आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 251, कुल 399 में से
संदर्भ में पढ़ें२४० आपस्तम्बधर्मसूत्रे [ (प.६.)क.१४
तत्स्त्रीणां जीवनं दद्यादेष दायविधिस्स्मृतः ॥
अन्नार्थं तण्डुलप्रस्थमपराह्ने तु सेन्धनम् ।
वसनं त्रिपणक्रीतं देयमेकं त्रिमासतः ॥
एतावदेव साध्वीनां चोदितं विधवाधनम् ।
वसनस्याऽशनस्यैव तथैव रजकस्य च ॥
धनं व्यपोह्य तच्छिष्टं दायादानां प्रकल्पयेत् ।
(१)धूमावसानिकं ग्राह्यं सभायां स्नानतः पुरा ।
वसनाशनवासांसि विगणय्य धवे मृते ॥' इति ।
व्यासः--
'द्विसाहस्रः परो दायः स्त्रियै देयो धनस्य तु ।
यच्च भर्त्रा धनं दत्तं सा यथाकाममाप्नुयात् ॥' इति ।
पणानां द्वे सहस्रे परिमाणमस्य द्विसाहस्रः । एष परो दायः
स्त्रिया नाधिक इति । एतत् प्रभूते धने, ज्ञातयश्च न रक्षेयुरिति शङ्का-
याम् । एवं (२)'पत्नी दुहितरश्चे'त्यादीनि यानि पत्न्या दायप्राप्तिपराणि
तान्येवमेव द्रष्टव्यानि । गौतमस्तु पुत्राभावे पत्न्यास्सपिण्डादिभिस्स-
मांशमाह-(३)'पिण्डगोत्रर्षिसम्बन्धा रिक्थं भजेरन् । स्त्री चाऽनपत्यस्ये'
ति । अस्यार्थः-अनपत्यस्य रिक्थं पिण्डसम्बन्धात्सपिण्डाः प्रत्यास-
त्तिक्रमेण भजेरन् । तदभावे गोत्रसम्बन्धास्सगोत्राः । तदभावे ऋषिस-
म्बन्धास्समानप्रवराः स्त्री च पत्नी च । ( अत्र स्त्रियाः पृथङ्निर्देशात्
च शब्दाच्च यदा सपिण्डा भजेरन् तदा स्त्री सह तैरेकमंशं गृह्णीयात् ।
ततश्च 'पितुरूर्ध्वं विभजतां माताप्यंश समं हरे'दिति सपिण्डादिभि-
स्सहग्रहणमुक्तमिति । वयमप्येतमेव पक्षं रोचयामहे ) । अत्र पितरि
भ्रातरि सोदर्ये च जीवति सोदर्यो भ्राता गृह्णीयादित्येके मन्यन्ते ।
तथा च शङ्खः--
'अपुत्रस्य स्वर्यातस्य द्रव्यं भ्रातृगामि, तदभावे मातापितरौ लभे-
यातां, पत्नी वा ज्येष्ठे'ति ।
देवलः--
'ततो दायमपुत्रस्य विभजेरन् सहोदराः ।
कुल्या दुहितरो वापि म्रियमाणः पिताऽपि च ॥
सवर्णा भ्रातरो माता भार्या चेति यथाक्रमम् ॥' इति ।
१. धूमावसानिकं श्राम्यं सन्ध्यायां स्नानतत्परा । इति ढ भूमावसनिकं इति. घ. पु.
२. या. स्मृ. २. १३८. ३. गौ. ध. २८. २१, २२.
( ) कुण्डलान्तर्गतो भागः च पुस्तकेऽधिकपाठतया परिगणितः ।