूनां सहचरन्तीति । तस्मात् स्नातक-
स्य मुखं रेफायतीव । तस्मात् वस्तश्च श्रोत्रियश्च
स्त्रीकामतमाविति ॥ १३ ॥
१. एतदनन्तरं ‘उपलक्षणमेतत् वाहनस्य’ इत्यधिकं घ.पु.
- एतच्चिह्नानन्तरं यतोऽपि नानुवादः ॥ ११ ॥ स्पष्टम् ॥ इत्यधिकपाठो दृश्यते
छ. पुस्तके ।
२. मनुः पुत्रेभ्यो दायं व्यभजत् स नाभानेदिष्ठं ब्रह्मचर्यं वसन्तं निरभजत् इति
(तै. सं. ३. १.९.) तैत्तिरीयश्रुतौ श्रूयते । तत्र पुत्रेभ्य इत्यविशेषेणैव विभागः श्रुतः ।
न तु ज्येष्ठस्य विशेषोऽभिहित इत्यर्थः । ‘नाभानेदिष्ठः’ इति मनुपुत्रस्य कस्याचिन्नाम ।
अस्यैव नाभाग इति संज्ञा । अस्य कथा भागवते ( ९ ४. ) अनुसन्धेया ।
३. तत्रैव तैत्तिरीयश्रुतौ ( तै. सं. २. ५. २. )
दायविभागः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २४३
अथापीति परिहारोपक्रमे । पशूनां मध्ये अजाश्वाऽवयश्च जातिभेदेऽपि सह
चरन्ति । रेफा शोभा । इह तु तद्गत्यभेदोपचारः । ततः क्यष् । स्नातकस्य
मुखं कुण्डलादिना शोभते । इवशब्दो वाक्यालङ्कारे । श्रोत्रियस्य स्त्री-
कामतत्वमाचार्यकुले चिरकाल ब्रह्मचारिवासात् । यथैतानि वाक्या-
नि दृष्टान्तमात्रमनुवदन्ति न किञ्चिद्विदधति तस्मात् 'ज्येष्ठ पुत्र'मित्या-
दिकमप्यविधिरीति न्यायविद आहुः । न केवलमयमेवानुवादः, किं तर्हि
'मनुः पुत्रेभ्य' इत्ययमप्यनुवाद एव ॥ १३ ॥
सर्वे हि धर्मयुक्ता भागिनः ॥ १४ ॥
हिशब्दो हेतौ । यस्मादेवाऽनुवादौ न कस्यचिद्विधायकौ तस्माद्ये
धर्मयुक्ताः पुत्रास्सर्व एते भागिनः ॥ १४ ॥
यस्त्वधर्मेण द्रव्याणि प्रतिपादयति ज्येष्ठो-
ऽपि तमभागं कुर्वीत ॥ १५ ॥
यस्तु ज्येष्ठोऽप्यधर्मेण द्रव्याणि प्रतिपादयति विनियुङ्क्ते तमभागं कुर्वीत जीव-
द्विभागे पिता भागं न दद्यात् । ऊर्ध्वं विभागे(१) पितुर्भ्रातरः । अपिश-
ब्दात् किमुतान्यमिति ज्येष्ठस्य प्राधान्यं ख्याप्यते ॥ १५ ॥
जीवन् पुत्रेभ्य(२)इत्यनेन दम्पत्योस्सहभावो दर्शितः । तत्र कार-
णमाह—
जायापत्योर्न विभागो विद्यते ॥ १६ ॥
स्पष्टम् ॥ १६ ॥
कस्मात् ?
पाणिग्रहणाद्धि सहत्वं कर्मसु ॥ १७ ॥
कर्मार्थं द्रव्यम् । जायायाश्च न पृथक्कर्मस्वधिकारः । किं तर्हि ? सह-
भावेन—'यस्त्वया धर्मश्च कर्तव्यस्सोऽनया सह'ति वचनात् । तत्र किं
पृथक् द्रव्यणेति ॥ १७ ॥
(३)तथा पुण्यफलेषु ॥ १८ ॥
पुण्यफलेषु स्वर्गादिष्वपि तथा सहत्वमेव । (४)'दिवि ज्योतिरजर-
मारभेता' मित्यादिभ्यो मन्त्रलिङ्गेभ्यः ॥ १८ ॥
१. विभागेऽपि भ्रातर इति. च. पु. २. इत्यत्र भार्याया भागो न दर्शितः। इति घ.ड.पु.
३. इदमग्रिमं च सूत्रमेकतया लिखितं क. पु. । ४. तै ब्रा. ३ ७.५. ११.
२४४ आपस्तम्बधर्मसूत्रे [ (प्र.६.)क.१५.
