आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 247, कुल 399 में से
संदर्भ में पढ़ें२३६ आपस्तम्बधर्मसूत्रे [(प.६.)क.१४.
पुनर्भवश्च कानीनस्सहोधो गूढसम्भवः ।
दत्तः क्रीतस्स्वयंदत्तः कृत्रिमश्चाऽपविद्धकः ।
यत्र क्वचोत्पादितश्च पुत्राख्या दश पञ्च च ।
अनेनैव क्रमेणैषां पूर्वाभावे परः परः ।
पिण्डदोंऽशहरश्चेति प्रायेण स्मृतिषु स्थिताः ।
औरसो धर्मपत्नीजः । 'सवर्णापूर्वशास्त्रविहिताया'मिति पूर्व
मुक्तः । गौतमः(१)-'पितोत्सृजेत्पुत्रिकामनपत्योऽग्निं प्रजापतिं चेष्ट्वास्म-
दर्थमपत्यमिति संवाद्ये'ति ।
बृहस्पतिः-
'एक एवौरसः पित्र्ये धने स्वामी प्रकीर्तितः ।
तत्तुल्या पुत्रिका प्रोक्ता भर्तव्यास्त्वपरे स्मृताः ॥' इति ।
मनुः-
(२)पुत्रिकायां कृतायां तु यदि पुत्रोऽनुजायते ।
समस्तत्र विभागः स्यात् ज्येष्ठता नास्ति हि स्त्रियाः ॥ इति ।
याज्ञवल्क्यः-
(३)अपुत्रेण परक्षेत्रे नियोगोत्पादितः सुतः ।
उभयोरप्यसौ रिक्थी पिण्डदाता च धर्मतः ॥ इति ।
अयमेक एवोत्पादयितुर्बीजजः, क्षेत्रजस्तु क्षेत्रिणः ।
बृहस्पतिः-
'पुत्रोऽथ पुत्रिकापुत्रस्स्वर्गप्राप्तिकरावुभौ ।
रिक्थे पिण्डाम्बुदाने च समौ सम्परिकीर्तितौ ॥' इति ।
काश्यपः-
'सप्त पौनर्भवाः कन्या वर्जनीयाः कुलाधमाः ।
वाचा दत्ता मनोदत्ता कृतकौतुकमङ्गला ॥
उदकं स्पर्शिता या च या च पाणिगृहीतिका ।
अग्निं परिगता या च पुनर्भूप्रसवा च या ' ॥
कात्यायनः-
क्लीबं विहाय पतितं या पुनर्लभते पतिम् ।
तस्यां पौनर्भवो जातः व्यक्तमुत्पादकस्य सः ॥ इति ।
मनुः-
(४)पितृवेश्मनि कन्या तु यं पुत्रं जनयेद्रहः ।
१. गौ. ध २८. १८ २. म. स्मृ. ९. १३४.
३. या. स्मृ. २. १२७. ४. म. स्मृ. ९. १७२.