सामग्री पर जाएँ
सर्वकोश
आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

Apastamba Dharmasutra with Hindi Commentary

महर्षि आपस्तम्ब / हरदत्त टीका द्वारा

DevanagariSanskritpublished399 पृष्ठ

पृष्ठ 258, कुल 399 में से

संदर्भ में पढ़ें
पृष्ठ 258

अहविष्यहोमः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २४७

सप्तम्यर्थे तसिल् । देशः प्रयागादिः । कालः सूर्यग्रहणादिः । (१)शौ-
चं कृच्छ्रादिपरिसमाप्तिः। सम्यक् समीचीनः प्रतिग्रहीता 'तुल्यगुणेषु वयो-
वृद्धश्श्रेया'नित्यादि । एतेषु दानानि देयान्यवश्यं प्रतिपादयति दद्यादिति१२
यस्याऽग्नौ न क्रियते यस्य चाऽग्रं न दीयते
न तद्भोक्तव्यम् ॥ १३ ॥
यस्याऽन्नस्यैकदेशः अग्नौ न क्रियते न हूयते (२)यस्माच्चोद्धृत्याऽग्रं न
दीयते न तद्भोक्तव्यम् ॥ १३ ॥
न क्षारलवणहोमो विद्यते ॥ १४ ॥
यत् भक्ष्यमाणं पश्यतो लालोत्पद्यते तत् क्षार गुड(३)मरीचिलिकु
चादि । (४)क्षारलवणसंसृष्टं न होतव्यम् ॥ १४ ॥
तथाऽवरात्रसंसृष्टस्य च ॥ १५ ॥
अवरात्रं कुलुत्थादि । तत्संसृष्टस्याप्यन्नस्य होमो न विद्यते ॥ १५ ॥
अथ यस्यैवंविधमेव भोज्यमुपस्थितं (५)तस्य कथं होमः ? तत्राह -
अहविष्यस्य होम उदीचीनमुष्णं भस्माऽपोह्य तस्मि
ञ्जुहुयात्तद्भुतमहुतं चाग्नौ भवति ॥ १६ ॥
औपासनात् पचनाद्वा ऽग्नेरुदीचीनमुष्णं भस्माऽपोह्य तस्मिन् भस्मनि
जुहुयात् वैश्वदेवमन्त्रैः । एषोऽहविष्यस्य होमः । तदेवं क्रियमाणं हुतं
च भवति हवनार्थनिर्वृत्तेः । अहुतं चाऽग्नौ भवति । भस्ममात्रत्वादिति ।
अत्र बोधायनः—
(६)अथ यद्येतदेवाग्नं स्यादुत्तरतो भस्ममिश्रानङ्गारान्निरूह्य तेषु जु-
हुया'दिति ।
(७)अपर आह—यान्यहविष्याणि व्यञ्जनान्यहरहर्भोज्यानि तेषा-
मेष संस्कारस्सकृच्च होमोऽमन्त्रक इति ॥ १६ ॥
उत्तरे द्वे सूत्रे स्पष्टे—
न स्त्री जुहुयात् ॥ १७ ॥


१. शौचं कृच्छ्रादि इति ङ. च. पु.
२. 'यस्य ब्राह्मणस्यान्नं न दीयत' इति क.च. पुस्तकोराधिकम् ।
३. 'गुडसुधालिकुचादि' इति ङ. पु.
४. क्षारलवणं, कृत्रिमलवणमिति कुल्लूकः । तिलमुद्गास्ते शैब्यं सस्ये गोधूमकोद्र-
वौ । धान्यक देवधान्यं च शमीधान्यं तथैक्षवम् । स्विन्नधान्यं तथा पण्यमूलं
क्षारगणस्मृतः ॥ इति निर्णयसिन्धौ । ५. तस्य कथ भोजनम् ? इति घ.पु.
६. बौधा. गृ. ७. अपरे मन्यन्ते 'इति. घ. पु.