द्रव्यपरिग्रहेषु च ॥ १९ ॥
द्रव्यपरिग्रहेषु च द्रव्यार्जनेष्वपि तथा सहत्वमेव । तत्र पतिरा-
र्जयति, जाया गृहे निर्वहतीति योगक्षेमावुभयायत्ताविति द्रव्यपरिग्रहे-
ऽपि सहत्वम् ॥ १९ ॥
एतदेवोपपादयति—
न हि भर्तुर्विप्रवासे नैमित्तिके दानं स्तेयमुपदिशन्ति॥२०॥
हि यस्मात् भर्तुर्विप्रवासे सति नैमित्तिके 'छिन्दत्पाणि दद्यादि'त्यादिके
दाने कृते भार्याया न स्तेयमुपदिशन्ति धर्मज्ञाः । यदि भर्तुरेव द्रव्यं स्यात्
स्यादेव स्तेयम् ।, नैमित्तिके दान इति वचनात् द्रव्यान्तरे स्तेयं भव-
त्येव । एतदेव द्रव्यसाधारण्येऽपि दम्पत्योर्वैषम्यं—यत् पतिर्यथेष्टं वि-
नियुङ्क्ते जाया त्वेतावदेवेति । न च पत्युस्स्वयमर्जितस्य विनियोगे
जायाया अनुमत्यपेक्षा, स्वतन्त्रत्वात् । स्वतन्त्रो ह्यसौ गृहे, यथा राजा
राष्ट्रे । अत एव भार्यायास्तेयशङ्का, न भर्तुः ॥ २० ॥
इत्यापस्तम्बधर्मसूत्रवृत्तौ द्वितीयप्रश्ने चतुर्दशी काण्डिका ॥ १४ ॥
एतेन देशकुलधर्मा व्याख्याताः ॥ १ ॥
'ज्येष्ठो दायाद' (२. १४. १६.) इत्यादिकं शास्त्रविप्रतिषेधादप्रमाण-
मित्युकम् । एतेन देशधर्माः कुलधर्माश्च व्याख्याताः । शास्त्रविप्रतिषिद्धा मातु-
लसुतापरिणयनादयोऽप्रमाणं विपरीताः प्रमाणमिति ।
गौतमोऽप्याह—
(१)'देशकुलधर्माश्चाऽऽम्नायैरविरुद्धाः प्रमाण'मिति ॥ १ ॥
मातुश्च योनिसम्बन्धेभ्यः पितुश्चाऽऽसप्तमाद्यावता वा
सम्बन्धो ज्ञायते तेषां प्रेतेषूदकोपस्पर्शनं गर्भान्
परिहाप्याऽऽपरिसंवत्सरान् ॥ २ ॥
मातुर्योनिसम्बन्धा मातुलादयः । पितुश्चासप्तमात् पुरुषात् सम्बन्धास्सपि-
ण्डादयः पैतृष्वस्रेयादयश्च तेभ्य आरभ्याऽऽसप्तमादित्यन्वयः । यावता वा-
न्तरेण सम्बन्धो ज्ञायते स्मर्यते जन्मना नाम्ना वाऽमुष्याऽयमस्मत्कूटस्थस्य
१. गौ. ध. ११. २०.
प्रेतोदकदानम् ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २४५
वंश्य एवंनामेति । तथा च मनुः-
(१)'सपिण्डता तु पुरुषे सप्तमे विनिवर्तते ।
समानोदकभावस्तु जन्मनाम्नोरवेदने ॥' इति ।
य एवंभूताः पुरुषास्तेषां प्रेतेषु मृतेषु उदकोपस्पर्शन मरणनिमित्तं
स्नानं कर्तव्यम् । गर्भान् बालान् अपरिसंवत्सरानपरिपूर्णसंवत्सरान् परि
हाय्य वर्जयित्वा । बालेषु मृतेषु स्नानं न कर्तव्यमिति ॥ २ ॥
मातापितरावेव तेषु ॥ ३ ॥
बालेषु मृतेषु मातापितरावेवोदकस्पर्शन कुर्याताम् ॥ ३ ॥
हतारश्च ॥ ४ ॥
ये च तान् बालान् मृतान् हरन्ति तेऽप्युदकोपस्पर्शनं कुर्युरीति ।
एवमाचार्यस्य पक्षः ॥ ४ ॥
भार्यायां परमगुरुसंस्थायां चाकालभोजनम् ॥ ५ ॥
भार्या पत्नी । परमगुरव आचार्यमातापितरः । संस्था मरणम् । भार्या-
यां संस्थितायां परमगुरूणां च संस्थायां सत्यां न केवलमुदकोपस्पर्शन,
किं तर्हि ? अपरेद्युः आ तस्मात्कालात् अभोजन च ॥ ५ ॥
किं च-
आतुरव्यञ्जनानि कुर्वीरन् ॥ ६ ॥
आतुरत्वं व्यज्यते यैस्तानि च कुर्वीरन् भार्यादिमरणे ॥ ६ ॥
कानि पुनस्तानि ?
केशान्प्रकीर्य पांसुनोप्यैकवाससो दक्षिणामुखास्स-
कृदुपमज्ज्योत्तीर्योपविशन्त्येवं त्रिः ॥ ७ ॥
प्रकीर्य केशान् पांसूनावपन्ति । ओप्य एकवासस अनुत्तरीयाः । दक्षिणामुखाः
दक्षिणां दिशं निरीक्षमाणाः सकृदुपमज्ज्य उदकादुत्तीर्य तीर उपविशन्ति
दक्षिणामुखा एव ॥ ७ ॥
एवं त्रिः ॥ ८ ॥
एवमुक्तप्रकारेण त्रिरुपमज्ज्योपविशेयुः ॥ ८ ॥
१. म. ५. ६०.
