आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 248, कुल 399 में से
संदर्भ में पढ़ेंद्वादश पुत्राः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २३७
तं कानीनं वदेन्नाम्ना वोढुः कन्यासमुद्भवः ॥' इति ।
नारदः--
(१)कानीनश्च सहोढश्च गूढायां यश्च जायते ।
तेषां वोढा पिता ज्ञेयस्ते च भागहराः पितुः ।' इति ॥
वसिष्ठः--
(२)'अप्रत्ता दुहिता यस्य पुत्रं विन्देत तुल्यतः ।
पौत्री मातामहस्तेन दद्यात्पिण्डं हरेद्धनम् ॥' इति ।
अनूढायामेव मृतायां मातरि मातामहस्य पुत्रः । अन्यथा वोढुः ।
मनुः--
(३)'या गर्भिणी संस्क्रियते ज्ञाताऽज्ञातापि वा सती ।
वोढुस्स गर्भो भवति सहोढ इति चोच्यते ।
(४)उत्पद्यते गृहे यस्य न च ज्ञायेत कस्यचित् ।
स गृहे गूढ उत्पन्नस्तस्य स्याद्यस्य तल्पजः ॥
दत्तः पूर्वमेवोक्तः । पैठीनसिः--'अथ दत्तक्रीतकृत्रिमपुत्रिकापुत्राः
परपरिग्रहेण द्व्यार्षेयेण जाताः ते असंगतकुलीना द्व्यामुष्यायणा भवन्तीति ।
मनुः--
(५)भ्रातॄणामेकजातानामेकश्चेत्पुत्रवान् भवेत् ।
सर्वे ते तेन पुत्रेण पुत्रिणो मनुरब्रवीत् ॥
(६)क्रीणीयाद्यस्त्वपत्यार्थं मातापित्रोर्यमन्तिकात् ।
स क्रीतकस्सुतस्तस्य सदृशोऽसदृशोऽपि वा ।
(७)मातापितृविहीनो यस्त्यक्तो वा स्यादकारणात् ।
आत्मानं स्पर्शयेद्यस्य स्वयं दत्तस्तु स स्मृतः ॥ इति ।
(८)सदृशं तु प्रकुर्यातां गुणदोषविवर्जितम् ।
पुत्रं पुत्रगुणैर्युक्तं स विज्ञेयस्तु कृत्रिमः ॥
(९)मातापितृभ्यामुत्सृष्टं तयोरन्यतरेण वा ।
यं पुत्रं प्रतिगृह्णीयादपविद्धः स उच्यते ॥ इति ।
सर्वे एते समानजातीयाः,
(१०)सजातीयेष्वयं प्रोक्तस्तनयेषु मया विधिः ॥
इति याज्ञवल्क्यवचनात् ।
१. ना. स्मृ १३. ४. २. व स्मृ १७. २५ ३. म. स्मृ. ९. १७३
४. म स्मृ ९. १७० ५. म. स्मृ ९ १८२. ६. म. स्मृ. ९. १७४.
७. म. स्मृ. ९. १७७ ८. म. स्मृ. ९. १६९ ९. म. स्मृ. ९. १७१.
१०. या. स्मृ. २. १३३.