२४६ आपस्तम्बधर्मसूत्रे [ (प्र.६.)क. १५.
तत्प्रत्ययमुदकमुत्सिच्याऽप्रतीक्षा ग्राममेत्य
यत्स्त्रिय आहुस्तत्कुर्वन्ति ॥ ९ ॥
ततः तत्प्रत्ययं तेषां मृतानां भार्यादीनां यथा प्रत्ययो भवति—मह्यमुदकं
दत्तमिति, तथोदकमुत्सिञ्चन्ति। त्रिरित्यनुवृत्तेस्त्रिः। आचारात्पीड्यत्त्वाञ्च
वाससा तिलमिश्रं हस्ताभ्यां। भारद्वाजाय यज्ञशर्मणे एतत्तिलोदकं ददा-
मीति प्रयोगः। उत्सिच्या प्रतीक्षाः पृष्ठतोऽनिरीक्षमाणा ग्राममेत्य गृहं प्रविश्य ।
अनेन बहिरिदं कर्मेति गम्यते । यत्तत्र मृतविषये स्त्रियः कर्तव्यमित्याहुः
तत्कुर्वन्ति अग्न्युपस्पर्शनगवालम्भनादीनि । एतत्प्रथमेऽहनि । द्विती
यादि(१)ष्वहरहरञ्जलिनैकोत्तरवृद्धिरैकादशाहारिति पितृमेध उक्तं द्र
ष्टव्यम् ॥ ९ ॥
इतरेषु चैतदेवैक उपदिशन्ति ॥ १० ॥
‘आकालमभोजन’ (२. १५, १) मित्यादि यदुक्तं तदितरेषु भार्यादि-
भ्योऽन्येष्वपि सपिण्डेषु मृतेषु कर्तव्यमित्येके आचार्या उपदिशन्ति ॥१०*॥
शुचीन्मन्त्रवतस्सर्वकृत्येषु भोजयेत् ॥ ११ ॥
एकान्तेऽपि विधिप्रतिषेधानुसारिणः शुचयः, तान्। मन्त्रवतः (२)अ
धीतवेदान् सर्वकृत्येषु श्रौतेषु गार्ह्येषु स्मार्तेषु च कर्मसु दैवेषु पित्र्येषु
मानुषेषु च भोजयेत् । (३)अन्ते 'ततो ब्राह्मणभोजन'मिति स्मृत्यन्तरे
दर्शनात् ॥ ११ ॥
देशतः कालतः शौचतः सम्यक्प्रतिग्रहीतृत इति
दानानि प्रतिपादयति ॥ १२ ॥
- एतदन्तर—
ब्राह्मणश्चैतस्मिन् कालेऽमात्यान् केशश्मश्रूणि वा वापयते ॥ ११ ॥
अमात्याः प्रधानाः । स्पष्टमन्यत् ॥ ११ ॥
समावृत्ता न वा वपेरन् ॥ १२ ॥
पूर्वापवादोऽयम् । अमात्येष्वेव गुरुकुलात् समावृत्ताः स्नातकाः न केशादि वाप-
येरन् ॥ १२ ॥
न विहारिण इत्यन्ये ॥ १३ ॥
विहारिणो बालाः । तेऽपि न ॥ १३ ॥ इत्यधिकं. घ. पुस्तके.
१. आप. पि. सू. २. 'अधीताविस्मृतवेदान्' इति. ड. पु ३. 'अन्ततः' इति. च' पु.
अहविष्यहोमः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २४७
सप्तम्यर्थे तसिल् । देशः प्रयागादिः । कालः सूर्यग्रहणादिः । (१)शौ-
चं कृच्छ्रादिपरिसमाप्तिः। सम्यक् समीचीनः प्रतिग्रहीता 'तुल्यगुणेषु वयो-
वृद्धश्श्रेया'नित्यादि । एतेषु दानानि देयान्यवश्यं प्रतिपादयति दद्यादिति१२
यस्याऽग्नौ न क्रियते यस्य चाऽग्रं न दीयते
न तद्भोक्तव्यम् ॥ १३ ॥
यस्याऽन्नस्यैकदेशः अग्नौ न क्रियते न हूयते (२)यस्माच्चोद्धृत्याऽग्रं न
दीयते न तद्भोक्तव्यम् ॥ १३ ॥
न क्षारलवणहोमो विद्यते ॥ १४ ॥
यत् भक्ष्यमाणं पश्यतो लालोत्पद्यते तत् क्षार गुड(३)मरीचिलिकु
चादि । (४)क्षारलवणसंसृष्टं न होतव्यम् ॥ १४ ॥
तथाऽवरात्रसंसृष्टस्य च ॥ १५ ॥
अवरात्रं कुलुत्थादि । तत्संसृष्टस्याप्यन्नस्य होमो न विद्यते ॥ १५ ॥
अथ यस्यैवंविधमेव भोज्यमुपस्थितं (५)तस्य कथं होमः ? तत्राह -
अहविष्यस्य होम उदीचीनमुष्णं भस्माऽपोह्य तस्मि
ञ्जुहुयात्तद्भुतमहुतं चाग्नौ भवति ॥ १६ ॥
औपासनात् पचनाद्वा ऽग्नेरुदीचीनमुष्णं भस्माऽपोह्य तस्मिन् भस्मनि
जुहुयात् वैश्वदेवमन्त्रैः । एषोऽहविष्यस्य होमः । तदेवं क्रियमाणं हुतं
च भवति हवनार्थनिर्वृत्तेः । अहुतं चाऽग्नौ भवति । भस्ममात्रत्वादिति ।
अत्र बोधायनः—
(६)अथ यद्येतदेवाग्नं स्यादुत्तरतो भस्ममिश्रानङ्गारान्निरूह्य तेषु जु-
हुया'दिति ।
(७)अपर आह—यान्यहविष्याणि व्यञ्जनान्यहरहर्भोज्यानि तेषा-
मेष संस्कारस्सकृच्च होमोऽमन्त्रक इति ॥ १६ ॥
उत्तरे द्वे सूत्रे स्पष्टे—
न स्त्री जुहुयात् ॥ १७ ॥
१. शौचं कृच्छ्रादि इति ङ. च. पु.
२. 'यस्य ब्राह्मणस्यान्नं न दीयत' इति क.च. पुस्तकोराधिकम् ।
३. 'गुडसुधालिकुचादि' इति ङ. पु.
४. क्षारलवणं, कृत्रिमलवणमिति कुल्लूकः । तिलमुद्गास्ते शैब्यं सस्ये गोधूमकोद्र-
वौ । धान्यक देवधान्यं च शमीधान्यं तथैक्षवम् । स्विन्नधान्यं तथा पण्यमूलं
क्षारगणस्मृतः ॥ इति निर्णयसिन्धौ । ५. तस्य कथ भोजनम् ? इति घ.पु.
६. बौधा. गृ. ७. अपरे मन्यन्ते 'इति. घ. पु.
२४८ आपस्तम्बधर्मसूत्रे [ (प.६.) क. १५ ]
नाऽनुपेतः ॥ १८ ॥
आन्नप्राशनाद्गर्भा नाऽप्रयता भवन्ति ॥ १९ ॥
अन्नप्राशनात्प्राक् गर्भा बाला नाऽप्रयता भवन्ति रजस्वलादिस्पर्शेऽपि ।
गौतमस्तु अपां मार्जनादिकमिच्छति । यथाह (१)'अन्यत्राऽपां मार्जनप्र-
धावनावोक्षणेभ्यः' ॥ १९ ॥
आ परिसंवत्सरादित्येके ॥ २० ॥
यावत् संवत्सरो न परिपूर्यते तावन्नाप्रयता गर्भा इत्येके मन्यते॥२०॥
यावता वा दिशो न प्रजानीयुः ॥ २१ ॥
यावद्दिग्विभागज्ञानं नाऽस्ति तावन्नाऽप्रयता भवन्ति ॥ २१ ॥
(२)ओपनयनादित्यपरम् ॥ २२ ॥
उपनयनादर्वाक् नाऽप्रयता गर्भा (३)इत्यपरदर्शनम् ॥ २२ ॥
अत्रोपपत्तिः—
अत्र ह्याधिकारश्शास्त्रैर्भवति ॥ २३ ॥
हि यस्मादत्रोपनयने सति विधिनिषेधशास्त्रैरधिकारो भवति ॥२३॥
सा निष्ठा ॥ २४ ॥
उपनयनमपि परामृशतस्तच्छब्दस्य निष्ठाशब्दसमानाधिकरण्यात्
स्त्रीलिङ्गता । सा निष्ठा तदुपनयनमवसानमधिकारस्येति ॥ २४ ॥
स्मृतिश्च ॥ २५ ॥
अस्मिन्नर्थे स्मृतिरपि भवति—(४)उताऽब्रह्मचारी यथोपपादमूत्रपु-
रीषो भवति नाऽस्याऽचमकल्पो विद्यते इति (५)'प्रागुपनयनात्काम-
चारवादभक्ष' इति गौतमः ॥ २५ ॥
इत्यापस्तम्बधर्मसूत्रे द्वितीयप्रश्ने पञ्चदशी कण्डिका ॥१५॥
इति चापस्तम्बधर्मसूत्रवृत्तौ हरदत्तमिश्रविरचितायामु-
ज्ज्वलायां द्वितीयप्रश्ने षष्ठः पटलः ॥ ६ ॥
१. गौ, २.६. 'अपमार्जन' इति मैसूरपुस्तकपाठः २. ओपनयनादित्येके इति घ.
३ घ. पुस्तके 'भवतीति'इतीतिकरणान्तं सूत्रं पठित्वा'इति करणे हेतौ' इति व्याख्यातम् ।
४. 'उते'त्यादि 'विद्यत'इत्यन्तं घ. पुस्तक एवास्ति । ५. गौःध. २. १.
अथ सप्तमः पटलः ॥
सह देवमनुष्या अस्मिँल्लोके पुरा बभूवुः । अथ देवाः
कर्मभिर्दिवं जग्मुरहीयन्त मनुष्याः । तेषां ये तथा क-
र्माण्यारहन्ते सह देवैर्ब्रह्मणा चाऽमुष्मिन् लोके भव-
न्ति । अथैतन्मनुः श्राद्धशब्दं कर्म प्रोवाच । (१)प्रजानि-
श्चेयसाय च ॥ १ ॥
(२)श्राद्धविधित्सया तस्य प्ररोचनार्थोऽयमर्थवादः । पुरा किल
देवाश्च मनुष्याश्चाऽस्मिन्नेव लोके सहैव बभूवुः । अथ त सहभावमसहमना देवा.
कर्मभिः श्रौतैस्स्मार्तैर्गार्ह्यैश्च यथावदनुष्ठितैर्दिवं जग्मुः मनुष्यास्तु तथा क-
र्तुमसमर्था अहीयन्त हीना अभवन् इहैव लोके स्थिताः । यत एवं कर्म-
णां सामर्थ्यम् अत इदानीमपि तेषां मनुष्याणां मध्ये ये तथा कर्माण्यारहन्ते
कुर्वन्ति यथारभन्त देवाः, ते देवै ब्रह्मणा च सहामुष्मिन् लोक भवन्ति त्रिवि
ष्टपे मोदन्ते(३) । अथैवहीनान्मनुष्यान् दृष्ट्वा मनुर्वैवस्वतः श्राद्धशब्दं श्रा-
द्धमिति शब्दमानमेतत्कर्म प्रोवाच । किमर्थम् ? प्रजानिःश्रेयसाय, तादर्थ्ये च-
तुर्थी । प्रजानां निःश्रेयसार्थम् । निश्रेयसाचेति पाठे छान्दसो यकारस्य
चकारः।
अपर आह—छान्दसो लिङ्गव्यत्ययः । प्रजानिश्रेयसं चाऽस्य कर्मणः
फलमिति ॥ १ ॥
तत्र पितरो देवता ब्राह्मणास्त्वाहवनीयार्थे ॥ २ ॥
तत्र श्राद्धकर्मणि पितर पितृपितामहप्रपितामहाः देवताः । ब्राह्मणा-
स्तु भुञ्जाना आहवनीयार्थे आहवनीयकृत्ये वेदितव्याः । त्रीणि श्राद्धे क-
रणानि—होमो, ब्राह्मणभोजनं, पिण्डदानं चेति । अत्र भोजनस्य(४)प्र-
धानत्वख्यापनार्थोऽयमर्थवादः ॥ २ ॥
मासि मासि कार्यम् ॥ ३ ॥
तदिदं कर्म मासे मासे कर्तव्यम् । वीप्सावचनाद्यावज्जीविकोऽभ्यासः।
१. प्रजानिश्रेयसाय च इति पृथक्सूत्र च . पु. २. मासि श्राद्धविधित्सया इति ड. पु.
३. एवंविधान् इति ख. पुस्तके टिप्पणीपाठः । एव हीयमानान् इति च. पु.
४. 'प्रधानतत्व' इति च पु.
आप० ध० ३२
२६० आपस्तम्बधर्मसूत्रे [ (प.७.)क.१६.
अपरपक्षस्याऽपराह्नः श्रेयान् ॥ ४ ॥
अपरपक्षस्य यान्यहानि तेष्वपराह्नः प्रशस्ततरः ॥ ४ ॥
तथाऽपरपक्षस्य जघन्यान्यहानि ॥ ५ ॥
यस्यैव पक्षस्य यान्यहानि पञ्चदश(१) तेषामुत्तरमुत्तरं प्रशस्त-
तरम् ॥ ५ ॥
सर्वेष्वेवाऽपरपक्षस्याऽहस्सु क्रियमाणे पितॄन् प्रीणाति ।
कर्तुस्तु कालाभिनियमात्फलविशेषः ॥ ६ ॥
सर्वेष्वेवाहस्सु पितॄणां तृप्तिरविशिष्टा । यस्तु कर्ता प्रतिपदादिके काले
नियमेन श्राद्धं करोति सर्वेषु मासेषु प्रतिपद्येव द्वितीयायामेवेत्यादि
तस्य कर्तुस्तस्मात्कालाभिनियमात् फलविशेषो भवति ॥ ६ ॥
कोऽसावित्याह—
प्रथमेऽहनि क्रियमाणे स्त्रीप्रायमपत्ये जायते ॥ ७ ॥
यः प्रतिपदि नियमेन श्राद्धं करोति तस्यापत्ये प्रजासन्ताने स्त्री-
प्रायं जायते । प्रायेण स्त्रियो जायन्ते ॥ ७ ॥
द्वितीये स्तेनाः ॥ ८ ॥
जायन्ते चोराः पुत्राः ॥ ८ ॥
(२)तृतीये ब्रह्मवर्चसिनः ॥ ९ ॥
(३)व्रताध्ययनसम्पत्तिर्ब्रह्मवर्चसम् ॥ ९ ॥
चतुर्थे क्षुद्रपशुमान् ॥ १० ॥
क्षुद्राः पशवोऽजाव्यादयः तद्वान् कर्ता भवति । उत्तरत्राप्येकवचने(४)
कर्तुर्वाचो द्रष्टव्यः ॥ १० ॥
पञ्चमे पुमांसो बह्वपत्यो न चाऽनपत्यः प्रमीयते ॥११॥
१. तेषां यथोत्तरं श्रेयस्त्वम् ' इति ड. च. पु.
२. तृतीये क्षुद्रपशुमान् कर्ता भवति ॥ चतुर्थे ब्रह्मवर्चसिनः ।
३. व्रताध्ययनसम्पत्तिर्ब्रह्मवर्चसम् । आपस्तम्बस्तु तृतीयचतुर्थयोर्विपरीतफलमाह—
तृतीये ब्रह्मवर्चसिनः । चतुर्थे क्षुद्रपशुमान् ॥ इति पाठो घ पुस्तके ।
४ कर्तुंनुवाद०, इति घ. पु ।
श्राद्धकल्पः ] उज्ज्वलोपेते द्वितीयः प्रश्नः। २५१
पुमास एव भवन्ति, (१) बहवश्च भवन्ति, न चाऽनपत्यः प्रमीयते जीव-
त्स्वेव पुत्रेषु सन्निहितेषु च स्वयं म्रियते । न तेषु मृतेषु, न देशान्तर
गतेषु, नाऽपि स्वयं देशान्तरं गत इति ॥ ११ ॥
षष्ठेऽध्वशीलोऽक्षशीलश्च ॥ १२ ॥
अध्वशील. पान्थः । अक्षशीलः कितवः ॥ १२ ॥
सप्तमे कर्षे राद्धिः ॥ १३ ॥
कर्षः कृषिः । राद्धि. सिद्धिः ॥ १३ ॥
अष्टमे पुष्टिः ॥ १४ ॥
स्पष्टम् ॥ १४ ॥
नवम एकखुराः ॥ १५ ॥
अश्वादयः ॥ १५ ॥
दशमे व्यवहारे राद्धिः ॥ १६ ॥
व्यवहारो वाणिज्यम्, शास्त्रपरिज्ञानं वा ॥ १६ ॥
एकादशे कृष्णायसं त्रपुसीसम् ॥ १७ ॥
कृष्णमयः कृष्णायसम् । त्रपुसीसे लोहविशेषौ ॥ १७ ॥
द्वादशे पशुमान् ॥ १८ ॥
द्वादश्यां बहवः पशवो भवन्ति ॥ १८ ॥
त्रयोदशे बहुपुत्रो बहुमित्रो दर्शनीयापत्यो
युवमारिणस्तु भवन्ति ॥ १९ ॥
त्रयोदश्यां बहवः पुत्रा मित्राणि च भवन्ति । अपत्यानि च दर्शनी
यानि भवन्ति । किं तु ते पुत्रा युवमारिण युवान एव म्रियन्ते(२) ॥ १९ ॥
चतुर्दश आयुष्ये राद्धिः ॥ २० ॥
संग्रामे जय. ॥ २० ॥
पञ्चदशे पुष्टिः ॥ २१ ॥
१. बहवश्च भवन्ति, भव्याः रूपविद्यादिभिशोभमाना भवन्ति, इति घ. ढ. पु ।
२. 'अयुवमारिण' इत्यन्ये इत्याधिक ख. ङ पु. ।
२८२ आपस्तम्बधर्मसूत्रे [,(प्र.७)क. १६,
स्पष्टम् ॥ २१ ॥
तत्र द्रव्याणि तिलमाषा व्रीहियवा आपो
मूलफलानि च ॥ २२ ॥
तत्र श्राद्धे तिलादीनि द्रव्याणि यथायथमवश्यमुपयोज्यानि ॥ २२ ॥
स्नेहवति त्वेवाऽन्ने तीव्रतरा पितॄणां प्रीतिर्द्रा-
घीयांसं च कालम् ॥ २३ ॥
यद्वा तद्वा अन्नं भवतु स्नेहवति तु तस्मिन्नाज्यादिभिरुपसिक्ते पितृ-
णां तीव्रतरा प्रकृष्टतरा प्रीतिर्भवति । सा च द्राघीयांस च कालमनुवर्तते ॥
तथा धर्माहृतेन द्रव्येण तीर्थे प्रतिपन्नेन ॥ २४ ॥
धर्मार्जितं यद्द्रव्यं पात्रे च प्रतिपादितं तेनाऽपि तथा तीव्रतरा पितृ
णां प्रीतिर्दीघीयांस च कालमिति ॥ २४ ॥
संवत्सरं गव्येन प्रीतिः ॥ २५ ॥
उत्तरत्र मांसग्रहणादिहापि मांसस्य ग्रहणम् । गव्येन मांसेन संवत्सरं
पितॄणां प्रीतिर्भवति ॥ २५ ॥
भूयांसमतो माहिषेण ॥ २६ ॥
माहिषेण मांसेन, अतः सम्वत्सरात् भूयास बहुतरं कालं पितॄणां
प्रीतिर्भवति ॥ २६ ॥
एतेन ग्राम्यारण्यानां पशूनां मांसं मेध्यं व्याख्यातम् ॥२७॥
एतेन माहिषेण मांसेनाऽन्येषामपि ग्राम्याणामजादीनामारण्यानां च शशा-
दीनां मांसं मेध्यं व्याख्यातम्—पितॄणां प्रीतिकरमिति । मेध्यग्रहणं प्रति-
षिद्धानां मा भूदिति ॥ २७ ॥
इत्यापस्तम्बधर्मसूत्रवृत्तौ द्वितीयप्रश्ने षोडशी कण्डिका ॥ १६ ॥
श्राद्धकल्पः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २५३
खड्गोपस्तरणे खड्गमांसेनाऽऽनन्त्यं कालम् ॥ १ ॥
खड्गचर्मोपस्तरणेष्यासनेषूपविष्टेभ्यो ब्राह्मणेभ्यो दत्तेन खड्गमां-
सेनानन्तं कालं प्रीतिर्भवति । आनन्त्यमिति पाठे स्वार्थे ष्यञ् ॥ १ ॥
तथा शतबलेर्मत्स्यस्य मांसेन ॥ २ ॥
शतबलिर्बहुशल्यको रोहिताख्यः ॥ २ ॥
वार्ध्रीणसस्य च ॥ ३ ॥
व्याख्यातो वार्ध्रीणसः । तस्य मांसेनाऽऽनन्त्यं कालं प्रीतिर्भवति ॥ ३ ॥
प्रयतः प्रसन्नमनास्सृष्टो भोजयेद्ब्राह्मणान् ब्रह्मविदो
योनिगोत्रमन्त्रान्तेवास्यसम्बन्धान् ॥ ४ ॥
प्रयतः स्नानाचमनादिना शुद्धः । प्रसन्नमनाः अव्याकुलमनाः । सृष्टः उत्सा-
हवान् । (१)'सृष्टश्चेद्व्राह्मणवधे हत्वाऽपी'तिदर्शनात् । (२)'वृत्तिसर्गताय-
नेषु क्रमः' इत्यत्र च सर्गे उत्साहः । एवम्भूतो ब्राह्मणान् भोजयेत् । कीदृ-
शान्? ब्रह्मविद आत्मविदः । योन्यादिभिरसम्बन्धान् योनिसम्बन्धा मातु-
लादयः । गोत्रसम्बन्धा सगोत्राः । मन्त्रसम्बन्धा ऋत्विजा याज्याश्च । अन्ते-
वासिसम्बन्धाश्शिष्या आचार्याश्च ॥ ४ ॥
गुणहान्यां तु परेषां समुदेतः सोदर्योऽपि भोजयितव्यः ॥
यदि परे योनिगोत्रादिभिरसम्बन्धा वृत्तादिगुणहीना एव ल-
भ्यन्ते, तदा समुदेतो विद्यावृत्तादिभिर्युक्तः सोदर्योऽपि भोजयितव्यः
किमुत मातुलादय इत्यपिशब्दस्याऽर्थः ॥ ५ ॥
एतेनाऽन्तेवासिनो व्याख्याताः ॥ ६ ॥
एतेन सोदर्येण अन्तेवासिनः बहुवचननिर्देशात् पूर्वत्र निर्दिष्टा योन्या-
दिभिस्सम्बन्धास्सर्व एव व्याख्याता.—अन्येषामभावे समुदेता भोजयि-
तव्या इति ।
अत्र मनुः—
(३)'एष वै प्रथमः कल्पः प्रदाने हव्यकव्ययोः ।
अनुकल्पस्तु विज्ञेयः सदा सद्भिरनुष्ठितः ॥
१. गौ ध. २२. ११. २. पा. सू. १ ३. ३८. ३. म. स्मृ. ३. १४७,
२६४ आपस्तम्बधर्मसूत्रे [ (प.७.) क. १७.
(१)मातामहं मातुलं च स्वस्त्रीयं श्वशुरं गुरुम् ।
दौहित्रं(२) विट्पतिं बन्धुमृत्विग्याज्यौ च भोजयेत् ॥' इति॥६॥
अथाप्युदाहरन्ति ॥ ७ ॥
सम्बन्धिनो न भोज्या इत्यस्मिन्नर्थे धर्मज्ञा वचनमुदाहरन्ति ॥ ७ ॥
सम्भोजनी नाम पिशाचभिक्षा नैषा पितॄन् गच्छति
नोऽथ देवान् । इहैव सा चरति क्षीणपुण्या
शालान्तरे गौरिव नष्टवत्सा ॥ ८ ॥
परस्परं भुञ्जतेऽस्यामिति सम्भोजनी । अधिकरणे ल्युट् । नामेदमस्याः
पिशाचभिक्षायाः । नैषा पितॄन् गच्छति नाऽपि देवान् । किं तु क्षीणपुण्या परलो-
कप्रयोजनरहिता सती इहैव चरति लोके यथा गौर्मृतवत्सा गृहाभ्यन्तर
एव चरति न बहिर्गच्छति तद्वदेतत् ॥ ८ ॥
तद्व्याचष्टे—
इहैव सम्भुञ्जतीति दक्षिणा कुलात्कुलं विनश्यतीति ॥ ९॥
सम्भुञ्जती परस्परभोजनस्य निमित्तभूता दक्षिणा श्राद्धे दानक्रिया
गृहात् गृहं गत्वा इहैव लोके नश्यतीत्यर्थः ॥ ९ ॥
अथ बहुषु तुल्यगुणेषूपस्थितेषु कः परैर्ग्राह्यः ?
तुल्यगुणेषु वयोवृद्धः श्रेयान्द्रव्यकृशश्चेप्सन् ॥ १० ॥
यो वयसा वृद्धस्स तावद्ग्राह्यः । तत्रापि यो द्रव्येण कृशः ईप्सन् लि-
प्समानश्च भवति स ग्राह्यः(३) । अद्रव्यकृशोऽपि अवृद्धोऽपि, द्वयोस्तु
समवाये यथारुचीति ॥ १० ॥
पूर्वेद्युर्निवेदनम् ॥ ११ ॥
श्राद्धदिनात्पूर्वेद्युरेव ब्राह्मणेभ्यो निवेदयितव्यम्—श्वः श्राद्धं भविता
तत्र भवताऽऽहवनीयार्थे प्रसादः कर्तव्य इति ॥ ११ ॥
अपरेद्युर्द्वितीयम् ॥ १२ ॥
अपरेद्युः श्राद्धदिने द्वितीयं निवेदनं कर्तव्यमद्य श्राद्धमिति ॥ १२ ॥
१. म स्मृ. ३. १४८. २. विट्पतिर्जामाता ।
३. यद्वा वयो वृद्धो ग्राह्योऽद्रव्यकृशोऽपि । द्रव्यकृशोऽप्यवृद्धोऽपीति । इति पाठः च. पु. ।
श्राद्धकल्पः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २६५
तृतीयमामन्त्रणम् ॥ १३ ॥
आमन्त्रणमाह्वानं भोजनकाले सिद्धमागम्यतामिति तत्तृतीयं भवति॥१३॥
त्रिःप्रायमेके श्राद्धमुपदिशन्ति ॥ १४ ॥
न केवलं निवेदनमेव त्रिर्भवति । किं तर्हि यच्च यावच्च श्राद्धे त
त्सर्वं त्रिरावर्त्यमित्येके मन्यन्ते । अत्र पक्षे होमभोजनपिण्डानामध्य्आ
वृत्तिस्तस्मिन्नेवापराह्णे ॥ १४ ॥
यथाप्रथममेवं द्वितीयं तृतीयं च ॥ १५ ॥
येन प्रकारेण प्रथमश्राद्धं तथैव द्वितीयं तृतीयं च कर्तव्यम् ॥ १५ ॥
सर्वेषु वृत्तेषु सर्वतस्समवदाय शेषस्य ग्रास
वराध्यं प्राश्नीयाद्यथोक्तम् ॥ १६ ॥
सर्वेषु श्राद्धेषु त्रिष्वपि वृत्तेषु समाप्तेषु सर्वतस्त्रयाणां श्राद्धानां य ओद-
नशेषस्ततस्समवदाय ग्रासवराध्यं प्राश्नीयात् यथोक्तं गृह्ये(१) 'उत्तरेण यजुषा
शेषस्य ग्रासवराध्यं प्राश्नीया'दिति । तत्र प्रयोगः(२)पूर्वेद्युर्निवेदनम् ।
तद्वत् परेद्युः प्रातर्भोजनकाले आमन्त्रणं-सिद्धमागम्यतामिति । ततो
होमादिपिण्डनिधानान्तमेकैकमपवृज्य ततः सर्वतस्समवदाय ग्रासाव-
राध्यंस्य(३)'प्राणे निविष्टे'ति प्राशनमिति ॥ १६ ॥
उदीच्यवृत्तिस्त्वासनगतानां हस्तेषूदपात्रानयनम् ॥१७॥
प्रागुदञ्चौ विभजते हंसः क्षीरोदकं यथा ।
विदुषां शब्दसिद्ध्यर्थं सा नः पातु शरावती ॥'
इति वैयाकरणाः । तस्याः शरावत्या उदक्तीरवर्तिन उदीच्याः ।
तेषां वृत्तिराचार आसनेषूपविष्टानां ब्राह्मणानां हस्तेषूदपात्रादर्घ्य
पात्रादादायाऽर्घ्यदानमिति । (४)पितरिदं तेऽर्घ्यम्, पितामहेदं तेऽर्घ्यं,
प्रपितामहेदं तेऽर्घ्यमिति मन्त्रा आश्वलायनके(५) । यद्यप्युदी
१. आ. प. गृ. २१. ९. २. पूर्वेद्युर्नवावरेभ्यो निवेदन, इति च. पु. ।
३. 'प्राणे निविष्टोऽमृतं जुहोमि ब्रह्मणि म आत्माऽमृतत्वाय' इति मन्त्रः ।
४. 'अमुष्मै स्वधा नम इति गृह्योक्तेन प्रकारेणार्घ्यं दद्यात्' ततस्तिलान् श्राद्धभूमौ
विकिरेत्, इति अधिक पाठो घ. ङ पुस्तकयो. ।
५. आश्व. गृ. ४ ८ ३. ।